अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते लोकान्प्रत्युत्थायिनस्य एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ १६ ॥
अथ पुनः ये नैवं विदुः, उत्क्रान्त्याद्यग्निहोत्रसम्बद्धपदार्थषट्कस्यैव वेदितारः केवलकर्मिणः, यज्ञेनाग्निहोत्रादिना, दानेन बहिर्वेदि भिक्षमाणेषु द्रव्यसंविभागलक्षणेन, तपसा बहिर्वेद्येव दीक्षादिव्यतिरिक्तेन कृच्छ्रचान्द्रायणादिना, लोकान् जयन्ति ; लोकानिति बहुवचनात् तत्रापि फलतारतम्यमभिप्रेतम् । ते धूममभिसम्भवन्ति ; उत्तरमार्ग इव इहापि देवता एव धूमादिशब्दवाच्याः, धूमदेवतां प्रतिपद्यन्त इत्यर्थः ; आतिवाहिकत्वं च देवतानां तद्वदेव । धूमात् रात्रिं रात्रिदेवताम् , ततः अपक्षीयमाणपक्षम् अपक्षीयमाणपक्षदेवताम् , ततो यान्षण्मासान् दक्षिणां दिशमादित्य एति तान् मासदेवताविशेषान् प्रतिपद्यन्ते । मासेभ्यः पितृलोकम् , पितृलोकाच्चन्द्रम् । ते चन्द्रं प्राप्य अन्नं भवन्ति ; तान् तत्रान्नभूतान् , यथा सोमं राजानमिह यज्ञे ऋत्विजः आप्यायस्व अपक्षीयस्वेति भक्षयन्ति, एवम् एनान् चन्द्रं प्राप्तान् कर्मिणः भृत्यानिव स्वामिनः भक्षयन्ति उपभुञ्जते देवाः ; ‘आप्यायस्वापक्षीयस्व’ इति न मन्त्रः ; किं तर्हि आप्याय्य आप्याय्य चमसस्थम् , भक्षणेन अपक्षयं च कृत्वा, पुनः पुनर्भक्षयन्तीत्यर्थः ; एवं देवा अपि सोमलोके लब्धशरीरान् कर्मिणः उपकरणभूतान् पुनः पुनः विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्तः — तद्धि तेषामाप्यायनं सोमस्य आप्यायनमिव उपभुञ्जते उपकरणभूतान् देवाः । तेषां कर्मिणाम् यदा यस्मिन्काले, तत् यज्ञदानादिलक्षणं सोमलोकप्रापकं कर्म, पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः, अथ तदा इममेव प्रसिद्धमाकाशमभिनिष्पद्यन्ते ; यास्ताः श्रद्धाशब्दवाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणताः, याभिः सोमलोके कर्मिणामुपभोगाय शरीरमारब्धम् अम्मयम् , ताः कर्मक्षयात् हिमपिण्ड इवातपसम्पर्कात् प्रविलीयन्ते ; प्रविलीनाः सूक्ष्मा आकाशभूता इव भवन्ति ; तदिदमुच्यते — ‘इममेवाकाशमभिनिष्पद्यन्ते’ इति । ते पुनरपि कर्मिणः तच्छरीराः सन्तः पुरोवातादिना इतश्च अमुतश्च नीयन्ते अन्तरिक्षगाः ; तदाह — आकाशाद्वायुमिति । वायोर्वृष्टिं प्रतिपद्यन्ते ; तदुक्तम् — पर्जन्याग्नौ सोमं राजानं जुह्वतीति । ततो वृष्टिभूता इमां पृथिवीं पतन्ति । ते पृथिवीं प्राप्य व्रीहियवादि अन्नं भवन्ति ; तदुक्तम् — अस्मिंल्लोकेऽग्नौ वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवतीति । ते पुनः पुरुषाग्नौ हूयन्ते अन्नभूता रेतःसिचि ; ततो रेतोभूता योषाग्नौ हूयन्ते ; ततो जायन्ते ; लोकं प्रत्युत्थायिनः ते लोकं प्रत्युत्तिष्ठन्तः अग्निहोत्रादिकर्म अनुतिष्ठन्ति । ततो धूमादिना पुनः पुनः सोमलोकम् , पुनरिमं लोकमिति — ते एवं कर्मिणः अनुपरिवर्तन्ते घटीयन्त्रवत् चक्रीभूता बम्भ्रमतीत्यर्थः, उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म न विदुः ; ‘इति नु कामयमानः संसरति’ (बृ. उ. ४ । ४ । ६) इत्युक्तम् । अथ पुनः ये उत्तरं दक्षिणं च एतौ पन्थानौ न विदुः, उत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्यर्थः ; ते किं भवन्तीत्युच्यते — ते कीटाः पतङ्गाः, यदिदं यच्चेदं दन्दशूकं दंशमशकमित्येतत् , भवन्ति । एवं हि इयं संसारगतिः कष्टा, अस्यां निमग्नस्य पुनरुद्धार एव दुर्लभः । तथा च श्रुत्यन्तरम् — ‘तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व’ (छा. उ. ५ । १ । ८) इति । तस्मात्सर्वोत्साहेन यथाशक्ति स्वाभाविककर्मज्ञानहानेन दक्षिणोत्तरमार्गप्रतिपत्तिसाधनं शास्त्रीयं कर्म ज्ञानं वा अनुतिष्ठेदिति वाक्यार्थः ; तथा चोक्तम् — ‘अतो वै खलु दुर्निष्प्रपतरं तस्माज्जुगुप्सेत’ (छा. उ. ५ । १० । ६) इति श्रुत्यन्तरात् मोक्षाय प्रयतेतेत्यर्थः । अत्रापि उत्तरमार्गप्रतिपत्तिसाधन एव महान् यत्नः कर्तव्य इति गम्यते, ‘एवमेवानुपरिवर्तन्ते’ इत्युक्तत्वात् । एवं प्रश्नाः सर्वे निर्णीताः ; ‘असौ वै लोकः’ (बृ. उ. ६ । २ । ९) इत्यारभ्य ‘पुरुषः सम्भवति’ (बृ. उ. ६ । २ । १३) इति चतुर्थः प्रश्नः ‘यतिथ्यामाहुत्याम्’ (बृ. उ. ६ । २ । २) इत्यादिः प्राथम्येन ; पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति दक्षिणोत्तरमार्गप्रतिपत्तिसाधनकथनेन ; तेनैव च प्रथमोऽपि — अग्नेरारभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूममिति विप्रतिपत्तिः ; पुनरावृत्तिश्च द्वितीयः प्रश्नः — आकाशादिक्रमेणेमं लोकमागच्छन्तीति ; तेनैव — असौ लोको न सम्पूर्यते कीटपतङ्गादिप्रतिपत्तेश्च केषाञ्चिदिति, तृतीयोऽपि प्रश्नो निर्णीतः ॥