बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धमिव मादयेमाममूं मयीति ॥ ९ ॥
स यां स्वभार्यामिच्छेत् — इयं मां कामयेतेति, तस्याम् अर्थं प्रजननेन्द्रियम् निष्ठाय निक्षिप्य, मुखेन मुखं सन्धाय, उपस्थमस्या अभिमृश्य, जपेदिमं मन्त्रम् — ‘अङ्गादङ्गात्’ इति ॥

भर्तुर्भार्यावशीकरणप्रकारमुक्त्वा पुरुषद्वेषिण्यास्तस्यास्तद्विषये प्रीतिसंपादनप्रक्रियां दर्शयति —

स यामित्यादिना ।

हे रेतस्त्वं मदीयात्सर्वस्मादङ्गात्समुत्पद्यसे विशेषतश्च हृदयादन्नरसद्वारेण जायसे स त्वमङ्गानां कषायो रसः सन्विषलिप्तशरविद्धां मृगीमिवामूं मदीयां स्त्रियं मे मादय मद्वशां कुर्वित्यर्थः ॥९॥