संप्रति प्रासंगिकमाभिचारिकं कर्म कथयति —
अथ पुनरिति ।
द्वेषवताऽनुष्ठितमिदं कर्म फलवदिति वक्तुं द्विष्यादित्यधिकारिविशेषणम् । आमविशेषणं पात्रस्य प्रकृतकर्मयोग्यत्वख्यापनार्थम् । अग्निमित्येकवचनादुपसमाधानवचनाच्चाऽवसथ्याग्निरत्र विवक्षितः । सर्वं परिस्तरणादि तस्य प्रतिलोमत्वे कर्मणः प्रतिलोमत्वं हेतूकर्तव्यम् । मम स्वभूते योषाग्नौ यौवनादिना समिद्धे रेतो हुतवानसि ततोऽपराधिनस्तव प्राणापानावाददे फडित्युक्त्वा होमो निर्वर्तयितव्यः । तदन्ते चासावित्यात्मनः शत्रोर्वा नाम गृह्णीयात् । इष्टं श्रौतं कर्म सुकृतं स्मार्तम् । आशा प्रार्थना वाचा यत्प्रतिज्ञातं कर्मणा नोपपादितं तस्य प्रतीक्षा पराकाशः ।
यथोक्तहोमद्वारा शापदानस्य फलं दर्शयति —
स एष इति ।
एवंवित्त्वं मन्थकर्मद्वारा प्राणविद्यावत्त्वम् । तस्मादेवंवित्त्वं परदारगमने यथोक्तदोषज्ञातृत्वम् ।
तच्छब्दोपात्तं हेत्वन्तरमाह —
एवंविदपीति ॥१२॥