बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥
अथास्या ऊरू विहापयति ‘विजिहीथां द्यावापृथिवी’ इत्यनेन । तस्यामर्थमित्यादि पूर्ववत् । त्रिः एनां शिरःप्रभृति अनुलोमामनुमार्ष्टि ‘विष्णुर्योनिम्’ इत्यादि प्रतिमन्त्रम् ॥

ऊर्वोः संबोधनं द्यावापृथिवी इति । विजिहीथां विश्लिष्टे भवेतं युवामित्यर्थः । विष्णुर्व्यापनशीलो भगवान्भवत्या योनिं कल्पयतु पुत्रोत्पत्तिसमर्थां करोतु । त्वष्टा सविता तव रूपाणि पिंशतु विभागेन दर्शनयोग्यानि करोतु । प्रजापतिर्विराडात्मा मदात्मना स्थित्वा त्वयि रेतः समासिञ्चतु प्रक्षिपतु । धाता पुनः सूत्रात्मा त्वदीयं गर्भं त्वदात्मना स्थित्वा दधातु धारयतु पुष्णातु च । सिनीवाली दर्शाहर्देवता त्वदात्मना वर्तते । सा च पृथुष्टुका विस्तीर्णस्तुतिर्भोः सिनीवालि पृथुष्टुके गर्भमिमं धेहि धारय । अश्विनो देवौ सूर्याचन्द्रमसौ स्वकीयरश्मिमालिनौ तव गर्भं त्वदात्मना स्थित्वा समाधत्ताम् ॥२१॥