अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति ॥ १० ॥
अथ यामिच्छेत् — न गर्भं दधीत न धारयेत् गर्भिणी मा भूदिति, तस्याम् अर्थमिति पूर्ववत् । अभिप्राण्य अभिप्राणनं प्रथमं कृत्वा, पश्चात् अपान्यात् — ‘इन्द्रियेण ते रेतसा रेत आददे’ इत्यनेन मन्त्रेण ; अरेता एव भवति, न गर्भिणी भवतीत्यर्थः ॥