बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥
यदेतदविद्याविषयत्वेन प्रस्तुतं साध्यसाधनलक्षणं व्याकृतं जगत् प्राणात्मप्राप्त्यन्तोत्कर्षवदपि फलम् , या चैतस्य व्याकरणात्प्रागवस्था अव्याकृतशब्दवाच्या — वृक्षबीजवत् सर्वमेतत् त्रयम् ; किं तत्त्रयमित्युच्यते — नाम रूपं कर्म चेति अनात्मैव — न आत्मा यत्साक्षादपरोक्षाद्ब्रह्म ; तस्मादस्माद्विरज्येतेत्येवमर्थः त्रयं वा इत्याद्यारम्भः । न ह्यस्मात् अनात्मनः अव्यावृत्तचित्तस्य आत्मानमेव लोकम् अहं ब्रह्मास्मीत्युपासितुं बुद्धिः प्रवर्तते, बाह्यप्रत्यगात्मप्रवृत्त्योर्विरोधात् । तथा च काठके — ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ (क . २ । १ । १) इत्यादि ॥
कथं पुनः अस्य व्याकृताव्याकृतस्य क्रियाकारकफलात्मनः संसारस्य नामरूपकर्मात्मकतैव, न पुनरात्मत्वम् — इत्येतत्सम्भावयितुं शक्यत इति । अत्रोच्यते — तेषां नाम्नां यथोपन्यस्तानाम् — वागिति शब्दसामान्यमुच्यते, ‘यः कश्च शब्दो वागेव सा’ (बृ. उ. १ । ५ । ३) इत्युक्तत्वात् वागित्येतस्य शब्दस्य यो अर्थः शब्दसामान्यमात्रम् एतत् एतेषां नामविशेषाणाम् उक्थं कारणम् उपादानम् , सैन्धवलवणकणानामिव सैन्धवाचलः ; तदाह — अतो हि अस्मान्नामसामान्यात् सर्वाणि नामानि यज्ञदत्तो देवदत्त इत्येवमादिप्रविभगानि उत्तिष्ठन्ति उत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणाः ; कार्यं च कारणेनाव्यतिरिक्तम् । तथा विशेषाणां च सामान्येऽन्तर्भावात् — कथं सामान्यविशेषभाव इति — एतत् शब्दसामान्यम् एषां नामविशेषाणाम् साम, समत्वात्साम, सामान्यमित्यर्थः ; एतत् हि यस्मात् सर्वैर्नामभिः आत्मविशेषैः समम् । किञ्च आत्मलाभाविशेषाच्च नामविशेषाणाम् — यस्य च यस्मादात्मलाभो भवति, स तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा ; कथं नामविशेषाणामात्मलाभो वाच इत्युच्यते — यत एतदेषां वाक्शब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो नाम्नाम् , शब्दव्यतिरिक्तस्वरूपानुपपत्तेः ; तत्प्रतिपादयति — एतत् शब्दसामान्यं हि यस्मात् शब्दविशेषान् सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन । एवं कार्यकारणत्वोपपत्तेः सामान्यविशेषोपपत्तेः आत्मप्रदानोपपत्तेश्च नामविशेषाणां शब्दमात्रता सिद्धा । एवमुत्तरयोरपि सर्वं योज्यं यथोक्तम् ॥
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥
अथेदानीं रूपाणां सितासितप्रभृतीनाम् — चक्षुरिति चक्षुर्विषयसामान्यं चक्षुःशब्दाभिधेयं रूपसामान्यं प्रकाश्यमात्रमभिधीयते । अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति, एतदेषां साम, एतद्धि सर्वै रूपैः समम् , एतदेषां ब्रह्म, एतद्धि सर्वाणि रूपाणि बिभर्ति ॥
अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सा मैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयं सदेकमयमात्मात्मो एकः सन्नेतत्त्रयं तदेतदमृतं सत्त्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्त्यं ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥
अथेदानीं सर्वकर्मविशेषाणां मननदर्शनात्मकानां चलनात्मकानां च क्रियासामान्यमात्रेऽन्तर्भाव उच्यते ; कथम् ? सर्वेषां कर्मविशेषाणाम् , आत्मा शरीरम् सामान्यम् आत्मा — आत्मनः कर्म आत्मेत्युच्यते ; आत्मना हि शरीरेण कर्म करोति — इत्युक्तम् ; शरीरे च सर्वं कर्माभिव्यज्यते ; अतः तात्स्थ्यात् तच्छब्दं कर्म — कर्मसामान्यमात्रं सर्वेषामुक्थमित्यादि पूर्ववत् । तदेतद्यथोक्तं नाम रूपं कर्म त्रयम् इतरेतराश्रयम् इतरेतराभिव्यक्तिकारणम् इतरेतरप्रलयम् संहतम् — त्रिदण्डविष्टम्भवत् — सत् एकम् । केनात्मनैकत्वमित्युच्यते — अयमात्मा अयं पिण्डः कार्यकरणात्मसङ्घातः तथा अन्नत्रये व्याख्यातः — ‘एतन्मयो वा अयमात्मा’ (बृ. उ. १ । ५ । ३) इत्यादिना ; एतावद्धीदं सर्वं व्याकृतमव्याकृतं च यदुत नाम रूपं कर्मेति ; आत्मा उ एकोऽयं कार्यकरणसङ्घातः सन् अध्यात्माधिभूताधिदैवभावेन व्यवस्थितम् एतदेव त्रयं नाम रूपं कर्मेति । तदेतत् वक्ष्यमाणम् ; अमृतं सत्त्येन च्छन्नमित्येतस्य वाक्स्यार्थमाह — प्राणो वा अमृतम् करणात्मकः अन्तरुपष्टम्भकः आत्मभूतः अमृतः अविनाशी ; नामरूपे सत्त्यं कार्यात्मके शरीरावस्थे ; क्रियात्मकस्तु प्राणः तयोरुपष्टम्भकः बाह्याभ्यां शरीरात्मकाभ्यामुपजनापायधर्मिभ्यां मर्त्याभ्यां छन्नः अप्रकाशीकृतः । एतदेव संसारसतत्त्वमविद्याविषयं प्रदर्शितम् ; अत ऊर्ध्वं विद्याविषय आत्मा अधिगन्तव्य इति चतुर्थ आरभ्यते ॥
तद्धेदमित्यविद्याया उक्तं कार्यमशेषतः ।।
उक्तार्थस्यैव संक्षेपस्रयं वा इत्यथोच्यते ।। १ ।।
अज्ञातैकात्म्यकार्यं तद्यदेतदभिशब्दितम् ।।
न तु विध्वस्तसंमोहप्रत्यङ्भात्रसतत्त्वगम् ।। २ ।।
एवमुक्ते विरक्तोऽस्मान्मुमुक्षुः श्रद्धयाऽन्विनः ।।
ब्रह्मज्ञानेऽधिकारी स्यात्कथं नामेति भण्यते ।। ३ ।।
अविद्योत्थपुमर्थेभ्यो विमुखीभूतमानसः ।।
आत्मतत्त्वविजिज्ञासुस्तद्वयावृत्तो भवेन्नरः ।। ४ ।।
बाह्यार्थबद्धधिषणः प्रत्यग्याथात्म्यवित्तये ।।
नालं विरोधात्पुरुषः पराञ्चीत्यागमोक्तितः ।। ५ ।।
अविद्यामात्रहेतुत्वं न त्वैकात्म्यानुसारिता ।।
यथोक्तवस्तुनः कस्मादित्येतत्प्रतिपाद्यते ।। ६ ।।
अज्ञातादात्मनः साक्षादभिव्यक्तिः पुरोदिता ।।
अहेतुफलरूपस्य नामरूपक्रियात्मभिः ।। ७ ।।
नामाद्यात्मकतैवास्य ब्रह्मादेः स्थावरावधेः ।।
न तु वस्त्वन्तरं तत्स्याद्यथा तदिह वर्ण्यते ।। ८ ।।
कारणत्वसमानत्वस्वात्मलाभत्वहेतुभिः ।।
नामाद्यात्मकतैतस्य प्रपञ्चस्य प्रसाध्यते ।। ९ ।।
अनेकभेदसंभिन्नं यदेतद्व्याकृतं जगत् ।।
नामरूपक्रियातत्त्वमेतत्सर्वं प्रतीयताम् ।। १० ।।
त्रयं वा इदमित्येवं प्रतिज्ञार्थमिदं वचः ।।
हेतूक्तिरुत्तरो ग्रन्थस्तेषामित्यादिनोच्यते ।। ११ ।।
वागित्यनेन शब्देन नादमात्रं विवक्ष्यते ।।
अपजुह्नूषितत्वात्तु नादोत्थस्य विकारतः ।। १२ ।।
एषां नामविकाराणामुक्यं नादस्तदुत्थितेः ।।
सर्वनाम्नामतो नाद उक्थमित्यभिधीयते ।। १३ ।।
तथा सामान्यतो वाचो विशेषाणां तदात्मता ।।
न हि निष्कृष्य सामान्याद्विशेषः कश्चिदीक्ष्यते ।। १४ ।।
आत्मत्वाच्च तथा वाचो नाऽऽत्मीयोऽन्योऽवशिष्यते ।।
कार्त्स्येनैवाभिसंबन्धादात्मीयस्येह वस्तुतः ।। १५ ।।
कार्यकारणगो भेदः प्राप्तो लोके य ईक्ष्यते ।।
अविचारितसंसिद्धः सोऽयं श्रुत्या निषिध्यते ।। १६ ।।
एवं सति प्रमाणत्वमपूर्वार्थावबोधनात् ।।
अन्यथाऽतोऽनुवादः स्याच्छ्रुतेर्ज्ञातार्थबोधनात् ।। १७ ।।
चक्षुषो विषयश्चक्षुःशब्देनेहाभिधीयते ।।
रूपाणामिति संबन्धाद्रूपात्मत्वात्तथैव च ।। १८ ।।
यद्यद्धि रूप्यते किंचिच्छब्दस्पर्शादिकं धिया ।।
तत्तद्रूपमिति ज्ञेयं तैजसत्वाविशेषतः ।। १९ ।।
त्वाष्ट्रमेव हि सर्वत्र तेजो रूपादिलक्षणम् ।।
तस्माद्विषयसामान्यं चक्षुःशब्देन भण्यते ।। २० ।।
हेतुतज्जाविभागेन कार्यकारणहेतुतः ।।
वाचारम्भणशास्राच्च विकारानृततोच्यते ।। २१ ।।
अन्तर्भावश्च सामान्ये विशेषाणामथोच्यते ।।
सामान्यमेतत्सर्वेपां विशेषाणां समं हि तैः ।। २२ ।।
न विशेषो न सामान्यं भेदतोऽभेदतोऽस्ति नः ।।
तथा रूपविशेषाणां रूपमात्रआत्मकत्वातः ।।
स्रग्वत्सर्पादिकान्यद्वद्रूपं सर्वं बिभर्ति हि ।। २३ ।।
उक्तं समासतस्तावदेकत्वं नामरूपयोः ।।
कर्मणोऽपि तथैकत्वमधुना प्रतिपाद्यते ।। २४ ।।
वाक्चक्षुःशब्दतो यद्वद्गृह्यते विषयस्तयोः ।।
आत्मनो विषयस्तद्वदात्मशब्देन गृह्यते ।। २५ ।।
सर्वेन्द्रियपरिस्पन्दो व्यज्यते नः शरीरके ।।
शरीरविषयस्तस्मादात्मेत्यत्राभिधीयते ।। २६ ।।
आत्मैव त्वस्य कर्मेति तथैवाभिहितं पुरा ।।
अतोऽत्र कर्मसामान्यं गृह्यते देहसंश्रितम् ।। २७ ।।
नाम रुपं तथा कर्म यदेतत्र्रयमीरितम् ।।
एकमेव भवत्येतत्र्रयं सद्देहमात्रकम् ।। २८ ।।
विकर्तृत्वेन कर्मात्र नामरूपात्मनोर्भवेत् ।।
कर्मणः साधनत्वेन नामरूपे व्यवस्थिते ।। २९ ।।
रूपमेव प्रतिष्ठा स्यात्सर्वदा नामकर्मणोः ।।
न हि रूपमनाश्रित्य विद्येते नामकर्मणी ।। ३० ।।
प्राण एऴ प्रतिष्ठैवं सदा स्यान्नामरूपयोः ।।
प्राणैकात्म्याश्रयाद्यस्मादात्मलाभः सदा तयोः ।। ३१ ।।
तद्वद्वागाश्रयत्वं च तयोः स्याद्रूपकर्मणोः ।।
वाचा प्रकाश्यमाने ते प्रयुज्येते यतः सदा ।। ३२ ।।
आश्रयाश्रयिभावेन नामरूपक्रियात्मनाम् ।।
एकार्थानां सतां तेषां संहतिः स्याच्छरीरके ।। ३३ ।।
एकः सन्नेष आत्माऽपि त्रयमेतत्प्रपद्यते ।।
नामरूपक्रियाभिन्नो देहोऽयं गृह्यते यतः ।। ३४ ।।
एतन्मयोऽयमात्मेति तथा पूर्वं प्रपञ्चितम् ।।
एतावद्व्याकृतं सर्वं यदेतत्संहतं त्रिभिः ।। ३५ ।।
तदेतत्खलु वैराजं नामरूपक्रियात्मकम् ।।
नामरूपात्मसत्त्येन च्छन्नं प्राणामृतं तु तत् ।। ३६ ।।
प्राणशब्देन लिङ्गात्मा भण्यते करणात्मकः।।
पिण्डस्य मरप्मे नैतन्म्रियतेऽतोऽमृतं मतम् ।। ३७ ।।
पृथिव्यबग्निभूतानि सत्संज्ञान्यत्र लक्षयेत् ।।
त्यत्संज्ञके तु विज्ञेये वाय्वाकाशे महात्मभिः ।। ३८ ।।
सच्च त्यच्चेति तत्सत्त्यं पञ्चभूतात्मकं विदुः ।।
करणायतनं स्थूलं वैराजं यत्प्रचक्षते ।। ३९ ।।
अस्याप्यन्तर्गतः प्राणो विज्ञानात्मेति यं विदुः ।।
आ संसारात्स्थितः स्थास्नुः परिणामात्मकः सदा ।। ४० ।।
यथाकर्म यथाज्ञानमुपादत्ते शरीरकम् ।।
प्लुष्यादिना समोऽतोऽयं श्रुतावप्यभिधीयते ।। ४१ ।।
उपात्ताशेषभूतोऽयं यथोक्तोपात्तदेवतः ।।
कृत्स्नाविद्योत्थमानी च प्रत्यगज्ञानकारणात् ।। ४२ ।।
हैरण्यगर्भे तत्त्वज्ञो वैराजे च शरीरके ।।
आबद्धात्माभिमानोऽयं गार्ग्योऽविद्यासमन्वितः ।। ४३ ।।
कृत्स्नसंसारमान्येष सर्वोऽस्मीति व्यवस्थितः ।।
ब्रह्मोपदेशविषयः श्रुत्यैवोत्थाप्यते जडः ।। ४४ ।।
नामरूपाभिमानाभ्यां मर्त्याभ्याममृतः स्वयम् ।।
प्राणः करणसंघातश्छन्नः संवेष्टितः सदा ।। ४५ ।।
संप्रदायविदस्त्वत्र नानात्वैकत्ववादिनः ।।
भिन्नाभिन्नात्मकं ब्रह्म नामरूपादिवज्जगुः ।। ४६ ।।
त्रयं सदेकमेव स्यादेकं सत्तद्यथा त्रयम् ।।
अनेनैवानुमानेन विद्याद्ब्रह्मापि तादृशम् ।। ४७ ।।
दृगादिशक्त्यनेकत्वेऽप्येकमेव परं विदुः ।।
शक्तिशक्तिमतोरैक्यादद्वैतमिति भण्यते ।। ४८ ।।
सास्नादिषु यथा गोत्वमभेदेन व्यवस्थिम् ।।
मिथः साम्नादयो भिन्ना गोत्वाभिन्नास्तथाऽपि ते ।। ४९ ।।
भिन्नाभिन्नात्मना यद्वत्स्थूलेष्वर्थेषु दृश्यते ।।
सूक्ष्मेष्वपि तथा विद्यादनुमानबलाद्बुधः ।। ५० ।।
परपक्षे न दृष्टान्तः कश्चिदप्युपलभ्यते ।।
भिन्नाभिन्नात्मकं तस्मात्सर्वं वस्त्विति निश्चयः ।। ५१ ।।
अनुमानैकसिद्धत्वाद्भिन्नाभिन्नात्मवस्तुनः ।।
आगमेनात्र किं कार्यं लिङ्गसिद्धानुवादिना ।। ५२ ।।
न चाऽऽगमस्य तात्पर्यमेवंभूतेस्ति वस्तुनि ।।
अस्थूलं नेति नेतीति ज्ञाताज्ञातहुतेस्तथा ।। ५३ ।।
विशेषात्मनिषेधाय तथा सामान्यरूपिणः ।।
क्षुरविश्वंभरौ श्रुत्या दृष्टान्तौ प्रतिपादितौ ।। ५४ ।।
अन्त्या विशेषा दृष्टान्तः परपक्षेऽपि विद्यते ।।
त्वत्पक्ष एव दृष्टान्तो यथा नास्ति तथोच्यते ।। ५५ ।।
निःसामान्या विशेषाः स्युर्गोता तेभ्यो न चेद्धिरुक् ।।
अथ व्यावर्तते तेभ्यो गोत्वं ते खण्डवद्भवेत् ।। ५६ ।।
व्यावृत्तं यदि भिन्नेभ्यस्त्वयाऽभिन्नगिरोच्यते ।।
व्यावृत्तं न विशेषश्चेत्यहो विद्याविचेष्टितम् ।। ५७ ।।
अव्यावृत्तं विशेषेभ्यस्त्वथ सामान्यमुच्यते ।।
सामान्यस्य विशेषत्वाद्विशेषा एव केवलाः ।। ५८ ।।
ऩ ह्याभिन्नधिया गोत्वं विशेषेषु प्रतीयते ।।
विशेषमात्रनिष्ठत्वाद्भिन्नाभिन्नं किमुच्यते ।। ५९ ।।
अभेदः किं तयोर्योगः किं वैकात्म्यमभिन्नता ।।
नाभेदो मेषयोर्योगे यथा भिन्नौ तथा युतौ ।। ६० ।।
व्यामिश्रं यदि वा शुद्धं गोत्वं भेदेषु गम्यते ।।
नोभयत्रप्यभिन्नत्वमसाधारण्यसंस्थितेः ।। ६१ ।।
भेदेषु चोपयुक्तं तद्गोत्वं यद्वा पृथक्स्थितम् ।।
सामान्यं वा विशेषो वा कोऽनयोरभिधीयताम् ।। ६२ ।।
उपयुक्तं विशेषत्वादितरस्याप्यनन्वयात् ।।
भिन्नाभिन्नात्मतां नैति द्वैरूप्यासंभवात्तयोः ।। ६३ ।।
वस्तुवृत्तं न सामान्यं न विशेषस्तथैव च ।।
अपेक्षामात्रतः सिद्धेर्व्योम्नि कार्ष्ण्योदिवृत्तवत् ।। ६४ ।।
प्रत्यभिज्ञानतोऽभेदः खण्डमुण्डस्थगोत्वयोः ।।
एकाधिकरणज्ञानात्खण्डाद्यैस्तद्विभिन्नता ।। ६५ ।।
भिन्नाधिकरणज्ञानान्नैवमप्यभिदा तयोः ।।
सामान्येऽभिन्नधीर्यस्माद्भिन्नेष्वेव तु भिन्नधीः ।। ६६ ।।
प्रत्यक्षेणानुपात्तत्वान्न स्मृतिस्तदितीक्षणम् ।।
न हि प्रत्यक्षतोऽप्राप्तं स्मर्यते वस्तु किंचन ।। ६७ ।।
सामानाधिकरण्यस्य विभिन्नार्थव्यपाश्रयात् ।।
अभेदधीः कथं तत्र विशेषणविशेष्ययोः ।। ६८ ।।
अभिन्नवचसा भिन्नप्रतिषेधोऽभिधीयते ।।
प्राप्तस्य भिन्नरूपस्य शून्यताऽतः प्रसज्यते ।। ६९ ।।
वचो भेदनिषेधं चेन्न कुर्याद्भेदवाक्यवत् ।।
भिन्नाभिन्नात्मतापक्षहानिरेवं प्रसज्यते ।। ७० ।।
तक्रकौण्डिन्यन्न्वयायो न चेहाप्यवसीयते ।।
उत्सर्गानवकाशत्वाच्छून्यतैवात् आपतेत् ।। ७१ ।।
भिन्नौ जातिगुणौ द्रव्यात्स्वानुभूत्यनुरोधतः ।।
तद्विरोधदभिन्नत्वं कथं मानात्प्रतीयते ।। ७२ ।।
अभिन्नं सद्विभिन्नत्वं न कथंचित्प्रपद्यते ।।
स्वाश्रयात्वादभिन्नस्य कुतोऽस्य स्यात्पराश्रयः ।। ७३ ।।
अन्यानपेक्षं यद्यस्य वृत्तं तत्पारमार्थिकम् ।।
अन्यापेक्षं यतोऽन्यत्वं तेन तद्व्योमकार्ष्ण्यवत् ।। ७४ ।।
गोत्वसत्त्वप्रमेयत्ववस्तुत्वादीनि भिन्नवत् ।।
समान्यानीह खण्डादौ तेनान्योन्यविरुद्धता ।। ७५ ।।
यदेकं तन्न नानेति नाना नैकमिति प्रमा।।
योऽनुभूतिविरोध्यर्थः स कथं स्थाप्यते बलात् ।। ७६ ।।
भेदाः सामान्यतां यान्ति सामान्यं भेदतां यदिः ।।
लोकप्रसिद्धिवाधः स्यात्स चापि स्यादनर्थकः ।। ७७ ।।
सामान्यं च विशेषश्च द्रव्यतन्रौ मतौ यदि ।।
असामान्यविशेषात्मद्रव्यवत्प्राप्नुतश्च तौ ।। ७८ ।।
गुणतन्त्रं यदा द्रव्यं प्रसिद्धेर्बाधनं तदा ।।
एकस्यानेकतापत्तिर्द्रव्यस्यापि प्रसज्यते ।। ७९ ।।
द्रव्येणैवाभिसंबन्धाद्गुणानां न परस्परम् ।।
अन्योन्यानभिसंबन्धान्न विशेषस्तथेतरत् ।। ८० ।।
सामान्येतरतो भिन्नं द्रव्यं चेद्भवतो मतम् ।।
तन्निषेधेन तत्सिद्धेः कथं स्यात्तदभिन्नता ।। ८१ ।।
अथाभिन्नं मतं ताभ्यां द्रव्यस्यापह्नवस्ततः ।।
न विशेषो न सामान्यमन्योन्यासंगतेर्भवेत् ।। ८२ ।।
भिन्नाभेदादभिन्नस्य भेदः स्यात्पिण्डवद्ध्रुवम् ।।
पिण्डश्च सर्वगस्तद्वद्गोत्वाभेदात्प्रसज्य ते ।। ८३ ।।
अन्योन्याव्यतिरेकित्वादैकात्म्यं प्राप्नुयात्तयोः ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्ति के प्रथमाध्यायस्य पञ्चमं सप्तान्नब्राह्मणम् ।। ५ ।।
ततः प्रत्यक्षबाधः स्यात्तद्भेदो हि तदाश्रयः ।। ८४ ।।
व्यस्ताभेदात्समस्तोऽर्थो व्यस्तवन्न मनागपि ।।
समस्ताकरवज्ज्ञानं कुर्यात्प्रत्यक्षबाधतः ।। ८५ ।।
व्यस्ताभेदेऽपि चेत्कुर्यात्समस्तधिषणां बलात् ।।
व्यस्तात्मनाऽसमस्तोऽपि कुर्यात्प्लुषिधियं गिरिः ।। ८६ ।।
असाधारणरूपेण भेदो जगति निश्चितः ।।
साधारण्यं तयोर्मानात्समस्तव्यस्तयोः कुतः ।। ८७ ।।
सर्वाभेदाच्च सर्वस्य रज्ज्वां सर्पादिबुद्धयः ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्ति के प्रथमाध्यायस्य पञ्चमं सप्तान्नब्राह्मणम् ।। ५ ।।
रज्जुबुद्धिवदेव स्युस्तद्धीश्चाप्यहिबुद्धिवत् ।। ८८ ।।
निषेधविधिहेतूनां सर्वेषां सर्ववस्तुषु।।
समाप्तेरधिकाराणामप्रवृत्तिः प्रसज्यते ।। ८९ ।।
अभावमानक्लृप्त्यर्थो यश्चाऽऽयासः कृतो महान् ।।
निष्फलः सोऽभिसंवृत्तो भिन्नाभइन्नाव्यवस्थितौ ।। ९० ।।
स्वविशेषानुरोधित्वं सामान्यानां मतं यदि ।।
समस्तव्यस्ततापक्षस्तदा कुप्यति कल्पितः ।। ९१ ।।
न चापि सर्वसामान्यविशेषार्थावबुद्धये ।।
कश्चिदप्यधिकार्यस्ति कृत्स्नेऽपि जगतीदृशः ।। ९२ ।।
न वेदार्थो न चापीदृक्तर्केणाप्युपपद्यते ।।
भिन्नाभिन्नेक्षणं सर्वं यथोक्तन्यायवर्त्मना ।। ९३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमाध्यायस्य षष्ठं ब्राह्मणम्
चत्वार्येव सहस्राणि श्लोकानां द्वे शते तथा ।
श्लोकाः पञ्चदशान्ये च तृतीयस्यैष संग्रहः ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीसुरेश्वराचार्यविरचिते बृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमोऽध्यायः