बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥
अथ यदि कदाचित् उदके आत्मानम् आत्मच्छायां पश्येत् , तत्रापि अभिमन्त्रयेत अनेन मन्त्रेण ‘मयि तेजः’ इति । श्रीर्ह वा एषा पत्नी स्त्रीणां मध्ये यत् यस्मात् मलोद्वासाः उद्गतमलवद्वासाः, तस्मात् तां मलोद्वाससं यशस्विनीं श्रीमतीमभिक्रम्य अभिगत्य उपमन्त्रयेत इदम् — अद्य आवाभ्यां कार्यं यत्पुत्रोत्पादनमिति, त्रिरात्रान्ते आप्लुताम् ॥

अयोनौ रेतःस्खलने प्रायश्चित्तमुक्तं रेतोयोनावुदके रेतःसिचश्छायादर्शने प्रायश्चित्तं दर्शयति —

अथेत्यादिना ।

निमित्तान्तरे प्रायश्चित्तान्तरप्रदर्शनप्रक्रमार्थोऽथशब्दः । मयि तेजःप्रभृति देवाः कल्पयन्त्विति मन्त्रयोजना ।

प्रकृतेन रेतःसिचा यस्यां पुत्रो जनयितव्यस्तां स्त्रियं स्तौति —

श्रीरित्यादिना ।

कथं सा यशस्विनी न हि तस्याः ख्यातिरस्ति तत्राऽऽह —

यदिति ।

रजस्वलाभिगमनादि प्रतिषिद्धमित्याशङ्क्य विशिनष्टि —

त्रिरात्रेति ॥६॥

ज्ञापयेदात्मीयं प्रेमातिरेकमिति शेषः ।