ब्राह्मणान्तरस्य तात्पर्यमाह —
यो ज्ञानकर्मेति ।
आदित्यस्याप्रस्तुतत्वात्कथं तत्प्रार्थनेत्याशङ्क्याऽऽह —
अस्ति चेति ।
तथाऽपि कथमादित्यस्य प्रसंगस्तत्राऽऽह —
तदुपस्थानमिति ।
नमस्ते तुरीयायेति हि दर्शितमित्यर्थः ।
आदित्यस्य प्रसंगे सति फलितमाह —
अत इति ।
समाहितचेतसां प्रयततां दृश्यत्वान्नापिहितमेव किन्तु पिहितमिवेत्यत्र हेतुमाह —
असमाहितेति ।
जगतः पोषणाद्घर्महिमवृष्ट्यादिदानेनेति शेषः ।
अपावरणकरणमेव विवृणोति —
दर्शनेति ।
सत्यं परमार्थस्वरूपं ब्रह्म धर्मस्वभाव इति यावत् ।
ननु दर्शनार्थं तत्प्रतिबन्धकनिवृत्तौ पूषणि नियुक्ते किमित्यन्ये संबोध्य नियुज्यन्ते तत्राऽऽह —
पूषन्नित्यादीनीति ।
दर्शनादृषिरित्युक्तं विशदयति —
स हीति ।
’सूर्य आत्मा जगतस्तस्थुषश्च’ इति मन्त्रवर्णमाश्रित्योक्तम् —
जगत आत्मेति ।
’चक्षुर्मित्रस्य वरुणस्याग्नेः’ इत्येतदाश्रित्याऽऽह —
चक्षुश्चेति ।
स्वाभाविका रश्मयो न निगमयितुं शक्या इत्याशङ्क्याऽऽह —
समूहेति ।
मदीयतेजः संक्षेपं विनाऽपि ते मत्स्वरूपदर्शनं स्यादित्याशङ्क्याऽऽह —
तेजसा हीति ।
विद्योतनं विद्युत्प्रकाशस्तस्मिन्सति रूपाणां स्वरूपमञ्जसा चक्षुषा न शक्यं द्रष्टुं तस्य चक्षुर्मोषित्वात्तथेत्याह —
विद्योतन इवेति ।
तेजःसंक्षेपस्य प्रयोजनमाह —
यदिति ।
किञ्च नाहं त्वां भृत्यवद्याचेऽभेदेन ध्यातत्वादित्याह —
योऽसाविति ।
व्याहृतिशरीरे कथमहमिति प्रयोगोपपत्तिरित्याशङ्क्याऽऽह —
अहरिति ।
तदेवेदमित्यहंरूपमुच्यते ।
ननु तव शरीरपातेऽपि नामृतत्वमाध्यात्मिकवाय्वादिप्रतिबन्धादत आह —
ममेति ।
वायुग्रहणस्योपलक्षणत्वं विवक्षित्वाऽऽह —
तथेति ।
देहस्थदेवतानामप्रतिबन्धकत्वेऽपि देहस्यैव सूक्ष्मतां गतस्य प्रतिबन्धकत्वान्न तवामृतत्वमित्याशङ्क्याऽऽह —
अथेति ।
मन्त्रान्तरमवतार्य व्याकरोति —
अथेदानीमित्यादिना ।
अवतीत्योमीश्वरः सर्वस्य रक्षकस्तस्य जाठराग्निप्रतीकत्वेन ध्यातत्वादग्निशब्देन निर्देशः ।
एवमग्निदेवतां संबोध्य नियुङ्क्ते —
स्मरेति ।
इष्टां गतिं जिगमिषता किमिति स्मरणे देवता नियुज्यते तत्राऽऽह —
स्मरणेति ।
प्रार्थनान्तरं समुच्चिनोति —
किञ्चेति ।
उक्तमेव व्यनक्ति —
नेत्यादिना ।
अस्मान्नयेति पूर्वेण संबन्धः । प्रज्ञानग्रहणं कर्मादीनामुपलक्षणम् ।
प्रार्थनान्तरं दर्शयति —
किञ्चेति ।
पापवियोजनफलमाह —
तेनेति ।
भवद्भिराराधितो भवतां यथोक्तं फलं साधयिष्यामीत्याशङ्क्याऽऽह —
किं त्विति ।
बहुतमत्वं भक्तिश्रद्धातिरेकयुक्तत्वम् ।
यागादिनाऽपि परिचरणं क्रियतामित्याशङ्क्याऽऽह —
अन्यदिति ।
सन्ततनमस्कारोक्त्या परिचरेमेति पूर्वेण संबन्धः । अशक्तिश्च मुमूर्षावशादिति द्रष्टव्यम् । इतिशब्दोऽध्यायसमाप्त्यर्थः ॥१॥