बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ मुष्कौ स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥
तस्या वेदिरित्यादि सर्वं सामान्यं प्रसिद्धम् । समिद्धोऽग्निः मध्यतः स्त्रीव्यञ्जनस्य ; तौ मुष्कौ अधिषवणफलके इति व्यवहितेन सम्बध्यते । वाजपेययाजिनो यावान् लोकः प्रसिद्धः, तावान् विदुषः मैथुनकर्मणो लोकः फलमिति स्तूयते । तस्मात् बीभत्सा नो कार्येति । य एवं विद्वानधोपहासं चरति आसां स्त्रीणां सुकृतं वृङ्क्ते आवर्जयति । अथ पुनः यः वाजपेयसम्पत्तिं न जानाति अविद्वान् रेतसो रसतमत्वं च अधोपहासं चरति, आ अस्य स्त्रियः सुकृतम् आवृञ्जते अविदुषः ॥

मुष्कौ वृषणौ योनिपार्श्वयोः कठिनौ मांसखण्डौ तत्राधिषवणशब्दितसोमफलकदृष्टिः । यच्चाऽऽनडुहं चर्म सोमखण्डनार्थं तद्दृष्टी रहस्यदेशस्य चर्मणि कर्तव्येत्याह —

ताविति ।

उपास्तिप्रकारमुक्त्वा फलोक्तेस्तात्पर्यमाह —

वाजपेयेति ।

स्तूयते मैथुनाख्यं कर्मेति शेषः ।

स्तुतिफलमाह —

तस्मादिति ।

इतिशब्दः स्तुतिफलदर्शनार्थः ।

उपास्तेरधिकं फलमाह —

य एवमिति ।

अविदुषो दुर्व्यापारनिरतस्य प्रत्यवायं दर्शयति —

अथेति ॥३॥