बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथैनमुद्यच्छत्यामं स्यामं हि ते महि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥
अथैनमुद्यच्छति सह पात्रेण हस्ते गृह्णाति ‘आमंस्यामंहि ते महि’ इत्यनेन ॥
अथैनमुद्यच्छत्यामं स्यामं हि ते महि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥
अथैनमुद्यच्छति सह पात्रेण हस्ते गृह्णाति ‘आमंस्यामंहि ते महि’ इत्यनेन ॥

आमंसि त्वं सर्वं विजानासि वयं च ते तव महि महत्तरं रूपममांहि मन्यामहे । स हि प्राणो राजादिगुणः स च मां तथाभूतं करोत्वित्युद्यमनमन्त्रस्यार्थः ॥५॥