बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अयं वै लोकोऽग्निर्गौतम तस्य पृथिव्येव समिदग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवति ॥ ११ ॥
अयं वै लोकोऽग्निर्गौतम । अयं लोक इति प्राणिजन्मोपभोगाश्रयः क्रियाकारकफलविशिष्टः, स तृतीयोऽग्निः । तस्याग्नेः पृथिव्येव समित् ; पृथिव्या हि अयं लोकः अनेकप्राण्युपभोगसम्पन्नया समिध्यते । अग्निः धूमः, पृथिव्याश्रयोत्थानसामान्यात् ; पार्थिवं हि इन्धनद्रव्यम् आश्रित्य अग्निः उत्तिष्ठति, यथा समिदाश्रयेण धूमः । रात्रिः अर्चिः, समित्सम्बन्धप्रभवसामान्यात् ; अग्नेः समित्सम्बन्धेन हि अर्चिः सम्भवति, तथा पृथिवीसमित्सम्बन्धेन शर्वरी ; पृथिवीछायां हि शार्वरं तम आचक्षते । चन्द्रमा अङ्गाराः, तत्प्रभवत्वसामान्यात् ; अर्चिषो हि अङ्गाराः प्रभवन्ति, तथा रात्रौ चन्द्रमाः ; उपशान्तत्वसामान्याद्वा । नक्षत्राणि विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपसामान्यात् । तस्मिन्नेतस्मिन्नित्यादि पूर्ववत् । वृष्टिं जुह्वति, तस्या आहुतेः अन्नं सम्भवति, वृष्टिप्रभवत्वस्य प्रसिद्धत्वात् व्रीहियवादेरन्नस्य ॥

एतल्लोकपृथिव्योर्देहदेहिभावेन भेद इत्याह —

पृथिवीच्छायां हीति ।

‘एतानि हि चन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयन्’ इति श्रुतेरात्रेस्तमत्वावगमात्तस्य च मृत्युर्वै तमश्छाया मृत्युमेव तत्तमश्छायां तरतीति भूछायात्वं श्रुतम् । तमो राहुस्थानं तच्च भूच्छायेति हि प्रसिद्धम् –
“उधृत्य पृथिवीच्छायां निर्मितं मण्डलाकृति । स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥“
इति स्मृतेरित्यर्थः । सोमचन्द्रमसोराश्रयाश्रयिभावेन भेदः ॥११॥