बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
‘द्वया ह’ इत्याद्यस्य कः सम्बन्धः ? कर्मणां ज्ञानसहितानां परा गतिरुक्ता मृत्य्वात्मभावः, अश्वमेधगत्युक्त्या । अथेदानीं मृत्य्वात्मभावसाधनभूतयोः कर्मज्ञानयोर्यत उद्भवः, तत्प्रकाशनार्थमुद्गीथब्राह्मणमारभ्यते ॥
ननु मृत्य्वात्मभावः पूर्वत्र ज्ञानकर्मणोः फलमुक्तम् । उद्गीथज्ञानकर्मणोस्तु मृत्य्वात्मभावातिक्रमणं फलं वक्ष्यति । अतो भिन्नविषयत्वात्फलस्य न पूर्वकर्मज्ञानोद्भवप्रकाशनार्थम् इति चेत् , नायं दोषः ; अग्न्यादित्यात्मभावत्वादुद्गीथफलस्य ; पूर्वत्राप्येतदेव फलमुक्तम् — ‘एतासां देवतानामेको भवति’ इति । ननु ‘मृत्युमतिक्रान्तः’ इत्यादि विरुद्धम् ; न, स्वाभाविकपाप्मासङ्गविषयत्वादतिक्रमणस्य ॥
कोऽसौ स्वाभाविकः पाप्मासङ्गो मृत्युः ? कुतो वा तस्योद्भवः ? केन वा तस्यातिक्रमणम् ? कथं वा ? — इत्येतस्यार्थस्य प्रकाशनाय आख्यायिका आरभ्यते । कथम् ? —
द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति ॥ १ ॥
द्वया द्विप्रकाराः ; हेति पूर्ववृत्तावद्योतको निपातः ; वर्तमानप्रजापतेः पूर्वजन्मनि यद्वृत्तम् , तदवद्योतयति ह - शब्देन ; प्राजापत्याः प्रजापतेर्वृत्तजन्मावस्थस्यापत्यानि प्राजापत्याः ; के ते ? देवाश्चासुराश्च ; तस्यैव प्रजापतेः प्राणा वागादयः ; कथं पुनस्तेषां देवासुरत्वम् ? उच्यते — शास्त्रजनितज्ञानकर्मभाविता द्योतनाद्देवा भवन्ति ; त एव स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः, स्वेष्वेवासुषु रमणात् , सुरेभ्यो वा देवेभ्योऽन्यत्वात् । यस्माच्च दृष्टप्रयोजनज्ञानकर्मभाविता असुराः, ततः तस्मात् , कानीयसाः, कनीयांस एव कानीयसाः, स्वार्थेऽणि वृद्धिः ; कनीयांसोऽल्पा एव देवाः ; ज्यायसा असुरा ज्यायांसोऽसुराः ; स्वाभाविकी हि कर्मज्ञानप्रवृत्तिर्महत्तरा प्राणानां शास्त्रजनितायाः कर्मज्ञानप्रवृत्तेः, दृष्टप्रयोजनत्वात् ; अत एव कनीयस्त्वं देवानाम् , शास्त्रजनितप्रवृत्तेरल्पत्वात् ; अत्यन्तयत्नसाध्या हि सा ; ते देवाश्चासुराश्च प्रजापतिशरीरस्थाः, एषु लोकेषु निमित्तभूतेषु स्वाभाविकेतरकर्मज्ञानसाध्येषु, अस्पर्धन्त स्पर्धां कृतवन्तः ; देवानां चासुराणां च वृत्त्युद्भवाभिभवौ स्पर्धा । कदाचित्छास्त्रजनितकर्मज्ञानभावनारूपावृत्तिः प्राणानामुद्भवति । यदा चोद्भवति, तदा दृष्टप्रयोजना प्रत्यक्षानुमानजनितकर्मज्ञानभावनारूपा तेषामेव प्राणानां वृत्तिरासुर्यभिभूयते । स देवानां जयः, असुराणां पराजयः । कदाचित्तद्विपर्ययेण देवानां वृत्तिरभिभूयते, आसुर्या उद्भवः । सोऽसुराणां जयः, देवानां पराजयः । एवं देवानां जये धर्मभूयस्त्वादुत्कर्ष आ प्रजापतित्वप्राप्तेः । असुरजयेऽधर्मभूयस्त्वादपकर्ष आ स्थावरत्वप्राप्तेः । उभयसाम्ये मनुष्यत्वप्राप्तिः । त एवं कनीयस्त्वादभिभूयमाना असुरैर्देवा बाहूल्यादसुराणां किं कृतवन्त इति, उच्यते — ते देवाः, असुरैरभिभूयमानाः, ह किल, ऊचुः उक्तवन्तः ; कथम् ? हन्त! इदानीम् , अस्मिन्यज्ञे ज्योतिष्टोमे, उद्गीथेन उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणेन, अत्ययाम अतिगच्छामः ; असुरानभिभूय स्वं देवभावं शास्त्रप्रकाशितं प्रतिपद्यामहे इत्युक्तवन्तोऽन्योन्यम् । उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणं च ज्ञानकर्मभ्याम् । कर्म वक्ष्यमाणं मन्त्रजपलक्षणम् , विधित्स्यमानम् — ‘तदेतानि जपेत्’ (बृ. उ. १ । ३ । २८) इति । ज्ञानं त्विदमेव निरूप्यमाणम् ॥
नन्विदमभ्यारोहजपविधिशेषोऽर्थवादः, न ज्ञाननिरूपणपरम् । न, ‘य एवं वेद’ (बृ. उ. १ । ३ । ७) इति वचनात् । उद्गीथप्रस्तावे पुराकल्पश्रवणादुद्गीथविधिपरमिति चेत् , न, अप्रकरणात् ; उद्गीथस्य चान्यत्र विहितत्वात् ; विद्याप्रकरणत्वाच्चास्य ; अभ्यारोहजपस्य चानित्यत्वात् एवंवित्प्रयोज्यत्वात् , विज्ञानस्य च नित्यवच्छ्रवणात् ; ‘तद्धैतल्लोकजिदेव’ (बृ. उ. १ । ४ । २८) इति च श्रुतेः ; प्राणस्य वागादीनां च शुद्ध्यशुद्धिवचनात् ; न ह्यनुपास्यत्वे — प्राणस्य शुद्धिवचनम् , वागादीनां च सहोपन्यस्तानामशुद्धिवचनम् , वागादिनिन्दया मुख्यप्राणस्तुतिश्चाभिप्रेता, — उपपद्यते — ‘मृत्युमतिक्रान्तो दीप्यते’ (बृ. उ. १ । ३ । २७) इत्यादि फलवचनं च । प्राणस्वरूपापत्तेर्हि फलं तत् , यद्वागाद्यग्न्यादिभावः ॥
भवतु नाम प्राणस्योपासनम् , न तु विशुद्ध्यादिगुणवत्तेति ; ननु स्याच्छ्रुतत्वात् ; न स्यात् , उपास्यत्वे स्तुत्यर्थत्वोपपत्तेः । न ; अविपरीतार्थप्रतिपत्तेः श्रेयःप्राप्त्युपपत्तेः, लोकवत् । यो ह्यविपरीतमर्थं प्रतिपद्यते लोके, स इष्टं प्राप्नोत्यनिष्टाद्वा निवर्तते, न विपरीतार्थप्रतिपत्त्या ; तथेहापि श्रौतशब्दजनितार्थप्रतिपत्तौ श्रेयःप्राप्तिरुपपन्ना, न विपर्यये । न चोपासनार्थश्रुतशब्दोत्थविज्ञानविषयस्यायथार्थत्वे प्रमाणमस्ति । न च तद्विज्ञानस्यापवादः श्रूयते । ततः श्रेयःप्राप्तिदर्शनाद्यथार्थतां प्रतिपद्यामहे । विपर्यये चानर्थप्राप्तिदर्शनात् — यो हि विपर्ययेणार्थं प्रतिपद्यते लोके — पुरुषं स्थाणुरिति, अमित्रं मित्रमिति वा, सोऽनर्थं प्राप्नुवन्दृश्यते । आत्मेश्वरदेवतादीनामप्ययथार्थानामेव चेद्ग्रहणं श्रुतितः, अनर्थप्राप्त्यर्थं शास्त्रमिति ध्रुवं प्राप्नुयाल्लोकवदेव ; न चैतदिष्टम् । तस्माद्यथाभूतानेवात्मेश्वरदेवतादीन्ग्राहयत्युपासनार्थं शास्त्रम् । नामादौ ब्रह्मदृष्टिदर्शनादयुक्तमिति चेत् , स्फुटं नामादेरब्रह्मत्वम् ; तत्र ब्रह्मदृष्टिं स्थाण्वादाविव पुरुषदृष्टिं विपरीतां ग्राहयच्छास्त्रं दृश्यते ; तस्माद्यथार्थमेव शास्त्रतः प्रतिपत्तेः श्रेय इत्ययुक्तमिति चेत् , न ; प्रतिमावद्भेदप्रतिपत्तेः । नामादावब्रह्मणि ब्रह्मदृष्टिं विपरीतां ग्राहयति शास्त्रम् , स्थाण्वादाविव पुरुषदृष्टिम् — इति नैतत्साध्ववोचः । कस्मात् ? भेदेन हि ब्रह्मणो नामादिवस्तु प्रतिपन्नस्य नामादौ विधीयते ब्रह्मदृष्टिः, प्रतिमादाविव विष्णुदृष्टिः । आलम्बनत्वेन हि नामादिप्रतिपत्तिः, प्रतिमादिवदेव, न तु नामाद्येव ब्रह्मेति । यथा स्थाणावनिर्ज्ञाते, न स्थाणुरिति, पुरुष एवायमिति प्रतिपद्यते विपरीतम् , न तु तथा नामादौ ब्रह्मदृष्टिर्विपरीता ॥
ब्रह्मदृष्टिरेव केवला, नास्ति ब्रह्मेति चेत् ; — एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिदृष्टीनां तुल्यता — न, ऋगादिषु पृथिव्यादिदृष्टिदर्शनात् , विद्यमानपृथिव्यादिवस्तुदृष्टीनामेव ऋगादिविषये प्रक्षेपदर्शनात् । तस्मात्तत्सामान्यान्नामादिषु ब्रह्मादिदृष्टीनां विद्यमानब्रह्मादिविषयत्वसिद्धिः । एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिबुद्धीनां च सत्यवस्तुविषयत्वसिद्धिः । मुख्यापेक्षत्वाच्च गौणत्वस्य ; पञ्चाग्न्यादिषु चाग्नित्वादेर्गौणत्वान्मुख्याग्न्यादिसद्भाववत् , नामादिषु ब्रह्मत्वस्य गौणत्वान्मुख्यब्रह्मसद्भावोपपत्तिः ॥
क्रियार्थैश्चाविशेषाद्विद्यार्थानाम् । यथा च, दर्शपूर्णमासादिक्रिया इदम्फला विशिष्टेतिकर्तव्यताका एवंक्रमप्रयुक्ताङ्गा च — इत्येतदलौकिकं वस्तु प्रत्यक्षाद्यविषयं तथाभूतं च वेदवाक्यैरेव ज्ञाप्यते ; तथा, परमात्मेश्वरदेवतादिवस्तु अस्थूलादिधर्मकमशनायाद्यतीतं चेत्येवमादिविशिष्टमिति वेदवाक्यैरेव ज्ञाप्यते — इति अलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति । न च क्रियार्थैर्वाक्यैर्ज्ञानवाक्यानांु बुद्ध्युत्पादकत्वे विशेषोऽस्ति । न चानिश्चिता विपर्यस्ता वा परमात्मादिवस्तुविषया बुद्धिरुत्पद्यते । अनुष्ठेयाभावादयुक्तमिति चेत् , क्रियार्थैर्वाक्यैः त्र्यंशा भावनानुष्ठेया ज्ञाप्यतेऽलौकिक्यपि ; न तथा परमात्मेश्वरादिविज्ञानेऽनुष्ठेयं किञ्चिदस्ति ; अतः क्रियार्थैः साधर्म्यमित्ययुक्तमिति चेत् , न ; ज्ञानस्य तथाभूतार्थविषयत्वात् । न ह्यनुष्ठेयस्य त्र्यंशस्य भावनाख्यस्यानुष्ठेयत्वात्तथात्वम् ; किं तर्हि ? प्रमाणसमधिगतत्वात् । न च तद्विषयाया बुद्धेरनुष्ठेयविषयत्वात्तथार्थत्वम् ; किं तर्हि ? वेदवाक्यजनितत्वादेव । वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सति, अनुष्ठेयत्वविशिष्टं चेत् अनुतिष्ठति ; नो चेदनुष्ठेयत्वविशिष्टम् , नानुतिष्ठति । अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति चेत् , न ह्यनुष्ठेयेऽसति पदानां संहतिरुपपद्यते ; अनुष्ठेयत्वे तु सति तादर्थ्येन पदानि संहन्यन्ते ; तत्रानुष्ठेयनिष्ठं वाक्यं प्रमाणं भवति — इदमनेनैवं कर्तव्यमिति ; न त्विदमनेनैवमित्येवंप्रकाराणां पदशतानामपि वाक्यत्वमस्ति, — ‘कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्’ इत्येवमादीनामन्यतमेऽसति ; अतः परमात्मेश्वरादीनामवाक्यप्रमाणत्वम् ; पदार्थत्वे च प्रमाणान्तरविषयत्वम् ; अतोऽसदेतदिति चेत् , न ; ‘अस्ति मेरुर्वर्णचतुष्टयोपेतः’ इति एवमाद्यननुष्ठेयेऽपि वाक्यदर्शनात् । न च, ‘मेरुर्वर्णचतुष्टयोपेतः’ इत्येवमादिवाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुद्धिरुत्पद्यते । तथा अस्तिपदसहितानां परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेषणविशेष्यभावेन संहतिः केन वार्यते । मेर्वादिज्ञानवत्परमात्मज्ञाने प्रयोजनाभावादयुक्तमिति चेत् , न ; ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘भिद्यते हृदयग्रन्थि’ (मु. उ. २ । २ । ८) इति फलश्रवणात् , संसारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च । अनन्यशेषत्वाच्च तज्ज्ञानस्य, जुह्वामिव, फलश्रुतेरर्थवादत्वानुपपत्तिः ॥
प्रतिषिद्धानिष्टफलसम्बन्धश्च वेदादेव विज्ञायते । न चानुष्ठेयः सः । न च प्रतिषिद्धविषये प्रवृत्तक्रियस्य अकरणादन्यदनुष्ठेयमस्ति । अकर्तव्यताज्ञाननिष्ठतैव हि परमार्थतः प्रतिषेधविधीनां स्यात् । क्षुधार्तस्य प्रतिषेधज्ञानसंस्कृतस्य, अभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलञ्जाभिशस्तान्नादौ ‘इदं भक्ष्यम्’ ‘अदो भोज्यम्’ इति वा ज्ञानमुत्पन्नम् , तद्विषयया प्रतिषेधज्ञानस्मृत्या बाध्यते ; मृगतृष्णिकायामिव पेयज्ञानं तद्विषययाथात्म्यविज्ञानेन । तस्मिन्बाधिते स्वाभाविकविपरीतज्ञानेऽनर्थकरी तद्भक्षणभोजनप्रवृत्तिर्न भवति । विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेव, न पुनर्यत्नः कार्यस्तदभावे । तस्मात्प्रतिषेधविधीनां वस्तुयाथात्म्यज्ञाननिष्ठतैव, न पुरुषव्यापारनिष्ठतागन्धोऽप्यस्ति । तथेहापि परमात्मादियाथात्म्यज्ञानविधीनां तावन्मात्रपर्यवसानतैव स्यात् । तथा तद्विज्ञानसंस्कृतस्य, तद्विपरीतार्थज्ञाननिमित्तानां प्रवृत्तीनाम् , अनर्थार्थत्वेन ज्ञायमानत्वात् परमात्मादियाथात्म्यज्ञानस्मृत्या स्वाभाविके तन्निमित्तविज्ञाने बाधिते, अभावः स्यात् । ननु कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभाविके तद्भक्ष्यत्वादिविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृत्त्यभाववत् , अप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेत् , न ; विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात् । कलञ्जभक्षणादिप्रवृत्तेर्मिथ्याज्ञाननिमित्तत्वमनर्थार्थत्वं च यथा, तथा शास्त्रविहितप्रवृत्तीनामपि । तस्मात्परमात्मयाथात्म्यविज्ञानवतः शास्त्रविहितप्रवृत्तीनामपि, मिथ्याज्ञाननिमित्तत्वेनानर्थार्थत्वेन च तुल्यत्वात् , परमात्मज्ञानेन विपरीतज्ञाने निवर्तिते, युक्त एवाभावः । ननु तत्र युक्तः ; नित्यानां तु केवलशास्त्रनिमित्तत्वादनर्थार्थत्वाभावाच्च अभावो न युक्त इति चेत् , न ; अविद्यारागद्वेषादिदोषवतो विहितत्वात् । यथा स्वर्गकामादिदोषवतो दर्शपूर्णमासादीनि काम्यानि कर्माणि विहितानि, तथा सर्वानर्थबीजाविद्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहाररागद्वेषादिदोषवतश्च तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिनो नित्यानि कर्माणि विधीयन्ते ; न केवलं शास्त्रनिमित्तान्येव । न चाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां कर्मणां स्वतः काम्यनित्यत्वविवेकोऽस्ति । कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता ; तथा अविद्यादिदोषवतः स्वभावप्राप्तेष्टानिष्टप्राप्तिपरिहारार्थिनस्तदर्थान्येव नित्यानि — इति युक्तम् ; तं प्रति विहितत्वात् । न परमात्मयाथात्म्यविज्ञानवतः शमोपायव्यतिरेकेण किञ्चित्कर्म विहितमुपलभ्यते । कर्मनिमित्तदेवतादिसर्वसाधनविज्ञानोपमर्देन ह्यात्मज्ञानं विधीयते । न चोपमर्दितक्रियाकारकादिविज्ञानस्य कर्मप्रवृत्तिरुपपद्यते, विशिष्टक्रियासाधनादिज्ञानपूर्वकत्वात्क्रियाप्रवृत्तेः । न हि देशकालाद्यनवच्छिन्नास्थूलाद्वयादिब्रह्मप्रत्ययधारिणः कर्मावसरोऽस्ति । भोजनादिप्रवृत्त्यवसरवत्स्यादिति चेत् , न ; अविद्यादिकेवलदोषनिमित्तत्वाद्भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तेः । न तु, तथा अनियतं कदाचित्क्रियते कदाचिन्न क्रियते चेति, नित्यं कर्मोपपद्यते । केवलदोषनिमित्तत्वात्तु भोजनादिकर्मणोऽनियतत्वं स्यात् , दोषोद्भवाभिभवयोरनियतत्वात् , कामानामिव काम्येषु । शास्त्रनिमित्तकालाद्यपेक्षत्वाच्च नित्यानामनियतत्वानुपपत्तिः ; दोषनिमित्तत्वे सत्यपि, यथा काम्याग्निहोत्रस्य शास्त्रविहितत्वात्सायम्प्रातःकालाद्यपेक्षत्वम् , एवम् । तद्भोजनादिप्रवृत्तौ नियमवत्स्यादिति चेत् , न ; नियमस्य अक्रियात्वात् क्रियायाश्चाप्रयोजनकत्वात् नासौ ज्ञानस्यापवादकरः । तस्मात् , परमात्मयाथात्म्यज्ञानविधेरपि तद्विपरीतस्थूलद्वैतादिज्ञाननिवर्तकत्वात् सामर्थ्यात्सर्वकर्मप्रतिषेधविध्यर्थत्वं सम्पद्यते कर्मप्रवृत्त्यभावस्य तुल्यत्वात् , यथा प्रतिषेधविषये । तस्मात् , प्रतिषेधविधिवच्च, वस्तुप्रतिपादनं तत्परत्वं च सिद्धं शास्त्रस्य ॥
ते ह वाचमूचुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणं वदति तदात्मने । ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २ ॥
ते देवाः, ह एवं विनिश्चित्य, वाचं वागभिमानिनीं देवताम् , ऊचुः उक्तवन्तः ; त्वम् , नः अस्मभ्यम् , उद्गाय औद्गात्रं कर्म कुरुष्व ; वाग्देवतानिर्वर्त्यमौद्गात्रं कर्म दृष्टवन्तः, तामेव च देवतां जपमन्त्राभिधेयाम् — ‘असतो मा सद्गमय’ इति । अत्र चोपासनायाः कर्मणश्च कर्तृत्वेन वागादय एव विवक्ष्यन्ते । कस्मात् ? यस्मात्परमार्थतस्तत्कर्तृकस्तद्विषय एव च सर्वो ज्ञानकर्मसंव्यवहारः । वक्ष्यति हि ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यात्मकर्तृकत्वाभावं विस्तरतः षष्ठे । इहापि च अध्यायान्ते उपसंहरिष्यति अव्याकृतादिक्रियाकारकफलजातम् — ‘त्रयं वा इदं नाम रूपं कर्म’ (बृ. उ. १ । ६ । १) इति — अविद्याविषयम् । अव्याकृतात्तु यत्परं परमात्माख्यं विद्याविषयम् अनामरूपकर्मात्मकम् , ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति इतरप्रत्याख्यानेनोपसंहरिष्यति पृथक् । यस्तु वागादिसमाहारोपाधिपरिकल्पितः संसार्यात्मा, तं च वागादिसमाहारपक्षपातिनमेव दर्शयिष्यति — ‘एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ (बृ. उ. २ । ४ । १२) इति तस्माद्युक्ता वागादीनामेव ज्ञानकर्मकर्तृत्वफलप्राप्तिविवक्षा । तथेति तथास्त्विति, देवैरुक्ता वाक् तेभ्यः अर्थिभ्यः अर्थाय, उदगायत् उद्गानं कृतवती । कः पुनरसौ देवेभ्योऽर्थायोद्गानकर्मणा वाचा निर्वर्तितः कार्यविशेष इति, उच्यते — यो वाचि — निमित्तभूतायाम् — वागादिसमुदायस्य य उपकारो निष्पद्यते वदनादिव्यापारेण, स एव । सर्वेषां ह्यसौ वाग्वदनाभिनिर्वृत्तो भोगः फलम् । तं भोगं सा त्रिषु पवमानेषु कृत्वा अवशिष्टेषु नवसु स्तोत्रेषु वाचनिकमार्त्विज्यं फलम् — यत्कल्याणं शोभनम् , वदति वर्णानभिनिर्वर्तयति, तत् — आत्मने मह्यमेव । तद्ध्यसाधारणं वाग्देवातायाः कर्म, यत्सम्यग्वर्णानामुच्चारणम् ; अतस्तदेव विशेष्यते — ‘यत्कल्याणं वदति’ इति । यत्तु वदनकार्यं सर्वसङ्घातोपकारात्मकम् , तद्याजमानमेव । तत्र कल्याणवदनात्मसम्बन्धासङ्गावसरं देवताया रन्ध्रं प्रतिलभ्य ते विदुः असुराः ; कथम् ? अनेनोद्गात्रा, नः अस्मान् , स्वाभाविकं ज्ञानं कर्म च, अभिभूय अतीत्य, शास्त्रजनितकर्मज्ञानरूपेण ज्योतिषोद्गात्रात्मना अत्येष्यन्ति अतिगमिष्यन्ति — इत्येवं विज्ञाय, तमुद्गातारम् , अभिद्रुत्य अभिगम्य, स्वेन आसङ्गलक्षणेन पाप्मना अविध्यन् ताडितवन्तः संयोजितवन्त इत्यर्थः । स यः स पाप्मा — प्रजापतेः पूर्वजन्मावस्थस्य वाचि क्षिप्तः स एष प्रत्यक्षीक्रियते — कोऽसौ ? यदेवेदमप्रतिरूपम् अननुरूपं शास्त्रप्रतिषिद्धं वदति, येन प्रयुक्तोऽसभ्यबीभत्सानृताद्यनिच्छन्नपि वदति ; अनेन कार्येणाप्रतिरूपवदनेनानुगम्यमानः प्रजापतेः कार्यभूतासु प्रजासु वाचि वर्तते ; स एवाप्रतिरूपवदनेनानुमितः, स प्रजापतेर्वाचि गतः पाप्मा ; कारणानुविधायि हि कार्यमिति ॥
अथ ह प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भोगस्तं
अथ ह प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य: प्राण उदगायद्यः प्राणे भोगस्तं देवेभ्य आगायद्यत्कल्याणं जिघ्रति तदात्मने । ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥ ३ ॥
अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्यश्चक्षुरुदगायत् । यश्चक्षुषि भोगस्तं देवेभ्य आगायद्यत्कल्याणं पश्यति तदात्मने । ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ॥ ४ ॥
अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति तथेति तेभ्यः श्रोत्रमुदगायद्यः श्रोत्रे भोगस्तं देवेभ्य आगायद्यत्कल्याणं शृणोति तदात्मने । ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव स पाप्मा ॥ ५ ॥
अथ ह मन ऊचुस्त्वं न उद्गायेति तथेति तेभ्यो मन उदगायद्यो मनसि भोगस्तं देवेभ्य आगायद्यत्कल्याणं सङ्कल्पयति तदात्मने । ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाविध्यन् ॥ ६ ॥
तथैव घ्राणादिदेवता उद्गीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति क्रमेण परीक्षितवन्तः । देवानां चैतन्निश्चितमासीत् — वागादिदेवताः क्रमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसम्बन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथनिर्वर्तनासमर्थाः ; अतोऽनभिधेयाः, ‘असतो मा सद्गमय’ इत्यनुपास्याश्च ; अशुद्धत्वादितराव्यापकत्वाच्चेति । एवमु खलु, अनुक्ता अप्येतास्त्वगादिदेवताः, कल्याणाकल्याणकार्यदर्शनात् , एवं वागादिवदेव, एनाः, पाप्मना अविध्यन् पाप्मना विद्धवन्त इति यदुक्तं तत्पाप्मभिरुपासृजन् पाप्मभिः संसर्गं कृतवन्त इत्येतत् ॥
वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणाः सन्तो देवाः, क्रमेण —
अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविव्यत्सन्स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥
अथ अनन्तरम् , ह इममित्यभिनयप्रदर्शनार्थम् , आसन्यम् आस्ये भवमासन्यं मुखान्तर्बिलस्थं प्राणमूचुः — ‘त्वं न उद्गाय’ इति । तथेत्येवं शरणमुपगतेभ्यः स एष प्राणो मुख्य उदगायत् इत्यादि पूर्ववत् । पाप्मना अविव्यत्सन् वेधनं कर्तुमिष्टवन्तः, ते च दोषासंसर्गिणं सन्तं मुख्यं प्राणम् , स्वेन आसङ्गदोषेण वागादिषु लब्धप्रसरास्तदभ्यासानुवृत्त्या, संस्रक्ष्यमाणा विनेशुः विनष्टा विध्वस्ताः ; कथमिवेति दृष्टान्त उच्यते — स यथा स दृष्टान्तो यथा — लोके अश्मानं पाषाणम् , ऋत्वा गत्वा प्राप्य, लोष्टः पांसुपिण्डः, पाषाणचूर्णनायाश्मनि निक्षिप्तः स्वयं विध्वंसेत विस्रंसेत विचूर्णीभवेत् ; एवं हैव यथायं दृष्टान्त एवमेव, विध्वंसमाना विशेषेण ध्वंसमानाः, विष्वञ्चः नानागतयः, विनेशुः विनष्टाः, यतः ; — ततः तस्मादासुरविनाशाद्देवत्वप्रतिबन्धभूतेभ्यः स्वाभाविकासङ्गजनितपाप्मभ्यो वियोगात् , असंसर्गधर्मिमुख्यप्राणाश्रयबलात् , देवाः वागादयः प्रकृताः, अभवन् ; किमभवन् ? स्वं देवतारूपमग्न्याद्यात्मकं वक्ष्यमाणम् । पूर्वमप्यग्न्याद्यात्मका एव सन्तः स्वाभाविकेन पाप्मना तिरस्कृतविज्ञानाः पिण्डमात्राभिमाना आसन् । ते तत्पाप्मवियोगादुज्झित्वा पिण्डमात्राभिमानं शास्त्रसमर्पितवागाद्यग्न्याद्यात्माभिमाना बभूवुरित्यर्थः । किञ्च ते प्रतिपक्षभूता असुराः परा — अभवन्नित्यनुवर्तते ; पराभूता विनष्टा इत्यर्थः । यथा पुराकल्पेन वर्णितः पूर्वयजमानोऽतिक्रान्तकालिकः एतामेवाख्यायिकारूपां श्रुतिं दृष्ट्वा, तेनैव क्रमेण वागादिदेवताः परीक्ष्य, ताश्चापोह्यासङ्गपाप्मास्पददोषवत्त्वेनादोषास्पदं मुख्यं प्राणमात्मत्वेनोपगम्य, वागाद्याध्यात्मिकपिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा, वैराजपिण्डाभिमानं वागाद्यग्न्याद्यात्मविषयं वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्नः ; तथैवायं यजमानस्तेनैव विधिना भवति प्रजापतिस्वरूपेणात्मना ; परा च, अस्य प्रजापतित्वप्रतिपक्षभूतः पाप्मा द्विषन्भ्रातृव्यः, भवति ; — यतोऽद्वेष्टापि भवति कश्चिद्भ्रातृव्यो भरतादितुल्यः ; यस्त्विन्द्रियविषयासङ्गजनितः पाप्मा, भ्रातृव्यो द्वेष्टा च, पारमार्थिकात्मस्वरूपतिरस्करणहेतुत्वात् — स च पराभवति विशीर्यते, लोष्टवत् , प्राणपरिष्वङ्गात् । कस्यैतत्फलमित्याह — य एवं वेद, यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्वयजमानवदित्यर्थः ॥
फलमुपसंहृत्याधुनाख्यायिकारूपमेवाश्रित्याह । कस्माच्च हेतोर्वागादीन्मुक्त्वा मुख्य एव प्राण आत्मत्वेनाश्रयितव्य इति तदुपपत्तिनिरूपणाय, यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मा — इत्येतमर्थमाख्यायिकया दर्शयन्त्याह श्रुतिः —
ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ ८ ॥
ते प्रजापतिप्राणाः, मुख्येन प्राणेन परिप्रापितदेवस्वरूपाः, ह ऊचुः उक्तवन्तः, फलावस्थाः ; किमित्याह — क्व न्विति वितर्के ; क्व नु कस्मिन्नु, सोऽभूत् ; कः ? यो नोऽस्मान् , इत्थम् एवम् , असक्त सञ्जितवान् देवभावमात्मत्वेनोपगमितवान् । स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम् ; लोकवदेव स्मरन्तो विचारयमाणाः कार्यकरणसङ्घाते आत्मन्येवोपलब्धवन्तः ; कथम् ? अयमास्येऽन्तरिति — आस्ये मुखे य आकाशस्तस्मिन् , अन्तः, अयं प्रत्यक्षो वर्तत इति । सर्वो हि लोको विचार्याध्यवस्यति ; तथा देवाः ।
यस्मादयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात् — स प्राणोऽयास्यः ; विशेषानाश्रयत्वाच्च असक्त सञ्जितवान्वागादीन् ; अत एवाङ्गिरसः आत्मा कार्यकरणानाम् ; कथमाङ्गिरसः ? प्रसिद्धं ह्येतत् , अङ्गानां कार्यकरणलक्षणानाम् , रसः सार आत्मेत्यर्थः ; कथं पुनरङ्गरसत्वम् ? तदपाये शोषप्राप्तेरिति वक्ष्यामः । यस्माच्चायमङ्गरसत्वाद्विशेषानाश्रयत्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च, तस्माद्वागादीनपास्य प्राण एवात्मत्वेनाश्रयितव्य इति वाक्यार्थः । आत्मा ह्यात्मत्वेनोपगन्तव्यः ; अविपरीतबोधाच्छ्रेयःप्राप्तेः, विपर्यये चानिष्टाप्राप्तिदर्शनात् ॥
सा वा एषा देवता दूर्नाम दूरं ह्यस्या मृत्युर्दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ ९ ॥
स्यान्मतं प्राणस्य विशुद्धिरसिद्धेति ; ननु परिहृतमेतद्वागादीनां कल्याणवदनाद्यासङ्गवत्प्राणस्यासङ्गास्पदाभावेन ; बाढम् ; किं त्वाङ्गिरसत्वेन वागादीनामात्मत्वोक्त्या वागादिद्वारेण शवस्पृष्टितत्स्पृष्टेरिवाशुद्धता शङ्क्यत इति । आह — शुद्ध एव प्राणः ; कुतः ? सा वा एषा देवता दूर्नाम — यं प्राणं प्राप्याश्मानमिव लोष्टवद्विध्वस्ता असुराः ; तं परामृशति — सेति ; सैवैषा, येयं वर्तमानयजमानशरीरस्था देवैर्निर्धारिता ‘अयमास्येऽन्तः’ इति ; देवता च सा स्यात् , उपासनक्रियायाः कर्मभावेन गुणभूतत्वात् ; यस्मात्सा दूर्नाम दूरित्येवं ख्याता — नामशब्दः ख्यापनपर्यायः — तस्मात्प्रसिद्धास्या विशुद्धिः, दूर्नामत्वात् ; कुतः पुनर्दूर्नामत्वमित्याह — दूरं दूरे, हि यस्मात् , अस्याः प्राणदेवतायाः, मृत्युरासङ्गलक्षणः पाप्मा ; असंश्लेषधर्मित्वात्प्राणस्य समीपस्थस्यापि दूरता मृत्योः ; तस्माद्दूरित्येवं ख्यातिः ; एवं प्राणस्य विशुद्धिर्ज्ञापिता । विदुषः फलमुच्यते — दूरं ह वा अस्मान्मृत्युर्भवति — अस्मादेवंविदः, य एवं वेद तस्मात् , एवमिति — प्रकृतं विशुद्धिगुणोपेतं प्राणमुपास्त इत्यर्थः । उपासनं नाम उपास्यार्थवादे यथा देवतादिस्वरूपं श्रुत्या ज्ञाप्यते तथा मनसोपगम्य, आसनं चिन्तनम् , लौकिकप्रत्ययाव्यवधानेन, यावत् तद्देवतादिस्वरूपात्माभिमानाभिव्यक्तिरिति लौकिकात्माभिमानवत् ; — ‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४ । १ । २) ‘किन्देवतोऽस्यां प्राच्यां दिश्यसि’ (बृ. उ. ३ । ९ । २०) इत्येवमादिश्रुतिभ्यः ॥
‘सा वा एषा देवता...दूरं ह वा अस्मान्मृत्युर्भवति’ इत्युक्तम् ; कथं पुनरेवंविदो दूरं मृत्युर्भवतीति ? उच्यते — एवंवित्त्वविरोधात् ; इन्द्रियविषयसंसर्गासङ्गजो हि पाप्मा प्राणात्माभिमानिनो हि विरुध्यते, वागादिविशेषात्माभिमानहेतुत्वात्स्वाभाविकाज्ञानहेतुत्वाच्च ; शास्त्रजनितो हि प्राणात्माभिमानः ; तस्मात् एवंविदः पाप्मा दूरं भवतीति युक्तम् , विरोधात् ; — तदेतत्प्रदर्शयति —
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयाञ्चकार तदासां पाप्मनो विन्यदधात्तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १० ॥
सा वा एषा देवतेत्युक्तार्थम् । एतासां वागादीनां देवतानाम् , पाप्मानं मृत्युम् — स्वाभाविकाज्ञानप्रयुक्तेन्द्रियविषयसंसर्गासङ्गजनितेन हि पाप्मना सर्वो म्रियते, स ह्यतो मृत्युः — तम् , प्राणात्माभिमानरूपाभ्यो देवताभ्यः, अपच्छिद्य अपहत्य, — प्राणात्माभिमानमात्रतयैव प्राणोऽपहन्तेत्युच्यते ; विरोधादेव तु पाप्मैवंविदो दूरं गतो भवति ; किं पुनश्चकार देवतानां पाप्मानं मृत्युमपहत्येत्युच्यते — यत्र यस्मिन् , आसां प्राच्यादीनां दिशाम् , अन्तः अवसानम् , तत् तत्र गमयाञ्चकार गमनं कृतवानित्येतत् । ननु नास्ति दिशामन्तः, कथमन्तं गमितवानिति ; उच्यते — श्रौतविज्ञानवज्जनावधिनिमित्तकल्पितत्वाद्दिशां तद्विरोधिजनाध्युषित एव देशो दिशामन्तः, देशान्तोऽरण्यमिति यद्वत् ; इत्यदोषः । तत्तत्र गमयित्वा, आसां देवतानाम् , पाप्मन इति द्वितीयाबहुवचनम् , विन्यदधात् विविधं न्यग्भावेनादधात्स्थापितवती, प्राणदेवता ; प्राणात्माभिमानशून्येष्वन्त्यजनेष्विति सामर्थ्यात् ; इन्द्रियसंसर्गजो हि स इति प्राण्याश्रयतावगम्यते । तस्मात्तमन्त्यं जनम् , नेयात् न गच्छेत् सम्भाषणदर्शनादिभिर्न संसृजेत् ; तत्संसर्गे पाप्मना संसर्गः कृतः स्यात् ; पाप्माश्रयो हि सः ; तज्जननिवासं चान्तं दिगन्तशब्दवाच्यम् , नेयात् — जनशून्यमपि, जनमपि तद्देशवियुक्तम् , इत्यभिप्रायः । नेदिति परिभयार्थे निपातः ; इत्थं जनसंसर्गे, पाप्मानं मृत्युम् , अन्ववायानीति — अनु अव अयानीति अनुगच्छेयमिति ; एवं भीतो न जनमन्तं चेयादिति पूर्वेण सम्बन्धः ॥
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ ११ ॥
सा वा एषा देवता — तदेतत्प्राणात्मज्ञानकर्मफलं वागादीनामग्न्याद्यात्मत्वमुच्यते । अथैना मृत्युमत्यवहत् — यस्मादाध्यात्मिकपरिच्छेदकरः पाप्मा मृत्युः प्राणात्मविज्ञानेनापहतः, तस्मात्स प्राणोऽपहन्ता पाप्मनो मृत्योः ; तस्मात्स एव प्राणः, एना वागादिदेवताः, प्रकृतं पाप्मानं मृत्युम् , अतीत्य अवहत् प्रापयत् स्वं स्वमपरिच्छिन्नमग्न्यादिदेवतात्मरूपम् ॥
स वै वाचमेव प्रथमामत्यवहत् ; सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ; सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥
स वै वाचमेव प्रथमामत्यवहत् — स प्राणः, वाचमेव, प्रथमां प्रधानामित्येतत् — उद्गीथकर्मणीतरकरणापेक्षया साधकतमत्वं प्राधान्यं तस्याः — तां प्रथमामत्यवहत् वहनं कृतवान् । तस्याः पुनर्मृत्युमतीत्योढायाः किं रूपमित्युच्यते — सा वाक् , यदा यस्मिन्काले, पाप्मानं मृत्युम् , अत्यमुच्यत अतीत्यामुच्यत मोचिता स्वयमेव, तदा सः
अग्निः अभवत् — सा वाक् — पूर्वमप्यग्निरेव सती मृत्युवियोगेऽप्यग्निरेवाभवत् । एतावांस्तु विशेषो मृत्युवियोगे — सोऽयमतिक्रान्तोऽग्निः, परेण मृत्युं परस्तान्मृत्योः, दीप्यते ; प्राङ्मोक्षान्मृत्युप्रतिबद्धोऽध्यात्मवागात्मना नेदानीमिव दीप्तिमानासीत् ; इदानीं तु मृत्युं परेण दीप्यते मृत्युवियोगात् ॥
अथ प्राणमत्यवहत् ; स यदा मृत्युमत्यमुच्यत स वायुरभवत् ; सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥
तथा — प्राणः घ्राणम् — वायुरभवत् ; स तु पवते मृत्युं परेणातिक्रान्तः । सर्वमन्यदुक्तार्थम् ॥
अथ चक्षुरत्यवहत् ; तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् ; सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४ ॥
तथा चक्षुरादित्योऽभवत् ; स तु तपति ॥
अथ श्रोत्रमत्यवहत् ; तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवंस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥
तथा श्रोत्रं दिशोऽभवन् ; दिशः प्राच्यादिविभागेनावस्थिताः ॥
अथ मनोऽत्यवहत् ; तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् ; सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १६ ॥
मनः चन्द्रमाः — भाति । यथा पूर्वयजमानं वागाद्यग्न्यादिभावेन मृत्युमत्यवहत् , एवम् एनं वर्तमानयजमानमपि, ह वै, एषा प्राणदेवता मृत्युमतिवहति वागाद्यग्न्यादिभावेन, एवं यो वागादिपञ्चकविशिष्टं प्राणं वेद ; ‘तं यथा यथोपासते तदेव भवति’ (शत. १० । ५ । २ । २०) इति श्रुतेः ॥
अथात्मनेऽन्नाद्यमागायद्यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति ॥ १७ ॥
अथात्मने । यथा वागादिभिरात्मार्थमागानं कृतम् ; तथा मुख्योऽपि प्राणः सर्वप्राणसाधारणं प्राजापत्यफलमागानं कृत्वा त्रिषु पवमानेषु, अथ अनन्तरं शिष्टेषु नवसु स्तोत्रेषु, आत्मने आत्मार्थम् , अन्नाद्यम् अन्नं च तदाद्यं च अन्नाद्यम् , आगायत् । कर्तुः कामसंयोगो वाचनिक इत्युक्तम् । कथं पुनस्तदन्नाद्यं प्राणेनात्मार्थमागीतमिति गम्यत इत्यत्र हेतुमाह — यत्किञ्चेति — सामान्यान्नमात्रपरामर्शार्थः ; हीति हेतौ ; यस्माल्लोके प्राणिभिर्यत्किञ्चिदन्नमद्यते भक्ष्यते तदनेनैव प्राणेनैव ; अन इति प्राणस्याख्या प्रसिद्धा ; अनः शब्दः सान्तः शकटवाची, यस्त्वन्यः स्वरान्तः स प्राणपर्यायः ; प्राणेनैव तदद्यत इत्यर्थः ; किञ्च, न केवलं प्राणेनाद्यत एवान्नाद्यम् , तस्मिञ्शरीराकारपरिणतेऽन्नाद्ये इह, प्रतितिष्ठति प्राणः ; तस्मात्प्राणेनात्मनः प्रतिष्ठार्थमागीतमन्नाद्यम् । यदपि प्राणेनान्नादनं तदपि प्राणस्य प्रतिष्ठार्थमेवेति न वागादिष्विव कल्याणासङ्गजपाप्मसम्भवः प्राणेऽस्ति ॥
ते देवा अब्रुवन्नेतावद्वा इदं सर्वं यदन्नं तदात्मन आगासीरनु नोऽस्मिन्नन्न आभजस्वेति ते वै माभिसंविशतेति तथेति तं समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद य उ हैवंविदं स्वेषु प्रति प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनु भवति यो वैतमनु भार्यान्बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ १८ ॥
ते देवाः । नन्ववधारणमयुक्तम् ‘प्राणेनैव तदद्यते’ इति, वागादीनामप्यन्ननिमित्तोपकारदर्शनात् ; नैष दोषः, प्राणद्वारत्वात्तदुपकारस्य । कथं प्राणद्वारकोऽन्नकृतो वागादीनामुपकार इत्येतमर्थं प्रदर्शयन्नाह — ते वागादयो देवाः, स्वविषयद्योतनाद्देवाः, अब्रुवन् उक्तवन्तो मुख्यं प्राणम् — ‘इदम् एतावत् , नातोऽधिकमस्ति ; वा इति स्मरणार्थः ; इदं तत्सर्वमेतावदेव ; किम् ? यदन्नं प्राणस्थितिकरमद्यते लोके, तत्सर्वमात्मने आत्मार्थम् , आगासीः आगीतवानसि आगानेनात्मसात्कृतमित्यर्थः ; वयं चान्नमन्तरेण स्थातुं नोत्सहामहे ; अतः अनु पश्चात् , नः अस्मान् , अस्मिन्नन्ने आत्मार्थे तवान्ने, आभजस्व आभाजयस्व ; णिचोऽश्रवणं छान्दसम् ; अस्मांश्चान्नभागिनः कुरु’ । इतर आह — ‘ते यूयं यदि अन्नार्थिनः वै, मा माम् , अभिसंविशत समन्ततो मामाभिमुख्येन निविशत’ — इति एवमुक्तवति प्राणे, तथेति एवमिति, तं प्राणं परिसमन्तं परिसमन्तात् , न्यविशन्त निश्चयेनाविशन्त, तं प्राणं परिवेष्ट्य निविष्टवन्त इत्यर्थः । तथा निविष्टानां प्राणानुज्ञया तेषां प्राणेनैवाद्यमानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति ; न स्वातन्त्र्येणान्नसम्बन्धो वागादीनाम् । तस्माद्युक्तमेवावधारणम् — ‘अनेनैव तदद्यते’ इति । तदेव चाह — तस्मात् यस्मात्प्राणाश्रयतयैव प्राणानुज्ञयाभिसन्निविष्टा वागादिदेवतास्तस्मात् , यदन्नम् , अनेन प्राणेन, अत्ति लोकः, तेनान्नेन, एता वागाद्याः, तृप्यन्ति । वागाद्याश्रयं प्राणं यो वेद — ‘वागादयश्च पञ्च प्राणाश्रयाः’ इति, तमप्येवम् , एवं ह वै, स्वा ज्ञातयः, अभिसंविशन्ति वागादय इव प्राणम् ; ज्ञातीनामाश्रयणीयो भवतीत्यभिप्रायः । अभिसन्निविष्टानां च स्वानाम् , प्राणवदेव वागादीनाम् , स्वान्नेन भर्ता भवति ; तथा श्रेष्ठः ; पुरोऽग्रतः, एता गन्ता, भवति, वागादीनामिव प्राणः ; तथा अन्नादोऽनामयावीत्यर्थः ; अधिपतिरधिष्ठाय च पालयिता स्वतन्त्रः पतिः प्राणवदेव वागादीनाम् ; य एवं प्राणं वेद तस्यैतद्यथोक्तं फलं भवति । किञ्च य उ हैवंविदं प्राणविदं प्रति, स्वेषु ज्ञातीनां मध्ये, प्रतिः प्रतिकूलः, बुभूषति प्रतिस्पर्धीभवितुमिच्छति, सोऽसुरा इव प्राणप्रतिस्पर्धिनो न हैवालं न पर्याप्तः, भार्येभ्यः भरणीयेभ्यः, भवति, भर्तुमित्यर्थः । अथ पुनर्य एव ज्ञातीनां मध्ये एतमेवंविदं वागादय इव प्राणम् , अनु अनुगतो भवति, यो वा एतमेवंविदम् , अन्वेव अनुवर्तयन्नेव, आत्मीयान्भार्यान्बुभूर्षति भर्तुमिच्छति, यथैव वागादयः प्राणानुवृत्त्यात्मबुभूर्षव आसन् ; स हैवालं पर्याप्तः, भार्येभ्यो भरणीयेभ्यः, भवति भर्तुम् , नेतरः स्वतन्त्रः । सर्वमेतत्प्राणगुणविज्ञानफलमुक्तम् ॥
कार्यकरणानामात्मत्वप्रतिपादनाय प्राणस्याङ्गिरसत्वमुपन्यस्तम् — ‘सोऽयास्य आङ्गिरसः’ इति ; ‘अस्माद्धेतोरयमाङ्गिरसः’ इत्याङ्गिरसत्वे हेतुर्नोक्तः ; तद्धेतुसिद्ध्यर्थमारभ्यते । तद्धेतुसिद्ध्यायत्तं हि कार्यकरणात्मत्वं प्राणस्य ॥
अनन्तरं च वागादीनां प्राणाधीनतोक्ता ; सा च कथमुपपादनीयेत्याह —
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानां रसः ॥ १९ ॥
‘सोऽयास्य आङ्गिरसः’ इत्यादि यथोपन्यस्तमेवोपादीयते उत्तरार्थम् । ‘प्राणो वा अङ्गानां रसः’ इत्येवमन्तं वाक्यं यथाव्याख्यातार्थमेव पुनः स्मारयति । कथम् ? — प्राणो वा अङ्गानां रस इति । प्राणो हि ; हि - शब्दः प्रसिद्धौ ; अङ्गानां रसः ; प्रसिद्धमेतत्प्राणस्याङ्गरसत्वं न वागादीनाम् ; तस्माद्युक्तम् ‘प्राणो वा’ इति स्मारणम् । कथं पुनः प्रसिद्धत्वमित्यत आह — तस्माच्छब्द उपसंहारार्थं उपरित्वेन सम्बध्यते ; यस्माद्यतोऽवयवात् , कस्मादनुक्तविशेषात् ; यस्मात्कस्मात् यतः कुतश्चिच्च, अङ्गाच्छरीरावयवादविशेषितात् , प्राणः उत्क्रामत्यपसर्पति, तदेव तत्रैव, तदङ्गं शुष्यति नीरसं भवति शोषमुपैति । तस्मादेष हि वा अङ्गानां रस इत्युपसंहारः । अतः कार्यकरणानामात्मा प्राण इत्येतत्सिद्धम् । आत्मापाये हि शोषो मरणं स्यात् । तस्मात्तेन जीवन्ति प्राणिनः सर्वे । तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थः ॥
एष उ । न केवलं कार्यकरणयोरेवात्मा प्राणो रूपकर्मभूतयोः ; किं तर्हि ? ऋग्यजुःसाम्नां नामभूतानामात्मेति सर्वात्मकतया प्राणं स्तुवन्महीकरोत्युपास्यत्वाय —
एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ २० ॥
एष उ एव प्रकृत आङ्गिरसो बृहस्पतिः । कथं बृहस्पतिरिति, उच्यते — वाग्वै बृहती बृहतीच्छन्दः षट्त्रिंशदक्षरा । अनुष्टुप्च वाक् ; कथम् ? ‘वाग्वा अनुष्टुप्’ (तै. सं. १ । ३ । ५) इति श्रुतेः ; सा च वागनुष्टुब्बृहत्यां छन्दस्यन्तर्भवति ; अतो युक्तम् ‘वाग्वै बृहती’ इति प्रसिद्धवद्वक्तुम् । बृहत्यां च सर्वा ऋचोऽन्तर्भवन्ति, प्राणसंस्तुतत्वात् ; ‘प्राणो बृहती’ (ऐ. आ. २ । १ । ६) ‘प्राण ऋच इत्येव विद्यात्’ (ऐ. आ. २ । २ । २) इति श्रुत्यन्तरात् ; वागात्मत्वाच्चर्चां प्राणेऽन्तर्भावः ; तत्कथमित्याह — तस्या वाचो बृहत्या ऋचः, एषः प्राणः, पतिः, तस्या निर्वर्तकत्वात् ; कौष्ठ्याग्निप्रेरितमारुतनिर्वर्त्या हि ऋक् ; पालनाद्वा वाचः पतिः ; प्राणेन हि पाल्यते वाक् , अप्राणस्य शब्दोच्चारणसामर्थ्याभावात् ; तस्मादु बृहस्पतिः ऋचां प्राण आत्मेत्यर्थः ॥
एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥
तथा यजुषाम् । कथम् ? एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म — ब्रह्म यजुः ; तच्च वाग्विशेष एव । तस्या वाचो यजुषो ब्रह्मणः, एष पतिः ; तस्मादु ब्रह्मणस्पतिः — पूर्ववत् ॥
कथं पुनरेतदवगम्यते बृहतीब्रह्मणोर्‌ऋग्यजुष्ट्वं न पुनरन्यार्थत्वमिति ? उच्यते — वाचः अन्ते सामसामानाधिकरण्यनिर्देशात् ‘वाग्वै साम’ इति । तथा च ‘वाग्वै बृहती’ ‘वाग्वै ब्रह्म’ इति च वाक्समानाधिकरणयोर्‌ऋग्यजुष्ट्वं युक्तम् । परिशेषाच्च — साम्न्यभिहिते ऋग्यजुषी एव परिशिष्टे । वाग्विशेषत्वाच्च — वाग्विशेषौ हि ऋग्यजुषी ; तस्मात्तयोर्वाचा समानाधिकरणता युक्ता । अविशेषप्रसङ्गाच्च — ‘साम’ ‘उद्गीथः’ इति च स्पष्टं विशेषाभिधानत्वम् , तथा बृहतीब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम् ; अन्यथा अनिर्धारितविशेषयोरानर्थक्यापत्तेश्च, विशेषाभिधानस्य वाङ्मात्रत्वे चोभयत्र पौनरुक्त्यात् ; ऋग्यजुःसामोद्गीथशब्दानां च श्रुतिष्वेवं क्रमदर्शनात् ॥
एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद ॥ २२ ॥
एष उ एव साम । कथमित्याह — वाग्वै सा यत्किञ्चित्स्त्रीशब्दाभिधेयं सा वाक् ; सर्वस्त्रीशब्दाभिधेयवस्तुविषयो हि सर्वनाम - सा - शब्दः ; तथा अम एष प्राणः ; सर्वपुंशब्दाभिधेयवस्तुविषयोऽमः - शब्दः ; ‘केन मे पौंस्नानि नामान्याप्नोषीति, प्राणेनेति ब्रूयात् ; केन मे स्त्रीनामानीति, वाचा’ (कौ. उ. १ । ७) इति श्रुत्यन्तरात् ; वाक्प्राणाभिधानभूतोऽयं सामशब्दः । तथा प्राणनिर्वर्त्यस्वरादिसमुदायमात्रं गीतिः सामशब्देनाभिधीयते ; अतो न प्राणवाग्व्यतिरेकेण सामनामास्ति किञ्चित् , स्वरवर्णादेश्च प्राणनिर्वर्त्यत्वात्प्राणतन्त्रत्वाच्च । एष उ एव प्राणः साम । यस्मात् साम सामेति वाक्प्राणात्मकम् — सा चामश्चेति, तत् तस्मात् साम्नो गीतिरूपस्य स्वरादिसमुदायस्य सामत्वं तत् प्रगीतं भुवि ॥
यत् उ एव समः तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, तस्माद्वा सामेत्यनेन सम्बन्धः । वा - शब्दः सामशब्दलाभनिमित्तप्रकारान्तरनिर्देशसामर्थ्यलभ्यः । केन पुनः प्रकारेण प्राणस्य तुल्यत्वमित्युच्यते — समः प्लुषिणा पुत्तिकाशरीरेण, समो मशकेन मशकशरीरेण, समो नागेन हस्तिशरीरेण, सम एभिस्त्रिभिर्लोकैः त्रैलोक्यशरीरेण प्राजापत्येन, समोऽनेन जगद्रूपेण हैरण्यगर्भेण । पुत्तिकादिशरीरेषु गोत्वादिवत्कार्‌त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य, न पुनः शरीरमात्रपरिमाणेनैव ; अमूर्तत्वात्सर्वगतत्वाच्च । न च घटप्रासादादिप्रदीपवत्सङ्कोचविकासितया शरीरेषु तावन्मात्रं समत्वम् । ‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (बृ. उ. १ । ५ । १३) इति श्रुतेः । सर्वगतस्य तु शरीरेषु शरीरपरिमाणवृत्तिलाभो न विरुध्यते । एवं समत्वात्सामाख्यं प्राणं वेद यः श्रुतिप्रकाशितमहत्त्वं तस्यैतत्फलम् — अश्नुते व्याप्नोति, साम्नः प्राणस्य, सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वम् , सालोक्यं समानलोकतां वा, भावनाविशेषतः, य एवमेतत् यथोक्तं साम प्राणं वेद — आ प्राणात्माभिमानाभिव्यक्तेरुपास्ते इत्यर्थः ॥
एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३ ॥
एष उ वा उद्गीथः । उद्गीथो नाम सामावयवो भक्तिविशेषः नोद्गानम् ; सामाधिकारात् । कथमुद्गीथः प्राणः ? प्राणो वा उत् — प्राणेन हि यस्मादिदं सर्वं जगत् उत्तब्धम् ऊर्ध्वं स्तब्धमुत्तम्भितं विधृतमित्यर्थः ; उत्तब्धार्थावद्योतकोऽयमुच्छब्दः प्राणगुणाभिधायकः ; तस्मादुत् प्राणः ; वागेव गीथा, शब्दविशेषत्वादुद्गीथभक्तेः ; गायतेः शब्दार्थत्वात्सा वागेव ; न ह्युद्गीथभक्तेः शब्दव्यतिरेकेण किञ्चिद्रूपमुत्प्रेक्ष्यते, तस्माद्युक्तमवधारणं वागेव गीथेति । उच्च प्राणः, गीथा च प्राणतन्त्रा वाक् , इत्युभयमेकेन शब्देनाभिधीयते, स उद्गीथः ॥
उक्तार्थदार्ढ्यायाख्यायिकारभ्यते —
तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥
तद्धापि । तत् तत्रैतस्मिन्नुक्तेऽर्थे, हापि आख्यायिकापि श्रूयते ह स्म । ब्रह्मदत्तः नामतः ; चिकितानस्यापत्यं चैकितानः तदपत्यं युवा चैकितानेयः, राजानं यज्ञे सोमम् , भक्षयन्नुवाच ; किम् ? ‘अयं चमसस्थो मया भक्ष्यमाणो राजा, त्यस्य तस्य ममानृतवादिनः, मूर्धानं शिरः, विपातयतात् विस्पष्टं पातयतु’ ; तोरयं तातङादेशः, आशिषि लोट् — विपातयतादिति ; यद्यहमनृतवादी स्यामित्यर्थः ; कथं पुनरनृतवादित्वप्राप्तिरिति, उच्यते — ‘यत् यदि इतोऽस्मात्प्रकृतात्प्राणाद्वाक्संयुक्तात् , अयास्यः — मुख्यप्राणाभिधायकेनायास्याङ्गिरसशब्देनाभिधीयते विश्वसृजां पूर्वर्षीणां सत्रे उद्गाता — सोऽन्येन देवतान्तरेण वाक्प्राणव्यतिरिक्तेन, उदगायत् उद्गानं कृतवान् ; ततोऽहमनृतवादी स्याम् ; तस्य मम देवता विपरीतप्रतिपत्तुर्मूर्धानं विपातयतु’ इत्येवं शपथं चकारेति विज्ञाने प्रत्ययकर्तव्यतादार्ढ्यं दर्शयति । तमिममाख्यायिकानिर्धारितमर्थं स्वेन वचसोपसंहरति श्रुतिः — वाचा च प्राणप्रधानया प्राणेन च स्वस्यात्मभूतेन, सः अयास्य आङ्गिरस उद्गाता, उदगायत् इत्येषोऽर्थो निर्धारितः शपथेन ॥
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात्तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य स्वं भवति भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ २५ ॥
तस्य हैतस्य । तस्येति प्रकृतं प्राणमभिसम्बध्नाति । ह एतस्येति मुख्यं व्यपदिशत्यभिनयेन । साम्नः सामशब्दवाच्यस्य प्राणस्य, यः स्वं धनम् , वेद ; तस्य ह किं स्यात् ? भवति हास्य स्वम् । फलेन प्रलोभ्याभिमुखीकृत्य शुश्रूषवे आह — तस्य वै साम्नः स्वर एव स्वम् । स्वर इति कण्ठगतं माधुर्यम् , तदेवास्य स्वं विभूषणम् ; तेन हि भूषितमृद्धिमल्लक्ष्यत उद्गानम् ; यस्मादेवं तस्मात् आर्त्विज्यम् ऋत्विक्कर्मोद्गानम् , करिष्यन् , वाचि विषये, वाचि वागाश्रितम् , स्वरम् , इत्छेत इच्छेत् , साम्नो धनवत्तां स्वरेण चिकीर्षुरुद्गाता । इदं तु प्रासङ्गिकं विधीयते ; साम्नः सौस्वर्येण स्वरवत्त्वप्रत्यये कर्तव्ये, इच्छामात्रेण सौस्वर्यं न भवतीति, दन्तधावनतैलपानादि सामर्थ्यात्कर्तव्यमित्यर्थः । तयैवं संस्कृतया वाचा स्वरसम्पन्नया आर्त्विज्यं कुर्यात् । तस्मात् — यस्मात्साम्नः स्वभूतः स्वरः तेन स्वेन भूषितं साम, अतो यज्ञे स्वरवन्तम् उद्गातारम् , दिदृक्षन्त एव द्रष्टुमिच्छन्त्येव, धनिनमिव लौकिकाः । प्रसिद्धं हि लोके — अथो अपि, यस्य स्वं धनं भवति, तं धनिनं दिदृक्षन्ते — इति । सिद्धस्य गुणविज्ञानफलसम्बन्धस्योपसंहारः क्रियते — भवति हास्य स्वम् , य एवमेतत्साम्नः स्वं वेदेति ॥
तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णं तस्य वै स्वर एव सुवर्णं भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ २६ ॥
अथान्यो गुणः सुवर्णवत्तालक्षणो विधीयते । असावपि सौस्वर्यमेव । एतावान्विशेषः — पूर्वं कण्ठगतमाधुर्यम् ; इदं तु लाक्षणिकं सुवर्णशब्दवाच्यम् । तस्य हैतस्य साम्नो यः सुवर्णं वेद, भवति हास्य सुवर्णम् ; सुवर्णशब्दसामान्यात्स्वरसुवर्णयोः । लौकिकमेव सुवर्णं गुणविज्ञानफलं भवतीत्यर्थः । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेदेति पूर्ववत्सर्वम् ॥
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहुः ॥ २७ ॥
तथा प्रतिष्ठागुणं विधित्सन्नाह — तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद ; प्रितितिष्ठत्यस्यामिति प्रतिष्ठा वाक् ; तां प्रतिष्ठां साम्नो गुणम् , यो वेद स प्रतितिष्ठति ह । ‘तं यथा यथोपासते’ (शत. ब्रा. १० । ५ । २ । २०) इति श्रुतेस्तद्गुणत्वं युक्तम् । पूर्ववत्फलेन प्रतिलोभिताय का प्रतिष्ठेति शुश्रूषव आह — तस्य वै साम्नो वागेव । वागिति जिह्वामूलादीनां स्थानानामाख्या ; सैव प्रतिष्ठा । तदाह — वाचि हि जिह्वामूलादिषु हि यस्मात्प्रतिष्ठितः सन्नेष प्राणः एतद्गानं गीयते गीतिभावमापद्यते, तस्मात्साम्नः प्रतिष्ठा वाक् । अन्ने प्रतिष्ठितो गीयत इत्यु ह एके अन्ये आहुः ; इह प्रतितिष्ठतीति युक्तम् । अनिन्दितत्वादेकीयपक्षस्य विकल्पेन प्रतिष्ठागुणविज्ञानं कुर्यात् — वाग्वा प्रतिष्ठा, अन्नं वेति ॥
अथातः पवमानानामेवाभ्यारोहः स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेत् । असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमयेति स यदाहासतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत्तस्मादु तेषु वरं वृणीत यं कामं कामयेत तं स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्धैतल्लोकजिदेव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ २८ ॥
एवं प्राणविज्ञानवतो जपकर्म विधित्स्यते । यद्विज्ञानवतो जपकर्मण्यधिकारस्तद्विज्ञानमुक्तम् । अथानन्तरम् , यस्माच्चैवं विदुषा प्रयुज्यमानं देवभावायाभ्यारोहफलं जपकर्म, अतः तस्मात् तद्विधीयते इह । तस्य चोद्गीथसम्बन्धात्सर्वत्र प्राप्तौ पवमानानामिति वचनात् , पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायाम् , पुनः कालसङ्कोचं करोति — स वै खलु प्रस्तोता साम प्रस्तौति । स प्रस्तोता, यत्र यस्मिन्काले, साम प्रस्तुयात्प्रारभेत, तस्मिन्काल एतानि जपेत् । अस्य च जपकर्मण आख्या अभ्यारोह इति । आभिमुख्येनारोहत्यनेन जपकर्मणैवंविद्देवभावमात्मानमित्यभ्यारोहः । एतानीति बहुवचनात्त्रीणि यजूंषि । द्वितीयानिर्देशाद्ब्राह्मणोत्पन्नत्वाच्च यथापठित एव स्वरः प्रयोक्तव्यो न मान्त्रः । याजमानं जपकर्म ॥
एतानि तानि यजूंषि — ‘असतो मा सद्गमय’ ‘तमसो मा ज्योतिर्गमय’ ‘मृत्योर्मामृतं गमय’ इति । मन्त्राणामर्थस्तिरोहितो भवतीति स्वयमेव व्याचष्टे ब्राह्मणं मन्त्रार्थम् — सः मन्त्रः, यदाह यदुक्तवान् ; कोऽसावर्थ इत्युच्यते — ‘असतो मा सद्गमय’ इति । मृत्युर्वा असत् — स्वाभाविककर्मविज्ञाने मृत्युरित्युच्येते ; असत् अत्यन्ताधोभावहेतुत्वात् ; सत् अमृतम् — सत् शास्त्रीयकर्मविज्ञाने, अमरणहेतुत्वादमृतम् । तस्मादसतः असत्कर्मणोऽज्ञानाच्च, मा माम् , सत् शास्त्रीयकर्मविज्ञाने, गमय, देवभावसाधनात्मभावमापादयेत्यर्थः । तत्र वाक्यार्थमाह — अमृतं मा कुर्वित्येवैतदाहेति । तथा तमसो मा ज्योतिर्गमयेति । मृत्युर्वै तमः, सर्वं ह्यज्ञानमावरणात्मकत्वात्तमः, तदेव च मरणहेतुत्वान्मृत्युः । ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम् । प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः ; तदेवामृतम् अविनाशात्मकत्वात् ; तस्मात्तमसो मा ज्योतिर्गमयेति । पूर्ववन्मृत्योर्मामृतं गमयेत्यादि ; अमृतं मा कुर्वित्येवैतदाह — दैवं प्राजापत्यं फलभावमापादयेत्यर्थः । पूर्वो मन्त्रोऽसाधनस्वभावात्साधनभावमापादयेति ; द्वितीयस्तु साधनभावादप्यज्ञानरूपात्साध्यभावमापादयेति । मृत्योर्मामृतं गमयेति पूर्वयोरेव मन्त्रयोः समुच्चितोऽर्थस्तृतीयेन मन्त्रेणोच्यत इति प्रसिद्धार्थतैव । नात्र तृतीये मन्त्रे तिरोहितमन्तर्हितमिवार्थरूपं पूर्वयोरिव मन्त्रयोरस्ति ; यथाश्रुत एवार्थः ॥
याजमानमुद्गानं कृत्वा पवमानेषु त्रिषु, अथानन्तरं यानीतराणि शिष्टानि स्तोत्राणि, तेष्वात्मनेऽन्नाद्यमागायेत् — प्राणविदुद्गाता प्राणभूतः प्राणवदेव । यस्मात्स एष उद्गाता एवं प्राणं यथोक्तं वेत्ति, अतः प्राणवदेव तं कामं साधयितुं समर्थः ; तस्माद्यजमानस्तेषु स्तोत्रेषु प्रयुज्यमानेषु वरं वृणीत ; यं कामं कामयेत तं कामं वरं वृणीत प्रार्थयेत । यस्मात्स एष एवंविदुद्गातेति तस्माच्छब्दात्प्रागेव सम्बध्यते । आत्मने वा यजमानाय वा यं कामं कामयत इच्छत्युद्गाता, तमागायत्यागानेन साधयति ॥
एवं तावज्ज्ञानकर्मभ्यां प्राणात्मापत्तिरित्युक्तम् ; तत्र नास्त्याशङ्कासम्भवः । अतः कर्मापाये प्राणापत्तिर्भवति वा न वेत्याशङ्क्यते ; तदाशङ्कानिवृत्त्यर्थमाह — तद्धैतल्लोकजिदेवेति । तद्ध तदेतत्प्राणदर्शनं कर्मवियुक्तं केवलमपि, लोकजिदेवेति लोकसाधनमेव । न ह एव अलोक्यतायै अलोकार्हत्वाय, आशा आशंसनं प्रार्थनम् , नैवास्ति ह । न हि प्राणात्मन्युत्पन्नात्माभिमानस्य तत्प्राप्त्याशंसनं सम्भवति । न हि ग्रामस्थः कदा ग्रामं प्राप्नुयामित्यरण्यस्थ इवाशास्ते । असन्निकृष्टविषये ह्यनात्मन्याशंसनम् , न तत्स्वात्मनि सम्भवति । तस्मान्नाशास्ति — कदाचित्प्राणात्मभावं न प्रतिपद्येयेति ॥
कस्यैतत् । य एवमेतत्साम प्राणं यथोक्तं निर्धारितमहिमानं वेद — ‘अहमस्मि प्राण इन्द्रियविषयासङ्गैरासुरैः पाप्मभिरधर्षणीयो विशुद्धः ; वागादिपञ्चकं च मदाश्रयत्वादग्न्याद्यात्मरूपं स्वाभाविकविज्ञानोत्थेन्द्रियविषयासङ्गजनितासुरपाप्मदोषवियुक्तम् ; सर्वभूतेषु च मदाश्रयान्नाद्योपयोगबन्धनम् ; आत्मा चाहं सर्वभूतानाम् , आङ्गिरसत्वात् ; ऋग्यजुःसामोद्गीथभूतायाश्च वाच आत्मा, तद्व्याप्तेस्तन्निर्वर्तकत्वाच्च ; मम साम्नो गीतिभावमापद्यमानस्य बाह्यं धनं भूषणं सौस्वर्यम् ; ततोऽप्यन्तरतरं सौवर्ण्यं लाक्षणिकं सौस्वर्यम् ; गीतिभावमापद्यमानस्य मम कण्ठादिस्थानानि प्रतिष्ठा ; एवं गुणोऽहं पुत्तिकादिशरीरेषु कार्‌त्स्न्येन परिसमाप्तः, अमूर्तत्वात्सर्वगतत्वाच्च’ — इति आ एवमभिमानाभिव्यक्तेर्वेद उपास्ते इत्यर्थः ॥
इति प्रथमाध्यायस्य तृतीयं ब्राह्मणम् ॥
शास्रोक्तज्ञानयुक्तानां कर्मणां ज्ञानतस्तथा।।
सर्वत्र वेदशास्रेऽस्मिन्मृत्युभावः फलं श्रुतम् ।। १ ।।
आध्यात्मिकपरिच्छेदव्यावृत्तिर्यत्समाश्रयात् ।।
स मृत्युर्मृत्युशब्देन फलभूतोऽत्र भण्यते ।। २ ।।
या त्वश्वमेधगत्युक्तिः सोपलक्षणसिद्धये ।।
कर्मज्ञानान्तराणां स्यान्नाश्चमेधगृहीतये ।। ३ ।।
अल्पीयःफलसंप्राप्तिरल्पीयोज्ञानकर्मतः।।
अल्पत्वमभिभूतेः स्यात्तयोरासुरपाप्मभिः ।। ४ ।।
कुतस्तस्याभिभूतस्य रागाद्यासुरपाप्मभिः ।।
उद्भूतिः कर्मणोऽत्यर्थं ज्ञानस्य च निगद्यताम् ।। ५ ।।
मृत्युं साक्षादवाप्नोति ज्ञानयुक्तेन कर्मणा ।।
इत्येतद्बहुशोऽश्रावि पूर्वग्रन्थेषु चाऽऽगमैः ।। ६ ।।
तज्ज्ञानोत्पत्तिविघ्नाय ध्वस्तिकृज्ज्ञानलब्धये ।।
उद्गीथदेवतावाप्त्यै प्रारब्धेहोत्तरा श्रुतिः ।। ७ ।।
ननु मृत्योरतिक्रान्तेरूद्गीथज्ञानकर्मणोः ।।
फलस्य संश्रवान्नातो मृत्युप्राप्तिस्तयोः फलम् ।। ८ ।।
नाग्न्यादिदेवतात्मत्वतत्फलावगमाच्छ्रुतेः ।।
स्वाभाविकासङ्गमृत्योरतिक्रान्तिः पृथक्फलम् ।। ९ ।।
कोऽसौ स्वाभाविकः पाप्मा तस्योद्भ्यूतिस्तथा कुतः ।।
तस्मान्निवृ्त्तिः केन स्यात्कथं वेत्येतदुच्यते ।। १० ।।
यथोक्तार्थप्रसिद्ध्यर्थं श्रुतिरारव्यायिकात्मिका ।।
द्वया हेत्येवमाद्येयं प्रचक्राम परीक्षितुम् ।। ११ ।।
प्राजापत्यं पदं यो यो ह्यधिकारी परीप्सति ।।
तन्निर्धार्यानया श्रुत्या पदमाप्नोत्युपासनात् ।। १२ ।।
पूर्वजन्मनि यद्वृत्तं वर्तमानप्रजापतेः ।।
तदवद्योतको हेति निपातोऽत्र प्रयुज्यते ।। १३ ।।
भविष्यद्वृत्तिमाश्रित्य यजमानः प्रजापतिः ।।
इहाभीधीयतेऽन्यस्तु न कश्चित्सप्रयोजनः ।। १४ ।।
ज्ञानकर्मोपदेशो हि नरं प्रत्येव सर्वथा ।।
सर्वः श्रौतो यतस्तस्मात्स एवेहाभिधीयते ।। १५ ।।
तत्कर्मज्ञानजत्वाच्च तत्प्राणाः शुद्ध्यशुद्धिजाः ।।
प्राजापत्या इहोच्यन्ते वागाद्युक्तेश्च लिङ्गतः ।। १६ ।।
उद्गीथोपास्तिसंबन्धाद्दूया हेत्यादिकस्य च ।।
उपास्यार्थविशुद्ध्यार्था प्रवृत्ताऽऽख्यायिका ततः ।। १७ ।।
अभ्यारोहजपस्येह प्राण एवास्तु देवता ।।
कस्माद्वागादयो नेति तत्परीक्षाऽत ईर्यते ।। १८ ।।
अन्वयव्यतिरेकाभ्यां प्राणप्राधान्यसिद्धये ।।
प्रवृत्ताऽऽख्यायिका यत्नाद्वागादीन्द्रियनिन्दया ।। १९ ।।
शास्रस्वभावजज्ञानकर्मसंस्कारहेतुतः ।।
देवासुरत्वं प्राणानां निरुद्धोपाधिकारणात् ।। २० ।।
सहस्रादिर्यथा भेदः प्राणस्यैकस्य शब्द्यते ।।
भूयोधिकारभेदेन वागादीनां तथा भिदा ।। २१ ।।
सहजं सर्वभूतानां वृत्तमासुरमिष्यते ।।
यत्नाधेयं यतो दैवं ज्यायांसः स्युस्ततोऽसुराः ।। २२ ।।
इह वागादयः शब्दा देवतार्थाभिधायकाः ।।
मर्त्यत्वान्न तु गृह्यन्ते करणस्थानगोचराः ।। २३ ।।
देवतैकात्म्यमेवेह दैवज्ञानक्रियाफलम् ।।
अध्यात्मादिपरिच्छेद आसुरत्वान्न गृह्यते ।। २४ ।।
हिंसाभिप्रवणं चेतः प्रायेण श्रेयसामपि ।।
भूयांसोऽतोऽसुरा देवाः कनीयांसोऽतियत्नजाः ।। २५ ।।
धर्माधर्मैकसाध्यत्वाह्ब्रह्मादेः स्थावरावधेः।।
अस्पर्धन्त ततोऽन्योन्यं दैतेेयां विबुधैः सह ।। २६ ।।
आसुरेभ्योऽधिकारेभ्यो व्युत्थाप्येह प्रजापतिम् ।।
दैवीर्भूमीर्नयामैनमिति देवचिकीर्पितम् ।। २७ ।।
दैवेभ्य एनमाच्छिद्य कामक्रोधादिसाधनाः ।।
आनयामाऽऽसुरीर्भूमीरिति दैतेयनिश्चितिः ।। २८ ।।
यत्रायत्रसमुत्थाभ्यां वृत्तिभ्यां देवदानवाः ।।
दैव्यासुरीभ्यामन्योन्यमस्पर्धन्त विरोधतः ।। २९ ।।
भूयो बलेन ते देवा आसुरेण निराश्रयाः ।।
अर्द्यमाना न शरणं लेभिरेऽल्पत्वकारणात् ।। ३० ।।
अनीक्षमाणास्ते शर्म संभूयोचुः परस्परम् ।।
क्रियतामविचारेण हन्तेत्यनुमतौ पदम् ।। ३१ ।।
अस्मज्जिगीषूनसुराञ्जित्वोद्गात्रात्मसंश्रयात् ।।
अतिलङ्घ्याऽऽसुरं भावं देवतात्मानमाप्नुमः ।। ३२ ।।
उद्गीथदेवतावाप्तिर्ज्ञानकर्ममुच्चयात् ।।
अभ्यारोहजपः कर्म ज्ञानं त्विह परीक्ष्यते ।। ३३ ।।
विधिशेषार्थवादत्वान्नेदं ज्ञाननिरूपणम् ।।
इति चेन्नैतदेवं स्यादेवं वेदेति तद्विधेः ।। ३४ ।।
उद्गीथविधिशेषश्चेदुद्गीथप्रकृतौ श्रवात् ।।
नातत्प्रकरणान्न्याय्यमितोऽन्यत्र च तद्विधेः ।। ३५ ।।
विद्याप्रकरणत्वाच्च नेहोद्गीथो विधीयते ।।
जपस्य चाप्यनित्यत्वात्स्यादेवांवित्प्रयोज्यता ।। ३६ ।।
उदारफलवद्यस्मादपि ज्ञानमिह श्रुतम् ।।
तद्धैतदित्यतो ज्ञानं फलवत्त्वाद्विधित्सितम् ।। ३७ ।।
शुद्ध्यशुद्धयुक्तितश्चेह प्राणोपासा विवक्षिता ।।
वागादिनिन्दया मुख्यप्राणोपासा न चेदिह ।। ३८ ।।
विधित्सिताऽथ तन्निन्दा स्तुतिश्चानस्य किंफला ।।
अतोऽर्थवादाद्धि विधिर्लिङ्गादत्रानुमीयते ।। ३९ ।।
प्राणस्वरूपापत्तिश्च यतोपासाफलं श्रुतम् ।।
उपासनमतोऽनस्य विधित्सितमितीक्ष्यताम् ।। ४० ।।
उपासनमसोः काममस्तु सूक्तोपपत्तितः ।।
शुद्ध्यादिगुणवत्ता तु न मानादुपपद्यते ।। ४१ ।।
गुणवत्ताऽप्यसोरस्तु यथाऽस्योपासनं तथा ।।
प्रामाणिक्युभयत्रापि प्राप्तिर्यस्मादिहेक्ष्यते ।। ४२ ।।
ननु स्तुत्यर्थतैवास्य शुद्ध्यादेरवगम्यते ।।
उपासाविधिशेषत्वादर्थवादोऽत ईक्ष्यताम् ।। ४३ ।।
प्रामाणिकोऽभिसंबन्धो यस्मात्प्राणस्य गम्यते ।।
किंबलं समुपाश्रित्य शुद्ध्यादेरर्थवादता ।। ४४ ।।
नहि मानं विहायेह साध्यसाधननिश्चितौ ।।
चक्षुरन्यत्प्रपश्यामो यद्बलात्स्यादयं मृषा ।। ४५ ।।
आसन्यत्वादयोऽन्यस्य न च योषाग्निवद्यतः ।।
तेषां प्रत्यक्षतः सिद्धेरतः शुद्ध्यादिमानसुः ।। ४६ ।।
अक्षाद्यविषया ये तु गुणा आगमतो मताः ।।
मानाविरोधात्केनैषां शुद्ध्यादीनां मृषार्थता ।। ४७ ।।
श्रोत्रादिवत्प्रमाणानामसाधारणमेयता ।।
तन्मेयप्रथने मानं न किंचिदनुभूतितः ।। ४८ ।।
परमार्थातिरेकाद्वाऽभेदाद्वा परमार्थतः ।।
वस्तुनः स्यान्मृषात्मत्वं नैवमप्युपपद्यते ।। ४९ ।।
लभते व्यतिरेकं चेत्परमार्थात्ततोऽपरम् ।।
स्वमहिम्नैव तत्सिद्धेः किमिव स्यान्मृषार्थता ।। ५० ।।
परमार्थात्मकत्वे तु न किंचिद्वितथं क्वचित् ।।
असत्यस्याप्यसत्यत्वं परमार्थसादात्मना ।। ५१ ।।
सत्यासत्यविभागोऽयमविभागात्मवस्तुनि।।
प्रत्यगज्ञानहेतूत्थस्तद्वोधादेव तद्धतिः ।। ५२ ।।
स्वाभासफलकारूढस्तदज्ञानजभूमिषु ।।
तत्स्थोऽपि तदसंबद्ध ईश्वराद्यात्मतां गतः ।। ५३ ।।
तदज्ञानं तदुत्थं च जगत्कृत्स्रं तदात्मकम् ।।
यतोऽतस्तदनूद्याऽऽह ह्यात्मैवेति श्रुतिः स्फुटम् ।। ५४ ।।
ऐकात्म्यमेव मानानां सर्वेषां मेयमिष्यते ।।
यथा तथा प्रवक्ष्याम उदर्केऽप्युपपत्तिभिः ।। ५५ ।।
मिथ्येतिप्रत्ययोत्पत्तिस्तथा कारणदोषतः ।।
बाध्यज्ञानस्य हेतुः स्यान्नातोऽन्यद्वाध्यकारणम् ।। ५६ ।।
न चेहोभयमप्यस्ति कुतो मिथ्येति भण्यते ।।
मितेर्मेये समाप्तत्वान्मिथ्यात्वं न मितेर्भवेत् ।। ५७ ।।
तस्मादविपरीतार्थज्ञानाच्छ्रेयो ह्यावाप्यते ।।
विपरीतार्थतायास्तु न हेतुर्जगतीक्ष्यते ।। ५८ ।।
वस्तुनिष्ठैव मा यस्मान्न तदज्ञानजाश्रया ।।
तस्मात्तन्मोहविध्वस्तौ ध्वस्तिः स्यान्मोहजस्य च ।। ५९ ।।
न चैवं सति मानानां द्व्यर्थता स्यात्कथंचन ।।
यथाभूतार्थबोधित्वमेवमेत्र मितेर्भवेत् ।। ६० ।।
ईश्वरादिविकल्पानां प्रत्यग्वस्त्वविकल्पितम् ।।
विषयो, न मृषाबुद्धिः परमार्थे विना यतः ।। ६१ ।।
यावत्किंचिन्मितेः प्राप्तं न तन्मिथ्या मितत्वतः ।।
मिथ्येति ग्राहयच्छास्रमनर्थार्थं यतो भवेत् ।। ६२ ।।
नाम्नि ब्रह्मेति दृष्टं चेन्न भेदप्रतिपत्तितः ।।
प्रतिमावद्धि नामादौ ज्ञाते ब्रह्मेति धीरियम् ।। ६३ ।।
यथा निर्ज्ञातभेदे हि विष्णुधीरुपलान्मनि ।।
विधीयते तथा नाम्नि ब्रह्मबुद्धिविंधीयते ।। ६४ ।।
अज्ञातरज्जुतत्त्वाो हि रज्जुं सर्पधियेक्षते ।।
नामादौ तु यतो नैवं तस्मादसदिदं वचः ।। ६५ ।।
ब्रह्म नैवेह वस्त्वस्ति, दृष्टिरेवेति चेन्मतम् ।।
नर्गादिषु सतामेव सत्सु दृष्टिसमन्वयात् ।। ६६ ।।
गौणस्य मुख्यापेक्षत्वान्मुख्यं ब्रह्म विना न सत् ।।
गौणं ब्रह्म यथा गौणो वह्निर्मुख्याग्निपूर्वकः ।। ६७ ।।
न चासद्विषया काचिद्वुद्धिर्जगति वीक्ष्यते ।।
सर्वार्थव्यभिचारेऽपि संविदव्यभिचारिणी ।। ६८ ।।
न चापीहाऽऽगमाभासोऽचोदनालक्षणत्वतः ।।
क्रियार्थैरविशिष्टत्वाद्विद्यार्थोक्तेः परात्मनि ।। ६९ ।।
ज्योतिष्टोमादिका यद्वद्विशिष्टानेकसाधना ।।
एवंक्रमप्रयुक्ताङ्गा तथा चैवंफला क्रिया ।। ७० ।।
अन्यप्रमाणाविषया वाक्यादेवावगम्यते ।।
यथा तथेहापूर्वादिवस्तूक्तेरेव गम्यते ।। ७१ ।।
न च वाक्याद्विपर्यस्ता यदि वा संशयात्मिका ।।
बुद्धिरुत्पद्यतेऽस्माकं यथाभूतार्थबोधिनः ।। ७२ ।।
कार्याभावादयुक्तं चेन्नोक्तिर्बुद्धेस्तथार्थतः ।।
भावनार्थस्य नैवेह भाव्यर्थत्वात्तथार्थता ।।
किंतु मानार्पितत्वात्सा यथा भूतार्थतेप्यते ।। ७३ ।।
नापि तद्धिषणायाश्च कार्यत्वात्स्यात्तथार्थता ।।
प्रमाणाभिजनादेव यथाभूतार्थता धियः ।। ७४ ।।
अन्योन्याश्रयतादोषः कार्यप्रामाण्यवादिनः ।। ७५ ।।
प्रमाणाधिगतौ सत्यां पुंसो मेयानुरोधतः ।।
अनुष्ठेयोऽननुष्ठेय इति पश्चान्मतिर्भवेत् ।। ७६ ।।
एकरूपं यतो मानं विरुद्धानेकरूपिणाम् ।।
भानुवद्बोधकं दृष्टं नातोऽनुष्ठेयतो मितिः ।। ७७ ।।
नन्ववाक्यप्रमाणत्वमननुष्ठानतो भवेत् ।।
पदानां संहतिर्यस्मान्न दृष्टेह क्रियां विना ।। ७८ ।।
पदार्थत्वे च तत्सिद्धिर्लिङ्गप्रत्यक्षसंश्रयात् ।।
आगमैकप्रमाणत्वान्ना पदार्थत्वमिष्यते ।। ७९ ।।
अस्यस्मीत्यभ्युपेतत्वान्नैवमप्युपपद्यते ।।
अस्ति मेरुर्यथा वर्णचतुष्टयविशेषणः ।। ८० ।।
अकार्येऽपि हि मेर्वादावस्ति मेरुरिति श्रुतेः ।।
सम्यग्धीर्जायते यद्वत्तथा तत्त्वमसीत्यतः ।। ८१ ।।
मेर्वादिज्ञानवच्चेत्स्यान्निष्फलत्वादमानता ।।
नैवं तत्फरलसाक्षात्त्वाज्ज्ञानोद्भूतेरनन्तरम् ।। ८२ ।।
भिद्यते हृदयग्नन्थिर्ब्रह्माप्येतीति च श्रुतेः ।।
न चार्थवादतैतस्यां जुह्रामिव फलश्रुतेः ।। ५३ ।।
निषिद्धानिष्टसंबन्धो वाक्यादेवानगम्यते ।।
न चानुष्ठेयता तस्य मनागप्युपपद्यते ।। ८४ ।।
निषेधसंस्कृतधियो निषिद्धविषये न च ।।
पलाण्ड्वादावकरणादन्या धीर्जायते श्रुतेः ।। ८५ ।।
यथा निषेधवाक्येभ्यो नान्याऽकरणतो मतिः ।।
तत्त्वमस्यादिवाक्येभ्यस्तद्वदेवेति निश्चयः ।। ८६ ।।
मृगतोये प्रवत्तस्य तृडार्तस्योषरेक्षणात् ।।
तमोध्वस्तौ निवृत्तिः स्यात्तथाऽऽत्मज्ञानतोऽपि नः ।। ८७ ।।
तस्मान्निषेधशास्रस्य यथा भूतार्थनिष्ठता ।।
पुंव्यापारस्य गन्धोऽपि न तत्रास्तीति निश्चयः ।। ८८ ।।
आत्मयाथात्म्यविज्ञाननिष्ठता तद्वदीक्ष्यताम् ।।
तत्त्वमस्यादिवाक्यानां नानुष्ठानं मनागपि ।। ८९ ।।
कलञ्जभक्षणस्येव ननु न श्रौतकर्मणः ।।
अज्ञानहेत्वनर्थार्थकारिता गम्यते मितेः ।। ९० ।।
नैवमज्ञानहेतुत्वानर्थार्थत्वेन तुल्यता ।।
कलञ्जभक्षणेनातस्तन्निवृत्तौ निवर्तते ।। ९१ ।।
शास्रमात्रनिमित्तत्वान्नित्यानां नैवमिप्यते ।।
मिथ्याज्ञानादिहेतुत्वं काम्यानामिव चेन्मतम् ।। ९२ ।।
नाविद्यारागद्वेपादिदोषवृष्टस्य तद्विधेः।।
स्वर्गादिकामिनो यद्वदग्निहोत्रविधिस्तथा ।। ९३ ।।
मोहकामादिदुष्टस्य नित्यं कर्म विधीयते ।।
न स्वतः काम्यनित्यत्वविवेकोऽस्तीह कर्मणः ।। ९४ ।।
कर्तृस्थेन हि स्वर्गादिकामदोषेण काम्यता ।।
अतो नान्येन काम्यत्वं कर्मणः स्यात्कथंचन ।। ९५ ।।
आविरिञ्चाद्विरक्तस्य तद्विविक्तात्मकामिनः ।।
मोक्षे पुंसोऽधिकारः स्यान्न कामापहृतात्मनः ।। ९६ ।।
पराचः कामानित्येवं कामानित्यपरं तथा ।।
योऽकाम इति तद्वच्च श्रुतिः कामनिषेधनी ।। ९७ ।।
अविद्याया न चोच्छित्तौ ज्ञानादन्यदपेक्ष्यते ।।
ज्ञानोत्पत्तौ न चैवान्यच्छमादिभ्यो ह्यपेक्ष्यते ।। ९८ ।।
शमाद्युत्पत्तये नान्यद्बुद्धिशुद्धेरपेक्ष्यते ।।
बुद्धिशुद्धौ च नित्यादिकर्मभ्यो नान्यदिष्यते ।। ९९ ।।
आत्माज्ञानैकहेतुत्वाद्वाह्मनः कायकर्मणाम् ।।
आत्मज्ञानेन तद्बाधात्कर्मापेक्षा कुतो भवेत् ।। १०० ।।
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।।
प्रत्यग्ज्ञानोद्भवे तस्मात्समाप्तिः सर्वकर्मणाम् ।। १०१ ।।
न चोच्छिन्नात्ममोहस्य सदैवाऽऽत्मधियः स्थितेः ।।
प्रतीच्यवसरोऽस्तीह वाङ्मनःकायकर्मणाम् ।। १०२ ।।
कर्मणोऽवसरश्चेत्स्यात्त्वद्भिक्षावसरो यथा ।।
नाऽऽत्मवस्तुनिमित्तत्वात्सम्यग्बुद्धेः सदा स्थितेः ।। १०३ ।।
न वस्त्ववसरापेक्षं स्वतःसिद्धत्वकारणात् ।।
क्रियैवावसरापेक्षा तस्याः कारकतन्रतः ।। १०४ ।।
सम्यग्ज्ञानशिरिवप्लुष्टं कुतोऽज्ञानं पुनर्भवेत् ।।
शुद्धदोषोद्भवत्वाच्च न तु कर्मैवमिष्यते ।। १०५ ।।
क्षुधादिदोषहेत्वेव त्वस्मद्भुज्यादि नो मतम् ।।
नियतानेकहेतुत्वान्नातो भुजिसमा क्रिया ।। १०६ ।।
दोषहेतावपि तथा कालादिनियमस्तथा ।।
भवद्भिक्षाटनादौ सादिति चेन्नैतदेव तु ।। १०७ ।।
नैवायं नियमोऽस्माकं परिसंख्या हि सा यतः ।।
क्रियाप्रयोक्त्री नाप्येषा, तस्माद्विषममुच्यते ।। १०८ ।।
नातोऽपवादकृत्सा स्यादैकात्म्यज्ञानजन्मनः ।।
सर्वकर्माधिकाराणां निषेधायाऽऽत्मधीभवः ।। १०९ ।।
निषेधविधिवत्तस्मात्प्रत्यग्याथात्म्यधीविधिः ।।
प्रत्यह्मोहैकहेतुत्वाद्वाड्मनःकायकर्मणाम् ।। ११० ।।
तस्माद्वस्त्वेकनिष्ठस्य प्रामाण्यं वचसो ध्रुवम् ।।
प्रतिषेधविधेर्यद्वदुभयोरविशेषतः ।। १११ ।।
स्वाभाविकैकदोषांत्यां व्यवहार इहाऽऽसुरः ।।
शास्रैकहेतुर्दैवः स्यात्तयोः स्पर्धा विरोधतः ।। ११२ ।।
प्राकृतासङ्गविज्ञानकार्ये ह्यधिकृतिः स्वतः ।।
सुरद्विषां सुराणां तु शास्रोत्थज्ञानदीपितः ।।
कर्मज्ञानाधिकारः स्यात्संग्रामस्तद्विरोधतः ।। ११३ ।।
उत्कर्षो मानुषाद्वर्ध्वं पुंसः केवलधर्मतः ।।
अधोभावस्त्वधर्मात्स्याद्द्वाभ्यां मानुष्यसंभवः ।। ११४ ।।
आग्रजस्थाणुपर्यन्तशरीरग्रहणान्यतः ।।
लोकेष्विति श्रुतिर्वक्ति विरोधस्तन्निबन्धनः ।। ११५ ।।
अधोलोकफलेष्वेव प्राकृतज्ञानकर्मसु ।।
यत्नादासञ्जनीयोऽयं पितेत्यसुरनिश्चयः ।। ११६ ।।
प्राकृतासङ्गतो मुक्त्वा पिताऽयं दैवसाधनैः ।।
उत्कृष्टव्यो यथाशक्ति विबुधानां चिकीर्षितम् ।। ११७ ।।
नरप्रजापतितनावेवं देवासुरा मिथः ।।
स्वस्वभावानुरोधेन तेऽस्पर्धन्त स्ववृत्तिभिः ।। ११८ ।।
यदोद्भवति शास्रोत्था दैवी वृत्तिस्तदाऽऽसुरी।.
व्येति यस्मात्ततोऽशेषं देवानां स जयः स्मृतः ।। ११९ ।।
आसुरी तु यदा सेना कामक्रोधपुरःसरा ।।
जायते ह्यजयस्तेषामसुराणां जयस्तु सः ।। १२० ।।
स्वाभाविकत्वादासुर्या भूयस्या सेनयाऽर्दिताः।।
न शर्म लेभिरे देवाः स्वात्मत्राणासमीक्षणात् ।। १२१ ।।
स्वभूमेश्चाव्यमानानां सुराणामसुरैस्तदा ।।
प्रादुरासीन्मतिः साध्वी दैतेयभयनाशिनी ।। १२२ ।।
उद्गीयं समुपाश्रित्य ज्योतिष्टोमक्रताविह ।।
तिरस्कृत्याऽऽसुरं दैवं भावं यामोऽधुना वयम् ।। १२३ ।।
कर्तृत्वादीह यत्सिद्धं वागादिद्वारमीक्ष्यते ।।
आत्मनस्तदविद्योत्थं निरविद्ये निषेधतः ।। १२४ ।।
लौकिको वैदिकः सर्वो व्यवहारश्च वक्ष्यते ।।
अन्नत्रयाधिकारे हि मनआदावनात्मनि ।। १२५ ।।
भूतेहानुविधायित्वात्क्षेत्रज्ञस्य तमस्विनः ।।
कूटस्थात्मातिरेकेण रूपमन्यन्न लक्ष्यते ।। १२६ ।।
एवं ताः संप्रधार्योचुरुद्गीथं साधनं परम् ।।
तत्परीक्षां प्रयत्नेन चक्रुः संभूय देवताः ।। १२७ ।।
वाचं संभावयामासुरियं ह्युद्गीथकर्मणि ।।
अत्यर्थे व्यापृता दृष्टा वाचमूचुस्ततः सुराः ।। १२८ ।।
त्वं न उद्गीय उद्गानं त्वत्प्रधानं भवत्विदम् ।।
उद्गीथ इति चोद्गानं कर्मैवेहाभिधीयते ।। १२९ ।।
स्तोत्रेणास्याभिसंबन्धाद्भक्तिमात्रं न तु क्वचित् ।।
वागभिमानिनी चेह वाक्शब्देनाग्निरुच्यते ।। १३० ।।
विषयोऽध्येषणाया हि चेतनावान्यतो मतः ।।
उपासिक्रियया योगो देवताया इहेष्यते ।। १३१ ।।
अतोऽपि देवतैवेह वाक्शब्देनाभिधीयते ।।
तद्भूतेः पुरुषार्थत्वाद्देवता हीश्वरा परा ।। १३२ ।।
सैवातः प्रतिपत्तव्या सर्वासु ध्यानभूमिषु ।।
न त्विह प्रतिपत्तव्याः करणस्थानगोचराः ।। १३३ ।।
पारार्थ्याचेतनत्वाभ्यां मर्त्यत्वाच्चापि कारणात् ।। १३४ ।।
एवं वागादयः शब्दा देवतार्थाभिधायिनः ।।
सर्वत्र प्रतिपत्तव्या यत्रोपासा विवक्षिता ।। १३५ ।।
जपमन्राभिधेयेयं वागित्येवं विनिश्चिताः ।।
उपासांचक्रिरे देवा एषैवोद्गीथदेवता ।। १३६ ।।
देवाभ्युदय उद्गानं देवेभ्योऽर्थाय वागियम् ।।
यथाशक्त्युदगायत्तं यो भोगो वाङ्निबन्धनः ।। १३७ ।।
येन भोगेन वाग्देवांश्चक्षुरादीनहर्निशम् ।।
साक्षादवति तं भोगमुदगायदशेषतः ।। १३८ ।।
पवमानेषु सोद्गात्री याजमानं यथाविधि ।।
फलमुद्गाय शेषेषु ह्युदगायदथाऽऽत्मने ।। १३९ ।।
स्तोत्रेषु परिशिष्टेषु वागागायदथाऽऽत्मने ।।
यत्कल्याणं वदत्येषा ह्यात्मने तदचीक्लपत् ।। १४० ।।
यथाशास्रं यथायोगं वर्णदोषविवर्जितम् ।।
वर्णोच्चारणसामर्थ्यं ममैवास्तु तदीदृशम् ।। १४१ ।।
कल्याणवदनोत्थं यत्कृत्स्नं देवेभ्य एव तत् ।।
फलं वदनमात्रं तु वाच एव न दैविकम् ।। १४२ ।।
तमस्युत्सार्यमाणे तु वाचोद्गात्रा सुरद्विषाम् ।।
स्वाधिकाराच्च्याव्यमानास्ते विदुर्देवहृद्गतम् ।। १४३ ।।
अनेन वाचोद्गात्रा नो बलं ध्वान्तं तु देवताः ।।
ज्योतिषा स्वेन निर्जित्य यास्यन्त्यग्न्यादिरूपताम् ।। १४४ ।।
महन्नो भयमायातमिति बुबुधिरेऽसुराः ।।
कर्मण्यनुचिते तेषां प्रहीणमनसां तदा ।।
वदनादावभिष्वङ्ग आत्मसंभावनादभूत् ।। १४५ ।।
यत्कल्याणमिति च्छिद्राद्विदुः सुरचिकीर्षितम् ।।
अनेन वै न उद्गात्रा वाचाऽत्येष्यन्ति स्वं वपुः ।। १४६ ।।
इति ज्ञात्वा ह्यभिद्रुत्य स्वैरासङ्गशरोर्मिभिः ।।
विविधुस्तानथोद्गातृंस्ते विद्धास्तत्यजुः क्रियाः ।। १४७ ।।
नानादन्यस्य सामर्थ्यं विद्यतेऽसुरनाशने ।। १४८ ।।
अनेनाप्रतिरूपेण वचसा कार्यशायिना ।।
पाप्मादिदोषसंपर्कः कारणस्थोऽनुमीयते ।। १४९ ।।
व्युत्थायाऽऽख्यायिकारूपाच्छ्रुतिः स्ववपुषाऽधुना ।।
आचष्टे कारणे वृत्तं कार्यगेणासुरात्मना ।। १५० ।।
दृष्टेनाप्रतिरूपेण कार्यगेणानुमीयते ।।
कारणे पाप्मवेधोऽभूद्यो वाचि प्राक्प्रजापतेः ।। १५१ ।।
स यो वाच्यसुरैः क्षिप्तः पाप्मा कार्ये स दृश्यते ।।
प्रमाविरोधि यद्वाक्यं तत्तत्कार्यसमाश्रयम् ।। १५२ ।।
स एव स इति ह्युक्तिः कार्यकारणसंस्थयोः ।।
प्रजासु साक्षाद्यः पाप्मा यश्च तत्कारणाश्रयः ।। १५३ ।।
घ्राणं चक्षुस्तथा श्रोत्रं मनश्चैवमनुक्रमानु ।।
वत्रुर्देवा यथा वाणीं विद्धाः सर्वे तथाऽसुरैः ।। १५४ ।।
कर्मेन्द्रियाणां सर्वेषां वागेवात्रोपलक्षणम् ।।
चक्षुःश्रोत्रे धीन्द्रियाणां मनो बुद्धेस्तथैव च ।। १५५ ।।
कृत्स्रं जगदनादाय नैकस्यापीष्यते क्रिया ।।
प्राणस्य किमु वक्तव्यं कृत्स्नाध्यात्मेन्द्रियग्रह ।। १५६ ।।
यद्यपीदं जगत्कृत्स्नं गृह्यते संहतत्वतः ।।
तथाऽपि चोदितोऽत्रार्थ उपास्यो नाऽऽगतोऽर्थतः ।। १५७ ।।
कल्याणेतररूपेण परिशिष्टेष्वपीक्ष्यते ।।
विभाग आसुरो वेधस्तेन तेप्वनुमीयते ।। १५८ ।।
अतस्तदर्थमाहेयमेवम्विति पुनः श्रुतिः ।।
यथा वागादयो विद्धास्तद्वज्ज्ञेयास्त्वगादयः ।। १५९ ।।
सिद्धान्वागादिदृष्टान्तान्पुरस्कृत्यात उच्यते ।।
एवम्वित्युक्तशेषाणां पाप्मविद्धत्वसिद्धये ।। १६० ।।
अविध्यन्निति योऽर्थोऽस्य तद्व्याख्यानाय यत्यते ।।
स्वैः स्वैस्तानिन्द्रियासङ्गैः पाप्मभिस्त उपासृजन् ।। १६१ ।।
यत्संसर्गे पुरा चक्रुरविध्यंस्तदिहोच्यते ।।
या विद्धा देवतास्तासां प्रक्रियासंहृतिः पृथक् ।। १६२ ।।
आसङ्गपाप्मभिर्विद्धा यस्माद्वागादयोऽसुरैः ।।
वर्जनीयास्ततस्ताः स्युर्नोपास्याः श्रेय ईप्सुभिः ।। १६३ ।।
एवं निराशाः पूर्वासु देवतास्वसुरार्दनात् ।।
पारिशेष्यादथाऽऽजग्मुर्मध्यमं प्राणमादरात् ।। १६४ ।।
अथेत्यनन्तरोक्तिः स्यात्तथाऽभिनयवृत्तये ।।
इममित्यप्रसिद्धत्वात्प्राणस्येह त्वगादिवत् ।। १६५ ।।
अस्ति यस्मादसुर्नित्यमासन्योऽयमतो मतः ।।
वागादिभ्यो विभागार्थं विशेषणमसोरिदम् ।। १६६ ।।
जपमन्राभिधेयोऽत्र पारिशेष्यात्प्रतीयताम् ।।
उद्गीथदेवता प्राण इत्यभूत्सुरनिश्चयः ।। १६७ ।।
मत्र्रप्रयोगे सर्वेषां संनिधौ तत्प्रकाशितम् ।।
भारमुत्सहते वो़ढुं योऽनो यामस्तमाश्रयम् ।। १६८ ।।
परीक्षमाणास्ते त्राणं यथोक्ताख्यानवर्त्मना ।।
क्रमेणाऽऽसेदुरासन्यं प्राणं पाप्मपराभावत् ।। १६९ ।।
श्रेयोर्थिनां मनुष्याणामुपास्यप्रतिपत्तये ।।
इयमारव्यायिका चक्षुर्नान्यथोपास्यनिश्चितिः ।। १७० ।।
यः प्राणे भोग इति न पूर्ववद्भण्यतेऽत्र किम्‌ ।।
वागादीनामिव यतो नासोर्भोगो विशिष्यते ।। १७१ ।।
अकृत्स्नभोगतो युक्तं वागादिषु विशेषणम् ।।
सर्वस्यैवासुभोगत्वात्किं कुतोऽत्र विशिष्यते ।। १७२ ।।
अभिसंधिरविव्यत्सन्नित्यभूत्सुरविद्विषाम् ।।
अनिष्ठितकि्रयारम्भोऽविव्यत्सन्निति भण्यते ।। १७३ ।।
विव्यत्सोद्देशमात्रेण प्राणो हन्ता सुरद्विषाम् ।।
इत्यर्थप्रतिपत्त्यर्थमीदृग्दृष्टान्त उच्यते ।। १७४ ।।
बिभित्सायै यथा वेगाल्लोष्टः क्षिप्तोऽश्मनोऽन्तिकात् ।।
नश्येत्स्ववेगाच्छतधा ह्यारवणाश्मसमागमात् ।। १७५ ।।
अप्रधृष्यं तथा प्राणमृत्वा नेशुः सहस्रधा ।।
दैत्यास्तन्नाशतो देवा देवा एवाभवन्सदा ।। १७६ ।।
अत एव मनुष्यत्वहेतवोऽप्यसुराः समम् ।।
विनेशुर्विष्वग्गतयो लोष्टः क्षिप्तो यथाऽश्मनि ।। १७७ ।।
प्राणस्वभावसंपत्तेः प्राणवद्देवता अपि ।।
देवा एवाभवन्दैत्यकृत्स्नपाप्मविनाशतः ।। १७८ ।।
वागादीन्द्रियसंघातो यजमानो यथा पुरा ।।
प्राणात्मभावाद्धत्वाऽऽगो वैराजं रूपमाप्तवान् ।। १७९ ।।
तथा यस्तमुपासीत यथोक्तारव्यानवर्त्मना ।।
विराजैवाऽऽत्मना हत्वा पापं भवति सोऽचिरात् ।। १८० ।।
जीवाविष्ट उपास्योऽत्र देवताविग्रहः सदा ।।
प्राणो हिरण्यगर्भात्मा यावत्तदभिमानता ।। १८१ ।।
भावनोपचयाद्धत्वा परिच्छेदं स्वमासुरम् ।।
देवतान्मानमेत्याशु सदा तद्भावभावितः ।। १८२ ।।
तत्तमोमात्रविध्वंसान्नतु प्राणादिराप्यते ।।
कार्यत्वात्कारणं मुक्त्वा न हि तत्कार्यसंभवः ।। १८३ ।।
देवो भूत्वेह देवोऽसौ भावनोपचयाद्भवेत् ।।
पुंव्यापारोद्भवत्वं नः श्रुत्याऽपि प्रतिपादितम् ।। १८४ ।।
ब्रह्मैवाप्येति ब्रह्मैव प्रागप्यासीद्यतोऽद्वयम् ।।
तन्मोहमात्रविध्वंसादित्यपि श्रुतिशासनम् ।। १८५ ।।
स्वतःसिद्धौ तदन्येषां श्रुतिकोपः प्रसज्यते ।।
अतोऽन्यदार्ते तद्वच्चाप्येकमेवेति च श्रुतिः ।। १८६ ।।
नाव्याकृतादेः संसिद्धौ परमात्मातिरेकतः ।।
ब्रह्मवन्मानमस्तीह तथा निर्मोक्षताऽऽपतेत् ।। १८७ ।।
अथाऽऽत्माविद्याऽव्यक्तादिरूपेण प्रथते तदा ।।
तन्निवृत्तौ निवृत्तिः स्यान्निवृत्तिः केवलात्मता ।। १८८ ।।
प्राणस्येव पराभूतो द्विषन्पाप्माऽऽसुरोऽखिलः ।।
उपासीनस्य तं प्राणं कृत्स्नो नश्येत्तथाऽऽसुरः ।।
द्विषंश्चाप्यद्वषञ्छत्रुरासुरादन्य इष्यते ।। १८९ ।।
नित्यविघ्नकृदेवैष प्राणाप्तावासुरो मतः ।।
अतो विशेष्यते श्रुत्या द्विषन्भ्रातृव्यरूपया ।। १९० ।।
उक्तासुरपराभूतौ नान्योऽरिरवशिष्यते ।।
य एवं वेदेति विधिः फलोक्तेरर्थवादतः ।। १९१ ।।
अानुषङ्गिफलोक्त्या वा तदुपासा विमुक्तये ।।
आत्मविद्याधिकारेऽस्मिंस्तदुपासाविधानतः ।। १९२ ।।
आत्मविद्योपकारित्वं तस्माद्वाक्याच्च गम्यते ।। १९३ ।।
अथायास्याङ्गिरोदूर्भिर्विशिष्टमसुकर्मकम् ।।
उपासनं विधास्यामीत्यारब्धैषोत्तरा श्रुतिः ।। १९४ ।।
अनुवादाद्विधिर्ज्यायाननुवादे वृथा श्रमः ।।
पुरुषार्थाभिसंबन्धादतो विधिरिहाऽऽश्रितः ।। १९५ ।।
श्रूयते फलसंवन्धो यासूपासासु तास्विह ।।
दध्नेन्द्रियादिवज्ज्ञेयो विधिर्गुणसमाश्रयः ।। १९६ ।।
प्रधानफलसंबन्धो यत्र तु स्याच्छ्रुतेर्मुखात् ।।
विशिष्टः स विधिर्ज्ञेयो यथाऽऽग्नेयादयस्तथा ।। १९७ ।।
अवाप्ताग्न्यादिरूपास्ते प्राणालिङ्गनसंश्रयात् ।।
कृतोपकारं स्मृत्वोचुः प्राणा वागादयस्तदा ।। १९८ ।।
अनन्ताग्न्यादिभावेन यो नः सञ्जितवानसुः ।।
क्व न्वसौ वर्तते ह्यात्मा योऽस्मच्छत्रुविनाशकृत् ।। १९९ ।।
वितर्कयन्तस्ते प्राणा उक्त्वैवं प्रत्यगात्मसु ।।
कुर्वाणमुपकारं तं ददृशुः प्रागिवाऽऽदरात् ।। २०० ।।
लोकेऽपि हि विचार्यार्थमथ संविदते जनाः ।।
यथा वागादयस्तद्वद्विजव्रुः प्राणमात्मनि ।। २०१ ।।
सामान्योक्तावास्य इति तद्विशेषणमुच्यते ।।
अन्तरित्यन्यथा मा भूत्प्रसङ्गः प्राणनिश्चितौ ।। २०२ ।।
त्वगादयोऽपि सन्त्यास्ये यतोऽतस्तद्विशेषणम् ।।
विशिनष्टि ततः प्राणमास्यान्तर्विलचारिणम् ।। २०३ ।।
आस्यपर्यन्तशायीनि त्वगादीनि न मध्यतः ।।
प्राणस्तु मध्य आस्यस्य तस्मादन्तर्विशेषणम् ।। २०४ ।।
सर्वेन्द्रियाणामथवा प्राण आत्मेति कथ्यते ।।
अयमास्येऽन्तरित्येवमरनाभिनिदर्शनात् ।। २०५ ।।
अयमास्येऽन्तरित्येवं प्राणं दृष्ट्वा यतः पुरा ।।
व्याजहरुरमरास्तस्मात्प्राण आयास्यसंज्ञितः ।। २०६ ।।
अङ्गानां करणानां च रसः सारो यतस्ततः ।।
प्राण आङ्गिरसः प्रोक्तस्तद्विद्भिस्तद्गुणाश्रयात् ।। २०७ ।।
कथमाङ्गिरसः प्राण इत्यस्य प्रतिपत्तये ।।
अन्वयव्यतिरेकाभ्यामुपरिष्टात्प्रवक्ष्यते ।। २०८ ।।
तथाऽन्यांऽपि गुणोऽनस्य दूरिति प्रतिपाद्यते ।।
उदारफलसिद्ध्यर्थं सा वा एषेत्यतः श्रुतिः ।। २०९ ।।
उपास्तिक्रमसिद्ध्यर्थं क्रमभङ्गोऽयमिष्यते ।।
यतोऽतोऽङ्गिरसं त्यक्त्वा दूरित्येवाभिधीयते ।। २१० ।।
विशिष्टोपास्तिरेवेयं प्रधानफलकीर्तनात् ।।
नायं गुणविधिर्ज्ञेयस्तत्फलस्याश्रुतत्वतः ।। २११ ।।
क्रियायां गुणभूतोऽर्थो देवतेत्युपदिश्यते ।।
अस्त्युपासिक्रियायोगो देवताऽतोऽन उच्यते ।। २१२ ।।
दूरमेवंविदः पाप्मा कथमध्यवसीयते ।।
एवंवित्त्वविरोधित्वाद्दूरं पाप्मा भवेदतः ।। २१३ ।।
विषयेन्द्रियसंबन्धजो हि पाप्माऽऽसुरो यतः ।।
श्रौतानन्तादहंमानात्परिच्छिन्नो विरुध्यते ।। २१४ ।।
चक्षुरादिपरिच्छेदः प्राकृतज्ञानहेतुतः ।।
युक्तोऽध्यात्मैकरूपस्य बाधः शास्राभिमानतः ।। २१५ ।।
परिस्पन्दात्मिका वृत्तिः श्रोत्रादिष्वपि विद्यते ।।
प्राणस्याथेन्द्रियाणां तु शब्दाद्यर्थावलेहिनी ।। २१६ ।।
शब्दादिग्राहिणी वृत्तिः स्वैरासङ्गात्मपाप्मभिः ।।
दूषिता न परिस्पन्दो दूरं मृत्युरसोस्ततः ।। २१७ ।।
मृत्युर्दूरं यथा प्राणात्तदात्मत्वात्तथाऽऽसुरः ।।
तद्विदश्च भवेन्मृत्युर्दूरमित्युपदिश्यते ।। २१८ ।।
दिशामन्त इह ग्राह्मो मध्यदेशोपलक्षितः ।।
अनन्ताकाशदेशत्वान्नाञ्जसाऽन्तो दिशां यतः ।। २१९ ।।
श्रुतिस्मृतिसदाचारसंस्कृताशयवज्जनम् ।।
अवधीकृत्यान्तत्वोक्तेर्नतु दोपो मनागपि ।। २२० ।।
मध्यदेशावधिस्तस्माद्दिगन्त इति गृह्यते ।।
प्रात्यन्तिकजनोद्देशः पापीयोजनसंश्रयात् ।।
वर्ज्यतेऽत्रः प्रयत्नेन तद्विद्भिरधुनातनैः ।। २२१ ।।
तेषु प्रत्यन्तदेशेषु तन्निवासिषु चाऽऽसुरान् ।।
यतो विन्यदधात्प्रणस्तस्मात्तद्वर्जयेद्द्वयम् ।। २२२ ।।
जनो विशिष्टो देशेन देशो जनविशेषितः ।।
पाप्मोपस्पृष्टमुभयं शिष्टास्तद्वर्जन्त्यतः ।। २२३ ।।
समाहारोऽथवा भेदो नेदित्येतत्पदं भवेत् ।।
अनीप्सितानिवृत्तिः स्यात्समाहारेऽविवक्षिते ।। २२४ ।।
इत्थं न चेदहं कुर्यां प्रतिषेधश्रुतीरितम् ।।
अन्ववायानि पाप्मानं प्रतिषेधातिलङ्घनात् ।। २२५ ।।
इति भेदविवक्षायां व्यारव्या कार्या पदद्वये ।।
माङर्थस्तु तथाऽभेदे व्याख्येयः प्रतिषेधकृत् ।। २२६ ।।
सामान्यविपयश्चायं निषेधो नानविद्गतः ।।
वलवन्प्रक्रियातो हि वाक्यं सामान्यमात्रगम् ।। २२७ ।।
आसुरेणावरुद्धास्तान्वागादीन्हतपाप्मनः ।।
देवत्वं प्रापयत्प्राणः कथमित्येतदुच्यते ।। २२८ ।।
ज्ञानतोऽज्ञानहानिः स्याद्देवत्वं भावनाबलात् ।।
आनन्तर्ये क्रियाद्वित्वादथशब्दो भवेद्ध्रुवम् ।। २२९ ।।
मृत्युमत्यवहत्प्राणः सामान्योक्तेर्विशेषतः ।।
विशिष्टदेवतावाप्तिर्वागादीनां प्रपञ्च्यते ।। २३० ।।
नेदीयसी यतोऽन्येभ्यो वागेवोद्गीथकर्मणि ।।
प्राणस्य तेन सोद्गातुः प्रथमेत्यभिधीयते ।। २३१ ।।
वागाद्यग्न्याद्यवाप्त्यैवं पाप्मनोऽपास्य सर्वतः ।।
वैराजं पदमेत्येवं यजमानः सुभावितः ।। २३२ ।।
कल्याणासङ्गसंबन्धाद्वागाद्यधर्मकारणम् ।।
त्यक्त्वाऽनं मुख्यमात्मानमाश्रयेन्मृत्युवर्जितम् ।। २३३ ।।
वागाद्यैः पञ्चभिर्युक्तं विराजं साधिभौतिकम् ।।
हित्वाऽध्यात्मपरिच्छेदं ततस्तं प्रतिपद्यते ।। २३४ ।।
साधिभूताधिदैवं च नामरूपक्रियात्मकः ।।
सूत्रं प्राणोऽङ्गिराः सत्यमृक्सामेत्यन उच्यते ।। २३५ ।।
तमेकं सर्वभूतेषु ज्ञानकर्मफलाश्रयम् ।।
आस्वभावात्मविज्ञानादुपास्ते यः स तं व्रजेत् ।। २३६ ।।
उक्तमभ्युदयार्थे यद्वागादीनामथाधुना ।।
आगानमवशिष्टेषु स्तोत्रेषूद्गातुरुच्यते ।। २३७ ।।
सामान्यभोज्यविषयस्त्वन्नशब्दो यतस्ततः ।।
आद्यमित्युच्यते तस्य विशेषणतया वचः ।। २३८ ।।
यत आदाविदं वृ्त्तमन्नागानमनात्मनि ।।
तस्मात्तत्कार्यभूतासु प्रजास्वद्यापि दृश्यते ।। २३९ ।।
यद्धि किंचेति सर्वार्थमेवेत्यत्रावधारणम् ।।
प्राणेनैव तु तत्सर्वं लोकोऽन्नं ह्यत्ति सर्वदा ।। २४० ।।
अन्नोपकारः सर्वेषामविशिष्टः समीक्ष्यते ।। २४१ ।।
अथावधारणं कस्मादनेनैवेति भण्यते ।।
प्राणद्वारक एवैषामुपकारो न तु स्वतः ।। २४२ ।।
कथं तद्दूारकस्तेषामुपकार इतीर्यते ।।
ननु दूरिति हि प्राण उक्तो वागादिवत्कथम् ।।
आत्मार्थान्नाद्यसंगीतेर्विद्धो नाऽऽसुरपाप्मभिः ।। २४३ ।।
स्थितिमात्राभिसंबन्धान्नायं दोष इहेष्यते ।। २४४ ।।
असावन्नं स्थितं यस्माद्देहं प्राणानवत्यतः ।।
यत्नाच्छ्रुतिरतो वक्ति त्विहान्नं प्रतितिष्ठति ।। २४५ ।।
स्थितिमात्रं ह्यसोरन्नं यद्वासङ्गो न शङ्क्यते ।।
भर्ता श्रेष्ठः पुरो गन्ता ह्यन्नादोऽधिपतिस्तथा ।।
इत्यादिगुणविध्यर्थं परो ग्रन्थोऽवतार्यते ।। २४६ ।।
अयं गुणविधिर्ज्ञेयः प्रत्येकं तत्फलश्रुतेः ।। २४७ ।।
जग्धमन्नं यतो देहलिङ्गभावेन याति नः ।।
परिणामं व्रजत्तस्मादेतावदिति भण्यते ।। २४८ ।।
त्वयैषाऽऽत्मार्थमागीते त्वय्येवान्नमतोऽखिलम् ।।
वयं चान्नमृते स्थातुं नालं क्षणमपीश्चर ।। २४९ ।।
सतर्प्यातः स्वमात्मानमन्नेनास्मानपीश्वर ।।
आभाजयस्व क्षुधितांश्छान्दसत्वाण्णिचोऽश्रवः ।। २५० ।।
मामृतेऽन्नं न वः शक्तं पोष्टुं क्षणमपि क्वचित् ।।
अन्नार्थिनोऽतो मां सर्वेऽप्यभिसंविशताऽऽशुवै ।। २५१ ।।
तेनैता देवताः सर्वास्तृप्यन्त्यन्नेन सर्वशः ।।
इत्यर्थस्य कुतः सिद्धिरिति चेदुच्यते यतः ।। २५२ ।।
त्रिधा जग्धं भवत्यन्नं परिणामविशेषतः ।।
स्थवीयान्मध्यमोऽणीयानित्येवं कालतोऽग्नितः ।। २५३ ।।
स्थवीयान्यात्यधोभागो रसादिक्रमशोऽपरः ।।
स्थूलं ह्युपचिनोतीमं कुड्यं मृत्स्नेव सर्वदा ।। २५४ ।।
यस्त्वणीयान्नसः सूक्ष्मः स ऊर्गमृतमुच्यते ।।
नाडीः सूक्ष्माः प्रविश्यासौ देवताः प्रीणयत्यथ ।। २५५ ।।
स्वाम्यर्थ एव चोत्तम्भस्तृप्तिरापूर उच्यते ।।
ततस्तु या सुखोद्भूतिर्विज्ञानात्मन एव मा ।। २५६ ।।
ता एता देवताः सप्तदश ज्ञानक्रियात्मिकाः ।।
सोऽयं सप्तदशग्रामो भोक्तुः करणलक्षणः ।। २५७ ।।
बुद्धीन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाण्यपि ।।
वायवः पञ्च बुद्धिश्च मनः सप्तदशं विदुः ।। २५८ ।।
अपास्ताध्यात्मरूपाणां देवतानां समाश्रयाः ।।
भूतपञ्चकमेवेदं साधारण्याद्भवेत्सदा ।। २५९ ।।
पयोम्भोवदिदं लिङ्गं नानारूपैः समन्वितम् ।।
आविर्भावतिरोभावैः कारणात्मनि वर्तते ।। २६० ।।
कूटस्थबोधतन्मोहचिदाभासैकमात्रया ।।
जाग्रत्स्वप्नावयं पीत्वा ह्यास्ते प्राणात्मनां प्रभुः ।। २३१ ।।
अपास्ताशेषबाह्यार्थस्तज्जवासनयाऽञ्चितः ।।
अध्वस्तप्रत्यगज्ञानो विरिञ्चः पर उच्यते ।। २६२ ।।
जाग्रत्काले विसेषेण स्थित्वा हृदयसद्मनि।।
द्वासप्ततिसहस्राणि नाडीर्व्याप्यावतिष्ठते ।। २६३ ।।
स एष परमात्मैव स्वात्ममोहसहायवान् ।।
प्राणात्मना करोत्येष पश्यत्यग्न्यात्मना तथा ।। २६४ ।।
इन्द्राग्नी ताविमावुक्तौ प्राण इन्द्रस्तयोर्मतः ।।
प्रकाशकत्वाद्वागग्निरेवमेकः प्रजापतिः ।। २६५ ।।
अत्र्राद्यभेदतो द्वौ वा यदि वाऽध्यर्ध उच्यते ।।
यदि वाऽयं यत्रस्रिशद्द्वासप्ततिरथापि वा ।। २६६ ।।
अनन्तभेदभिन्नो वा एक एवान उच्यते ।।
सर्वोऽप्येष विकल्पश्च पुनरेकैकशस्तथा ।। २६७ ।।
देवासुरादिभेदेन जातिरूपक्रियागुणैः ।।
एकैकोऽनन्ततां याति पुनरेकात्मतामतः ।। २६८ ।।
समस्तव्यस्ततैवेह प्रत्यगज्ञानभूमिका ।।
न त्वपास्तसमस्तान्धअये नेति नेति परात्मनि ।। २३९ ।।
सर्वेणैव विकल्पेन यथोक्तेनावतिष्ठते ।।
यथाधिकारं सर्वत्र परो जगति सर्वथा ।। २७० ।।
न हि कृत्स्नमनादाय जगदेतन्मनागपि ।।
क्रियायै कारकं किंचित्तस्मात्सर्वात्मनेहते ।। २७१ ।।
कारणात्मा जगत्कृत्स्नं श्रौतदर्शनसाधनः ।।
यतः प्रागकरोत्कर्म तत्कार्येऽपि तथा ततः ।। २७२ ।।
एकापूर्वप्रयुक्तत्वात्समस्तव्यस्तरूपिणाम् ।।
सर्वः सर्वमुपादाय सर्वत्रातः प्रवर्तते ।। २७३ ।।
अध्यात्माद्यधिभूताधिदैवतं सर्वदाऽखिलम् ।।
सर्वं सर्वक्रियाः कुर्यादेकापूर्वप्रयुक्तितः ।। २७४ ।।
यतः प्रजापतिः पूर्वमेतस्मिन्दर्शने स्थितः ।।
यज्ञेन कर्मणाऽस्राक्षीज्जगदेतच्चराचरम् ।। २७५ ।।
नाड्योऽस्य रश्मयोऽनन्ता हृदयं मण्डलं रवेः ।।
अहोरात्राणि तावच्च शतसंवत्सरायुषः ।। २७६ ।।
एतया संपदा पूर्वं यजमानेन तद्विदा ।।
अग्नयोऽर्काश्चिता आसन्षद्व त्रिंशत्सहस्रशः ।। २७७ ।।
एकैकस्मिन्परिस्पन्द एवं सर्वाऽपि देवता ।।
एका चानेकरूपा च ह्यध्यात्मादिविभागतः ।। २७८ ।।
विभ्वी सर्वगताऽनन्ता समाप्ता च प्रतिक्रियम् ।।
प्रतिद्रव्यफलं कृत्स्ना खण्डादौ गोत्ववत्स्थिता ।। २७९ ।।
एष प्रजापतेरुक्तो महिमा तद्वदेव तु ।।
यजमानोऽपि तादात्म्यात्तथैव भवति ध्रुवम् ।। २८० ।।
गुणोपास्तिफलोक्त्यर्थमेवं हेति श्रुतिः परा।।
यथोक्तार्थमुपासीनं प्रति प्रववृतेऽधुना ।। २८१ ।।
वागादयोऽभिसंविष्टा जीवनार्थमनं यथा ।।
ज्ञातयोऽभिविशन्त्येवं तद्विदं जीवनार्थिनः ।। २८२ ।।
भर्ता च संनिविष्टानां श्रेष्ठश्च गुणतो भवेत् ।।
यथोक्तगुणवैफल्यं पुर एता न चेद्भवेत् ।। २८३ ।।
सर्वमेतद्वृथैव स्यान्न चेद्दीप्ताग्निमान्भवेत् ।।
अन्नाद इत्यतो वक्ति साफल्यप्रतिपत्तये ।। २८४ ।।
द्विषत्सु स्वेषु च न चेदाधिपत्यं तथाऽपि च ।।
प्रोक्तवैफल्यमाशङ्क्य ह्याहाधिपतितां फलम् ।। २८५ ।।
प्राण आत्मेत्युपासीनो यथोक्तं फलमश्नुते ।।
तज्ज्ञातयोऽपि फलिनो यथा वागादयस्तथा ।। २८६ ।।
प्राणसंस्पर्धिनो यद्वद्विनेशुरसुरास्तथा ।।
प्राणविद्विद्विषः सर्वे नालं भार्येभ्य एव च ।। २८७ ।।
उद्बुभूषति यो द्वेषात्स्वेषु प्राणविदं प्रति ।।
प्रतिस्पर्धी न सोऽलं स्याद्भरणाय कथंचन ।। २८८ ।।
नासौ श्रेष्ठः पुरोगन्ता नान्नादोऽसुरवद्भवेत् ।।
न च ज्ञातिष्वधिपतिः स्पर्धमानोऽनवेदिना ।। २८९ ।।
सोऽग्रास्याङ्गिरसः प्रोक्तस्तत्रायास्यो यथा तथा ।।
निर्णीतः प्रागथेदानीमाङ्गिरस्त्वविनिर्णयः ।। २९० ।।
पूर्वोक्तस्यानुवादोऽयं सोऽयास्येत्याद्युपक्रमः ।।
श्रुत्याऽऽङ्गिरस्त्वसिद्ध्यर्थमुच्यते न्यायपूर्वकम् ।। २९१ ।।
सिद्धोऽङ्गानां रसः प्राणः प्राणोऽङ्गानां रसः कथम् ।।
हीति हेतावतः प्राह तद्व्याख्यानाय चोत्तरः ।। २९२ ।।
यस्मात्कस्माच्चिदङ्गाद्धि प्राण उत्क्रामतीह नुः ।।
नीरसं मत्तदेवाङ्गमाशु शुष्यति तत्र च ।। २९३ ।।
यत एवमिदं दृष्टमन्वयव्यतिरेकः ।।
तस्मादाङ्गिरसः प्राणो ज्ञेय आत्मेति पण्डितैः ।। २९४ ।।
कार्यस्य रूपभूतस्य कर्मणः करणस्य च ।।
न केवलं प्राण आत्मा नाम्नोऽप्यात्मेति भण्यते ।। २९५ ।।
एवं सर्वात्मकत्वेन स्तुवन्प्राणं प्रयत्नतः ।।
आदरं कुरुते शास्रमुपास्यत्वाय देहिनाम् ।। २९६ ।।
बृहस्पत्यादिभिर्धर्मैरसोरन्यदुपासनम् ।।
विशिष्टमभिधित्स्वाह शास्रं पूर्ववदेव च ।। २९७ ।।
वाग्व्यापृततमा दृष्टा यत उद्गीथकर्मणि ।।
देवता सैव न प्राण इत्याशङ्क्येदमुच्यते ।। २९८ ।।
कौष्ठ्याग्निप्रेरितो वायुर्नानास्थानसमाहतः ।।
वर्णतामेति येनातः प्राण एव बृहस्पतिः ।। २९९ ।।
यजुर्ब्रह्मेति श्रवणादन्ते साम्नो ग्रहादपि ।।
ऋग्यजुःसामनिर्देशः क्रमेणेति प्रतीयते ।। ३०० ।।
सेति वाचोऽभिधानं स्यादमः प्राणाभिधा तथा ।।
सामोभयं समुदितं गुणप्राधान्यरूपतः ।। ३०१ ।।
एकार्थवृत्तिता यस्मात्तेनैकवचनं कृतम् ।।
शब्दयोः सामयोस्तस्मात्प्राणः सामाभिधीयते ।। ३०२ ।।
इतरस्यापि सामत्वं प्राणनिर्वर्त्यतो मतम् ।।
प्राण एव ततः साम युक्तो वागुपसर्जनः ।। ३०३ ।।
निःशेषभूतसाम्याद्वा साम प्राणोऽभिधीयते ।।
प्रत्यगज्ञानहेतुत्वात्तज्जस्यऽऽनन्त्यमुच्यते ।। ३०४ ।।
अतिसूक्ष्मशरीरा हि पुत्तिका प्लषिरुच्यते ।।
पुत्तिकादिशरीरेण समः प्राणस्तदाश्रयात् ।। ३०५ ।।
मशकेभविराइदेहैः समः प्राणो यथोदितः ।।
तथा हैरण्यगर्भेण लिङ्गात्मा सम एव तु ।। ३०६ ।।
वाय्वात्मनि समाप्तत्वात्करणानामशेषतः ।।
सर्वदेहसमत्वं स्यात्प्राणिकर्मानुरूपतः ।। ३०७ ।।
प्रतिप्राणिपरिच्छेदो ज्ञानकर्मानुरोधतः ।।
धर्माधर्मानपेक्षः सन्नानन्त्येनावतिष्ठते ।। ३०८ ।।
साम्न आप्नोति सायुज्यमैकात्म्यं प्राणरूपताम् ।।
समानलोकताऽनेन सालोक्यमिति शब्द्यते ।। ३०९ ।।
विकल्पासंश्रवाद्विद्वानश्नुतेऽतः फलद्वयम् ।।
वैचित्र्याद्भावनादेर्वा त्रिविधं फलमुच्यते ।। ३१० ।।
भूयोल्पीयः फलत्वं चेत्तुल्यसाधनयोर्न तत् ।।
योगैश्वर्यात्समा सिद्धिः कालादेरीश्वराद्यतः ।। ३११ ।।
एकमेव जगद्वीजमीशाभिप्रायहेतुतः ।।
भूरिनानाप्रभेदेन प्रत्यात्मं व्यवतिष्ठते ।। ३१२ ।।
कुर्यान्मेरावणुधियमणौ मेरुधियं तथा ।।
सर्वत्राप्रतिधात्येव प्रत्यगज्ञो महेश्वरः ।। ३१३ ।।
अतत्त्वज्ञस्य तमसो रज्ज्वज्ञानोरगादिवत् ।।
अष्टावस्थाप्रभेदेन मिथ्याज्ञानं प्रजायते ।। ३१४ ।।
प्रत्यगज्ञानविध्वस्तौ रज्ज्वज्ञानहताविव ।।
तत्कल्पितनिवृत्तिः स्यादष्टावस्थस्य बोधतः ।। ३१५ ।।
अनात्मवस्तु सकलं प्रत्यगज्ञांनहेतुजम् ।।
यथा तथोत्तरत्रापि युक्तिभिश्चाभिधास्यते ।। ३१६ ।।
औद्गात्रमेव चोद्गीथो भक्तिर्वा काचिदिष्यताम् ।।
प्रसिद्धेरिति चेन्मैवमुद्गीथो ह्यसुरेव तु ।। ३१७ ।।
उपसर्ग उदित्येप स चात्यन्तक्रियाश्रितः ।।
संयोज्य क्रिययाऽतस्तं व्याचष्टे श्रुतिरञ्जसा ।। ३१८ ।।
उत्तब्धं विधृतं यस्मात्प्राणेन जगदित्वरम् ।।
उत्प्राणोऽतः प्रसिद्धस्तु गुणादुद्गीथ उच्यते ।। ३१९ ।।
अनया गीयते यस्माद्गीथा वाक्तेन भण्यते ।।
उच्च गीथा च तद्योगादुद्गीथ इति शब्द्यते ।। ३२० ।।
उद्गाता नैमिषीयाणामयास्योपासनादभूत् ।।
अयास्यनामा सोऽगायद्वाचा प्राणप्रधानया ।। ३२१ ।।
बृहस्पत्यादिभिर्धर्मैरुपास्यानमनो भवेत् ।।
भावनोत्कर्षतोऽतोऽयं विचारस्तं प्रतीष्यते ।। ३२२ ।।
हृदयेनाभिसंबन्धाद्देवताऽत्र प्रजापतिः ।।
Line २ miss ।। ३२३ ।।
वागीश्वरत्वादिन्द्रो वा यदि वा वर्णदेवता ।।
पदवाक्यस्वरस्थाननादादिविषयाऽपि वा ।। ३२४ ।।
एवं विप्रतिपन्नेपु नानावादिषु निश्चितः।।
प्राणप्रधानया वाचा ह्ययास्योऽगायदित्यतः ।।
ब्रह्मदत्तश्चकारोच्चैः शपथं वादिनः प्रति ।। ३२५ ।।
यदितोऽनप्रधानाया वाचो ह्यन्येन केनचित् ।।
देवान्तरेण सोऽगायदयास्यः प्राणविग्रहः ।। ३२६ ।।
सर्वप्रमाणभूतोऽभूदुद्गाता सत्रिणां पुरा ।।
विसंवादस्त्वभूत्तेषामुद्दिश्योद्गीथदेवताम् ।। ३२७ ।।
उद्गाता नैमिषीयाणां मदभ्युपगताद्यदि ।।
प्राणवाग्द्वयतोऽन्येन देवेनासौ प्रयत्नवान् ।। ३२८ ।।
उदगायत्तदा सोमो भक्ष्यमाणः शिरो मम ।।
मिथ्याभिवादिनः साक्षाद्विपातयतु सत्वरः ।। ३२९ ।।
श्रुतिः समर्थयामास वाचेति शपथक्रियाम् ।।
शपथस्यापि मानत्वमस्मादेव तु कारणात् ।। ३३० ।।
वाचः प्राणस्य च यत उद्गीथे व्यापृतिः स्फुटा ।।
प्राधान्येन तदन्येषां न तथा लक्ष्यते सदा ।। ३३१ ।।
आकृत्यर्थाभिसंबन्धादभिधानस्य न श्रुतेः ।।
ब्रह्मदत्ताभिसंबन्धादनित्यत्वं प्रसज्यते ।। ३३२ ।।
उद्गीथदेवतामेवं परीक्ष्याथाधुना श्रुतिः ।।
स्वादिधर्माभिसंबन्धं प्रचक्राम प्रभाषितम् ।। ३३३ ।।
याजमानमिदं ज्ञानं स्वादेः प्राग्यत्समीरितम् ।।
पञ्चमाद्युक्तिदृष्ट्याऽस्य ह्येकवाक्यत्वहेतुतः ।। ३३४ ।।
स्वसुवर्णप्रतिष्ठाधीरुद्गातुरिति गम्यते ।।
ऋत्विङ्नामाभिसंबन्धान्न त्वसौ यजमानगा ।। ३३५ ।।
एष एवंविदुद्गातेत्यमुतो लिङ्गतो भवेत् ।।
उद्गातुरपि विज्ञानं दृष्टार्थत्वाच्च कारणात् ।। ३३६ ।।
कर्त्राश्रितं स्वं विज्ञेयं माधुर्यादीह सामनि ।।
यतस्तद्धनवत्तस्मात्स्वरार्थं यत्नमाचरेत् ।। ३३७ ।।
धनवन्तं यथा यत्नाद्दिदृक्षन्तीह संघशः ।।
तथा यत्नात्समीक्षन्ते स्वरसंपत्समन्वितम् ।। ३३८ ।।
बाह्यवित्तेन संबन्धमुक्त्वाऽथान्तर्धनात्मना ।।
संबन्धं वक्तुकामेयं प्रचक्रामोत्तरा श्रुतिः ।। ३३९ ।।
बाह्योऽस्य धर्मः सौस्वर्यं सौवर्ण्यं त्वान्तरं धनम् ।।
तदन्तरतमोऽनस्य प्रतिष्ठागुण उच्यते ।। ३४० ।।
जिह्वामूलीयकादीनि ह्यष्टौ स्थानानि वागिह ।।
गानप्रतिष्ठाहेतुत्वाद्धीति हेतुवचस्तथा ।। ३४१ ।।
अन्नप्रतिष्ठमागानमेक आहुर्विपाश्चितः ।।
अनिषेधाद्दूयोरेका प्रतिष्ठेहावसीयताम् ।। ३४२ ।।
अन्नस्य परिणामेऽनः स्थितो गीतित्वमेति हि ।।
अनप्रतिष्ठा देहोऽतः श्रुत्येह प्रतिपाद्यते ।। ३४३ ।।
उपासनं विकल्पेन वागन्नास्व्यप्रतिष्ठयोः ।।
वाक्प्रतिष्ठमुपासीत यदि वाऽन्नप्रतिष्ठितम् ।। ३४४ ।।
यदर्थमतियत्नेन महिमाऽनस्य कीर्तितः ।।
अभ्यारोहजपः सोऽथ प्राप्तावसर उच्यते ।। ३४५ ।।
यथोक्तज्ञानवत्तायामिदं कर्म विधित्स्यते ।।
कार्त्स्न्येन तस्य चोक्तत्वादतस्तदभिधीयते ।। ३४६ ।।
एवं विद्वत्प्रयोज्यत्वादत एव न सूत्रितम् ।।
नित्यकर्मेव सूत्रेषु तेन विद्वत्प्रयोज्यता ।। ३४७ ।।
उद्गीथलिङ्गसंयोगाद्गानमात्रेऽस्य शक्तितः ।।
नियमोऽस्यैवकारेण पवमानेषु कथ्यते ।। ३४८ ।।
ततोऽपि कालसंकोचं स वा इत्यादिनाऽनदत् ।।
प्रस्तोता प्रस्तुयाद्यत्र तदैतानि जपेदिति ।। ३४९ ।।
एतानीति च निर्देशाद्यजूंषीत्यवगम्यते ।।
श्रुतावेव च दृष्टत्वात्स्वरः शातपथो जपे ।। ३५० ।।
जपकर्माभिधा चेयमभ्यारोह इतीष्यते ।।
योगिकी चाभिधा ज्ञेया क्रियायोगस्य संभवात् ।। ३५१ ।।
हित्वाऽध्यात्मपरिच्छेदं दैवं वीजमतः परम् ।।
अभ्यारोहत्यनेनातो ह्यभ्यारोहो जपः स्मृतः ।। ३५२ ।।
तिरोहितार्थरूपत्वान्मन्त्राणां न नृधीगतिः ।।
मन्त्रार्थं स्वयमेवातो व्याचष्टे श्रुतिरञ्जसा ।। ३५३ ।।
पूर्वं पदार्थान्व्याख्याय पश्चाद्वाक्यार्थमव्रवीत् ।।
फलं पश्चाद्यथोक्तस्येत्येष व्याख्याक्रमः श्रुतेः ।। ३५४ ।।
यत्स्यात्स्वाभाविकं ज्ञानं यच्च कर्म स्वभावजम् ।।
तदधःपातहेतुत्वान्मन्त्रेऽसदिति भण्यते ।। ३५५ ।।
सद्देवभावहेतुत्वाच्छास्रीये ज्ञानकर्मणी ।।
सत्पदेनाभिधीयेते मन्त्रेऽस्मिन्प्राग्यथोदिते ।। ३५६ ।।
असन्मृत्युस्तयोर्ज्ञेयः पूर्वयोर्मृत्युहेतुतः ।।
अमृतं मृत्युघातित्वाच्छास्रीये ज्ञानकर्मणी ।। ३५७ ।।
आसुरज्ञानकर्मभ्यां मां व्युत्थाप्याथ तज्जितेः ।।
गमयाऽऽशु ततो दैवे शास्रीये ज्ञानकर्मणी ।। ३५८ ।।
मन्त्रार्थे यत्नमाहाथ ह्यमृतं मामिति श्रुतिः ।।
द्वितीयमन्त्रानूक्तिः स्यात्तमसो मेत्युदीरणम् ।। ३५९ ।।
आपेक्षिकत्वान्मृत्युः स्याच्छास्रीये ज्ञानकर्मणी ।।
स्वार्थं फलमपेक्ष्यैते परार्थत्वात्तमो मते ।। ३६० ।।
साधनात्तमसो मां त्वं ज्योतिः साध्यं नायमृतम् ।।
फलाप्त्यैव तमोध्वंसादमृतं मेत्यतोऽवदत् ।। ३६१ ।।
पूर्वयोर्मन्त्रयोर्योऽर्थो विस्तरेणोदितः पुनः ।।
मन्त्रेण स तृतीयेन संक्षेपेणाभिधीयते ।। ३६२ ।।
प्रसङ्गमुत्तरे मन्त्रे पूर्वयोरिव वीक्ष्य हि ।।
तिरोहितार्थतामाह नात्रेत्यादिवचः श्रुतिः ।। ३६३ ।।
यथाप्रार्थितमागाय याजमानं फलं परम् ।।
त्रिष्वेव पवमानेषु यथा वागादिभिः पुरा ।। ३६४ ।।
अथ यानीतराणीति ह्युद्गाताऽन्नाद्यमात्मने ।।
आगायेद्वचनात्कर्तुः कामयोगोऽपि गम्यते ।। ३६५ ।।
कस्मादात्मन आगायेदिति हेतुरिहोच्यते ।।
यस्मात्स एष एवंविदुद्गाताऽतोऽन एव सः ।। ३६६ ।।
अतोऽलमात्मने कामानागातुं स्वामिने तथा ।।
यस्मादीश्वर उद्गाता कामावाप्तावतः शुभम् ।। ३६७ ।।
तस्मात्तेषु वरं कामं यजमानो यथारुचि ।।
नवसूद्गीयमानेषु तं वृणीताविचारयन् ।। ३६८ ।।
प्रयोगानुगमे चैतद्दर्शनं येन चोद्यते ।। ३६९ ।।
तस्मात्स्याद्देवतावाप्तिर्ज्ञानकर्मसमुच्चयात् ।।
तस्मान्न काचिदाशङ्का कर्मिणं प्रति विद्यते ।। ३७० ।।
कर्महीनेऽपि विदुषि स्यान्न वेत्यतिशङ्क्यते ।।
तदाशङ्कापनुत्त्यर्थं तद्धैतदिति हि श्रुतिः ।। ३७१ ।।
इहैव देवभूतत्वादाशङ्का किंनिबन्धना ।।
जपकर्मानवोधाभ्यां लोकप्राप्तौ हि शङ्क्यते ।।
ज्ञानादेव भवेन्नेति तद्धैतदिति हि श्रुतिः ।। ३७२ ।।
जीवतो देवभूतस्य भावनोपचयात्कुतः ।।
देवाराप्तौ भवेच्छङ्का मनुष्यस्य तदाप्तिवत् ।। ३७३ ।।
कर्मिणोऽपि हि देवाप्तिर्ज्ञानादेव न कर्मणः ।।
समुच्चयात्तु तत्प्राप्तावागमादेव निश्चितिः ।। ३७४ ।।
तद्धैतत्प्राणविज्ञानं यथाव्याख्यातरूपकम् ।।
भवेल्लोकजिदेवेह कर्मशून्यमपि ध्रुवम् ।। ३७५ ।।
न हैवालोक्यतायै नुरस्याऽऽशाऽपीह विद्यते ।।
इहैव लोकभूतत्वादप्राप्तेऽर्थे हि शङ्क्यते ।। ३७६ ।।
इहैवाऽऽसुरभावस्य प्राणोऽस्मीत्यभिमानतः ।।
प्रध्वस्तत्वात्कुतः शङ्का तन्मूलासंभवाद्भवेत् ।। ३७७ ।।
इदमत्र विचिन्त्य स्याज्ज्ञानकर्मसमुच्चयात् ।।
देवभावः किमुद्गातुर्यजमानस्य वाऽथ किम् ।। ३७८ ।।
न समुच्चय उद्गातुः कर्माभावादिहेष्यते ।।
परकर्मप्रवेशात्स्यादुद्गाता न स्वकर्मणि ।। ३७९ ।।
क्रियायोगाच्च तन्नाम्नो ज्ञानाभ्यासोऽपि दुर्लभः ।।
साक्षात्कृतिश्च संतत्या संततिश्च न विद्यते ।। ३८० ।।
न च धीजन्ममात्रेण परमात्मप्रबोधवत् ।।
संभाव्यो देवभावोऽस्य देवो भूत्वेति च श्रुतेः ।। ३८१ ।।
उद्गतुर्विदुषो नापि परकीयेन कर्मणा ।।
समुच्चयप्रसिद्धिः स्यात्तयोर्भिन्नाश्रयत्वतः ।। ३८२ ।।
यजमानस्य कर्मास्ति ज्ञानं तूद्गातृसंश्रयम् ।।
समुच्चयोऽतस्तस्यापि भिन्नाधिष्ठानतो न च ।। ३८३ ।।
मतं तद्याजमानं स्याज्ज्ञानं यत्प्रागुदीरितम् ।।
स्वयमेव कृतार्थत्वात्काऽपेक्षाऽस्यर्त्विजं प्रति ।। ३८४ ।।
कर्मण्युद्गात्रपेक्षावज्ज्ञानेऽपीति मतं यदि ।।
उद्गातुरपि तत्तुल्यं नोद्गातर्ते क्रियां यतः ।। ३८५ ।।
याजमानं यथा कर्म ह्याश्रित्य फलवद्भवेत् ।।
अन्नाद्यागानमुद्गातुस्तज्ज्ञानं तद्वदाश्रितम् ।। ३८६ ।।
समुच्चयाच्चेदुभयोरुद्गातृयजमानयोः ।।
देवभावः किमर्थेयं तद्धैतदिति हि श्रुतिः ।। ३८७ ।।
सर्वाश्रमाणां तर्हीदं सामान्येनाभिधीयते ।।
तद्धैतदिति सिद्धत्वादुद्गातृयजमानयोः ।। ३८८ ।।
देवभावेन विज्ञानं संस्करोत्येव तद्धियम् ।।
परार्थमपि सत्कस्मादनपेक्षं न सिद्धये ।। ३८९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयं ब्राह्मणम्