बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
पुरुषो वा अग्निर्गौतम तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति ॥ १२ ॥
पुरुषो वा अग्निर्गौतम ; प्रसिद्धः शिरःपाण्यादिमान् पुरुषः चतुर्थोऽग्निः तस्य व्यात्तं विवृतं मुखं समित् ; विवृतेन हि मुखेन दीप्यते पुरुषः वचनस्वाध्यायादौ, यथा समिधा अग्निः । प्राणो धूमः तदुत्थानसामान्यात् ; मुखाद्धि प्राण उत्तिष्ठति । वाक् शब्दः अर्चिः व्यञ्जकत्वसामान्यात् ; अर्चिश्च व्यञ्जकम् , तथा वाक् शब्दः अभिधेयव्यञ्जकः । चक्षुः अङ्गाराः, उपशमसामान्यात् प्रकाशाश्रयत्वाद्वा । श्रोत्रं विस्फुलिङ्गाः, विक्षेपसामान्यात् । तस्मिन् अन्नं जुह्वति । ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते — नैष दोषः, प्राणानां देवत्वोपपत्तेः ; अधिदैवम् इन्द्रादयो देवाः ; ते एव अध्यात्मं प्राणाः ; ते च अन्नस्य पुरुषे प्रक्षेप्तारः ; तस्या आहुतेः रेतः सम्भवति ; अन्नपरिणामो हि रेतः ॥

योग्यानुपलब्धिविरोधमाशङ्कते —

नन्विति ।

इहेति पुरुषाग्निनिर्देशः ।

शङ्कितं विरोधं निराकरोति —

नैष दोष इति ।

उपपत्तिमेव दर्शयति —

अधिदैवमिति ॥१२॥