बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः । इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥
तदभिमृशेत् , अनुमन्त्रयेत वा अनुजपेदित्यर्थः । यदा अभिमृशति, तदा अनामिकाङ्गुष्ठाभ्यां तद्रेत आदत्ते ‘आददे’ इत्येवमन्तेन मन्त्रेण ; ‘पुनर्माम्’ इत्येतेन निमृज्यात् अन्तरेण मध्ये भ्रुवौ भ्रुवोर्वा, स्तनौ स्तनयोर्वा ॥

मे ममाद्याप्राप्तकाले यद्रेतः पृथिवीं प्रत्यस्कान्त्सीद्रागातिरेकेण स्कन्नमासीदोषधीः प्रत्यप्यसरदगमद्यच्चापः स्वयोनिं प्रति गतमभूत्तदिदं रेतः संप्रत्याददेऽहमित्यादानमन्त्रार्थः । केनाभिप्रायेण तदादानं तदाह —

पुनरिति ।

तत्पुना रेतोरूपेण बहिर्निर्गतमिन्द्रियं मां प्रत्येतु समागच्छतु । तेजस्त्वग्गता कान्तिः । भगः सौभाग्यं ज्ञानं वा । तदपि सर्वं रेतोनिर्गमात्तदात्मना बहिर्निर्गतं सन्मां प्रत्यागच्छतु । अग्निर्धिष्ण्यं स्थानं येषां ते देवास्तद्रेतो यथास्थानं कल्पयन्त्विति मार्जनमन्त्रार्थः ॥५॥