बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सा चेदस्मै न दद्यात्काममेनामवक्रीणीयात्सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एव भवति ॥ ७ ॥
सा चेदस्मै न दद्यात् मैथुनं कर्तुम् , कामम् एनाम् अवक्रीणीयात् आभरणादिना ज्ञापयेत् । तथापि सा नैव दद्यात् , काममेनां यष्ट्या वा पाणिना वा उपहत्य अतिक्रामेत् मैथुनाय । शप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य, तामनेन मन्त्रेणोपगच्छेत् — ‘इन्द्रियेण ते यशसा यश आददे’ इति । सा तस्मात् तदभिशापात् वन्ध्या दुर्भगेति ख्याता अयशा एव भवति ॥

बलादेव वशीकृतां भार्यां पशुकर्मार्थं कथमुपगच्छेदित्याकाङ्क्षायामाह —

शप्स्यामीति ॥७ – ८॥