पर्जन्यो वा अग्निर्गौतम तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति ॥ १० ॥
पर्जन्यो वा अग्निर्गौतम, द्वितीय आहुत्याधारः आहुत्योरावृत्तिक्रमेण । पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवतात्मा । तस्य संवत्सर एव समित् ; संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्विपरिवर्तमानेन पर्जन्योऽग्निर्दीप्यते । अभ्राणि धूमः, धूमप्रभवत्वात् धूमवदुपलक्ष्यत्वाद्वा । विद्युत् अर्चिः, प्रकाशसामान्यात् । अशनिः अङ्गाराः, उपशान्तकाठिन्यसामान्याभ्याम् । ह्रादुनयः ह्लादुनयः स्तनयित्नुशब्दाः विस्फुलिङ्गाः, विक्षेपानेकत्वसामान्यात् । तस्मिन्नेतस्मिन्निति आहुत्यधिकरणनिर्देशः । देवा इति, ते एव होतारः सोमं राजानं जुह्वति ; योऽसौ द्युलोकाग्नौ श्रद्धायां हुतायामभिनिर्वृत्तः सोमः, स द्वितीये पर्जन्याग्नौ हूयते ; तस्याश्च सोमाहुतेर्वृष्टिः सम्भवति ॥