राजा ब्रूते
श्रुण्विति ।
मुखविज्ञानस्य दृष्टान्तावष्टम्भेन फलमाचष्टे —
यदीत्यादिना ।
इवशब्दोऽवधारणार्थः । पापसंस्पर्शराहित्यं शुद्धिस्तत्फलासंस्पर्शस्तु पूततेति भेदः ।
गायत्रीज्ञानस्य क्रममुक्तिफलत्वं दर्शयति —
गायत्र्यात्मेति ॥८॥