बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
अथाग्नेरश्वमेधोपयोगिकस्योत्पत्तिरुच्यते । तद्विषयदर्शनविवक्षयैवोत्पत्तिः स्तुत्यर्था । नैवेह किञ्चनाग्र आसीत् इह संसारमण्डले, किञ्चन किञ्चिदपि नामरूपप्रविभक्तविशेषम् , नैवासीत् न बभूव, अग्रे प्रागुत्पत्तेर्मनआदेः ॥
किं शून्यमेव बभूव ? शून्यमेव स्यात् ; ‘नैवेह किञ्चन’ इति श्रुतेः, न कार्यं कारणं वासीत् ; उत्पत्तेश्च ; उत्पद्यते हि घटः ; अतः प्रागुत्पत्तेर्घटस्य नास्तित्वम् । ननु कारणस्य न नास्तित्वम् , मृत्पिण्डादिदर्शनात् ; यन्नोपलभ्यते तस्यैव नास्तिता । अस्तु कार्यस्य, न तु कारणस्य, उपलभ्यमानत्वात् । न, प्रागुत्पत्तेः सर्वानुपलम्भात् । अनुपलब्धिश्चेदभावहेतुः, सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं वोपलभ्यते ; तस्मात्सर्वस्यैवाभावोऽस्तु ॥
न, ‘मृत्युनैवेदमावृतामासीत्’ इति श्रुतेः ; यदि हि किञ्चिदपि नासीत् , येनाव्रियते यच्चाव्रियते, तदा नावक्ष्यत् , ‘मृत्युनैवेदमावृतम्’ इति ; न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ; ब्रवीति च ‘मृत्युनैवेदमावृतमासीत्’ इति । तस्मात् येनावृतं कारणेन, यच्चावृतं कार्यम् , प्रागुत्पत्तेस्तदुभयमासीत् , श्रुतेः प्रामाण्यात् , अनुमेयत्वाच्च । अनुमीयते च प्रागुत्पत्तेः कार्यकारणयोरस्तित्वम् । कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात् , असति चादर्शनात् , जगतोऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते, घटादिकारणास्तित्ववत् । घटादिकारणस्याप्यसत्त्वमेव, अनुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेत् , न ; मृदादेः कारणत्वात् । मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः, न पिण्डाकारविशेषः, तदभावे भावात् । असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते । तस्मान्न पिण्डाकारविशेषो घटरुचकादिकारणम् । असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कारणम् , न तु पिण्डाकारविशेषः । सर्वं हि कारणं कार्यमुत्पादयत् , पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत् , कार्यान्तरमुत्पादयति ; एकस्मिन्कारणे युगपदनेककार्यविरोधात् । न च पूर्वकार्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति । तस्मात्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः प्रागुत्पत्तेः कारणासत्त्वे । पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तमिति चेत् — पिण्डादिपूर्वकार्योपमर्दे मृदादि कारणं नोपमृद्यते, घटादिकार्यान्तरेऽप्यनुवर्तते, इत्येतदयुक्तम् , पिण्डघटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेत् , न ; मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात् । सादृश्यादन्वयदर्शनम् , न कारणानुवृत्तेरिति चेत् , न ; पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमानाभासात्सादृश्यादिकल्पनानुपपत्तेः । न च प्रत्यक्षानुमानयोर्विरुद्धाव्यभिचारिता, प्रत्यक्षपूर्वकत्वादनुमानस्य ; सर्वत्रैवानाश्वासप्रसङ्गात् — यदि च क्षणिकं सर्वं तदेवेदमिति गम्यमानम् , तद्बुद्धेरप्यन्यतद्बुद्ध्यपेक्षत्वे तस्या अप्यन्यतद्बुद्ध्यपेक्षत्वमित्यनवस्थायाम् , तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृषात्वात् , सर्वत्रानाश्वासतैव । तदिदम्बुद्ध्योरपि कर्त्रभावे सम्बन्धानुपपत्तिः । सादृश्यात्तत्सम्बन्ध इति चेत् , न ; तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः । असति चेतरेतरविषयत्वे सादृश्यग्रहणानुपपत्तिः । असत्येव सादृश्ये तद्बुद्धिरिति चेत् , न ; तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्विषयत्वप्रसङ्गात् । असद्विषयत्वमेव सर्वबुद्धीनामस्त्विति चेत् , न ; बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात् । तदप्यस्त्विति चेत् , न ; सर्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः । तस्मादसदेतत् — सादृश्यात्तद्बुद्धिरिति । अतः सिद्धः प्राक्कार्योत्पत्तेः कारणसद्भावः ॥
कार्यस्य च अभिव्यक्तिलिङ्गत्वात् । कार्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः ; कथमभिव्यक्तिलिङ्गत्वात् — अभिव्यक्तिर्लिङ्गमस्येति ? अभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्वप्राप्तिः । यद्धि लोके प्रावृतं तमआदिना घटादि वस्तु, तदालोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत् , प्राक्सद्भावं न व्यभिचरति ; तथेदमपि जगत् प्रागुत्पत्तेरित्यवगच्छामः । न ह्यविद्यमानो घटः उदितेऽप्यादित्ये उपलभ्यते । न ; ते अविद्यमानत्वाभावादुपलभ्येतैवेति चेत् — न हि तव घटादि कार्यं कदाचिदप्यविद्यमानमित्युदिते आदित्ये उपलभ्येतैव, मृत्पिण्डेसन्निहिते तमआद्यावरणे चासति विद्यमानत्वादिति चेत् , न ; द्विविधत्वादावरणस्य । घटादिकार्यस्य द्विविधं ह्यावरणम् — मृदादेरभिव्यक्तस्य तमःकुड्यादि, प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम् । तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्यावृतत्वादनुपलब्धिः । नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्तु अभिव्यक्तितिरोभावयोर्द्विविधत्वापेक्षः । पिण्डकपालादेरावरणवैलक्षण्यादयुक्तमिति चेत् — तमःकुड्यादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टम् ; न तथा घटादिभिन्नदेशे दृष्टे पिण्डकपाले ; तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृतत्वादनुपलब्धिरित्ययुक्तम् , आवरणधर्मवैलक्षण्यादिति चेत् , न ; क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात् । घटादिकार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेत् , न ; विभक्तानाङ्कार्यान्तरत्वादावरणत्वोपपत्तेः । आवरणाभावे एव यत्नः कर्तव्य इति चेत् — पिण्डकपालावस्थयोर्विद्यमानमेव घटादि कार्यमावृतत्वान्नोपलभ्यत इति चेत् , घटादिकार्यार्थिना तदावरणविनाशे एव यत्नः कर्तव्यः, न घटाद्युत्पत्तौ ; न चैतदस्ति ; तस्मादयुक्तं विद्यमानस्यैवावृतत्वादनुपलब्धिः, इति चेत् , न ; अनियमात् । न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्तिर्नियता ; तमआद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रयत्नदर्शनात् । सोऽपि तमोनाशायैवेति चेत् — दीपाद्युत्पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय ; तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते ; न हि घटे किञ्चिदाधीयत इति चेत् , न ; प्रकाशवतो घटस्योपलभ्यमानत्वात् । यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, न तथा प्राक्प्रदीपकरणात् । तस्मान्न तमस्तिरस्करणायैव प्रदीपकरणम् ; किं तर्हि, प्रकाशवत्त्वाय ; प्रकाशवत्त्वेनैवोपलभ्यमानत्वात् । क्वचिदावरणविनाशेऽपि यत्नः स्यात् ; यथा कुड्यादिविनाशे । तस्मान्न नियमोऽस्ति — अभिव्यक्त्यर्थिनावरणविनाशे एव यत्नः कार्य इति । नियमार्थवत्त्वाच्च । कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमित्यवोचाम । तत्र यदि पूर्वाभिव्यक्तस्य कार्यस्य पिण्डस्य व्यवहितस्य वा कपालस्य विनाशे एव यत्नः क्रियेत, तदा विदलचूर्णाद्यपि कार्यं जायेत । तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव । तस्माद्घटाद्यभिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थवान् । तस्मात्प्रागुत्पत्तेरपि सदेव कार्यम् । अतीतानागतप्रत्ययभेदाच्च । अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम् । अनागतार्थिप्रवृत्तेश्च । न ह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा । योगिनां चातीतानागतज्ञानस्य सत्यत्वात् । असंश्चेद्भविष्यद्घटः, ऐश्वरं भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात् ; न च प्रत्यक्षमुपचर्यते ; घटसद्भावे ह्यनुमानमवोचाम । विप्रतिषेधाच्च । यदि घटो भविष्यतीति, कुलालादिषु व्याप्रियमाणेषु घटार्थम् , प्रमाणेन निश्चितम् , येन च कालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते, तस्मिन्नेव काले घटोऽसन्निति विप्रतिषिद्धमभिधीयते ; भविष्यन्घटोऽसन्निति, न भविष्यतीत्यर्थः ; अयं घटो न वर्तत इति यद्वत् । अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्येत — घटार्थं प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्तमानास्तावत्कुलालादयः, तथा घटो न वर्तत इत्यसच्छब्दस्यार्थश्चेत् , न विरुध्यते ; कस्मात् ? स्वेन हि भविष्यद्रूपेण घटो वर्तते ; न हि पिण्डस्य वर्तमानता, कपालस्य वा, घटस्य भवति ; न च तयोः, भविष्यत्ता घटस्य ; तस्मात्कुलालादिव्यापारवर्तमानतायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते । यदि घटस्य यत्स्वं भविष्यत्ताकार्यरूपं तत् प्रतिषिध्येत, तत्प्रतिषेधे विरोधः स्यात् ; न तु तद्भवान्प्रतिषेधति ; न च सर्वेषां क्रियावतामेकैव वर्तमानता भविष्यत्त्वं वा । अपि च, चतुर्विधानामभावानाम् , घटस्येतरेतराभावो घटादन्यो ष्टः — यथा घटाभावः पटादिरेव, न घटस्वरूपमेव । न च घटाभावः सन्पटः अभावात्मकः ; किं तर्हि ? भावरूप एव । एवं घटस्य प्राक्प्रध्वंसात्यन्ताभावानामपि घटादन्यत्वं स्यात् , घटेन व्यपदिश्यमानत्वात् , घटस्येतरेतराभाववत् ; तथैव भावात्मकताभावानाम् । एवं च सति, घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति । अथ घटस्य प्रागभाव इति घटस्य यत्स्वरूपं तदेवोच्येत, घटस्येति व्यपदेशानुपपत्तिः । अथ कल्पयित्वा व्यपदिश्येत, शिलापुत्रकस्य शरीरमिति यद्वत् ; तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशः, न घटस्वरूपस्यैव । अथार्थान्तरं घटाद्घटस्याभाव इति, उक्तोत्तरमेतत् । किञ्चान्यत् ; प्रागुत्पत्तेः शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः, द्विनिष्ठत्वात्सम्बन्धस्य । अयुतसिद्धानामदोष इति चेत् , न ; भावाभावयोरयुतसिद्धत्वानुपपत्तेः । भावभूतयोर्हि युतसिद्धता अयुतसिद्धता वा स्यात् , न तु भावाभावयोरभावयोर्वा । तस्मात्सदेव कार्यं प्रागुत्पत्तेरिति सिद्धम् ॥
किंलक्षणेन मृत्युनावृतमित्यत आह — अशनायया, अशितुमिच्छा अशनाया, सैव मृत्योर्लक्षणम् , तया लक्षितेन मृत्युना अशनायया । कथमशनाया मृत्युरिति, उच्यते — अशनाया हि मृत्युः । हि - शब्देन प्रसिद्धं हेतुमवद्योतयति । यो ह्यशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून् । तेनासावशनायया लक्ष्यते मृत्युरिति, अशनाया हीत्याह । बुद्ध्यात्मनोऽशनाया धर्म इति स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते । तेन मृत्युनेदं कार्यमावृतमासीत् , यथा पिण्डावस्थया मृदा घटादय आवृताः स्युरिति तद्वत् । तन्मनोऽकुरुत, तदिति मनसो निर्देशः ; स प्रकृतो मृत्युः वक्ष्यमाणकार्यसिसृक्षया तत् कार्यालोचनक्षमम् , मनःशब्दवाच्यं सङ्कल्पादिलक्षणमन्तःकरणम् , अकुरुत कृतवान् । केनाभिप्रायेण मनोऽकरोदिति, उच्यते — आत्मन्वी आत्मवान् स्यां भवेयम् ; अहमनेनात्मना मनसा मनस्वी स्यामित्यभिप्रायः । सः प्रजापतिः, अभिव्यक्तेन मनसा समनस्कः सन् , अर्चन् अर्चयन्पूजयन् आत्मानमेव कृतार्थोऽस्मीति, अचरत् चरणमकरोत् । तस्य प्रजापतेः अर्चतः पूजयतः आपः रसात्मिकाः पूजाङ्गभूताः अजायन्त उत्पन्नाः । अत्राकाशप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यम् , श्रुत्यन्तरसामर्थ्यात् , विकल्पासम्भवाच्च सृष्टिक्रमस्य । अर्चते पूजां कुर्वते वै मे मह्यं कम् उदकम् अभूत् इति एवममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोः अर्कस्य अग्नेरश्वमेधक्रत्वौपयोगिकस्य अर्कत्वम् ; अर्कत्वे हेतुरित्यर्थः । अग्नेरर्कनामनिर्वचनमेतत् — अर्चनात्सुखहेतुपूजाकरणादप्सम्बन्धाच्चाग्नेरेतद्गौणं नामार्क इति । यः एवं यथोक्तम् अर्कस्यार्कत्वं वेद जानाति, कम् उदकं सुखं वा, नामसामान्यात् , ह वै इत्यवधारणार्थौ, भवत्येवेति, अस्मै एवंविदे एवंविदर्थं भवति ॥
आपो वा अर्कस्तद्यदपां शर आसीत्तत्समहन्यत । सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ २ ॥
आपो वा अर्कः । कः पुनरसावर्क इति, उच्यते — आपो वै या अर्चनाङ्गभूतास्ता एव अर्कः, अग्नेरर्कस्य हेतुत्वात् , अप्सु चाग्निः प्रतिष्ठित इति ; न पुनः साक्षादेवार्कस्ताः, तासामप्रकरणात् ; अग्नेश्च प्रकरणम् ; वक्ष्यति च — ‘अयमग्निरर्कः’ इति । तत् तत्र, यदपां शर इव शरो दध्न इव मण्डभूतमासीत् , तत्समहन्यत सङ्घातमापद्यत तेजसा बाह्यान्तःपच्यमानम् ; लिङ्गव्यत्ययेन वा, योऽपां शरः स समहन्यतेति । सा पृथिव्यभवत् , स सङ्घातो येयं पृथिवी साभवत् ; ताभ्योऽद्भ्योऽण्डमभिनिर्वृत्तमित्यर्थः ; तस्यां पृथिव्यामुत्पादितायाम् , स मृत्युः प्रजापतिः अश्राम्यत् श्रमयुक्तो बभूव ; सर्वो हि लोकः कार्यं कृत्वा श्राम्यति ; प्रजापतेश्च तन्महत्कार्यम् , यत्पृथिवीसर्गः ; किं तस्य श्रान्तस्येत्युच्यते — तस्य श्रान्तस्य तप्तस्य स्विन्नस्य, तेजोरसः तेज एव रसस्तेजोरसः, रसः सारः, निरवर्तत प्रजापतिशरीरान्निष्क्रान्त इत्यर्थः ; कोऽसौ निष्क्रान्तः ? अग्निः सोऽण्डस्यान्तर्विराट् प्रजापतिः प्रथमजः कार्यकरणसङ्घातवाञ्जातः ; ‘स वै शरीरी प्रथमः’ इति स्मरणात् ॥
स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधा विहितः । तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्वचैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥
स च जातः प्रजापतिः त्रेधा त्रिप्रकारम् आत्मानं स्वयमेव कार्यकरणसङ्घातं व्यकुरुत व्यभजदित्येतत् ; कथं त्रेधेत्याह — आदित्यं तृतीयम् अग्निवाय्वपेक्षया त्रयाणां पूरणम् , अकुरुतेत्यनुवर्तते ; तथाग्न्यादित्यापेक्षया वायुं तृतीयम् ; तथा वाय्वादित्यापेक्षयाग्निं तृतीयमिति द्रष्टव्यम् ; सामर्थ्यस्य तुल्यत्वात्त्रयाणां सङ्ख्यापूरणत्वे । स एष प्राणः सर्वभूतानामात्माप्यग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितः विभक्तः, न विराट्स्वरूपोपमर्दनेन । तस्यास्य प्रथमजस्याग्नेरश्वमेधौपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते ; सर्वा हि पूर्वोक्तोत्पत्तिरस्य स्तुत्यर्थेत्यवोचाम — इत्थमसौ शुद्धजन्मेति । तस्य प्राची दिक् शिरः, विशिष्टत्वसामान्यात् ; असौ चासौ च ऐशान्याग्नेय्यौ ईर्मौ बाहू, ईरयतेर्गतिकर्मणः । अथ अस्य अग्नेः, प्रतीची दिक् पुच्छं जघन्यो भागः, प्राङ्मुखस्य प्रत्यग्दिक्सम्बन्धात् ; असौ चासौ च वायव्यनैर्‌ऋत्यौ सक्थ्यौ सक्थिनी, पृष्ठकोणत्वसामान्यात् ; दक्षिणा चोदीची च पार्श्वे, उभयदिक्सम्बन्धसामान्यात् ; द्यौः पृष्ठमन्तरिक्षमुदरमिति पूर्ववत् ; इयमुरः, अधोभागसामान्यात् ; स एषोऽग्निः प्रजापतिरूपो लोकाद्यात्मकोऽग्निः अप्सु प्रतिष्ठितः, ‘एवमिमे लोका अप्स्वन्तः’ इति श्रुतेः ; यत्र क्वच यस्मिन्कस्मिंश्चित् एति गच्छति, तदेव तत्रैव प्रतितिष्ठिति स्थितिं लभते ; कोऽसौ ? एवं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेः विद्वान् विजानन् ; गुणफलमेतत् ॥
सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं समभवदशनायामृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभः । यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात्स भाणकरोत्सैव वागभवत् ॥ ४ ॥
सोऽकामयत — योऽसौ मृत्युः सोऽबादिक्रमेणात्मनात्मानमण्डस्यान्तः कार्यकरणसङ्घातवन्तं विराजमग्निमसृजत, त्रेधा चात्मानमकुरुतेत्युक्तम् । स किंव्यापारः सन्नसृजतेति, उच्यते — सः मृत्युः अकामयत कामितवान् ; किम् ? द्वितीयः मे मम आत्मा शरीरम् , येनाहं शरीरी स्याम् , स जायेत उत्पद्येत, इति एवमेतदकामयत ; सः एवं कामयित्वा, मनसा पूर्वोत्पन्नेन, वाचं त्रयीलक्षणाम् , मिथुनं द्वन्द्वभावम् , समभवत् सम्भवनं कृतवान् , मनसा त्रयीमालोचितवान् ; त्रयीविहितं सृष्टिक्रमं मनसान्वालोचयदित्यर्थः । कोऽसौ ? अशनायया लक्षितो मृत्युः ; अशनाया मृत्युरित्युक्तम् ; तमेव परामृशति, अन्यत्र प्रसङ्गो मा भूदिति ; तद्यद्रेत आसीत् , तत् तत्र मिथुने, यद्रेत आसीत् , प्रथमशरीरिणः प्रजापतेरुत्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपम् , त्रय्यालोचनायां यद्दृष्टवानासीज्जन्मान्तरकृतम् ; तद्भावभावितोऽपः सृष्ट्वा तेन रेतसा बीजेनाप्स्वनुप्रविश्याण्डरूपेण गर्भीभूतः सः, संवत्सरोऽभवत् , संवत्सरकालनिर्माता संवत्सरः, प्रजापतिरभवत् । न ह, पुरा पूर्वम् , ततः तस्मात्संवत्सरकालनिर्मातुः प्रजापतेः, संवत्सरः कालो नाम, न आस न बभूव ह ; तं संवत्सरकालनिर्मातारमन्तर्गर्भं प्रजापतिम् , यावानिह प्रसिद्धः कालः एतावन्तम् एतावत्संवत्सरपरिमाणं कालम् अबिभः भृतवान् मृत्युः । यावान्संवत्सरः इह प्रसिद्धः, ततः परस्तात्किं कृतवान् ? तम् , एतावतः कालस्य संवत्सरमात्रस्य परस्तात् ऊर्ध्वम् असृजत सृष्टवान् , अण्डमभिनदित्यर्थः । तम् एवं कुमारं जातम् अग्निं प्रथमशरीरिणम् , अशनायावत्त्वान्मृत्युः अभिव्याददात् मुखविदारणं कृतवान् अत्तुम् ; स च कुमारो भीतः स्वाभाविक्याविद्यया युक्तः भाणित्येवं शब्दम् अकरोत् ; सैव वागभवत् , वाक् शब्दः अभवत् ॥
स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दांसि यज्ञान्प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥
स ऐक्षत — सः, एवं भीतं कृतरवं कुमारं दृष्ट्वा, मृत्युः ऐक्षत ईक्षितवान् , अशनायावानपि — यदि कदाचिद्वा इमं कुमारम् अभिमंस्ये, अभिपूर्वो मन्यतिर्हिंसार्थः, हिंसिष्ये इत्यर्थः ; कनीयोऽन्नं करिष्ये, कनीयः अल्पमन्नं करिष्ये - इति ; एवमीक्षित्वा तद्भक्षणादुपरराम ; बहु ह्यन्नं कर्तव्यं दीर्घकालभक्षणाय, न कनीयः ; तद्भक्षणे हि कनीयोऽन्नं स्यात् , बीजभक्षणे इव सस्याभावः । सः एवं प्रयोजनमन्नबाहुल्यमालोच्य, तयैव त्रय्या वाचा पूर्वोक्तया, तेनैव च आत्मना मनसा, मिथुनीभावमालोचनमुपगम्योपगम्य, इदं सर्वं स्थावरं जङ्गमं च असृजत, यदिदं किञ्च यत्किञ्चेदम् ; किं तत् ? ऋचः, यजूंषि, सामानि, छन्दांसि च सप्त गायत्र्यादीनि — स्तोत्रशस्त्रादिकर्माङ्गभूतांस्त्रिविधान्मन्त्रान्गायत्र्यादिच्छन्दोविशिष्टान् , यज्ञांश्च तत्साध्यान् , प्रजास्तत्कर्त्रीः, पशूंश्च ग्राम्यानारण्यान्कर्मसाधनभूतान् । ननु त्रय्या मिथुनीभूतयासृजतेत्युक्तम् ; ऋगादीनीह कथमसृजतेति ? नैष दोषः ; मनसस्त्वव्यक्तोऽयं मिथुनीभावस्त्रय्या ; बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्ग इति । सः प्रजापतिः, एवमन्नवृद्धिं बुद्ध्वा, यद्यदेव क्रियां क्रियासाधनं फलं वा किञ्चित् असृजत, तत्तदत्तुं भक्षयितुम् अध्रियत धृतवान्मनः ; सर्वं कृत्स्नं वै यस्मात् अत्ति, तत् तस्मात् अदितेः अदितिनाम्नो मृत्योः अदितित्वं प्रसिद्धम् ; तथा च मन्त्रः — ‘अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता’ (ऋ. १ । ५९ । १०) इत्यादिः ; सर्वस्यैतस्य जगतोऽन्नभूतस्य अत्ता सर्वात्मनैव भवति, अन्यथा विरोधात् ; न हि कश्चित्सर्वस्यैकोऽत्ता दृश्यते ; तस्मात्सर्वात्मा भवतीत्यर्थः ; सर्वमस्यान्नं भवति ; अत एव सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते ; य एवमेतत् यथोक्तम् अदितेः मृत्योः प्रजापतेः सर्वस्यादनाददितित्वं वेद, तस्यैतत्फलम् ॥
सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥
सोऽकामयतेत्यश्वाश्वमेधयोर्निर्वचनार्थमिदमाह । भूयसा महता यज्ञेन भूयः पुनरपि यजेयेति ; जन्मान्तरकरणापेक्षया भूयःशब्दः ; स प्रजापतिर्जन्मान्तरेऽश्वमेधेनायजत ; स तद्भावभावित एव कल्पादौ व्यवर्तत ; सोऽश्वमेधक्रियाकारकफलात्मत्वेन निर्वृत्तः सन्नकामयत — भूयसा यज्ञेन भूयो यजेयेति । एवं महत्कार्यं कामयित्वा लोकवदश्राम्यत् ; स तपोऽतप्यत ; तस्य श्रान्तस्य तप्तस्येति पूर्ववत् ; यशो वीर्यमुदक्रामदिति स्वयमेव पदार्थमाह — प्राणाः चक्षुरादयो वै यशः, यशोहेतुत्वात् , तेषु हि सत्सु ख्यातिर्भवति ; तथा वीर्यं बलम् अस्मिञ्शरीरे ; न ह्युत्क्रान्तप्राणो यशस्वी बलवान्वा भवति ; तस्मात्प्राणा एव यशो वीर्यं चास्मिञ्शरीरे, तदेवं प्राणलक्षणं यशो वीर्यम् उदक्रामत् उत्क्रान्तवत् । तदेवं यशोवीर्यभूतेषु प्राणेषूत्क्रान्तेषु, शरीरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेः श्वयितुम् उच्छूनभावं गन्तुम् अध्रियत, अमेध्यं चाभवत् ; तस्य प्रजापतेः, शरीरान्निर्गतस्यापि, तस्मिन्नेव शरीरे मन आसीत् ; यथा कस्यचित्प्रिये विषये दूरं गतस्यापि मनो भवति, तद्वत् ॥
सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत । तं संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः प्रत्यौहत् । तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते । एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मायमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ७ ॥
स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदिति, उच्यते — सोऽकामयत । कथम् ? मेध्यं मेधार्हं यज्ञियं मे मम इदं शरीरम् स्यात् ; किञ्च आत्मन्वी आत्मवांश्च अनेन शरीरेण शरीरवान् स्यामिति — प्रविवेश । यस्मात् , तच्छरीरं तद्वियोगाद्गतयशोवीर्यं सत् अश्वत् अश्वयत् , ततः तस्मात् अश्वः समभवत् ; ततोऽश्वनामा प्रजापतिरेव साक्षादिति स्तूयते ; यस्माच्च पुनस्तत्प्रवेशात् गतयशोवीर्यत्वादमेध्यं सत् मेध्यमभूत् , तदेव तस्मादेव अश्वमेधस्य अश्वमेधनाम्नः क्रतोः अश्वमेधत्वम् अश्वमेधनामलाभः ; क्रियाकारकफलात्मको हि क्रतुः ; स च प्रजापतिरेवेति स्तूयते ॥
क्रतुनिर्वर्तकस्याश्वस्य प्रजापतित्वमुक्तम् — ‘उषा वा अश्वस्य मेध्यस्य’ (बृ. उ. १ । १ । १) इत्यादिना । तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूपस्य अग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं विधातव्यमित्यारभ्यते । पूर्वत्र क्रियापदस्य विधायकस्याश्रुतत्वात् , क्रियापदापेक्षत्वाच्च प्रकरणस्य, अयमर्थोऽवगम्यते । एष ह वा अश्वमेधं क्रतुं वेद य एनमेवं वेद — यः कश्चित् , एनम् अश्वमग्निरूपमर्कं च यथोक्तम् , एवं वक्ष्यमाणेन समासेन प्रदर्श्यमानेन विशेषणेन विशिष्टं वेद, स एषोऽश्वमेधं वेद, नान्यः ; तस्मादेवं वेदितव्य इत्यर्थः । कथम् ? तत्र पशुविषयमेव तावद्दर्शनमाह । तत्र प्रजापतिः ‘भूयसा यज्ञेन भूयो यजेय’ इति कामयित्वा, आत्मानमेव पशुं मेध्यं कल्पयित्वा, तं पशुम् , अनवरुध्यैव उत्सृष्टं पशुमवरोधमकृत्वैव मुक्तप्रग्रहम् , अमन्यत अचिन्तयत् । तं संवत्सरस्य पूर्णस्य परस्तात् ऊर्ध्वम् आत्मने आत्मार्थम् आलभत — प्रजापतिदेवताकत्वेनेत्येतत् — आलभत आलम्भं कृतवान् । पशून् अन्यान्ग्राम्यानारण्यांश्च देवताभ्यः यथादैवतं प्रत्यौहत् प्रतिगमितवान् । यस्माच्चैवं प्रजापतिरमन्यत, तस्मादेवमन्योऽप्युक्तेन विधिना आत्मानं पशुमश्वं मेध्यं कल्पयित्वा, ‘सर्वदेवत्योऽहं प्रोक्ष्यमाणः’ आलभ्यमानस्त्वहं मद्देवत्य एव स्याम् ; अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एव’ इति विद्यात् । अत एवेदानीं सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते याज्ञिका एवम् । एष ह वा अश्वमेधो य एष तपति, यस्त्वेवं पशुसाधनकः क्रतुः स एष साक्षात्फलभूतो निर्दिश्यते, एष ह वा अश्वमेधः ; कोऽसौ ? य एषः सविता तपति जगदवभासयति तेजसा ; तस्य अस्य क्रतुफलात्मनः, संवत्सरः कालविशेषः, आत्मा शरीरम् , तन्निर्वर्त्यत्वात्संवत्सरस्य ; तस्यैव क्रत्वात्मनः अयं पार्थिवोऽग्निः, अर्कः, साधनभूतः ; तस्य चार्कस्य क्रतौ चित्यस्य, इमे लोकास्त्रयोऽपि, आत्मानः शरीरावयवाः ; तथा च व्याख्यातम् — ‘तस्य प्राची दिक्’ इत्यादिना ; तावग्न्यादित्यावेतौ यथाविशेषितावर्काश्वमेधौ क्रतुफले ; अर्को यः पार्थिवोऽग्निः स साक्षात्क्रतुरूपः क्रियात्मकः ; क्रतोरग्निसाध्यत्वात्तद्रूपेणैव निर्देशः ; क्रतुसाध्यत्वाच्च फलस्य क्रतुरूपेणैव निर्देशः — आदित्योऽश्वमेध इति । तौ साध्यसाधनौ क्रतुफलभूतावग्न्यादित्यौ — सा उ, पुनः भूयः, एकैव देवता भवति ; का सा ? मृत्युरेव ; पूर्वमप्येकैवासीत्क्रियासाधनफलभेदाय विभक्ता ; तथा चोक्तम् ‘स त्रेधात्मानं व्यकुरुत’ इति ; सा पुनरपि क्रियानिर्वृत्त्युत्तरकालमेकैव देवता भवति — मृत्युरेव फलरूपः ; यः पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेद — अहमेव मृत्युरस्म्यश्वमेध एका देवता मद्रूपाश्वाग्निसाधनसाध्येति ; सोऽपजयति, पुनर्मृत्युं पुनर्मरणम् , सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः ; अपजितोऽपि मृत्युरेनं पुनराप्नुयादित्याशङ्क्याह — नैनं मृत्युराप्नोति ; कस्मात् ? मृत्युः, अस्यैवंविदः, आत्मा भवति ; किञ्च मृत्युरेव फलरूपः सन्नेतासां देवतानामेको भवति ; तस्यैतत्फलम् ॥
इति प्रथमाध्यायस्य द्वितीयं ब्राह्मणम् ॥
अथाग्नेरुच्यते जन्म हयमेधोपयोगिनः ।।
तद्दर्शनविधित्सायैस्तुत्यर्थोत्पत्तिरिष्यते ।। १ ।।
नामवद्रूपवच्चेह कारणं यावदीक्ष्यते ।।
नाभूत्तत्प्राक्समुत्पत्तेः प्राणाद्युत्पत्तिसंश्रवात् ।। २ ।।
कार्यमुत्पत्तिमत्त्वाच्चेत्प्रागुत्पत्तेर्निषिध्यते ।।
कारणस्य त्वनुत्पत्तेरनिषेधस्तथा सति ।। ३ ।।
तथा चानुपलब्धेश्च कार्यस्यैवास्तु नास्तिता ।।
कारणस्य न नास्तित्वमुक्तहेत्वोरसंभवात् ।। ४ ।।
सर्वस्यानुपलब्धेस्तु मैवं वोचो यतः श्रुतिः ।।
नैवेह किंचनेत्याह कारणेतरनिहनुतिम् ।। ५ ।।
नैवं यतः श्रुतिः साक्षात्सत्त्वमेवावदत्स्वयम् ।।
कार्यकारणयोः स्पष्टं मृत्युनैवेति सादरा ।। ६ ।।
मृत्युना कारणेनेदं कार्यं सर्वं समावृतम् ।।
इति नावक्ष्यद्यद्येतदुभयं नाभवत्पुरा ।। ७ ।।
प्राणपिण्डादिकार्याणां समुद्रः परमेश्वरः ।।
बन्धुः कारणमात्मोक्तो मृत्युरत्र स एव तु ।। ८ ।।
ज्ञानमात्रसतत्त्वं यह्ब्रह्माज्ञातसतत्त्वकम् ।।
मृत्युर्जनिमतः साक्षात्तत्र कार्याप्ययत्वतः ।। ९ ।।
सद्बीजं सत्प्रतिष्ठं च सदायतनमेव च ।।
प्रत्यक्षमेत्र सत्सिद्धं सदन्यस्याप्रसिद्धितः ।। १० ।।
असत्सदतिरेकेण यदि वाऽव्यतिरेकतः ।।
व्यतिरेके सदेवासदसद्वा तत्किमुच्यते ।। ११ ।।
नेह सद्व्यतिरेकेण स्वमहिम्ना प्रसिध्यति ।।
सर्वस्य सदपेक्षत्वात्सत्तु नान्यदपेक्षते ।। १२ ।।
मतमव्यतिरेकेण सतोऽसत्सत्तदिष्यताम् ।।
कुतोऽदो लभतेऽसत्त्वं यत्सदात्मनि निष्ठितम् ।। १३ ।।
अन्योन्यव्यतिरेकित्वान्नान्योन्यात्मकता तयोः ।।
विरोधित्वाच्च नान्योन्यं संबन्धस्तापशीतवत् ।। १४ ।।
स्फुरताऽपि सतो नान्यदभिधातुं घटादिवत् ।।
शक्यते नाभिधानेन ह्यसद्वस्तु निरुच्यते ।। १५ ।।
वस्तुनोऽतिशयः कश्चिदभाववचसोच्यते ।।
तस्य तेनाभिसंव्याप्तेर्न कथंचिदपहनुतिः ।। १६ ।।
क्रिया वा तत्फलं वा स्यादभावो नाऽऽत्महेतुहा ।।
यो यतो लभते सत्तां निरुणद्धि स तं कथम् ।। १७ ।।
न नाशो हन्ति नष्टारं गन्तारमिव तद्नतिः ।।
यो यतो लिप्सते सिद्धिं स तं हन्ति कथं वद ।। १८ ।।
विज्ञानाव्यतिरेकी चेदभावः स्यात्सहेतुकः ।।
ध्वंसादव्यतिरेकेऽपि धियो नित्यत्वमापतेत् ।। १९ ।।
अतोऽभावत्वसिद्ध्यर्थमभावेनाप्यपेक्ष्यते ।।
स्वहेतुसिद्धिः कार्योऽर्थो न दृष्टः कारणं विना ।। २० ।।
धर्म्यसिद्धिः प्रतिज्ञायां हेतुश्चानाश्रयो भवेत् ।।
न चास्ति कश्चिहृष्टान्तः सर्वशून्यत्ववादिनः ।। २१ ।।
विज्ञानमात्रं यस्यापि जगदेतश्चराचरम् ।।
प्रतिज्ञाहेतुदृष्टान्तैर्ज्ञानं तेनापि दूष्यते ।। २२ ।।
मानाभेदाच्च मेयस्य नाज्ञातार्थः प्रसिध्यति ।।
तादात्म्येऽपि न चेज्ज्ञातो मानात्कोऽतिशयो मतः ।। २३ ।।
अज्ञाताधिगमं कुर्वन्मानं स्यात्सर्ववादिनाम् ।।
न चेच्छुक्तितमोजस्य ज्ञानस्यापि प्रमाणता ।। २४ ।।
विज्ञानाव्यतिरेकित्वादसिद्धादेस्तथैव च ।।
प्रामाण्यवत्प्रसङ्गः स्यादप्रमात्वेऽपि ते ध्रुवम् ।। २५ ।।
अजमेकं स्वतःसिद्धं प्रत्यंग्रूपमनन्यदृक् ।।
वस्त्वेवं चेदिहाभीष्टं किमर्थं साध्यतेऽपरम् ।। २६ ।।
एवंभूतात्मसिद्ध्यर्थं कारणादि प्रसाध्यते ।।
उपायः सोऽवताराय तथा तज्ज्ञैश्च सूत्रितम् ।। २७ ।।
कारणादिनिषेधेन न चाद्वैतमभीप्सितम् ।।
ऐकात्म्यबोधमात्रेण निषेधस्याप्यपहवात् ।। २८ ।।
सतत्त्वकमिदं सर्वमिति संसाध्य यत्नतः ।।
तस्यापि संविन्मात्रेण पूर्णतैवोच्यते सतः ।। २९ ।।
सदेवाऽऽगमतः सर्वं प्रत्यक्षाच्च सदीक्ष्यते ।।
अनुमानाच्च सत्सर्वं यथा तदधुनोच्यते ।। ३० ।।
अनुमेयं च सत्पूर्वं कारणं कार्यमेव च ।।
जगत्प्रसूतेस्तच्चेह प्रयोगेण प्रदर्श्यते ।। ३१ ।।
विवादगोचरापन्नं सत्कारणमिदं भवेत् ।।
कार्यात्मकं मनोऽवादि कार्यत्वात्कटकुम्भवत् ।। ३२ ।।
हेतुमज्जनिमत्सर्वं कार्यत्वात्पटकुम्भवत् ।।
वियदादि च नः कार्यं तदप्येवं प्रतीयताम् ।। ३३ ।।
असत्कारणकं कार्यं तद्विनाश्यास्य जन्मतः ।।
सर्वं स्वहेतुमुन्मूल्य जायतेऽङ्कुरकुम्भवत् ।। ३४ ।।
स्वकारणं चेदुत्साद्य कार्यं सर्वं प्रजायते ।।
तत्कारणविनाशाय तत्सूतेः प्राक्क्व ईर्यताम् ।। ३५ ।।
स्वहेतूच्छित्तयेऽलं चेदजातमपि सद्यदि ।।
द्वयमप्यभ्युपेतं स्यान्न ह्यसद्धन्यतेऽसता ।। ३६ ।।
विनाशस्यापि कार्यत्वात्सोऽपि सत्कारणो मम ।।
न चेत्कार्यो विनाशः स्यान्नाशोऽकार्येण नेष्यते ।। ३७ ।।
स्वकारणविनाशाय सिद्धं घाऽसिद्धमेव वा ।।
अङ्कुरादि मतं कार्यं नोभयत्रापि युज्यते ।। ३८ ।।
सिद्धं चेत्कारणात्सिद्धमुपमर्दे विनैव तु ।।
उत्पन्नेन च तन्नाश उत्पन्नत्वादनर्थकः ।। ३९ ।।
उपमृद्गाति चेत्कार्यमथासिद्धं स्वकारणम् ।।
तत्कारणं कथं तत्स्यान्न चेत्तस्मात्प्रजायते ।। ४० ।।
उपमर्दोऽपि कार्यत्वात्किं न हन्यात्स्वकारणम् ।।
हन्तर्यसति हानोक्तिर्लक्ष्यते शिशुवक्तृका ।। ४१ ।।
नंष्ट्टतत्रो विनाशोऽपि गन्तृतन्त्र गतिर्यथा ।।
नास्तीह कश्चिद्धात्वर्थो यः स्वहेतुं विनाशयेत् ।। ४२ ।।
निर्हेतुनाशसंव्याप्तेर्न स्यात्कुम्भजनिर्मृदः ।।
न वीजादग्निसंव्याप्तादङकुरोद्भूतिरीक्ष्यते ।। ४३ ।।
घटादेः कारणं पिण्ड इति नाभ्युपगम्यते ।।
मृदेव कारणं यस्मात्पिण्डादेरवगम्यते ।। ४४ ।।
यदेव कारणं मानैरिह साक्षाद्विनिश्चितम् ।।
तदेवोत्तरकार्येषु, न कार्यं कारणं मितेः ।। ४५ ।।
विनाशोऽतिशयः कश्चिद्यदि पिण्डादिवन्मतः ।।
प्रत्यक्षात्तद्द्वयं सत्स्यान्नो चेदस्तु ध्रुवो घटः ।। ४६ ।।
क्रिया वा तत्फलं वा स्याद्वस्त्वन्तरमथापि वा ।।
नाशोऽथ वा न किंचित्स्यात्सत्त्वं नैवमपोद्यते ।। ४७ ।।
क्रियाऽप्यस्ति फलं चास्ति तद्वद्वस्त्वन्तरं च सत् ।।
अथ नाशोऽपि नैवास्ति तं विना सदिदं जगत् ।। ४८ ।।
सन्नेव नाशोऽपीष्टश्चेत्सत्सता न विरुध्यते ।।
ऐकात्म्येऽपि विरोधश्चेन्नाशो नाशेऽपि शङ्क्यते ।। ४९ ।।
पिण्डादिना विनाऽपीदं मृदादेः केवलादपि ।।
घटाद्युत्पद्यमानं तु कार्यं दृष्टमतो ध्रुवम् ।। ५० ।।
मृदाद्येव ततो ग्राह्यं कारणं ह्यन्वयान्मृदः ।।
कार्यमेव तु पिण्डादि तस्य कार्येष्वनन्नयात् ।। ५१ ।।
विरुद्धानेककार्याणां युगपज्जन्म नेष्यते ।।
एकस्मात्कारणात्तस्मात्पिण्डाभावे घटोद्बवः ।। ५२ ।।
पिण्डादिव्यतिरेकेण कारणानुपलब्धितः ।।
असत्त्वं चेन्मृदादेः स्यान्न मानानुपपत्तितः ।। ५३ ।।
पिण्डादिव्यतिरेकेण यदि मानं भवेत्ततः ।।
मृदादि कारणं लब्धं न मानं स्यान्मृदा विना ।। ५४ ।।
पिण्डादिव्यतिरेकेण पिण्डादाविव चेत्प्रमा ।।
सिद्धं कारणमेवं स्यान्न मा मेयं विना यतः ।। ५५ ।।
असाधारणरूपेषु व्यावृत्तेष्वितरेतरम् ।।
बहुष्वेकं यदाभाति प्रत्यक्षं कारणं तु तत् ।। ५६ ।।
सादृश्यादन्वयभ्रन्तिस्तन्निवृत्तावपीति चेत् ।।
नैवं पिण्डस्थदृष्टानां घटादावपि दर्शनात् ।। ५७ ।।
प्रत्यभिज्ञायमानेऽर्थे तदेवेदमिति ध्रुवे ।।
लिङ्गमाभासतामेति प्रत्यक्षार्थविरुद्धमित् ।। ५८ ।।
विरुद्धाव्यभिचारित्वं न च प्रत्यक्षलिङ्गयोः ।।
प्रत्यक्षापाश्रयान्नित्यं नानपेक्षं तदक्षवत् ।। ५९ ।।
विरुद्धाव्यभिचारित्वं समानबलयोर्यतः ।।
दृष्टं सर्वत्र लोकेऽस्मिन्न तु सिंहशृगालयोः ।। ६० ।।
क्षणिकत्वे च भावानां प्रत्यभिज्ञाद्यसंभवः ।।
न ह्यन्यदृष्टं वस्त्वन्यैः प्रत्यभिज्ञायते क्वचित् ।। ६१ ।।
क्षणिकं चेदिदं सर्वं प्रत्यभिज्ञाप्रमाणकम् ।।
अन्यतद्बुद्ध्यपेक्षत्वं तद्बुद्धेर्वः प्रसज्यते ।। ६२ ।।
इदं क्षणिकमित्येतत्क्षणिकत्वे न सिध्यति ।।
इदंक्षणिकताबुद्ध्योर्भिन्नाधिकरणत्वतः ।। ६३ ।।
अज्ञातं ज्ञायते यस्य तथाऽजातं च जायते ।।
प्रत्यभिज्ञामृते तस्य प्रतिज्ञार्थो न सिध्यति ।। ६४ ।।
अनवस्था च दुर्वारा ह्यविश्चासश्च जायते ।।
मृपात्वात्सर्वबुद्धीनां न क्वचिन्निश्चितिर्भवेत् ।। ६५ ।।
संबन्धानुपपत्तिश्च तदिदंज्ञानयोर्ध्रुवम् ।।
संबन्धकर्तर्यसति न च सादृश्यसंश्रयात् ।। ६६ ।।
ध्वंसिनोरिव सादृश्यं स्थायिनोरपि नेष्यते ।।
ग्राहकेऽसति तद्भिन्ने बुद्धीनां चैकरूपतः ।। ६७ ।।
नाशभेदविरुद्धार्थप्रमेये च व्यवस्थिते ।।
प्रत्यर्थिनि हि प्रत्यक्षे तद्विरुद्धः कुतोऽमितेः ।। ६८ ।।
अनुत्पन्नोत्पित्सूत्पन्नोऽनष्टो नाशादिकृत्तथा ।।
एवमष्टक्षणावस्थो भावोऽवश्यं त्वयेष्यते ।। ६९ ।।
अन्योन्याविषयत्वे तु कुतः सादृश्यधीरियम् ।।
सदृशार्थे विनैवेयं क्लृप्ता सादृश्यधीर्यदि ।। ७० ।।
मृगाम्बुधीवन्मिथ्यात्वं स्यादेवं तदिदांधियोः ।।
असद्विषयतैवेह सर्वासमपि चेद्धियाम् ।। ७१ ।।
नैवं बुद्धेरपि तथा ह्यसद्विषयता भवेत् ।।
अस्त्वेवं सर्ववुद्धीनां मृषात्वमिति चेन्मतम्स।। ७२ ।।
नैवं स्यात्सर्वबुद्धीनां मृषात्वे मित्यसंभवात् ।।
कारणस्यास्तिता तस्मात्सिद्धा कार्योद्भवात्पुरा ।। ७३ ।।
कार्यस्यापि यथाऽस्तित्वं तथेदानीं प्रपञ्चयते ।।
सत्त्वपूर्वमिदं कार्यं तमोन्तस्थघटादिवत् ।।
तस्याभिव्यक्तिधर्मत्वादन्यथा स्यान्नृशृङ्गवत् ।। ७४ ।।
सत्यामपि च सामग्र्यां वन्ध्यापुत्राद्यसत्त्वतः ।।
विज्ञानालम्वनत्वं नो न कदाचित्प्रपद्यते ।। ७५ ।।
सर्वं सदेव चेदिष्टमुपलभ्येत ते सदा ।।
सामग्र्यां घटवत्सत्यां सर्वं सद्वादिनो ध्रुवम् ।। ७६ ।।
न विद्यमानमात्रेण ह्यभिव्यक्तिरपीष्यते ।।
सदेव वस्त्वभिव्यक्तं तथाऽव्यक्तं च लक्ष्यते ।। ७७ ।।
अङ्गीकर्तव्यमेतच्च भवद्भिरविशङ्कितैः ।।
न चेद्वः सर्वसिद्धान्तो नश्येत्सैकतकूपवत् ।। ७८ ।।
प्रमाणव्यतिरेकेण प्रमेयोऽर्थो भवन्भवेत् ।।
मानादव्यतिरेके हि मानमेयौ न सिध्यतः ।। ७९ ।।
कारणस्यापि नास्तित्वं कार्यासत्त्वे प्रसज्यते ।।
न हि कार्यमनाश्रित्यं कारणं जगतीक्ष्यते ।। ८० ।।
सत्तामात्रेण किं कार्यं समवाय्यादिकारणम् ।।
साधयेद्व्यापृतं वेदं तथाऽपीष्टं न सिध्यति ।। ८१ ।।
सत्तामात्रेण चेत्कुर्यात्कारणत्रितयं तदा ।।
कार्योत्पत्तिस्थितिलयाः प्राप्नुयुर्युगपत्सदा ।। ८२ ।।
अविशेषाच्च सत्तायाः सर्वतः सर्वसंभवः ।।
सर्व एव न संसिध्येद्व्यवहारश्च लौकिकः ।। ८३ ।।
त्रीण्येव कारणानीति निष्फलाऽवधृतिर्भवेत् ।।
यथा त्रयं तथा सर्वं सत्तया किं न कारणम् ।। ८४ ।।
संभूय कार्यं कुर्याच्चेत्कारणत्रितयं तदा ।।
मेलनस्यापि कार्यत्वात्कथं तत्स्यात्रयं विना ।। ८५ ।।
कारणत्रितये नाथ एकैकस्य प्रसिध्यति ।।
तस्य तस्य तथैवेति साऽनवस्था प्रसज्यते ।। ८६ ।।
वस्तुनः सदसत्त्वाय ह्यभिव्यक्त्येकहेतुतः ।।
ऐश्वर्यं न प्रमाणस्य सत्त्वं वस्तुबलाद्यतः ।। ८७ ।।
द्वैविध्यादावृतेः कार्यं नेक्षते तेन संवृतम् ।।
लब्धात्मकस्य कुड्यादि, प्राक्सूतेः कारणावृतिः ।। ८८ ।।
मृदात्मनोपसंश्लिष्टं कार्यं कारणतामितम् ।।
कारणत्वाद्धि तत्स्थं तत्तदृते कराणं कथम् ।। ८९ ।।
यदि कारणसंस्थं सत्तन्निमित्तं च कारणम् ।।
व्यवधानान्तराभावात्किमर्थं नोपलभ्यते ।। ९० ।।
कार्यान्तरेण संस्थानान्मृदादेर्नोपलभ्यते ।।
सदात्मनोपलब्धिस्तु न कदाचन हीयते ।। ९१ ।।
नष्टोत्पन्नसदभावशब्दप्तत्ययभेदधीः ।।
अभिव्यक्तितिरोभूतिद्वैविध्यापेक्षयैव तु ।। ९२ ।।
कुड्याद्यावरणं दृष्टं भिन्नदेशं सदाऽऽवृतात् ।।
कुम्भाद्यभिन्नदेशस्थं पिण्डाद्यावरणं कथम् ।। ९३ ।।
नैवं पयोघृतादीनामेकदेशत्वदर्शनात् ।। ९४ ।।
अनावरणता चेत्स्यात्कपालादेर्घटात्मनि ।।
अन्तर्भावान्न साध्वेतद्विभक्तानां भवेद्यतः ।। ९५ ।।
आवृतत्वमथ मतं भङ्ग एव प्रसज्यते ।।
यत्नो न तु घटोत्पत्तौ नैवमप्युपपद्यते ।। ९६ ।।
न हि लोकेऽस्ति नियसो र्घटाभिव्यक्तिहेतुकः ।।
अनेकसाधना यस्मादभिव्यक्तिरिहेक्ष्यते ।। ९७ ।।
दीपेनान्यो, मथा चान्यस्तथा चक्रादिना परः ।।
अभिव्यक्तिं प्रयात्यर्थः पुरा सन्नेव सर्वदा ।। ९८ ।।
तमोविनाशनायैव प्रदीपोऽपीति चेन्मतम् ।।
नष्टे तमसि कुम्भोऽपि स्वयमेवोपलभ्य़ते ।। ९९ ।।
किमेवं भवतः सिद्धं यदि नाम तमोहनुतिः ।।
सदेव व्यज्यते सर्वमिति नैवापनुद्यते ।। १०० ।।
अज्ञातत्वापमार्ष्ट्यर्थमुपादित्सन्ति मानिनः ।।
मानानि, मानसंबन्धादज्ञातत्वं च नश्यति ।। १०१ ।।
यतः सति क्रियाभेदे किं पूर्वमिति चोदना ।।
क्रियाभेदे न च न्याय्यं ध्वान्तनाशः क्रियाफलम् ।। १०२ ।।
ज्ञातुर्ज्ञानाभिनिष्पत्तिर्निष्पन्नं मेयमेति सत् ।।
मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते ।। १०३ ।।
व्यवधानं तमो यस्माद्धटोऽयमिति संविदः ।।
प्रकाशवद्धटं चर्ते कुतस्तत्तममो हनुतिः ।। १०४ ।।
प्रमाणव्यापृतेर्ज्ञातोऽज्ञातोऽज्ञातत्वहानिकृत् ।।
घटोऽवगत इत्येतत्ततः संपद्यते फलम् ।। १०५ ।।
यद्यावरणभङ्गाय यत्नः स्याद्धटवित्तये ।।
कार्यान्तरं भवेद्भङ्गात्तेनाप्यावृतता घटे ।। १०६ ।।
व्यवधानान्तरं तस्मादन्यदप्यापतेत्तदा ।।
अतो नियत एवात्र व्यापारः फलवान्भवेत् ।। १०७ ।।
अतीतैष्यद्धटज्ञानं सद्धटालम्बनं भवेत् ।।
घटज्ञानत्वतः साक्षादिहत्यघटबोधवत् ।। १०८ ।।
अतीतोऽनागतोऽर्थोऽसन्यदि वाऽभ्युपगम्यते ।।
अतीतानागतज्ञानं मिथ्येशस्य प्रसज्यते ।। १०९ ।।
प्रत्यक्षं नापि चेशस्य केनचित्प्रतिहन्यते ।।
अपविद्धातिशीत्येव तज्ज्ञानं केन हन्यते ।। ११० ।।
घटसत्त्वे पुरोत्पत्तेरनुमा च प्रदर्शिता ।।
तस्मात्सदेव कार्यं स्यात्प्रगुत्पत्तेरपि त्रुवम् ।। १११ ।।
एष्यद्धटनिषेधे च विरोधोऽपि प्रसज्यते ।।
भविप्याति न भाव्यर्थो वर्तमाननिषेधवत् ।। ११२ ।।
गृह्यमाणो घटो नासन्निति यद्वद्विरुध्यते ।।
अतीतैष्यन्मितघटप्रतिषेधस्तथाविधः ।। ११३ ।।
प्रागभावादयोऽभावाः सन्तः स्युरतिरेकिणः ।।
व्यपदेशाद्धटेनैषामन्योन्याभाववद्ध्रुवम् ।। ११४ ।।
एवं च सति संबन्धो न भावाभावयोर्मिथः ।।
विरोधाद्भावयोर्यद्वदेकत्वान्नाप्यभावयोः ।। ११५ ।।
असतश्च न संबन्धोऽकारकत्वात्कथंचन ।।
संबन्धश्च क्रियात्मत्वान्न सिध्येत्कारकं विना ।। ११६ ।।
प्रागभावो घटस्येति घटं एवोच्यते यदि ।।
घट एव घटस्येति व्यपदेशो न युज्यते ।। ११७ ।।
न चासत्त्वं घटस्यैवं, प्रागभावो घटो न च ।।
अवध्यवधिमद्भेदे प्रागभावोऽपि सिध्यति ।। ११८ ।।
अथ प्रकल्प्य संबन्धं घटस्येत्यभिधीयते ।।
क्लृप्तस्यैव ह्यभावस्य व्यपदेशः प्रसज्यते ।। ११९ ।।
अर्थान्तरमभावश्चेदुक्तं संस्मर्तुमर्हसि ।।
शशशृङ्गादिकल्पस्य घटस्य स न युज्यते ।। १२० ।।
स्वहेतुसत्तासंबन्धः संबन्धस्य सदाश्रयात् ।।
अथास्त्वयुतसिद्धानां नासतोऽयुतसिद्धता ।। १२१ ।।
न भावाभावयोर्योगो नापि चायमभावयोः ।।
सतोरेव यतो योगः सिद्ध कार्यमतः सदा ।। १२२ ।।
द्वैतैकत्वात्मकं रूपं वैराजं कार्यमात्मनः ।।
समुद्र एव ह्यस्येति विराट्कारणमब्रवीत् ।। १२३ ।।
संभूय कार्यभूतानि भूतयोनिं यतो विभुम् ।।
जन्मस्थितिलयान्यान्ति समुद्रस्तेन विश्वकृत् ।। १२४ ।।
तत्समुद्रं परं ब्रह्म संविन्मात्रसतत्त्वकम् ।।
अविज्ञातात्मयाथात्म्यं हेतुत्वेनेह शब्द्यते ।। १२५ ।।
इदं जगदुपादानं सर्वशक्त्यजमव्ययम् ।।
स्वात्मैकाज्ञानवृत्तेन ग्रसिष्णु प्रभविष्णु च ।। १२६ ।।
स्वाभासवर्त्मनैवैतत्स्वात्माज्ञानजभूमिषु ।।
इतं बहुत्वमेकं सद्वियद्यद्वद्धटादिषु ।। १२७ ।।
अकारणं सदज्ञानात्कारणत्वं यथैत्यजम् ।।
सर्वकारकतामेवं क्रियातत्फलतामपि ।। १२८ ।।
साध्यसाधनता तस्मादज्ञानैकव्यपाश्रयाम् ।।
उच्चैरनूद्य तत्तत्त्वं वेदान्ताः प्रत्यपीपदन् ।। १२९ ।।
अकारणमकार्ये सत्कार्यकारणतामगात् ।।
मोहादेव ततः शास्रं तदुच्छित्तौ प्रवर्तते ।। १३० ।।
अपीताशेषसंसारं शुद्धसंस्कारसंश्रयम् ।।
अव्याकृतमिदं ब्रह्मह्यन्तर्यामीति चोच्यते ।। १३१ ।।
अज्ञानानुपमर्देन व्याकृतिर्याऽस्य जायते ।।
स्वप्नविज्ञानवन्नासौ सत्यमेयव्यपाश्रया ।। १३२ ।।
सम्यग्ज्ञानसमुत्पत्तौ हेतुत्वं तु निगच्छति ।।
निद्रं हत्वा यतः स्वप्नज्ञानादपि विबुध्यते ।। १३३ ।।
उपेयप्रतिपत्त्यैव प्रमाणानां प्रमाणता ।।
वस्तुस्थित्या न सत्यत्वमिति पूर्वमवादिषम् ।। १३४ ।।
नामरूपादिना येयमविद्या प्रथतेऽसती ।।
माया तस्याः परं सौक्ष्म्वं मृत्युनैवेति भण्यते ।। १३५ ।।
मृत्युर्वै तम इत्येवमाप एवेदमित्यपि ।।
अविद्या प्रथते मौली व्यक्ताव्यक्तात्मनाऽनिशम् ।। १३६ ।।
एतेभ्योऽसौ समुत्थाय स्वाभासानात्मजन्मना ।।
याति क्षेत्रज्ञतामीशः कूटलस्थोऽपि ह्यविद्यया ।। १३७ ।।
आपो ह्यणुतराः सत्यमसृजन्तेति हि श्रुतिः ।।
क्रियाविज्ञानशक्त्यात्मा सोऽपि ब्रह्मासृजत्परः ।। १३८ ।।
विराड्व्रह्माथ ससृजे मनुं देवं प्रजापतिम् ।।
मनुर्देवान्मनुष्यांश्च स्थास्नु कृत्स्नं चरिष्णु च ।। १३९ ।।
साध्यसाधनवत्कृत्स्नकार्यरूपविवक्षया ।।
श्रुतिः प्रववृते सेयं नैवेहेतीह यत्नतः ।। १४० ।।
अशनायापिपासाभ्यां मृत्याो रूपं प्रचक्षते ।।
प्राणस्य तत्र संवर्गाद्वागादध्यात्मदैवयोः ।। १४१ ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
स्वं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ।। १४२ ।।
सृष्टिमेतां समुद्दिश्य तन्मनोऽकुरुतेति या ।।
श्रुतिः प्रवृत्ता निर्वक्तुं यावदव्याकृतं परा ।। १४३ ।।
यद्वा विराजमुद्दिश्य संकल्पमकरोन्मनः।।
आत्मन्वी स्यामिति तथा साकूतः सृष्टिकारणः ।। १४४ ।।
स्वविभूतीक्षणं सृष्टौ विभोरर्चनमुच्यते ।।
आपोऽजायन्त इति च सर्वभूतोपलक्षणम् ।। १४५ ।।
विद्योत्पत्तिप्रधानत्वात्सृष्टिर्वा न विवक्ष्यते ।।
तथाच प्रतिवेदान्तं सृष्टिर्नानाविधेक्ष्यते ।। १४६ ।।
अर्चतो मे यतो जज्ञे कमम्भः सुखकृत्ततः ।।
अर्काभिधोऽथ संवृत्तः प्राणो मृत्युः प्रजापतिः ।। १४७ ।।
उपासनमतोऽस्यापि नाग्नेरेवेति निश्चितिः ।।
अर्कनामाभिसंबन्धो नोपासनमृते यतः ।। १४८ ।।
यदि वाऽग्नेरिदं नाम तस्य प्रकरणित्वतः ।।
आपो वा अर्क इति तु चित्यनामार्थमेव तत् ।। १४९ ।।
शर असीदिति गिरा शक्त्यवस्था विवक्ष्यते ।।
सा पृथिव्यभवच्चेति विराजो जन्मशब्दनम् ।। १५० ।।
तपोऽप्सु तप्यमानासु ह्यण्डं जज्ञे हिरण्मयम् ।।
इति श्रुतिर्जगादार्थं यथैवेह प्रपञ्चयते ।। १५१ ।।
एवं व्यष्टिसमष्ट्यात्मा वैराजं देहमात्मनः ।।
प्राचीक्लृपदथेदानीं सृष्टिस्तस्य विवक्ष्यते ।। १५२ ।।
श्रान्तस्येति तु देहस्य कर्मायोग्यत्वमुच्यते ।।
श्रमहेतुरतस्तापस्तप्तस्येत्यभिशब्द्यते ।। १५३ ।।
भास्वज्ज्ञानं भवेत्तेजो रसः प्राणो विवक्षितः ।।
क्रियाविज्ञानशक्तित्वात्प्रकृतस्य प्रजापतेः ।। १५४ ।।
अनवच्छिन्नवपुषः पिण्डावच्छेदहेतुतः ।।
रवस्य कुम्भादिनेवासोर्निरवर्तत शब्दनम् ।। १५५ ।।
नामरूपादिमद्देहसंबन्धात्तद्विधर्मकः ।।
अरूपोऽपि हि सूत्रात्मां लक्ष्यते रूपवानिव ।। १५६ ।।
सूक्ष्मस्थूलशरीराभ्यां चिदाभाभ्यामविद्यया ।।
संवृतः परमेशोऽपि त्रैलोक्यात्माग्निरूच्यते ।। १५७ ।।
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। १५८ ।।
विराडदेहावनद्धोऽसुरध्यात्माद्याधिगः रववत् ।।
व्यष्टितामेति तद्धीनः समष्टित्वेन तिष्ठति ।। १५९ ।।
उर्व्यामुत्पादितायां तु श्रमात्तापात्प्रजापतेः ।।
निरवर्ततेवास्याऽऽत्सा परिच्छेदाभिमानतः ।। १६० ।।
स्थूलदेहपरिच्छिन्नः स एवाऽऽद्यः प्रजापतिः ।।
अग्निरेष यतस्तस्मादुपास्योऽयं प्रयत्नतः ।। १६१ ।।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत ।। १६२ ।।
अनुपारल्यतनुः सोऽयंं व्यवहारप्रसिद्धये ।।
आत्मानं व्यभजत्स्थूलैस्रिधा वाय्वग्निभानुभिः ।। १६३ ।।
स्वरूपानुपमर्देन स विराड्देवतात्मभिः ।।
उपासनादिसिद्ध्यर्थमात्मानं व्यभजत्स्वयम् ।। १६४ ।।
मूलात्मैव त्रिधाऽऽत्मानमभिनत्स प्रजापतिः ।।
इत्यस्य प्रतिपत्त्यर्थे स एष इति भण्यते ।। १६५ ।।
तस्य प्रथमजस्यागेर्विराजोऽर्कस्य वाजिवत् ।।
दर्शनस्य विधानार्थं तस्य प्राचीति कीर्त्यते ।। १६६ ।।
यस्मात्कारणमुलङ्ध्य कार्यं नान्यत्र वर्तते ।।
अप्सु कारणभूतासु तस्मादग्निः प्रतिष्ठितः ।। १६७ ।।
अप्प्रतिष्ठागुणं देवमुपास्ते योऽनिशं नरः ।।
यत्र क्व चैति तत्रासौ प्रतिष्ठां लभते शूभाम् ।। १६८ ।।
योऽबादिपरिपाठ्यैवं विराजमसृजत्स्वयम् ।।
कीदृग्व्यापारसंयुक्तः सोऽस्राक्षीदिति भण्यते ।। १६९ ।।
अत्तृसर्गोऽथवोक्तः प्रागन्नसर्गोऽधुनोच्यते ।।
अशनायावतो यस्मान्नास्त्यन्नविरहात्स्थितिः ।। १७० ।।
त्रेधा व्यभजदात्मानमित्येतद्वा प्रदर्श्यते ।।
अग्निप्राणौ पुरैवोक्तावथ संवत्सरोद्भवः ।। १७१ ।।
मनसा ज्ञाननिर्देशस्रयी वागिति भण्यते ।।
सर्गक्रमं स वेदोक्तं ज्ञानेनाऽऽलोचयत्प्रभुः ।। १७२ ।।
ज्ञानेनाप्रतिघेनासौ वेदोक्तां सृष्टिपद्धतिम् ।।
समन्वालोचयच्छभुः सिसृक्षुर्विविधं जगत् ।। १७३ ।।
आलोच्यालोचकयोर्हि योगो मिथुनमुच्यते ।।
प्रसिद्धं मिथुनं चात्र न कथंचन युज्यते ।। १७४ ।।
अनन्तराग्निसंबन्धप्रसङ्गविनिवृत्तये ।।
अशनायेति हि प्राह मूलकारणसंगतिम् ।। १७५ ।।
जगतः प्रक्रियाबीजं यदवैषीत्पुरा गृही।।
द्वैतैकत्वात्मकं ज्ञानं कर्म च ज्ञानसंभृतम् ।।
भावना च तयोरेतत्रयं रेतोऽभिधीयते ।। १७६ ।।
सृष्ट्यालोचनहेत्वेतत्सृष्टावाविरभूद्विभोः ।।
तद्भावभाब्यपः सृष्ट्वा रेतोबीजेन स प्रभुः ।। १७७ ।।
सर्वलोकैकबीजेन गर्भ्यर्ण्डन बभूव ह ।।
अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत् ।। १७८ ।।
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।।
इत्येवं मनुनाऽप्युक्तः श्रौतोऽयं सर्गविस्तरः ।। १७९ ।।
आपो ह वा इति तथा ह्ययमेव क्रमः श्रुतौ ।।
ज्ञानकर्मादिवीजस्य गर्भ एवं प्रजापतेः ।। १८० ।।
स संवत्सरोऽभवदिति परिमाणोऽयमुच्यते ।।
अशनायादिमत्त्वात्स स्वभावबलचोदितः ।। १८१ ।।
सृष्ठ्वाऽऽद्यं घस्मरः पुत्र तमभिव्याददात्क्षुधा ।।
भिनत्ति सर्वमर्यादां नान्वयाद्यप्यपेक्षते ।। १८२ ।।
अस्य दग्धोदरस्यार्थे को न कुर्यादसांप्रतम् ।। १८३ ।।
अन्न एव यतो वृत्तिरत्तुरन्नाद एव च ।।
अन्नस्य युक्तमेवातस्तमभिव्याददादिति ।। १८४ ।।
जन्मान्तरसमभ्यस्तविद्याकर्मादिहेतुतः ।।
जन्यकर्मप्रयुक्तः सञ्शिञुर्भाणित्यथाकरोत् ।। १८५ ।।
यथोक्तहेतुवशगः स्वभावप्रहितोऽप्यसुः ।।
कुमारोत्थरवत्रस्तः स्वभावं चिच्छिदे भयात् ।। १८६ ।।
अत्यन्तमपि शूराणां स्वस्वभावैकहेतुतः ।।
तित्तिरादिसमुत्पाते वेपथुर्जायते भयात् ।। १८७ ।।
एवं स शिशुसंरावसंलब्धालोचनक्षणः ।।
ऐक्षतेह न कामार्तः कश्चिदालोचने क्षमः ।। १८८ ।।
मन्यतिश्चाभिपूर्वोऽयं हिसार्थः स्यात्प्रसिद्धितः ।।
यदीममभिहिंसिप्ये कनीयोऽन्नं भवेद्ध्रुवम् ।। १८९ ।।
कारणादल्पमेव स्यात्तद्व्याप्तेरदितिर्यतः ।।
अन्नमल्पं ततोऽप्यल्पात्कनीयोऽन्नं भवेदतः ।। १९० ।।
लोकेऽपीदं सुप्रसिद्धमाङ्गनाबालपण्डितम् ।।
जग्धनिःशेषवीजस्य तत्फलं नाऽऽप्यतेऽण्वणि १९१ ।।
कुमारवक्त्रोद्नतया वाचर्गादीन्ससर्ज सः ।।
पश्वादींश्च कुमारेण ह्यात्मनाऽजीजनज्जमत् ।। १९२ ।।
स्रष्ट्रत्रोः कार्यभक्ष्याभ्यामन्योन्याव्यतिरेकतः।।
स्रष्ट्टत्वात्स सृजत्येव रवाद्यतेऽन्नं सदाऽऽद्यतः।। १९३ ।।
सर्वमत्ति यतः सृष्टं तस्माददितिरुच्यते ।।
नामज्ञस्तमुपासीनः सर्वस्यात्ताऽदितिर्भवेत् ।। १९४ ।।
सर्वात्तृत्वेन सिद्धेऽर्थे सर्वान्नोक्तिः किमीर्यते ।।
अन्नमेव भवेदन्नं नान्नमत्रस्य कुत्रचित् ।। १९५ ।।
प्राणात्माऽत्तैव सोऽवश्यमुपासनवलाद्भवेत् ।।
य एवमभिधानज्ञ उपासीतादितिं सदा ।। १९६ ।।
अश्वाश्वमेधनाम्नोऽथ कारणप्रतिपत्तये ।।
सोऽकामयत इत्यादिः परो ग्रन्थोऽवतार्यते ।। १९७ ।।
यज्ञेन भूयसा यक्ष्य इत्येवं स प्रजापतिः ।।
अश्वमेधो भवेद्भूयान्भूयोदक्षिणको हि सः ।। १९८ ।।
यजेय भूयोऽपीत्येवमकामयत भावितः।।
क्रत्वात्मेत्यभिमानेद्धः पूर्वजन्मन्यभूत्प्रभुः ।। १९९ ।।
पूर्वजन्माभिनिर्वृत्तप्रयोगापेक्षयोच्यते ।।
भूयो यजेयेति वचः सदा तद्भावभावनात् ।। २०० ।।
क्रत्वात्मैवाभिसंपन्नो द्वैतैकत्वात्मकः प्रभुः ।।
इह तत्फलतां यातो भूयोवाग्युज्यते ततः ।। २०१ ।।
कारणप्रवणं सर्वं कार्यं दृष्टं जगत्यपि ।।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। २०२ ।।
यशोवीर्यैकहेतुत्वात्प्राणा यश इहेष्यताम् ।।
यशः प्रकाशरूपेण वीर्यं तद्बलहेतुतः ।। २०३ ।।
उदक्रामद्यशो वीर्यं विराजः श्रमकर्शितात् ।।
लिङ्गात्मेह यशो वीर्यमुभयं हि तदुद्भवम् ।। २०४ ।।
पूर्वदेेहेऽभिषङ्गोऽभूदपविद्धतनोरपि ।।
सङ्गत्यागो ह्यसंभाव्यो विनैकात्म्याववोधनात् ।। २०५ ।।
जातदेहाभिषङ्गः सस्तादात्म्यप्रतिपित्सया ।।
मेध्यमित्यादिकं कामं सोऽकामयत कामुकः ।। २०६ ।।
अपविद्धयशोवीर्ये शरीरं कवियोगतः ।।
यतोऽश्वयदतोऽश्वोऽसुः संवृत्तः स प्रजापतिः ।। २०७ ।।
व्यपेतसद्यशोवीर्यममेध्यं मेध्यतामगात् ।।
तत्प्रवेशाद्यतोऽतोऽयमश्चमेधोऽभवत्प्रभुः।। २०८ ।।
अश्वाश्वमेधावेवं च प्राजापत्यात्मनाऽञ्जसा ।।
अभिष्टुतौ कथं नाम भवेतामिति भण्यते ।। २०९ ।।
काललोकादिवपुषस्त्वश्चस्याग्नेश्च सांप्रतम् ।।
समस्योपासनं वाच्यमित्यर्थो ग्रन्थ उत्तरः ।। २१० ।।
विधायकपदाभावादसंगानं परस्परम् ।।
पदानामिति मा प्रापदित्यर्थेयं परा श्रुतिः ।। २११ ।।
एष एवं यथातत्त्वमश्वमेधं विवेद यः ।।
वक्ष्यमाणेन रूपेण वेद विद्यादतस्तथा ।। २१२ ।।
आत्मानमश्वं संकल्प्य काललोकादिधर्मिणम् ।।
तथाविधशरीरः सन्सर्वलोकपितामहः ।। २१३ ।।
यजेयमश्वमेधेन भूयोऽपीत्यभ्यमन्यत ।।
भूर्लोकाद्यात्मकं सोऽश्वमात्मानं निरवग्रहम् ।। २१४ ।।
यावदब्द मुमोचाश्वं स्वच्छन्दं मुक्तबन्धनम् ।।
ततः संवत्सरादूर्ध्वं तं चाप्यालभताऽऽत्मने ।। २१५ ।।
स्वात्मावयवभूताभ्यो देवताभ्यो यथायथम् ।।
ग्राम्यारण्यान्पशून्प्रादादन्याभ्यः स प्रजापतिः ।। २१६ ।।
यतोऽकरोद्विराडेवं तस्मादेवेह याज्ञिकाः ।।
प्रोक्षितं सर्वदेवत्यं प्राजापत्यं तुरंगमम् ।। २१७ ।।
आलभन्ते यतस्तस्माद्यथाव्याख्याततत्त्ववित् ।।
कुर्यादेवं यथोक्तार्थं मृत्युत्वप्रतिपित्सया ।। २१८ ।।
कर्मोपासनमुक्त्वाऽथ तत्फलोपदिदिक्षया ।।
एष वा इति यत्नेन ह्याजगामोत्तरा श्रुतिः ।। २१९ ।।
दर्शनाद्यभिनिर्वृत्तो यस्त्वेवं हयसाधनः ।।
प्रत्यक्षं फलरूपेण स एष इति दर्श्यते ।। २२० ।।
अश्वमेधक्रियापूर्वपरिणामैकवर्त्मना ।।
अश्वमेधो रविः साक्षादुषा इत्यादिनोदितः ।। २२१ ।।
तस्य संवत्सर आत्मा तस्याऽऽदित्यैकहेतुतः ।।
तस्य क्रत्वात्मनश्चित्यो योऽङ्गभूतः पुरोदितः ।। २२२ ।।
फलात्मकः स एवैष पार्थिवोऽग्निः प्रदर्श्यते ।।
आत्मान एते तस्यापि त्रयो लोका यथोदिता ।। २२३ ।।
क्रतुतत्साधनात्मानावादित्याग्नाी यथोदितौ ।।
निर्वृत्तात्माधिकारौ तावेकैवासौ भवेदसुः ।। २२४ ।।
अशनायावती योक्ता मृत्युः सर्वान्नघस्मरा ।।
सैवाऽऽत्मा विदुषः साक्षादात्मा स्यादजरोऽमरः ।। २२५ ।।
नैनमाध्यात्मिको मृत्युस्तन्मृत्युत्वादवाप्नुयात् ।।
सकृन्मृत्वाऽसुदेहेन मुच्यते सर्वबन्धनात् ।। २२६ ।।
अग्न्यादिभेदभिन्नानां देवतानामशेषतः ।।
आत्माऽभिन्नो भवत्येष यथोक्तोपासनादुधः ।। २२७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयमश्वमेधब्राह्मणम्