बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति नेति होवाच वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति नेति हैवोवाच वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वापि हि न ऋषेर्वचः श्रुतं द्वे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति नाहमत एकञ्चन वेदेति होवाच ॥ २ ॥
यद्येवम् , वेत्थ विजानासि किम् , यथा येन प्रकारेण इमाः प्रजाः प्रसिद्धाः, प्रयत्यः म्रियमाणाः, विप्रतिपद्यन्ता३ इति विप्रतिपद्यन्ते ; विचारणार्था प्लुतिः ; समानेन मार्गेण गच्छन्तीनां मार्गद्वैविध्यं यत्र भवति, तत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः ; यथा ताः प्रजा विप्रतिपद्यन्ते, तत् किं वेत्थेत्यर्थः । नेति होवाच इतरः । तर्हि वेत्थ उ यथा इमं लोकं पुनः आपद्यन्ता३ इति, पुनरापद्यन्ते, यथा पुनरागच्छन्ति इमं लोकम् । नेति हैवोवाच श्वेतकेतुः । वेत्थ उ यथा असौ लोक एवं प्रसिद्धेन न्यायेन पुनः पुनरसकृत् प्रयद्भिः म्रियमाणैः यथा येन प्रकारेण न सम्पूर्यता३ इति, न सम्पूर्यतेऽसौ लोकः, तत्किं वेत्थ । नेति हैवोवाच । वेत्थ उ यतिथ्यां यत्सङ्ख्याकायाम् आहुत्याम् आहुतौ हुतायम् आपः पुरुषवाचः, पुरुषस्य या वाक् सैव यासां वाक् , ताः पुरुषवाचो भूत्वा पुरुषशब्दवाच्या वा भूत्वा ; यदा पुरुषाकारपरिणताः, तदा पुरुषवाचो भवन्ति ; समुत्थाय सम्यगुत्थाय उद्भूताः सत्यः वदन्ती३ इति । नेति हैवोवाच । यद्येवं वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदम् , प्रतिपद्यते येन सा प्रतिपत् तां प्रतिपदम् , पितृयाणस्य वा प्रतिपदम् ; प्रतिपच्छब्दवाच्यमर्थमाह — यत्कर्म कृत्वा यथाविशिष्टं कर्म कृत्वेत्यर्थः, देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते, पितृयाणं वा यत्कर्म कृत्वा प्रतिपद्यन्ते, तत्कर्म प्रतिपदुच्यते ; तां प्रतिपदं किं वेत्थ, देवलोकपितृलोकप्रतिपत्तिसाधनं किं वेत्थेत्यर्थः । अप्यत्र अस्यार्थस्य प्रकाशकम् ऋषेः मन्त्रस्य वचः वाक्यम् नः श्रुतमस्ति, मन्त्रोऽपि अस्यार्थस्य प्रकाशको विद्यत इत्यर्थः । कोऽसौ मन्त्र इत्युच्यते — द्वे सृती द्वौ मार्गावशृणवं श्रुतवानस्मि ; तयोः एका पितृणां प्रापिका पितृलोकसम्बद्धा, तया सृत्या पितृलोकं प्राप्नोतीत्यर्थः ; अहमशृणवमिति व्यवहितेन सम्बन्धः ; देवानाम् उत अपि देवानां सम्बन्धिनी अन्या, देवान्प्रापयति सा । के पुनः उभाभ्यां सृतिभ्यां पितॄन् देवांश्च गच्छन्तीत्युच्यते — उत अपि मर्त्यानां मनुष्याणां सम्बन्धिन्यौ ; मनुष्या एव हि सृतिभ्यां गच्छन्तीत्यर्थः । ताभ्यां सृतिभ्याम् इदं विश्वं समस्तम् एजत् गच्छत् समेति सङ्गच्छते । ते च द्वे सृती यदन्तरा ययोरन्तरा यदन्तरा, पितरं मातरं च, मातापित्रोः अन्तरा मध्ये इत्यर्थः । कौ तौ मातापितरौ ? द्यावापृथिव्यौ अण्डकपाले ; ‘इयं वै माता असौ पिता’ (शत. ब्रा. १३ । ३ । ९ । ७) इति हि व्याख्यातं ब्राह्मणेन । अण्डकपालयोर्मध्ये संसारविषये एव एते सृती, न आत्यन्तिकामृतत्वगमनाय । इतर आह — न अहम् अतः अस्मात् प्रश्नसमुदायात् एकञ्चन एकमपि प्रश्नम् , न वेद, नाहं वेदेति होवाच श्वेतकेतुः ॥

पदार्थमुक्त्वा वाक्यार्थमाह —

समानेनेति ।

नाडीरूपेण साधारणेन मार्गेणाभ्युदयं गच्छतां यत्र मार्गविप्रतिपत्तिस्तत्किं जानासीति प्रश्नार्थः ।

विप्रतिपत्तिमेव विशदयति —

तत्रेति ।

अधिकृतप्रजानिर्धारणार्था सप्तमी ।

प्रथमप्रश्नं निगमयति —

यथेति ।

प्रश्नान्तरमादत्ते —

तर्हीति ।

तदेव स्पष्टयति —

यथेति ।

परलोकगताः प्रजाः पुनरिमं लोकं यथाऽऽगच्छन्ति तथा किं वेत्थेति योजना ।

प्रश्नान्तरप्रतीकमुपादत्ते —

वेत्थेति ।

तद्व्याकरोति —

एवमिति ।

प्रसिद्धो न्यायो जराज्वरादिमरणहेतुः प्रश्नान्तरमुत्थाप्य व्याचष्टे —

वेत्थेत्यादिना ।

पुरुषशब्दवाच्या भूत्वा समुत्थाय वदन्तीति संबन्धः ।

कथमपां पुरुषशब्दवाच्यत्वं तदाह —

यदेति ।

प्रश्नान्तरमवतारयति —

यद्येवं वेत्थेति ।

पितृयाणस्य वा प्रतिपदं वेत्थेति संबन्धः । यत्कृत्वा प्रतिपद्यन्ते पन्थानं तत्कर्म प्रतिपदिति योजना ।

वाक्यार्थमाह —

देवयानमिति ।

उक्तमर्थं संक्षिप्याऽऽह —

देवलोकेति ।

मार्गद्वयेन नास्ति त्वया तूत्प्रेक्षामात्रेण पृच्छ्यते तत्राऽऽह —

अपीति ।

अत्रेति कर्मविपाकप्रक्रियोक्तिः । अस्यार्थस्य मार्गद्वयस्येत्येतत् ।

तेषामेव मार्गद्वयेऽधिकृतत्वमिति वक्तुं हीत्युक्तं तदेव स्फुटयति —

ताभ्यामिति ।

विश्वं साध्यसाधनात्मकं संगच्छते गन्तव्यत्वेन गन्तृत्वेन चेति शेषः । प्रकृतमन्त्रव्याख्यानग्रन्थो ब्राह्मणशब्दार्थः ।

यदन्तरेत्यादौ विवक्षितमर्थमाह —

अण्डकपालयोरिति ॥२॥

श्वेतकेतोरभिमाननिवृत्तिद्योतनार्थं बहुवचनम् ।