बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रपशूंस्त आददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति ॥ १२ ॥
अथ पुनर्यस्य जायायै जारः उपपतिः स्यात् , तं चेत् द्विष्यात् , अभिचरिष्याम्येनमिति मन्येत, तस्येदं कर्म । आमपात्रे अग्निमुपसमाधाय सर्वं प्रतिलोमं कुर्यात् ; तस्मिन् अग्नौ एताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषा अक्ताः घृताभ्यक्ताः जुहुयात् ‘मम समिद्धेऽहौषीः’ इत्याद्या आहुतीः ; अन्ते सर्वासाम् असाविति नामग्रहणं प्रत्येकम् ; स एषः एवंवित् , यं ब्राह्मणः शपति, सः विसुकृतः विगतपुण्यकर्मा प्रैति । तस्मात् एवंवित् श्रोत्रियस्य दारेण नोपहासमिच्छेत् नर्मापि न कुर्यात् , किमुत अधोपहासम् ; हि यस्मात् एवंविदपि तावत् परो भवति शत्रुर्भवतीत्यर्थः ॥

संप्रति प्रासंगिकमाभिचारिकं कर्म कथयति —

अथ पुनरिति ।

द्वेषवताऽनुष्ठितमिदं कर्म फलवदिति वक्तुं द्विष्यादित्यधिकारिविशेषणम् । आमविशेषणं पात्रस्य प्रकृतकर्मयोग्यत्वख्यापनार्थम् । अग्निमित्येकवचनादुपसमाधानवचनाच्चाऽवसथ्याग्निरत्र विवक्षितः । सर्वं परिस्तरणादि तस्य प्रतिलोमत्वे कर्मणः प्रतिलोमत्वं हेतूकर्तव्यम् । मम स्वभूते योषाग्नौ यौवनादिना समिद्धे रेतो हुतवानसि ततोऽपराधिनस्तव प्राणापानावाददे फडित्युक्त्वा होमो निर्वर्तयितव्यः । तदन्ते चासावित्यात्मनः शत्रोर्वा नाम गृह्णीयात् । इष्टं श्रौतं कर्म सुकृतं स्मार्तम् । आशा प्रार्थना वाचा यत्प्रतिज्ञातं कर्मणा नोपपादितं तस्य प्रतीक्षा पराकाशः ।

यथोक्तहोमद्वारा शापदानस्य फलं दर्शयति —

स एष इति ।

एवंवित्त्वं मन्थकर्मद्वारा प्राणविद्यावत्त्वम् । तस्मादेवंवित्त्वं परदारगमने यथोक्तदोषज्ञातृत्वम् ।

तच्छब्दोपात्तं हेत्वन्तरमाह —

एवंविदपीति ॥१२॥