बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद सर्वमहं तत्तुभ्यमवोचं प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति भवानेव गच्छत्विति स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास तस्मा आसनमाहृत्योदकमाहारयाञ्चकाराथ हास्मा अर्घ्यं चकार तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥
स होवाच पिता पुत्रं क्रुद्धमुपशमयन् — तथा तेन प्रकारेण नः अस्मान् त्वम् , हे तात वत्स, जानीथा गृह्णीथाः, यथा यदहं किञ्च विज्ञानजातं वेद सर्वं तत् तुभ्यम् अवोचम् इत्येव जानीथाः ; कोऽन्यो मम प्रियतरोऽस्ति त्वत्तः, यदर्थं रक्षिष्ये ; अहमपि एतत् न जानामि, यत् राज्ञा पृष्टम् ; तस्मात् प्रेहि आगच्छ ; तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति । स आह — भवानेव गच्छत्विति, नाहं तस्य मुखं निरीक्षितुमुत्सहे । स आजगाम, गौतमः गोत्रतो गौतमः, आरुणिः, यत्र प्रवाहणस्य जैवलेरास आसनम् आस्थायिका ; षष्ठीद्वयं प्रथमास्थाने ; तस्मै गौतमाय आगताय आसनम् अनुरूपम् आहृत्य उदकं भृत्यैराहारयाञ्चकार ; अथ ह अस्मै अर्घ्यं पुरोधसा कृतवान् मन्त्रवत् , मधुपर्कं च । कृत्वा चैवं पूजां तं होवाच — वरं भगवते गौतमाय तुभ्यं दद्म इति गोश्वादिलक्षणम् ॥

सत्यं किञ्चिदुक्तं किञ्चित्तु विज्ञानमन्यस्मै प्रियतमाय दातुं रक्षितमित्याशङ्क्याऽऽह —

कोऽन्य इति ।

राज्ञा यत्पृष्टं तन्मया न विज्ञातं तथा च तस्मिन्विषये त्वया वञ्चितोऽस्मीत्याशङ्क्याऽऽह —

अहमपीति ।

तर्हि तज्ज्ञानं कथं साध्यतामित्याशङ्क्याऽऽह —

तस्मादिति ॥४॥