बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि । मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । स्वः स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमस्यहं मनुष्याणामेकपुण्डरीकं भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ ६ ॥
अथैनम् आचामति भक्षयति, गायत्र्याः प्रथमपादेन मधुमत्या एकया व्याहृत्या च प्रथमया प्रथमग्रासमाचामति ; तथा गायत्रीद्वितीयपादेन मधुमत्या द्वितीयया द्वितीयया च व्याहृत्या द्वितीयं ग्रासम् ; तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम् । सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वा ‘अहमेवेदं सर्वं भूयासम्’ इति च अन्ते ‘भूर्भुवःस्वः स्वाहा’ इति समस्तं भक्षयति । यथा चतुर्भिर्ग्रासैः तद्द्रव्यं सर्वं परिसमाप्यते, तथा पूर्वमेव निरूपयेत् । यत् पात्रावलिप्तम् , तत् पात्रं सर्वं निर्णिज्य तूष्णीं पिबेत् । पाणी प्रक्षाल्य आप आचम्य जघनेनाग्निं पश्चादग्नेः प्राक्शिराः संविशति । प्रातःसन्ध्यामुपास्य आदित्यमुपतिष्ठते ‘दिशामेकपुण्डरीकम्’ इत्यनेन मन्त्रेण । यथेतं यथागतम् , एत्य आगत्य जघनेनाग्निम् आसीनो वंशं जपति ॥

तत्सवितुर्वरेण्यं वरणीयं श्रेष्ठं पदं धीमहीति संबन्धः । वाता वायुभेदा मधु सुखमृतायते वहन्ति । सिन्धवो नद्यो मधु क्षरन्ति मधुररसान्स्रवन्ति । ओषधीश्चास्मान्प्रति माध्वीर्मधुरसाः सन्तु । देवस्य सवितुर्भर्गस्तेजोऽन्नं वा प्रस्तुतं पदं चिन्तयामः । नक्तं रात्रिरुतोषतो दिवसाश्च मधु प्रीतिकराः सन्तु । पार्थिवं रजो मधुमदनुद्वेगकरमस्तु । द्यौश्च पिता नोऽस्माकं मधु सुखकरोऽस्तु । यः सविता नोऽस्माकं धियो बुद्धीः प्रचोदयात्प्रेरयेत्तस्य तद्वरेण्यमिति संबन्धः । वनस्पतिः सोमोऽस्माकं मधुमानस्तु । गावो रश्मयो दिशो वा माध्वीः सुखकराः सन्तु । अन्तशब्दादितिशब्दाच्चोपरिष्टादुक्त्वेत्यनुषङ्गः । एवं ग्रासचतुष्टये निवृत्ते सत्यवशिष्टे द्रव्ये किं कर्तव्यं तत्राऽऽह —

यथेति ।

पात्रावशिष्टस्य परित्यागं वारयति —

यदिति ।

निर्णिज्य प्रक्षाल्येति यावत् ।

पाणिप्रक्षालनवचनसामर्थ्यात्प्राप्तं शुद्ध्यर्थं स्मार्तमाचमनमनुजानाति —

अप आचम्येति ।

एकपुण्डरीकशब्दोऽखण्डश्रेष्ठवाची ॥६॥