बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथैनमग्नये हरन्ति तस्याग्निरेवाग्निर्भवति समित्समिद्धूमो धूमोऽर्चिरर्चिरङ्गारा विस्फुलिङ्गा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति ॥ १४ ॥
अथ तदा एनं मृतम् अग्नये अग्न्यर्थमेव अन्त्याहुत्यै हरन्ति ऋत्विजः ; तस्य आहुतिभूतस्य प्रसिद्धः अग्निरेव होमाधिकरणम् , न परिकल्प्योऽग्निः ; प्रसिद्धैव समित् समित् ; धूमो धूमः ; अर्चिः अर्चिः ; अङ्गारा अङ्गाराः ; विस्फुलिङ्गा विस्फुलिङ्गाः ; यथाप्रसिद्धमेव सर्वमित्यर्थः । तस्मिन् पुरुषम् अन्त्याहुतिं जुह्वति ; तस्यै आहुत्यै आहुतेः, पुरुषः भास्वरवर्णः अतिशयदीप्तिमान् , निषेकादिभिरन्त्याहुत्यन्तैः कर्मभिः संस्कृतत्वात् , सम्भवति निष्पद्यते ॥

वक्ष्यमाणकीटादिदेहव्यावृत्तये भास्वरवर्णविशेषणम् । दीप्त्यतिशयवत्त्वे हेतुमाह —

निषेकादिभिरिति ॥१४॥