बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
योषा वा अग्निर्गौतम तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवत्यथ यदा म्रियते ॥ १३ ॥
योषा वा अग्निर्गौतम । योषेति स्त्री पञ्चमो होमाधिकरणम् अग्निः तस्याः उपस्थ एव समित् ; तेन हि सा समिध्यते । लोमानि धूमः, तदुत्थानसामान्यात् । योनिः अर्चिः, वर्णसामान्यात् । यदन्तः करोति, तेऽङ्गाराः ; अन्तःकरणं मैथुनव्यापारः, तेऽङ्गाराः, वीर्योपशमहेतुत्वसामान्यात् ; वीर्याद्युपशमकारणं मैथुनम् , तथा अङ्गारभावः अग्नेरुपशमकारणम् । अभिनन्दाः सुखलवाः क्षुद्रत्वसामान्यात् विस्फुलिङ्गाः । तस्मिन् रेतो जुह्वति । तस्या आहुतेः पुरुषः सम्भवति । एवं द्युपर्जन्यायंलोकपुरुषयोषाग्निषु क्रमेण हूयमानाः श्रद्धासोमवृष्ट्यन्नरेतोभावेन स्थूलतारतम्यक्रममापद्यमानाः श्रद्धाशब्दवाच्या आपः पुरुषशब्दमारभन्ते । यः प्रश्नः चतुर्थः ‘वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३’ (बृ. उ. ६ । २ । २) इति, स एष निर्णीतः — पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति । स पुरुषः एवं क्रमेण जातो जीवति ; कियन्तं कालमित्युच्यते — यावज्जीवति यावदस्मिन् शरीरे स्थितिनिमित्तं कर्म विद्यते, तावदित्यर्थः । अथ तत्क्षये यदा यस्मिन्काले म्रियते ॥

तस्या आहुत्यै पुरुषः संभवतीति वाक्यं व्याकरोति —

एवमिति ।

पञ्चाग्निदर्शनस्य चतुर्थप्रश्ननिर्णायकत्वेन प्रकृतोपयोगं दर्शयति —

यः प्रश्न इति ।

निर्णयप्रकारमनुवदति —

पञ्चम्यामिति ।

यथोक्तनीत्या जाते देहे कथं पुरुषस्य जीवनकालो नियम्यते तत्राऽऽह —

स पुरुष इति ।

पञ्चाग्निक्रमेण जातोऽग्निलयश्चाहं तेनाग्न्यात्मेति ध्यानसिद्धये षष्ठमग्निमन्त्याहुत्यधिकरणं प्रस्तौति —

अथेति ।

जीवननिमित्तकर्मविषयस्तच्छब्दः ॥१३॥