बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
एतदद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान्कुमारहारित आह बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥
एतद्ध स्म वै तत् विद्वान् उद्दालक आरुणिः आह अधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः । तथा नाको मौद्गल्यः कुमारहारितश्च । किं त आहुरित्युच्यते — बहवो मर्या मरणधर्मिणो मनुष्याः, ब्राह्मणा अयनं येषां ते ब्राह्मणायनाः ब्रह्मबन्धवः जातिमात्रोपजीविन इत्येतत् , निरिन्द्रियाः विश्लिष्टेन्द्रियाः, विसुकृतः विगतसुकृतकर्माणः, अविद्वांसः मैथुनकर्मासक्ता इत्यर्थः ; ते किम् ? अस्मात् लोकात् प्रयन्ति परलोकात् परिभ्रष्टा इति । मैथुनकर्मणोऽत्यन्तपापहेतुत्वं दर्शयति — य इदमविद्वांसोऽधोपहासं चरन्तीति । श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षते ; यदि इदं रेतः स्कन्दति, बहु वा अल्पं वा, सुप्तस्य वा जाग्रतो वा, रागप्राबल्यात् ॥४॥

अविदुषामतिगर्हितमिदं कर्मेत्यत्राऽऽचार्यपरम्परासम्मतिमाह —

एतद्धेति ।

पशुकर्मणो वाजपेयसंपन्नत्वमिदंशब्दार्थः । अविदुषामवाच्ये कर्मणि प्रवृत्तानां दोषित्वमुपसंहर्तुमितिशब्दः ।

विदुषो लाभमविदुषश्च दोषं दर्शयित्वा क्रियाकालात्प्रागेव रेतःस्खलने प्रायश्चित्तं दर्शयति —

श्रीमन्थमिति ।

यः प्रतीक्षते तस्य रेतो यदि स्कन्दतीति योजना ॥४॥