अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥ ११ ॥
अथ यामिच्छेत् — दधीत गर्भमिति, तस्यामर्थमित्यादि पूर्ववत् । पूर्वविपर्ययेण अपान्य अभिप्राण्यात् ‘इन्द्रियेण ते रेतसा रेत आदधामि’ इति ; गर्भिण्येव भवति ॥