घृतमिश्रं दधि पृषदाज्यमित्युच्यते । उपघातमित्याभीष्ण्यं पौनःपुन्यं विवक्षितम् । पृषदाज्यस्याल्पमल्पमादाय पुनः पुनर्जुहोतीत्यर्थः । अस्मिन्स्वे गृहे पुत्ररूपेण वर्धमानो मनुष्याणां सहस्रं पुष्यासमनेकमनुष्यपोषको भूयासमस्य मत्पुत्रस्योपसन्द्यां सन्तती प्रजया पशुभिश्च सह श्रीर्मा विच्छिन्ना भूयादित्याह —
अस्मिन्निति ।
मयि पितरि ये प्राणाः सन्ति तान्पुत्रे त्वयि मनसा समर्पयामीत्याह —
मयीति ।
अत्यरीचिमित्यतिरिक्तं कृतवानस्मीह कर्मण्यकरमकरवं तत्सर्वं विद्वानग्निः स्विष्टं करोतीति स्विष्टकृत् भूत्वा स्विष्टमनधिकं सुहुतमन्यूनं चास्माकं करोत्वित्यर्थः ॥२४॥