बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे तां सृष्ट्वाध उपास्त तस्मात्स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजत् ॥ २ ॥
यत एवं सर्वभूतानां सारतमम् एतत् रेतः, अतः कानु खल्वस्य योग्या प्रतिष्टेति स ह स्रष्टा प्रजापतिरीक्षाञ्चक्रे । ईक्षां कृत्वा स स्त्रियं ससृजे । तां च सृष्ट्वा अध उपास्त मैथुनाख्यं कर्म अधउपासनं नाम कृतवान् । तस्मात्स्त्रियमध उपासीत ; श्रेष्ठानुश्रयणा हि प्रजाः । अत्र वाजपेयसामान्यक्लृप्तिमाह — स एनं प्राञ्चं प्रकृष्टगतियुक्तम् आत्मनो ग्रावाणं सोमाभिषवोपलस्थानीयं काठिन्यसामान्यात् प्रजननेन्द्रियम् , उदपारयत् उत्पूरितवान् स्त्रीव्यञ्जनं प्रति ; तेन एनां स्त्रियम् अभ्यसृजत् अभिसंसर्गं कृतवान् ॥

पशुकर्मणि स्वारस्येन प्राणिमात्रस्य प्रवृत्तेर्वृथा विधिरित्याशङ्क्याऽऽह —

अत्रेति ।

अवाच्यं कर्म सप्तम्यर्थः ॥२॥