बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः ॥ १५ ॥
के पुनस्ते, ये एवं विदुः ? गृहस्था एव । ननु तेषां यज्ञादिसाधनेन धूमादिप्रतिपत्तिः विधित्सिता — न, अनेवंविदामपि गृहस्थानां यज्ञादिसाधनोपपत्तेः, भिक्षुवानप्रस्थयोश्च अरण्यसम्बन्धेन ग्रहणात् , गृहस्थकर्मसम्बद्धत्वाच्च पञ्चाग्निदर्शनस्य । अतः नापि ब्रह्मचारिणः ‘एवं विदुः’ इति गृह्यन्ते ; तेषां तु उत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात् — ‘अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् । उत्तरेणार्यम्णः पन्थास्तेऽमृतत्वं हि भेजिरे’ ( ? )इति । तस्मात् ये गृहस्थाः एवम् — अग्निजोऽहम् , अग्न्यपत्यम् — इति, एवम् क्रमेण अग्निभ्यो जातः अग्निरूपः इत्येवम् , ये विदुः, ते च, ये च अमी अरण्ये वानप्रस्थाः परिव्राजकाश्चारण्यनित्याः, श्रद्धां श्रद्धायुक्ताः सन्तः, सत्यं ब्रह्म हिरण्यगर्भात्मानमुपासते, न पुनः श्रद्धां च उपासते, ते सर्वेऽर्चिरभिसम्भवन्ति । यावत् गृहस्थाः पञ्चाग्निविद्यां सत्यं वा ब्रह्म न विदुः, तावत् श्रद्धाद्याहुतिक्रमेण पञ्चम्यामाहुतौ हुतायां ततो योषाग्नेर्जाताः, पुनर्लोकं प्रत्युत्थायिनः अग्निहोत्रादिकर्मानुष्ठातारो भवन्ति ; तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकम् , पुनः पर्जन्यादिक्रमेण इमम् आवर्तन्ते । ततः पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वा — इत्येवमेव घटीयन्त्रवत् गत्यागतिभ्यां पुनः पुनः आवर्तन्ते । यदा तु एवं विदुः, ततो घटीयन्त्रभ्रमणाद्विनिर्मुक्ताः सन्तः अर्चिरभिसम्भवन्ति ; अर्चिरिति न अग्निज्वालामात्रम् , किं तर्हि अर्चिरभिमानिनी अर्चिःशब्दवाच्या देवता उत्तरमार्गलक्षणा व्यवस्थितैव ; तामभिसम्भवन्ति ; न हि परिव्राजकानाम् अग्न्यर्चिषैव साक्षात्सम्बन्धोऽस्ति ; तेन देवतैव परिगृह्यते अर्चिःशब्दवाच्या । अतः अहर्देवताम् ; मरणकालनियमानुपपत्तेः अहःशब्दोऽपि देवतैव ; आयुषः क्षये हि मरणम् ; न हि एवंविदा अहन्येव मर्तव्यमिति अहः मरणकालो नियन्तुं शक्यते ; न च रात्रौ प्रेताः सन्तः अहः प्रतीक्षन्ते, ‘स यावत्क्षिप्येत्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति श्रुत्यन्तरात् । अह्न आपूर्यमाणपक्षम् , अहर्देवतया अतिवाहिता आपूर्यमाणपक्षदेवतां प्रतिपद्यन्ते, शुक्लपक्षदेवतामित्येतत् । आपूर्यमाणपक्षात् यान् षण्मासान् उदङ् उत्तरां दिशम् आदित्यः सविता एति, तान्मासान्प्रतिपद्यन्ते शुक्लपक्षदेवतया अतिवाहिताः सन्तः ; मासानिति बहुवचनात् सङ्घचारिण्यः षट् उत्तरायणदेवताः ; तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिताः देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते । देवलोकात् आदित्यम् ; आदित्यात् वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते । विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषः ब्रह्मणा मनसा सृष्टो मानसः कश्चित् एत्य आगत्य ब्रह्मलोकान्गमयति ; ब्रह्मलोकानिति अधरोत्तरभूमिभेदेन भिन्ना इति गम्यन्ते, बहुवचनप्रयोगात् , उपासनतारतम्योपपत्तेश्च । ते तेन पुरुषेण गमिताः सन्तः, तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः, स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान् वसन्ति, ब्रह्मणोऽनेकान्कल्पान्वसन्तीत्यर्थः । तेषां ब्रह्मलोकं गतानां नास्ति पुनरावृत्तिः अस्मिन्संसारे न पुनरागमनम् , ‘इह’ इति शाखान्तरपाठात् ; इहेति आकृतिमात्रग्रहणमिति चेत् , ‘श्वोभूते पौर्णमासीम्’ ( ? ) इति यद्वत् — न, इहेतिविशेषणानर्थक्यात् , यदि हि नावर्तन्त एव इहग्रहणमनर्थकमेव स्यात् ; ‘श्वोभूते पौर्णमासीम्’ ( ? ) इत्यत्र पौर्णमास्याः श्वोभूतत्वमनुक्तं न ज्ञायत इति युक्तं विशेषयितुम् ; न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वःशब्दो निरर्थक एव प्रयुज्यते ; यत्र तु विशेषणशब्दे प्रयुक्ते अन्विष्यमाणे विशेषणफलं चेन्न गम्यते, तत्र युक्तो निरर्थकत्वेन उत्स्रष्टुं विशेषणशब्दः ; न तु सत्यां विशेषणफलागतौ । तस्मात् अस्मात्कल्पादूर्ध्वम् आवृत्तिर्गम्यते ॥

प्रश्नपूर्वकं वेदितृविशेषं निर्दिशति —

के पुनरित्यादिना ।

गृहस्थानां यज्ञादिना पितृयाणप्रतिपत्तेर्वक्ष्यमाणत्वान्न देवयाने पथि प्रवेशोऽस्तीति शङ्कते —

नन्विति ।

पञ्चाग्निविदां गृहस्थानां देवयाने पथ्यधिकारस्तद्रहितानां तु तेषामेव यज्ञादिना पितृयाणप्राप्तिरिति विभागोपपत्तेर्न वाक्यशेषविरोधोऽस्तीति समाधत्ते —

नेत्यादिना ।

एवं विदुरिति सामान्यवचनात्परिव्राजकादेरप्यत्र ग्रहणं स्यादिति चेन्नेत्याह —

भिक्षुवानप्रस्थयोश्चेति ।

विधान्तरेण तयोरुत्तरमार्गे प्रवेशान्न पञ्चाग्निविषयत्वेन ग्रहणं पुनरुक्तेरित्यर्थः ।

गृहस्थानामेव पञ्चाग्निविदां तत्र ग्रहणमित्यत्र हेत्वन्तरमाह —

ग्रहस्थेति ।

ब्रह्मचारिणां तर्हीह ग्रहणं भविष्यति नेत्याह —

अत इति ।

पञ्चाग्निदर्शनस्य गृहस्थकर्मसंबन्धादेवेत्येतत् ।

कथं तर्हि नैष्ठिकब्रह्मचारिणां देवयाने पथि प्रवेशस्तत्राऽऽह —

तेषां त्विति ।

अर्यम्णः संबन्धी यः पन्थास्तमासाद्य तेनोत्तरेण पथा ते यथोक्तसंख्या ऋषयः सापेक्षममृतत्वं प्राप्ता इति स्मृत्यर्थः ।

आश्रमान्तराणां पञ्चाग्निविषयत्वेनाग्रहणे फलितमाह —

तस्मादिति ।

अग्निजत्वे फलितमाह —

अग्न्यपत्यमिति ।

अग्निजत्वं साधयति —

एवमिति ।

अग्न्यपत्यत्वे किं स्यात्तदाह —

अग्नीति ।

इत्येवं ये गृहस्था विदुस्ते चेति योजना । अरण्यं स्त्रीजनासंकीर्णो देशः । परिव्राजकाश्चेति त्रिदण्डिनो गृह्यन्तेऽन्येषामेषणाभ्यो व्युत्थितानां सम्यग्ज्ञाननिष्ठानां देवयाने पथ्यप्रवेशादाश्रममात्रनिष्ठा वा तेऽपि गृह्येरन्निति द्रष्टव्यम् ।

श्रद्धाऽपि स्वयमुपास्या कर्मत्वश्रवणादित्याशङ्क्य प्रत्ययमात्रस्य सापेक्षत्वादुपास्यत्वानुपपत्तेर्मैवमित्याह —

न पुनरिति ।

सर्वे पञ्चाग्निविदः सत्यब्रह्मविदश्चेत्यर्थः ।

विनाऽपि विद्याबलमर्चिरभिसंपत्तिः स्यादिति चेन्नेत्याह —

यावदिति ।

कर्म कृत्वा लोकं प्रत्युत्थायिन इति पूर्वेण संबन्धः ।

केवलकर्मिणां देवयानमार्गप्राप्तिर्नास्तीत्युक्तं निगमयति —

इत्येवमेवेति ।

विदुषामेव देवयानप्राप्तिमुपसंहरति —

यदा त्विति ।

नन्वर्चिषो ज्वालात्मनोऽस्थैर्यात्तदभिसंपत्तिर्न फलाय कल्पते तत्राऽऽह —

अर्चिरितीति ।

अर्चिःशब्देन यथोक्तदेवताग्रहे लिङ्गमाह —

न हीति ।

अतोऽर्चिर्देवतायाः सकाशादिति यावत् ।

अहःशब्दस्य कालविषयत्वमुक्तदोषाभावादिति चेन्नेत्याह —

मरणेति ।

नियमाभावमेव व्यनक्ति —

आयुष इति ।

विद्वद्विषये नियममाशङ्क्याऽऽह —

न हीति ।

ननु रात्रौ मृतोऽपि विद्वानहरपेक्ष्य फली संपत्स्यते नेत्याह —

न चेति ।

एकस्मिन्नेव ब्रह्मलोके कथं बहुवचनमित्याशङ्क्याऽऽह —

ब्रह्मेति ।

ब्रह्मलोकानिति बहुवचनप्रयोगादिति संबन्धः । अत्र ब्रह्मलोका विशेष्यत्वेन गृह्यन्ते ।

बहुवचनोपपत्तौ हेत्वन्तरमाह —

उपासनेति ।

कल्पशब्दोऽत्रावान्तरकल्पविषयः ।

तेषामिह न पुनरावृत्तिरिति क्वचित्पाठादस्मिन्नित्यादिव्याख्यानमयुक्तमिति शङ्कते —

इहेति ।

यथा “श्वोभूते पौर्णमासीं यजेते”त्यत्राकृतिः पौर्णमासीशब्दार्थः श्वोभूतत्वं च न व्यावर्तकं पौर्णमासीपदलक्ष्येष्टेः प्रतिपद्येव कर्तव्यतानियमात्तथेहाऽऽकृतेरिहशब्दार्थत्वान्निरङ्कुशैवानावृत्तिरत्र सिध्यतीत्यर्थः ।

परिहरति —

नेत्यादिना ।

परोक्तं दृष्टान्तं विघटयति —

श्वोभूत इति ।

कृतसंभारदिवसापेक्षं हि श्वोभूतत्वं पौर्णमासीदिने चातुर्मास्येष्टौ कृतायां कदा पौर्णमासीष्टिः कर्तव्येति विना वचनं न ज्ञायते तत्र श्वोभूतत्वं विशेषणं भवत्यन्यव्यावर्तकं तद्वदिहेति विशेषणमपि व्यावर्तकमेवेति नाऽऽत्यन्तिकानावृत्तिसिद्धिरित्यर्थः ।

यत्तु पौर्णमासीशब्दवदिहशब्दस्याऽऽकृतिवाचित्वादव्यावर्तकत्वमिति तत्राऽऽह —

न हीति ।

यद्यपि प्रकृते वाक्ये पौर्णमासीशब्दो भवत्याकृतिवचनस्तथाऽपि श्वःशब्दार्थोऽपि काचिदाकृतिरस्तीत्यङ्गीकृत्याव्यावर्तकः श्वोभूतशब्दो नैव प्रयुज्यते । तथाऽत्रापि विशेषणशब्दस्य व्यावर्तकत्वमावश्यकमित्यर्थः ।

सुषिरमाकाशमित्यादौ व्यावर्त्याभावेऽपि विशेषणप्रयोगवदत्रापि विशेषणं स्वरूपानुवादमात्रमित्याशङ्क्याऽऽह —

यत्र त्विति ।

विशेषणफलमुपसंहरति —

तस्मादिति ॥१५॥