अथैनं वसत्योपमन्त्रयाञ्चक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव स आजगाम पितरं तं होवाचेति वाव किल नो भवान्पुरानुशिष्टानवोच इति कथं सुमेध इति पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्ततो नैकञ्चन वेदेति कतमे त इतीम इति ह प्रतीकान्युदाजहार ॥ ३ ॥
अथ अनन्तरम् अपनीय विद्याभिमानगर्वम् एनं प्रकृतं श्वेतकेतुम् , वसत्या वसतिप्रयोजनेन उपमन्त्रयाञ्चक्रे ; इह वसन्तु भवन्तः, पाद्यमर्घ्यं च आनीयताम् — इत्युपमन्त्रणं कृतवान्राजा । अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान् पितरं प्रति । स च आजगाम पितरम् , आगत्य च उवाच तम् , कथमिति — वाव किल एवं किल, नः अस्मान् भवान् पुरा समावर्तनकाले अनुशिष्टान् सर्वाभिर्विद्याभिः अवोचः अवोचदिति । सोपालम्भं पुत्रस्य वचः श्रुत्वा आह पिता — कथं केन प्रकारेण तव दुःखमुपजातम् , हे सुमेधः, शोभना मेधा यस्येति सुमेधाः । शृणु, मम यथा वृत्तम् ; पञ्च पञ्चसङ्ख्याकान् प्रश्नान् मा मां राजन्यबन्धुः राजन्या बन्धवो यस्येति ; परिभववचनमेतत् राजन्यबन्धुरिति ; अप्राक्षीत् पृष्टवान् ; ततः तस्मात् न एकञ्चन एकमपि न वेद न विज्ञातवानस्मि । कतमे ते राज्ञा पृष्टाः प्रश्ना इति पित्रा उक्तः पुत्रः ‘इमे ते’ इति ह प्रतीकानि मुखानि प्रश्नानाम् उदाजहार उदाहृतवान् ॥