भर्तुरेवाभिप्रायान्तरानुसारिणं विधिमाह —
अथ यामित्यादिना ।
स्वकीयपञ्चमेन्द्रियेण तदीयपञ्चमेन्द्रियाद्रेतः स्वीकृत्य तत्पुत्रोत्पत्तिसमर्थं कृतमिति मत्वा स्वकीयरेतसा सह तस्मिन्निक्षिपेत्तदिदमपाननं प्राणनं च तत्पूर्वकं रेतःसेचनम् ॥११॥