समिङ्गयति स्वरूपोपघातमकृत्वैव चालयतीत्येतत् । एवा त एवमेव तव स्वरूपोपघातमकुर्वन्नेजतु गर्भश्चलतु । जरायुणा गर्भवेष्टनमांसखण्डेन सहावैतु निर्गच्छतु । इन्द्रस्य प्राणस्यायं व्रजो मार्गः सर्वकाले गर्भाधानकाले वा कृतः । सार्गल इत्यस्य व्याख्या सपरिश्रय इति । परिवेष्टनेन जरायुणा सहित इत्यर्थः । तं मार्गं प्राप्य त्वमिन्द्र गर्भेण सह निर्जहि निर्गच्छ । गर्भनिःसरणानन्तरं या मांसपेशी निर्गच्छति सावरा तां च निर्गमयेदित्यर्थः ॥२३॥