आभिचारिकं कर्म प्रसंगागतमुक्त्वा पूर्वोक्तमृतकालं ज्ञापयति —
अथेति ।
श्रीर्ह वा एषा स्त्रीणामित्येतदपेक्षया पूर्वत्वम् । पाठक्रमादर्थक्रमस्य बलवत्त्वे हेतुमाह —
सामर्थ्यादिति ।
अर्थवशादिति यावत् ॥१३॥