भर्तुर्भार्यावशीकरणप्रकारमुक्त्वा पुरुषद्वेषिण्यास्तस्यास्तद्विषये प्रीतिसंपादनप्रक्रियां दर्शयति —
स यामित्यादिना ।
हे रेतस्त्वं मदीयात्सर्वस्मादङ्गात्समुत्पद्यसे विशेषतश्च हृदयादन्नरसद्वारेण जायसे स त्वमङ्गानां कषायो रसः सन्विषलिप्तशरविद्धां मृगीमिवामूं मदीयां स्त्रियं मे मादय मद्वशां कुर्वित्यर्थः ॥९॥