बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥
एवं गौतमेन आपदन्तरे उक्ते, स होवाच राजा पीडित मत्वा क्षामयन् — तथा नः अस्मान् प्रति, मा अपराधाः अपराधं मा कार्षीः, अस्मदीयोऽपराधः न ग्रहीतव्य इत्यर्थः ; तव च पितामहाः अस्मात्पितामहेषु यथा अपराधं न जगृहुः, तथा पितामहानां वृत्तम् अस्मास्वपि भवता रक्षणीयमित्यर्थः । यथा इयं विद्या त्वया प्रार्थिता इतः त्वत्सम्प्रदानात्पूर्वम् प्राक् न कस्मिन्नपि ब्राह्मणे उवास उषितवती, तथा त्वमपि जानीषे ; सर्वदा क्षत्त्रियपरम्परया इयं विद्या आगता ; सा स्थितिः मयापि रक्षणीया, यदि शक्यते इति — उक्तम् ‘दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहि’ इति ; न पुनः तव अदेयो वर इति ; इतः परं न शक्यते रक्षितुम् ; तामपि विद्याम् अहं तुभ्यं वक्ष्यामि । को हि अन्योऽपि हि यस्मात् एवं ब्रूवन्तं त्वाम् अर्हति प्रत्याख्यातुम् — न वक्ष्यामीति ; अहं पुनः कथं न वक्ष्ये तुभ्यमिति ॥

विद्याराहित्यापेक्षया निहीनशिष्यभावोपगतिरापदन्तरम् । तथाशब्दार्थमेव विशदयति —

तव चेति ।

सन्तु पितामहा यथा तथा किमस्माकमित्याशङ्क्याऽऽह —

पितामहानामिति ।

किमिति तर्हीयं विद्या झटिति मह्यं नोपदिश्यते तत्राऽऽह —

न कस्मिन्निति ।

तर्हि भवता सा स्थिती रक्ष्यतामहं तु यथागतं गमिष्यामीत्याशङ्क्याऽऽह —

इतः परमिति ।

तवाहं शिष्योऽस्मीत्येवं ब्रुवन्तं मत्तोऽन्योऽपि न वक्ष्यामीति यस्मान्न प्रत्याख्यातुमर्हति तस्मादहं पुनस्तुभ्यं कथं न वक्ष्ये किन्तु वक्ष्याम्येव विद्यामित्युक्तमुपपादयति —

को हीत्यादिना ॥८॥