बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि संरभावहै सह रेतो दधावहै पुंसे पुत्राय वित्तय इति ॥ २० ॥
अथैनामभिमन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः । संवेशनकाले — ‘अमोऽहमस्मि’ इत्यादिमन्त्रेणाभिपद्यते ॥

अभिपत्तिरालिङ्गनम् । कदा क्षीरौदनादिभोजनं तदाह —

क्षीरेति ।

भुक्त्वाऽभिपद्यत इति संबन्धः । अहं पतिरमः प्राणोऽस्मि सा त्वं वागसि कथं तव प्राणत्वं मम वाक्त्वमित्याशङ्क्य वाचः प्राणाधीनत्ववत्तव मदधीनत्वादित्यभिप्रेत्य सा त्वमित्यादि पुनर्वचनम् । ऋगाधारं हि साम गीयते । अस्ति च मदाधारत्वं तव । तथा च मम सामत्वमृक्त्वं च तव । द्यौरहं पितृत्वात्पृथिवी त्वं मातृत्वात्तयोर्मातापितृत्वसिद्धेरित्यर्थः । तावावां संरभावहै संरम्भमुद्यमं करवावहै । एहि त्वमागच्छ ।

कोऽसौ संरम्भस्तमाह —

सहेति ।

पुंस्त्वयुक्तपुत्रलाभाय रेतोधारणं कर्तव्यमित्यर्थः ॥२०॥