बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥ १९ ॥
अथाभिप्रातरेव काले अवघातनिर्वृत्तान् तण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिना, आज्यं चेष्टित्वा, आज्यसंस्कारं कृत्वा, चरुं श्रपयित्वा, स्थालीपाकस्य आहुतीः जुहोति, उपघातम् उपहत्योपहत्य ‘अग्नये स्वाहा’ इत्याद्याः । गार्ह्यः सर्वो विधिः द्रष्टव्यः अत्र ; हुत्वा उद्धृत्य चरुशेषं प्राश्नाति ; स्वयं प्राश्य इतरस्याः पत्न्यै प्रयच्छति उच्छिष्टम् । प्रक्षाल्य पाणी आचम्य उदपात्रं पूरयित्वा तेनोदकेन एनां त्रिरभ्युक्षति अनेन मन्त्रेण ‘उत्तिष्ठातः’ इति, सकृन्मन्त्रोच्चारणम् ॥

कदा पुनरिदमोदनपाकादि कर्तव्यं तदाह —

अथेति ।

कोऽसौ स्थालीपाकविधिः कथं वा तत्र होमस्तत्राऽऽह —

गार्ह्य इति ।

गृहे प्रसिद्धो गार्ह्यः । अत्रेति पुत्रमन्थकर्मोक्तिः । अतो मद्भार्यातः सकाशाद्भो विश्वावसो गन्धर्वत्वमुत्तिष्ठान्यां च जायां प्रपूर्व्यां तरुणीं पत्या सह संक्रीडमानामिच्छाहं पुनः स्वामिमां जायां समुपैमीति मन्त्रार्थः ॥१९॥