बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्यार्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥
अथैनमभिमृशति ‘भ्रमदसि’ इत्यनेन मन्त्रेण ॥

मन्थद्रव्यस्य प्राणदेवताकत्वात्प्राणेनैकीकृत्य सर्वात्मकत्वं तथा च सर्वदेहेषु प्राणरूपेण त्वं भ्रमदसि प्राणस्य चलनात्मकत्वात्तद्रूपत्वाच्च । तत्राग्निरूपेण च त्वं ज्वलदसि प्रकाशात्मकत्वादग्नेस्तद्रूपत्वाच्च । तदनु ब्रह्मरूपेण त्वं पूर्णमसि । नभोरूपेण प्रस्तब्धं निष्कम्पमसि सर्वैरविरोधित्वात्सर्वमपि जगदेकसंभवदात्मन्यन्तर्भाव्यापरिच्छिन्नतया स्थितं वस्तु त्वमसि । प्रस्तोत्रा यज्ञारम्भे त्वमेव हिङ्कृतमसि । तेनैव यज्ञमध्ये हिङ्क्रियमाणं चासि । उद्गात्रा च यज्ञारम्भे तन्मध्ये चोद्गीथमुद्गीयमानं चासि । अध्वर्युणा त्वं श्रावितमसि । आग्नीध्रेण च प्रत्याश्रावितमसि । आर्द्रे मेघोदरे सम्यग्दीप्तमसि । विविधं भवतीति विभुः । प्रभुः समर्थो भोग्यरूपेण सोमात्मना स्थितत्वादन्नं भोक्तृरूपेणाग्न्यात्मना ज्योतिःकारणत्वान्निधनं लयोऽध्यात्माधिदैवयोर्वागादीनामग्न्यादीनां च संहरणात्त्वं संवर्गोऽसीत्यभिमर्शनमन्त्रस्यार्थः ॥४॥