तस्याः स्वविषये प्रीतिमापाद्यावाच्यकर्मानुष्ठानदशायामभिप्रायविशेषानुसारेणानुष्ठानविशेषं दर्शयति —
अथेत्यादिना ।
तत्र तत्राथशब्दस्तत्तदुपक्रमार्थो नेतव्यः ।
पशुकर्मकाले प्रथमं स्वकीयपुंस्त्वद्वारा तदीयस्त्रीत्वे वायुं विसृज्य तेनैव द्वारेण ततस्तदादानाभिमानं कुर्यादित्याह —
अभिप्राण्येति ॥१०॥