बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥
यादृग्जन्मा यथोत्पादितः यैर्वा गुणैर्विशिष्टः पुत्र आत्मनः पितुश्च लोक्यो भवतीति, तत्सम्पादनाय ब्राह्मणमारभ्यते । प्राणदर्शिनः श्रीमन्थं कर्म कृतवतः पुत्रमन्थेऽधिकारः । यदा पुत्रमन्थं चिकीर्षति तदा श्रीमन्थं कृत्वा ऋतुकालं पत्न्याः प्रतीक्षत इत्येतत् रेतस ओषध्यादिरसतमत्वस्तुत्या अवगम्यते । एषां वै चराचराणां भूतानां पृथिवी रसः सारभूतः, सर्वभूतानां मध्विति ह्युक्तम् । पृथिव्या आपो रसः, अप्सु हि पृथिव्योता च प्रोता च अपामोषधयो रसः, कार्यत्वात् रसत्वमोषध्यादीनां । ओषधीनां पुष्पाणि । पुष्पाणां फलानि । फलानां पुरुषः । पुरुषस्य रेतः, ‘सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ (ऐ. उ. २ । १ । १) इति श्रुत्यन्तरात् ॥

प्राणोपासकस्य वित्तार्थिनो मन्थाख्यं कर्मोक्त्वा ब्राह्मणान्तरमुत्थापयति —

यादृगिति ।

उक्तगुणः स कथं स्यादित्यपेक्षायामिति शेषः । तच्छब्दो यथोक्तपुत्रविषयः ।

यदस्मिन्ब्राह्मणे पुत्रमन्थाख्यं कर्म वक्ष्यते तद्भवति सर्वाधिकारविषयमित्याशङ्क्याऽऽह —

प्राणेति ।

पुत्रमन्थस्य कालनियामाभावमाशङ्क्याऽऽह —

यदेति ।

किमत्र गमकमित्याशङ्क्य रेतःस्तुतिरित्याह —

इत्येतदिति ।

पृथिव्याः सर्वभूतसारत्वे मधुब्राह्मणं प्रमाणयति —

सर्वभूतानामिति ।

तत्र गार्गिब्राह्मणं प्रमाणमित्याह —

अप्सु हीति ।

अपां पृथिव्याश्च रसत्वं कारणत्वाद्युक्तमोषध्यादीनां कथमित्याशङ्क्याऽऽह —

कार्यत्वादिति ।

रेतोऽसृजतेति प्रस्तुत्य रेतसस्तत्र तेजःशब्दप्रयोगात्तस्य पुरुषे सारत्वमैतरेयके विवक्षितमित्याह —

सर्वेभ्य इति ॥१॥

श्रेष्ठमनुश्रयन्तेऽनुसरन्तीति श्रेष्ठानुश्रयणाः ।