बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिदानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति स होपायनकीर्त्योवास ॥ ७ ॥
स होवाच गौतमः — भवतापि विज्ञायते ह ममास्ति सः ; न तेन प्रार्थितेन कृत्यं मम, यं त्वं दित्ससि मानुषं वरम् ; यस्मात् ममाप्यस्ति हिरण्यस्य प्रभूतस्य अपात्तं प्राप्तम् ; गोअश्वानाम् अपात्तमस्तीति सर्वत्रानुषङ्गः ; दासीनाम् , प्रवाराणां परिवाराणाम् , परिधानस्य च ; न च यत् मम विद्यमानम् , तत् त्वत्तः प्रार्थनीयम् , त्वया वा देयम् ; प्रतिज्ञातश्च वरः त्वया ; त्वमेव जानीषे, यदत्र युक्तम् , प्रतिज्ञा रक्षणीया तवेति ; मम पुनः अयमभिप्रायः — मा भूत् नः अस्मान् अभि, अस्मानेव केवलान्प्रति, भवान् सर्वत्र वदान्यो भूत्वा, अवदान्यो मा भूत् कदर्यो मा भूदित्यर्थः ; बहोः प्रभूतस्य, अनन्तस्य अनन्तफलस्येत्येतत् , अपर्यन्तस्य अपरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्येत्येतत् , ईदृशस्य वित्तस्य, मां प्रत्येव केवलम् अदाता मा भूद्भवान् ; न च अन्यत्र अदेयमस्ति भवतः । एवमुक्त आह — स त्वं वै हे गौतम तीर्थेन न्यायेन शास्त्रविहितेन विद्यां मत्तः इच्छासै इच्छ अन्वाप्तुम् ; इत्युक्तो गौतम आह — उपैमि उपगच्छामि शिष्यत्वेन अहं भवन्तमिति । वाचा ह स्मैव किल पूर्वे ब्राह्मणाः क्षत्त्रियान् विद्यार्थिनः सन्तः वैश्यान्वा, क्षत्त्रिया वा वैश्यान् आपदि उपयन्ति शिष्यवृत्त्या हि उपगच्छन्ति, न उपायनशुश्रूषादिभिः ; अतः स गौतमः ह उपायनकीर्त्या उपगमनकीर्तनमात्रेणैव उवास उषितवान् , न उपायनं चकार ॥

ममास्ति स इति यदुक्तं तदुपपादयति —

यस्मादित्यादिना ।

न च यन्ममेत्यत्र तस्मादिति पठितव्यम् ।

किं तर्हि मया कर्तव्यमित्याशङ्क्याऽऽह —

प्रतिज्ञातश्चेति ।

यत्तवाभिप्रेतं तदहं न करोमीत्याशङ्क्याऽऽह —

ममेति ।

मा भूदित्यन्वयं दर्शयन्प्रतीकमादाय व्याचष्टे —

नोऽस्मानिति ।

वदन्त्यो दानशीलो विभवे सत्यदाता कदर्य इति भेदः ।

परिशिष्टं भागं व्याकुर्वन्वाक्यार्थमाह —

बहोरित्यादिना ।

मां प्रत्येवेति नियमस्य कृत्यं दर्शयति —

न चेति ।

कोऽसौ न्यायस्तत्राऽऽह —

शास्त्रेति ।

उपसदनवाक्यं शास्त्रमित्युच्यते ।

गौतमो राजानं प्रति शिष्यत्ववृत्तिं कुर्वाणः शास्त्रार्थविरोधमाचरतीत्याशङ्क्याऽऽह —

वाचा हेति ।

आपदि समादधिकाद्वा विद्याप्राप्त्यसंभवावस्थायामित्यर्थः । उपनयनमुपगमनं पदोपसर्पणमिति यावत् ॥७॥