बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ १ ॥
स यः कामयेत । ज्ञानकर्मणोर्गतिरुक्ता ; तत्र ज्ञानं स्वतन्त्रम् ; कर्म तु दैवमानुषवित्तद्वयायत्तम् ; तेन कर्मार्थं वित्तमुपार्जनीयम् ; तच् च अप्रत्यवायकारिणोपायेनेति तदर्थं मन्थाख्यं कर्म आरभ्यते महत्त्वप्राप्तये ; महत्त्वे च सति अर्थसिद्धं हि वित्तम् । तदुच्यते — स यः कामयेत, स यो वित्तार्थी कर्मण्यधिकृतः यः कामयेत ; किम् ? महत् महत्त्वम् प्राप्नुयाम् , महान्स्यामितीत्यर्थः । तत्र मन्थकर्मणो विधित्सितस्य कालोऽभिधीयते — उदगयने आदित्यस्य ; तत्र सर्वत्र प्राप्तौ आपूर्यमाणपक्षस्य शुक्लपक्षस्य ; तत्रापि सर्वत्र प्राप्तौ, पुण्याहे अनुकूले आत्मनः कर्मसिद्धिकर इत्यर्थः ; द्वादशाहम् , यस्मिन्पुण्येऽनुकूले कर्म चिकीर्षति ततः प्राक् पुण्याहमेवारभ्य द्वादशाहम् , उपसद्व्रती, उपसत्सु व्रतम् , उपसदः प्रसिद्धा ज्योतिष्टोमे, तत्र च स्तनोपचयापचयद्वारेण पयोभक्षणं तद्व्रतम् ; अत्र च तत्कर्मानुपसंहारात् केवलमितिकर्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते ; ननु उपसदो व्रतमिति यदा विग्रहः, तदा सर्वमितिकर्तव्यतारूपं ग्राह्यं भवति, तत् कस्मात् न परिगृह्यत इत्युच्यते — स्मार्तत्वात्कर्मणः ; स्मार्तं हीदं मन्थकर्म । ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति — स्मृत्यनुवादिनी हि श्रुतिरियम् ; श्रौतत्वे हि प्रकृतिविकारभावः ; ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणः ; न तु इह श्रौतत्वम् ; अत एव च आवसथ्याग्नौ एतत्कर्म विधीयते, सर्वा च आवृत् स्मार्तैवेति । उपसद्व्रती भूत्वा पयोव्रती सन्नित्यर्थः औदुम्बरे उदुम्बरवृक्षमये, कंसे चमसे वा, तस्यैव विशेषणम् — कंसाकारे चमसाकरे वा औदुम्बर एव ; आकारे तु विकल्पः, न औदुम्बरत्वे । अत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य ; तत्र ग्राम्याणां तु दश नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः ; अधिकग्रहणे तु न दोषः ; ग्राम्याणां फलानि च यथासम्भवं यथाशक्ति च ; इतिशब्दः समस्तसम्भारोपचयप्रदर्शनार्थः ; अन्यदपि यत्सम्भरणीयं तत्सर्वं सम्भृत्येत्यर्थः ; क्रमस्तत्र गृह्योक्तो द्रष्टव्यः । परिसमूहनपरिलेपने भूमिसंस्कारः । अग्निमुपसमाधायेति वचनात् आवसथ्येऽग्नाविति गम्यते, एकवचनात् उपसमाधानश्रवणाच्च ; विद्यमानस्यैव उपसमाधानम् ; परिस्तीर्य दर्भान् ; आवृता — स्मार्तत्वात्कर्मणः स्थालीपाकावृत् परिगृह्यते — तया आज्यं संस्कृत्य ; पुंसा नक्षत्रेण पुन्नाम्ना नक्षत्रेण पुण्याहसंयुक्तेन, मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते च उपसिच्य एकया उपमन्थन्या उपसम्मथ्य, सन्नीय मध्ये संस्थाप्य, औदुम्बरेण स्रुवेण आवापस्थाने आज्यस्य जुहोति एतैर्मन्त्रैः ‘यावन्तो देवाः’ इत्याद्यैः ॥

ब्राह्मणान्तरमावतार्य संगतिमाह —

स य इति ।

तत्रेति निर्धारणे सप्तमी ।

कथं तर्हि वित्तोपार्जनं संभवति तत्राऽऽह —

तच्चेति ।

तदर्थं वित्तसिद्ध्यर्थमिति यावत् ।

ननु महत्त्वसिद्ध्यर्थमिदं कर्माऽऽरभ्यते महत्प्राप्नुयामिति श्रुतेस्तत्कथमन्यथा प्रतिज्ञातमिति शङ्कते —

महत्त्वेति ।

परिहरति —

महत्त्वे चेति ।

उक्तेऽर्थे श्रुत्यक्षराणि योजयति —

तदुच्यत इत्यादिना ।

स यो वित्तार्थी कामयेत तस्येदं कर्मेति शेषः ।

यस्य कस्यचिद्वित्तार्थिनस्तर्हीदं कर्म स्यादित्याशङ्क्याऽऽह —

कर्मण्यधिकृत इति ।

तत्र वित्तार्थिनि पुंसीति यावत् । उपसदो नामेष्टिविशेषाः । ज्योतिष्टोमे प्रवर्ग्याहस्त्विति शेषः ।

किं पुनस्तासु व्रतमिति तदाह —

तत्र चेति ।

यदुपसत्सु स्तनोपचयापचयाभ्यां पयोभक्षणं यजमानस्य प्रसिद्धं तदत्रोपसद्व्रतमित्यर्थः ।

प्रकृतेऽपि तर्हि स्तनोपचयापचयाभ्यां पयोभक्षणं स्यादिति चेन्नेत्याह —

अत्र चेति ।

मन्थाख्यं कर्म सप्तम्यर्थः । तत्कर्मेत्युपसद्रूपकर्मोक्तिः ।

केवलमित्यस्यैवार्थमाह —

इति कर्तव्यताशून्यमिति ।

समासान्तरमाश्रित्य शङ्कते —

नन्विति ।

कर्मधारयरूपं समासवाक्यं तदित्युक्तम् ।

मन्थाख्यस्य कर्मणः स्मार्तत्वादत्र श्रुत्युक्तानामुपसदामुपसंग्रहाभावान्न कर्मधारयः सिध्यतीत्युत्तरमाह —

उच्यत इति ।

मन्थकर्मणः स्मार्तत्वमाक्षिपति —

नन्विति ।

परिसमूहनपरिलेपनाग्न्युपसमाधानादेः स्मार्तार्थस्यात्रोच्यमानत्वादियं श्रुतिः स्मृत्यनुवादिनी युक्ता । तथा चैतत्कर्म भवत्येव स्मार्तमिति परिहरति —

स्मृतीति ।

ननु श्रुतेर्न स्मृत्यनुवादिनीत्वं वैपरीत्यादतो भवतीदं श्रौतमित्याशङ्क्याऽऽह —

श्रौतत्वे हीति ।

यदीदं कर्म श्रौतं तदा ज्योतिष्टोमेनास्य प्रकृतिविकृतिभावः स्यात् । समग्राङ्गसंयुक्ता प्रकृतिर्विकलाङ्गसंयुक्ता च विकृतिः । प्रकृतिविकृतिभावे च विकृतिकर्मणः प्राकृतधर्मग्राहित्वादुपसद एव व्रतमिति विगृह्य सर्वमितिकर्तव्यतारूपं शक्यं ग्रहीतुं न चात्र श्रौतत्वमस्ति परिलेपनादिसंबन्धात् । न च पूर्वभाविन्याः श्रुतेरुत्तरभाविस्मृत्यनुवादित्वासिद्धिस्तस्यास्त्रैकाल्यविषयत्वाभ्युपगमादिति भावः ।

मन्थकर्मणः स्मार्तत्वे लिङ्गमाह —

अत एवेति ।

तत्रैव हेत्वन्तरमाह —

सर्वा चेति ।

मन्थगतेतिकर्तव्यताऽत्राऽवृदित्युच्यते । उपसद एव व्रतमिति विग्रहासंभवादुपसत्सु व्रतमित्यस्मदुक्तं सिद्धमुपसंहर्तुमितिशब्दः । पयोव्रती सन्वक्ष्यमाणेन क्रमेण जुहोतीति संबन्धः ।

ताम्रमौदुम्बरमिति शङ्कां वारयति —

उदुम्बरवृक्षमय इति ।

तस्यैवेति प्रकृतमात्रपरामर्शः ।

औदुम्बरत्वे विकल्पमाशङ्क्याऽऽह —

आकार इति ।

अत्रेति पात्रनिर्देशः ।

असंभवादशक्यत्वाच्च सर्वौषधं समाहृत्येत्ययुक्तमित्याशङ्क्याऽऽह —

यथासंभवमिति ।

ओषधिषु नियमं दर्शयति —

तत्रेति ।

परिसंख्यां वारयति —

अधिकेति ।

इति संभृत्यात्रेतिशब्दस्य प्रदर्शनार्थत्वे फलितं वाक्यार्थं कथयति —

अन्यदपीति ।

ओषधीनां संभरणानन्तरं परिसमूहनादिक्रमे किं प्रमाणमित्याशङ्क्याऽऽह —

क्रम इति ।

तत्रेति परिसमूहनाद्युक्तिः ।

होमाधारत्वेन त्रेताग्निपरिग्रहं वारयति —

अग्निमिति ।

आवसथ्येऽग्नौ होम इति शेषः ।

कथमेतावता त्रेताग्निपरित्यागस्तत्राऽऽह —

एकवचनादिति ।

कथमुपसमाधानश्रवणं त्रेताग्निनिवारकं तत्राऽऽह —

विद्यमानस्येति ।

आहवनीयादेश्चाऽऽधेयत्वान्न प्रागेव सत्त्वमिति भावः । मध्ये स्वस्याग्नेश्चेति शेषः । आवापस्थानमाहुतिविशेषप्रक्षेपप्रदेशः । भो जातवेदस्त्वदधीना यावन्तो देवा वक्रमतयः सन्तो ममार्थान्प्रतिबध्नन्ति तेभ्योऽहमाज्यभागं त्वय्यर्पयामि ते च तेन तृप्ता भूत्वा सर्वैरपि पुरुषार्थैर्मां तर्पयन्तु । अहं च त्वदधीनोऽर्पित इत्याद्यमन्त्रस्यार्थः । जातं जातं वेत्तीति वा जाते जाते विद्यत इति वा जातवेदाः । या देवता कुटिलमतिर्भूत्वा सर्वस्यैवाहमेव धारयन्तीति मत्वा त्वामाश्रित्य वर्तते तां सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेति पूर्ववदेव द्वितीयमन्त्रार्थः ॥१॥