अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात्त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ १३ ॥
अथ यस्य जायाम् आर्तवं विन्देत् ऋतुभावं प्राप्नुयात् — इत्येवमादिग्रन्थः ‘श्रीर्ह वा एषा स्त्रीणाम्’ इत्यतः पूर्वं द्रष्टव्यः, सामर्थ्यात् । त्र्यहं कंसेन पिबेत् , अहतवासाश्च स्यात् ; नैनां स्नाताम् अस्नातां च वृषलो वृषली वा नोपहन्यात् नोपस्पृशेत् । त्रिरात्रान्ते त्रिरात्रव्रतसमाप्तौ आप्लुत्य स्नात्वा अहतवासाः स्यादिति व्यवहितेन सम्बन्धः ; ताम् आप्लुतां व्रीहन् अवघातयेत् व्रीह्यवघाताय तामेव विनियुञ्ज्यात् ॥