वृत्तमनूद्य गायत्रीब्राह्मणस्य तात्पर्यमाह —
ब्रह्मण इत्यादिना ।
छन्दोन्तरेष्वपि विद्यमानेषु किमिति गायत्र्युपाधिकमेव ब्रह्मोपास्यमिष्यते तत्राऽऽह —
सर्वच्छन्दसामिति ।
तत्प्राधान्ये हेतुमाह —
तत्प्रयोक्त्रिति ।
तुल्यं प्रयोक्तृप्राणत्राणसामर्थ्यं छन्दोऽन्तराणामपीति चेन्नेत्याह —
न चेति ।
प्रमाणाभावादिति भावः ।
किञ्च प्राणात्मभावो गायत्र्या विवक्ष्यते प्राणश्च सर्वेषां छन्दसां निर्वर्तकत्वादात्मा तथा च सर्वच्छन्दोव्यापकगायत्र्युपाधिकब्रह्मोपासनमेवात्र विवक्षितमित्याह —
प्राणात्मेति ।
तदात्मभूता गायत्रीत्युक्तं व्यक्तीकरोति —
प्राणश्चेति ।
तत्प्रयोक्तृगयत्राणाद्धि गायत्री । प्राणश्च वागादीनां त्राता । ततश्चैकलक्षणत्वात्तयोस्तादात्म्यमित्यर्थः ।
प्राणगायत्र्योस्तादात्म्ये फलितमाह —
तस्मादिति ।
गायत्रीप्राधान्ये हेत्वन्तरमाह —
द्विजोत्तमेति ।
तदेव स्फुटयति —
गायत्र्येति ।
तत्प्राधान्ये हेत्वन्तरमाह —
ब्राह्मणा इति ।
कथमेतावता गायत्रीप्राधान्यं तत्राऽऽह —
तच्चेति ।
अतो वक्तव्यमित्यत्रातः शब्दार्थमाह —
गायत्र्या हीति ।
अधिकारित्वकृतं कार्यमाह —
अत इति ।
तच्छब्दो गायत्रीविषयः ।
गायत्रीवैशिष्ट्यं परामृश्य फलितमुपसंहरति —
तस्मादिति ।
गायत्रीप्रथमपादस्य सप्ताक्षरत्वं प्रतीयते न त्वष्टाक्षरत्वमित्याशङ्क्याऽऽह —
यकारेणेति ।
गायत्रीप्रथमपादस्य त्रैलोक्यनाम्नश्च संख्यासामान्यप्रयुक्तं कार्यमाह —
एतदिति ।
गायत्रीप्रथमपादे त्रैलोक्यदृष्ट्यारोपस्य प्रयोजनं दर्शयति —
एवमिति ।
प्रथमपादज्ञाने विराडात्मकत्वं फलतीत्यर्थः ॥१॥