बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स य इच्छेत्पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १४ ॥
स य इच्छेत् — पुत्रो मे शुक्लो वर्णतो जायेत, वेदमेकमनुब्रुवीत, सर्वमायुरियात् — वर्षशतं क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ईश्वरौ समर्थौ जनयितवै जनयितुम् ॥

किं पुनरवघातनिष्पन्नैस्तण्डुलैरनुष्ठेयं तदाह —

स य इति ।

बलदेवसादृश्यं वा शुद्धत्वं वा शुक्लत्वम् ॥१४-१५॥