बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः ॥ १५ ॥
ननु अग्निहोत्राहुतिदर्शनविषयमेव एतद्दर्शनम् ; तत्र हि उक्तम् उत्क्रान्त्यादिपदार्थषट्कनिर्णये ‘दिवमेवाहवनीयं कुर्वाते’ (शत. ब्रा. ११ । ६ । २ । ७) इत्यादि ; इहापि अमुष्य लोकस्याग्नित्वम् , आदित्यस्य च समित्त्वमित्यादि बहु साम्यम् ; तस्मात् तच्छेषमेव एतद्दर्शनमिति — न, यतिथ्यामिति प्रश्नप्रतिवचनपरिग्रहात् ; यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहः, तावदेव एवंशब्देन पराम्रष्टुं युक्तम् , अन्यथा प्रश्नानर्थक्यात् ; निर्ज्ञातत्वाच्च सङ्ख्यायाः अग्नय एव वक्तव्याः ; अथ निर्ज्ञातमप्यनूद्यते, यथाप्राप्तस्यैव अनुवदनं युक्तम् , न तु ‘असौ लोकोऽग्निः’ इति ; अथ उपलक्षणार्थः, तथापि आद्येन अन्त्येन च उपलक्षणं युक्तम् । श्रुत्यन्तराच्च ; समाने हि प्रकरणे छान्दोग्यश्रुतौ ‘पञ्चाग्नीन्वेद’ (छा. उ. ५ । १० । १०) इति पञ्चसङ्ख्याया एवोपादानात् अनग्निहोत्रशेषम् एतत् पञ्चाग्निदर्शनम् । यत्तु अग्निसमिदादिसामान्यम् , तत् अग्निहोत्रस्तुत्यर्थमित्यवोचाम ; तस्मात् न उत्क्रान्त्यादिपदार्थषट्कपरिज्ञानात् अर्चिरादिप्रतिपत्तिः, एवमिति प्रकृतोपादानेन अर्चिरादिप्रतिपत्तिविधानात् ॥

एवंशब्दस्य प्रकृतपञ्चाग्निपरामर्शित्वं स्फुटीकर्तुं चोदयति —

नन्विति ।

एवमेतद्विदुरिति श्रुतमेतद्दर्शनमित्युक्तं तदेवेदमिति प्रत्यभिज्ञापकं दर्शयति —

तत्र हीति ।

आदिपदमादित्यं समिधमित्यादि संग्रहीतुम् , रश्मीनां धूमत्वमह्नोऽर्चिष्ट्वमित्यादि ग्रहीतुं द्वितीयमादिपदम् ।

प्रत्यभिज्ञाफलमाह —

तस्मादिति ।

प्रश्नप्रतिवचनविषयस्यैव प्रकृतस्यैवंशब्दस्य परामर्शान्न षट्प्रश्नीयं दर्शनमिह परामृष्टमिति परिहरति —

नेत्यादिना ।

संगृहीतं परिहारं विवृणोति —

यतिथ्यामित्यस्येति ।

व्यधिकरणे षष्ट्यौ । यावदेव वस्तुपरिग्रहो विषय इत्यर्थः ।

षट्प्रश्नीयमेव व्यवहितं दर्शनमत्र परामृष्टं चेत्तदा यतिथ्यामिति प्रश्नो व्यर्थः स्यात् । षट्प्रश्नीनिर्णीतदर्शनशेषभूतदर्शनस्य प्रश्नादृते प्रतिवचनसंभवादित्याह —

अन्यथेति ।

किञ्च पूर्वस्मिन्ग्रन्थे प्रचयशिष्टतया पञ्चत्वसंख्याया निश्चितत्वात्तदवच्छिन्नाः साम्पादिकाग्नय एवात्रैवंशब्देन पराम्रष्टुमुचिता इत्याह —

निर्ज्ञातत्वाच्चेति ।

अग्निहोत्रप्रकरणे निर्ज्ञातमेवाग्न्यादि पूर्वग्रन्थेऽप्यनूद्यते । तथा चाग्निहोत्रदर्शनमव्यवहितमेवंशब्देन किं न परामृष्टमिति शङ्कते —

अथेति ।

अग्निहोत्रदर्शनं पूर्वग्रन्थेऽनूद्यते चेत्तत्प्रकरणे प्राप्तं रूपमनतिक्रम्यैवान्तरिक्षादेरप्यत्रानुवदनं स्यान्न तु तद्वैपरीत्येनानुवदनं युक्तम् । अनुवादस्य पुरोवादसापेक्षत्वात् । न चात्रान्तरिक्षाद्यनूद्यते । तस्मादेवंशब्दो नाग्निहोत्रपरामर्शीति परिहरति —

यथा प्राप्तस्येति ।

द्युलोकादिवादस्यान्तरिक्षाद्युपलक्षणार्थत्वात्पूर्वस्यानुवादत्वसंभवादेवंशब्दस्याग्निहोत्रविषयत्वसिद्धिरिति चोदयति —

अथेति ।

प्रापकाभावादुपलक्षणपक्षायोगेऽप्यङ्गीकृत्य पञ्चाग्निनिर्देशवैयर्थ्येन दूषयति —

तथाऽपीति ।

इतश्च स्वतन्त्रमेव पञ्चाग्निदर्शनमेवंशब्दपरामृष्टमित्याह —

श्रुत्यन्तराच्चेति ।

समिदादिसाम्यदर्शनादग्निहोत्रदर्शनशेषभूतमेवैतद्दर्शनमित्युक्तमनूद्य दूषयति —

यत्त्वित्यादिना ।

अवोचामाग्निहोत्रस्तुत्यर्थत्वादग्निहोत्रस्यैव कार्यमित्युक्तमित्यत्रेति शेषः ।

एवंशब्देनाग्निहोत्रपरामर्शासंभवे फलितमाह —

तस्मादिति ।

तच्छब्दार्थमेव स्फुटयति —

एवमितीति ।

प्रकृतं पञ्चाग्निदर्शनं तच्च स्वतन्त्रमित्युक्तं तद्वतामर्चिरादिप्रतिपत्तिर्न केवलकर्मिणामित्यर्थः ।