बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
असौ वै लोकोऽग्निर्गौतम तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९ ॥
असौ वै लोकोऽग्निर्गौतमेत्यादि — चतुर्थः प्रश्नः प्राथम्येन निर्णीयते ; क्रमभङ्गस्तु एतन्निर्णयायत्तत्वादितरप्रश्ननिर्णयस्य । असौ द्यौर्लोकः अग्निः हे, गौतम ; द्युलोके अग्निदृष्टिः अनग्नौ विधीयते, यथा योषित्पुरुषयोः ; तस्य द्युलोकाग्नेः आदित्य एव समित् , समिन्धनात् ; आदित्येन हि समिध्यते असौ लोकः ; रश्मयो धूमः, समिध उत्थानसामान्यात् ; आदित्याद्धि रश्मयो निर्गताः, समिधश्च धूमो लोके उत्तिष्ठति ; अहः अर्चिः, प्रकाशसामान्यात् ; दिशः अङ्गाराः, उपशमसामान्यात् ; अवान्तरदिशो विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपात् ; तस्मिन् एतस्मिन् एवंगुणविशिष्टे द्युलोकाग्नौ, देवाः इन्द्रादयः, श्रद्धां जुह्वति आहुतिद्रव्यस्थानीयां प्रक्षिपन्ति ; तस्या आहुत्याः आहुतेः सोमो राजा पितृणां ब्राह्मणानां च सम्भवति । तत्र के देवाः कथं जुह्वति किं वा श्रद्धाख्यं हविरित्यतः उक्तमस्माभिः सम्बन्धे ; ‘नत्वेवैनयोस्त्वमुत्क्रान्तिम्’ (शत. ब्रा. ११ । ६ । २ । ४) इत्यादिपदार्थषट्कनिर्णयार्थम् अग्निहोत्रे उक्तम् ; ‘ते वा एते अग्निहोत्राहुती हुते सत्यावुत्क्रामतः’ (शत. ब्रा. ११ । ६ । २ । ६, ७), ‘ते अन्तरिक्षमाविशतः’ (शत. ब्रा. ११ । ६ । २ । ६), ‘ते अन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिम्’, ‘ते अन्तरिक्षं तर्पयतः’ (शत. ब्रा. ११ । ६ । २ । ६), ‘ते तत उत्क्रामतः’ (शत. ब्रा. ११ । ६ । २ । ६), ‘ते दिवमाविशतः’ (शत. ब्रा. ११ । ६ । २ । ७), ‘ते दिवमाहवनीयं कुर्वाते आदित्यं समिधम्’ (शत. ब्रा. ११ । ६ । २ । ७) इत्येवमादि उक्तम् । तत्र अग्निहोत्राहुती ससाधने एव उत्क्रामतः । यथा इह यैः साधनैर्विशिष्टे ये ज्ञायेते आहवनीयाग्निसमिद्धूमाङ्गारविस्फुलिङ्गाहुतिद्रव्यैः, ते तथैव उत्क्रामतः अस्माल्लोकात् अमुं लोकम् । तत्र अग्निः अग्नित्वेन, समित् समित्त्वेन, धूमो धूमत्वेन, अङ्गाराः अङ्गारत्वेन, विस्फुलिङ्गा विस्फुलिङ्गत्वेन, आहुतिद्रव्यमपि पयआद्याहुतिद्रव्यत्वेनैव सर्गादौ अव्याकृतावस्थायामपि परेण सूक्ष्मेण आत्मना व्यवतिष्ठते । तत् विद्यमानमेव ससाधनम् अग्निहोत्रलक्षणं कर्म अपूर्वेणात्मना व्यवस्थितं सत् , तत्पुनः व्याकरणकाले तथैव अन्तरिक्षादीनाम् आहवनीयाद्यग्न्यादिभावं कुर्वत् विपरिणमते । तथैव इदानीमपि अग्निहोत्राख्यं कर्म । एवम् अग्निहोत्राहुत्यपूर्वपरिणामात्मकं जगत् सर्वमिति आहुत्योरेव स्तुत्यर्थत्वेन उत्क्रान्त्याद्याः लोकं प्रत्युत्थायितान्ताः षट् पदार्थाः कर्मप्रकरणे अधस्तान्निर्णीताः । इह तु कर्तुः कर्मविपाकविवक्षायां द्युलोकाग्न्याद्यारभ्य पञ्चाग्निदर्शनम् उत्तरमार्गप्रतिपत्तिसाधनं विशिष्टकर्मफलोपभोगाय विधित्सितमिति द्युलोकाग्न्यादिदर्शनं प्रस्तूयते । तत्र ये आध्यात्मिकाः प्राणाः इह अग्निहोत्रस्य होतारः, ते एव आधिदैविकत्वेन परिणताः सन्तः इन्द्रादयो भवन्ति ; त एव तत्र होतारो द्युलोकाग्नौ ; ते च इह अग्निहोत्रस्य फलभोगाय अग्निहोत्रं हुतवन्तः ; ते एव फलपरिणामकालेऽपि तत्फलभोक्तृत्वात् तत्र तत्र होतृत्वं प्रतिपद्यन्ते, तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः । अत्र च यत् पयोद्रव्यम् अग्निहोत्रकर्माश्रयभूतम् इह आहवनीये प्रक्षिप्तम् अग्निना भक्षितम् अदृष्टेन सूक्ष्मेण रूपेण विपरिणतम् सह कर्त्रा यजमानेन अमुं लोकम् धूमादिक्रमेण अन्तरिक्षम् अन्तरिक्षात् द्युलोकम् आविशति ; ताः सूक्ष्मा आपः आहुतिकार्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः श्रद्धाशब्दवाच्याः सोमलोके कर्तुः शरीरान्तरारम्भाय द्युलोकं प्रविशन्त्यः हूयन्त इत्युच्यन्ते ; ताः तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभन्ते । तदेतदुच्यते — ‘देवाः श्रद्धां जुह्वति, तस्या आहुत्यै सोमो राजा सम्भवति’ इति, ‘श्रद्धा वा आपः’ (तै. सं. १ । ६ । ८) इति श्रुतेः । ‘वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ति’ (बृ. उ. ६ । २ । २) इति प्रश्नः ; तस्य च निर्णयविषये ‘असौ वै लोकोऽग्निः’ इति प्रस्तुतम् ; तस्मात् आपः कर्मसमवायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धाशब्दवाच्या इति निश्चीयते । भूयस्त्वात् ‘आपः पुरुषवाचः’ इति व्यपदेशः, न तु इतराणि भूतानि न सन्तीति ; कर्मप्रयुक्तश्च शरीरारम्भः ; कर्म च अप्समवायि ; ततश्च अपां प्राधान्यं शरीरकर्तृत्वे ; तेन च ‘आपः पुरुषवाचः’ इति व्यपदेशः ; कर्मकृतो हि जन्मारम्भः सर्वत्र । तत्र यद्यपि अग्निहोत्राहुतिस्तुतिद्वारेण उत्क्रान्त्यादयः प्रस्तुताः षट्पदार्था अग्निहोत्रे, तथापि वैदिकानि सर्वाण्येव कर्माणि अग्निहोत्रप्रभृतीनि लक्ष्यन्ते ; दाराग्निसम्बद्धं हि पाङ्क्तं कर्म प्रस्तुत्योक्तम् — ‘कर्मणा पितृलोकः’ (बृ. उ. १ । ५ । १६) इति ; वक्ष्यति च — ‘अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति’ (बृ. उ. ६ । २ । १५) इति ॥

असावित्यादिना यतिथ्यामित्यादिचतुर्थप्रश्नस्य प्राथम्येन निर्णये क्रमभङ्गः स्यात्तत्र च कारणं वाच्यमित्याशङ्क्याऽऽह —

क्रमभङ्गस्त्विति ।

मनुष्यजन्मस्थितिलयानां चतुर्थप्रश्ननिर्णयाधीनतया तस्य प्राधान्यात्प्राधान्ये सत्यर्थक्रममाश्रित्याविवक्षितस्य पाठक्रमस्य भङ्ग इत्यर्थः ।

इन्द्रादीनां कर्मानधिकारित्वाद्द्युलोकस्य चाऽऽहवनीयत्वाप्रसिद्ध्या होमाधारत्वायोगात्प्रत्ययस्य च श्रद्धाया होम्यत्वानुपपत्तेस्तस्मिन्नित्यादि वाक्यमयुक्तमिति शङ्कते —

तत्रेति ।

होमकर्म सप्तम्यर्थः ।

अस्य ब्राह्मणस्य संबन्धग्रन्थे समाधानमस्य चोद्यस्यास्माभिरुक्तमित्याह —

अत इति ।

तदेव दर्शयितुमग्निहोत्रप्रकरणे वृत्तं स्मारयति —

न त्विति ।

किं तदुक्तमिति चेत्तदाह —

ते वा इति ।

आहुत्योः स्वतन्त्रयोरुत्क्रान्त्यादि कथमित्याशङ्क्याऽऽह —

तत्रेति ।

यजमानस्य मृतिकालः सप्तम्यर्थः ।

ससाधनयोरेव तयोरुत्क्रान्तिर्न स्वतन्त्रयोरेवेत्येतदुपपादयति —

यथेत्यादिना ।

इहेति जीवदवस्थोच्यते ।

नष्टानामग्न्यादीनामव्याकृतभावापन्नत्वेनाविशेषप्रसंगान्न तैः सहाऽहुत्योरुत्क्रान्त्यादिसिद्धिरित्याशङ्क्याऽऽह —

तत्राग्निरिति ।

नाशादूर्ध्वमपि प्रातिस्विकशक्तिरूपेणाग्न्यादिरवतिष्ठते तथा चाविशेषप्रसंगाभावादाहुत्योः ससाधनयोरेवोत्क्रान्त्यादिसिद्धिरित्यर्थः ।

यथोक्तयोराहुत्योरुत्क्रान्त्यादिसमर्थनेनाग्निहोत्राद्यपूर्वस्य जगदारम्भकत्वमुक्तं भवतीत्याह —

तद्विद्यमानमिति ।

विद्यमानमेव विशदयति —

अपूर्णेति ।

अथ यथेत्यादितया विधया कथमपि पूर्वकल्पीयं कर्म प्रलयदशायामव्याकृतात्मना स्थितं पुनर्जगदारभतां तथाऽपीदानीन्तनमग्निहोत्रादिकं कर्म कथं जगदारम्भकं भविष्यतीत्याशङ्क्याऽऽह —

तथैवेति ।

विमतमारम्भकं तच्छक्तिमत्त्वात्संप्रतिपन्नवदिति भावः ।

अग्निहोत्रप्रकरणस्यार्थं संगृहीतमुपसंहरति —

एवमिति ।

उक्तमुपजीव्यं प्रकृतब्राह्मणप्रवृत्तिप्रकारं दर्शयति —

इह त्विति ।

उत्तरमार्गप्रतिपत्तिसाधनं विधित्सितमिति संबन्धः ।

किमित्युत्तरमार्गप्रतिपत्तिस्तत्राऽऽह —

विशिष्टेति ।

ब्राह्मणप्रवृत्तिमभिधायासौ वै लोकोग्निरित्यादिवाक्यप्रवृत्तिप्रकारमाह —

इति द्युलोकेति ।

इत्थं ब्राह्मणे स्थिते सतीत्येतत् ।

भवत्वेवं तथाऽपि के देवा इति प्रश्नस्य किमुत्तरं तत्राऽऽह —

तत्रेति ।

उक्तनीत्या पञ्चाग्निदर्शने प्रस्तुते सतीत्येतत् । इहेति व्यवहारभूमिग्रहः ।

कथं तेषां तत्र होतृत्वं तदाह —

ते चेति ।

तथाऽपि कथं द्युलोकोऽग्नौ तेषां होतृत्वं तदाह —

त एवेति ।

तत्फलभोक्तृत्वादित्यत्र तच्छब्दोऽग्निहोत्रादिकर्मविषयस्तद्भोक्तृत्वं च प्राणानां जीवोपाधित्वादवधेयम् । तथा तथा द्युपर्जन्यादिसंबन्धयोग्याकारेणेति यावत् ।

के देवा इति प्रश्नो निर्णीतः संप्रत्यवशिष्टं प्रश्नद्वयं निर्णेतुमाह —

अत्र चेति ।

जीवदवस्थायामिति यावत् । सह कर्त्रेत्यत्र तच्छब्दो द्रष्टव्यः । अमुं लोकमाविशतीति संबन्धः ।

आवेशप्रकारमाह —

धूमादीति ।

कथमेतावता किं पुनः श्रद्धाख्यं हविरिति प्रश्नो निर्णीतस्तत्राऽऽह —

ताः सूक्ष्मा इति ।

तथाऽपि कथं जुह्वतीति प्रश्नस्य कथं निर्णयस्तत्राऽऽह —

सोमलोक इति ।

तथाऽपि तस्या आहुतेः सोमो राजा संभवतीति कथमुच्यते तत्राऽऽह —

तास्तत्रेति ।

निर्णीतेऽर्थे श्रुतिमवतारयति —

तदेतदिति ।

कथं पुनरापः श्रद्धाशब्दवाच्या न हि लोके श्रद्धाशब्दं तासु प्रयुञ्जते तत्राऽऽह —

श्रद्धेति ।

उपक्रमवशादप्यापोऽत्र श्रद्धाशब्दवाच्या इत्याह —

वेत्थेति ।

अपामेव पुरुषशब्दवाच्यानां शरीरारम्भकत्वान्न भूतान्तराणामिति कृत्वा तस्य पञ्चभूतारब्धत्वाभ्युपगमभङ्गः स्यादिति चेन्नेत्याह —

भूयस्त्वादिति ।

अपां पुरुषशब्दवाच्यत्वे हेत्वन्तरमाह —

कर्मेति ।

अथाकर्मप्रयुक्तमपि प्रकृष्टं जन्मास्ति तत्कथमपां सर्वत्र पुरुषशब्दवाच्यत्वं तत्राऽऽह —

कर्मकृतो हीति ।

अन्यथा तत्र तत्र सुखदुःखप्रभेदोपभोगासंभवादिति भावः ।

यदि कर्मापूर्वशब्दवाच्यं भूतसूक्ष्मं सर्वत्र शरीरारम्भकं कथं तर्हि पूर्वमग्निहोत्राहुत्योरेव व्यक्तजगदारम्भकत्वमुक्तं तत्राऽऽह —

तत्रेति ।

लक्ष्यन्तेऽग्निहोत्राहुत्येति शेषः ।

लक्षणायां पूर्वोत्तरवाक्ययोर्गमकमाह —

दाराग्नीति ॥९॥