बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
आत्मेत्येवोपासीत ; तदन्वेषणे च सर्वमन्विष्टं स्यात् ; तदेव च आत्मतत्त्वं सर्वस्मात् प्रेयस्त्वादन्वेष्टव्यम् — आत्मानमेवावेदहं ब्रह्मास्मीति — आत्मतत्त्वमेकं विद्याविषयः । यस्तु भेददृष्टिविषयः सः — अन्योऽसावन्योऽहमस्मीति न स वेदेति — अविद्याविषयः । ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इत्येवमादिभिः प्रविभक्तौ विद्याविद्याविषयौ सर्वोपनिषत्सु । तत्र च अविद्याविषयः सर्व एव साध्यसाधनादिभेदविशेषविनियोगेन व्याख्यातः आ तृतीयाध्यायपरिसमाप्तेः । स च व्याख्यातोऽविद्याविषयः सर्व एव द्विप्रकारः — अन्तःप्राण उपष्टम्भको गृहस्येव स्तम्भादिलक्षणः प्रकाशकोऽमृतः, बाह्यश्च कार्यलक्षणोऽप्रकाशक उपजनापायधर्मकः तृणकुशमृत्तिकासमो गृहस्येव सत्यशब्दवाच्यो मर्त्यः ; तेन अमृतशब्दवाच्यः प्राणः छन्न इति च उपसंहृतम् । स एव च प्राणो बाह्याधारभेदेष्वनेकधा विस्तृतः । प्राण एको वेद इत्युच्यते । तस्यैव बाह्यः पिण्ड एकः साधारणः — विराट् वैश्वानरः आत्मा पुरुषविधः प्रजापतिः कः हिरण्यगर्भः — इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सूर्यादिप्रविभक्तकरणः । एकं च अनेकं च ब्रह्म एतावदेव, नातः परमस्ति प्रत्येकं च शरीरभेदेषु परिसमाप्तं चेतनावत् कर्तृ भोक्तृ च — इति अविद्याविषयमेव आत्मत्वेनोपगतो गार्ग्यो ब्राह्मणो वक्ता उपस्थाप्यते । तद्विपरीतात्मदृक् अजातशत्रुः श्रोता । एवं हि यतः पूर्वपक्षसिद्धान्ताख्यायिकारूपेण समर्प्यमाणोऽर्थः श्रोतुश्चित्तस्य वशमेति ; विपर्यये हि तर्कशास्त्रवत्केवलार्थानुगमवाक्यैः समर्प्यमाणो दुर्विज्ञेयः स्यात् अत्यन्तसूक्ष्मत्वाद्वस्तुनः ; तथा च काठके — ‘श्रवणायापि बहुभिर्यो न लभ्यः’ (क. उ. १ । २ । ७) इत्यादिवाक्यैः सुसंस्कृतदेवबुद्धिगम्यत्वं सामान्यमात्रबुद्ध्यगम्यत्वं च सप्रपञ्चं दर्शितम् ; ‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) ‘आचार्याद्धैव विद्या’ (छा. उ. ४ । ४ । ३) इति च च्छान्दोग्ये ; ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’ (भ. गी. ४ । ३७) इति च गीतासु ; इहापि च शाकल्ययाज्ञवल्क्यसंवादेनातिगह्वरत्वं महता संरम्भेण ब्रह्मणो वक्ष्यति — तस्मात् श्लिष्ट एव आख्यायिकारूपेण पूर्वपक्षसिद्धान्तरूपमापाद्य वस्तुसमर्पणार्थ आरम्भः । आचारविध्युपदेशार्थश्च — एवमाचारवतोर्वक्तृश्रोत्रोराख्यायिकानुगतोऽर्थोऽवगम्यते । केवलतर्कबुद्धिनिषेधार्था च आख्यायिका — ‘नैषा तर्केण मतिरापनेया’ (क. उ. १ । २ । ९) ‘न तर्कशास्त्रदग्धाय’ (मो. ध. २४७ । १८) इति श्रुतिस्मृतिभ्याम् । श्रद्धा च ब्रह्मविज्ञाने परमं साधनमित्याख्यायिकार्थः ; तथा हि गार्ग्याजातशत्र्वोरतीव श्रद्धालुता दृश्यत आख्यायिकायाम् ; ‘श्रद्धावांल्लभते ज्ञानम्’ (भ. गी. ४ । ३०) इति च स्मृतिः ॥
ओं । दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥
तत्र पूर्वपक्षवादी अविद्याविषयब्रह्मवित् दृप्तबालाकिः - दृप्तः गर्वितः असम्यग्ब्रह्मवित्त्वादेव — बलाकाया अपत्यं बालाकिः, दृप्तश्चासौ बालाकिश्चेति दृप्तबालाकिः, ह - शब्द ऐतिह्यार्थ आख्यायिकायाम् , अनूचानः अनुवचनसमर्थः वक्ता वाग्मी, गार्ग्यो गोत्रतः, आस बभूव क्वचित्कालविशेषे । स होवाच अजातशत्रुम् अजातशत्रुनामानम् काश्यं काशिराजम् अभिगम्य — ब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं ब्रवाणि कथयानि । स एवमुक्तोऽजातशत्रुरुवाच — सहस्रं गवां दद्मः एतस्यां वाचि — यां मां प्रत्यवोचः ब्रह्म ते ब्रवाणीति, तावन्मात्रमेव गोसहस्रप्रदाने निमित्तमित्यभिप्रायः । साक्षाद्ब्रह्मकथनमेव निमित्तं कस्मान्नापेक्ष्यते सहस्रदाने, ब्रह्म ते ब्रवाणीति इयमेव तु वाक् निमित्तमपेक्ष्यत इत्युच्यते — यतः श्रुतिरेव राज्ञोऽभिप्रायमाह — जनको दाता जनकः श्रोतेति च एतस्मिन्वाक्यद्वये एतद्वयमभ्यस्यते जनको जनक इति ; वै - शब्दः प्रसिद्धावद्योतनार्थः ; जनको दित्सुर्जनकः शुश्रूषुरिति ब्रह्म शुश्रूषवो विवक्षवः प्रतिजिघृक्षवश्च जनाः धावन्ति अभिगच्छन्ति ; तस्मात् तत्सर्वं मय्यपि सम्भावितवानसीति ॥
स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥
एवं राजानं शुश्रूषुम् अभिमुखीभूतं स होवाच गार्ग्यः — य एव असौ आदित्ये चक्षुषि च एकः अभिमानी चक्षुर्द्वारेण इह हृदि प्रविष्टः अहं भोक्ता कर्ता चेत्यवस्थितः — एतमेव अहं ब्रह्म पश्यामि अस्मिन्कार्यकरणसङ्घाते उपासे ; तस्मात् तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीमि उपास्स्वेति । स एवमुक्तः प्रत्युवाच अजातशत्रुः मा मेति हस्तेन विनिवारयन् — एतस्मिन् ब्रह्मणि विज्ञेये मा संवदिष्ठाः ; मा मेत्याबाधनार्थं द्विर्वचनम् — एवं समाने विज्ञानविषय आवयोः अस्मानविज्ञानवत इव दर्शयता बाधिताः स्यामः, अतो मा संवदिष्ठाः मा संवादं कार्षीः अस्मिन्ब्रह्मणि ; अन्यच्चेज्जानासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत एव । अथ चेन्मन्यसे — जानीषे त्वं ब्रह्ममात्रम् , न तु तद्विशेषेणोपासनफलानीति — तन्न मन्तव्यम् ; यतः सर्वमेतत् अहं जाने, यद्ब्रवीषि ; कथम् ? अतिष्ठाः अतीत्य भूतानि तिष्ठतीत्यतिष्ठाः, सर्वेषां च भूतानां मूर्धा शिरः राजेति वै — राजा दीप्तिगुणोपेतत्वात् एतैर्विशेषणैर्विशिष्टमेतद्ब्रह्म अस्मिन्कार्यकरणसङ्घाते कर्तृ भोक्तृ चेति अहमेतमुपास इति ; फलमप्येवं विशिष्टोपासकस्य — स य एतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ; यथागुणोपासनमेव हि फलम् ; ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १० । ५ । २ । २०) इति श्रुतेः ॥
स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३ ॥
संवादेन आदित्यब्रह्मणि प्रत्याख्यातेऽजातशत्रुणा चन्द्रमसि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः । य एवासौ चन्द्रे मनसि च एकः पुरुषो भोक्ता कर्ता चेति पूर्ववद्विशेषणम् । बृहन् महान् पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अप्शरीरत्वात् चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चान्नभूतोऽभिषूयते लतात्मको यज्ञे, तमेकीकृत्य एतमेवाहं ब्रह्मोपासे ; यथोक्तगुणं य उपास्ते तस्य अहरहः सुतः सोमोऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे — उभयविधयज्ञानुष्ठानसामर्थ्यं भवतीत्यर्थः ; अन्नं च अस्य न क्षीयते अन्नात्मकोपासकस्य ॥
स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥
तथा विद्युति त्वचि हृदये च एका देवता ; तेजस्वीति विशेषणम् ; तस्यास्तत्फलम् — तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति — विद्युतां बहुत्वस्याङ्गीकरणात् आत्मनि प्रजायां च फलबाहुल्यम् ॥
स होवाच गार्ग्यो य एवायमाकाशे पुरष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५ ॥
तथा आकाशे हृद्याकाशे हृदये च एका देवता ; पूर्णम् अप्रवर्ति चेति विशेषणद्वयम् ; पूर्णत्वविशेषणफलमिदम् — पूर्यते प्रजया पशुभिः ; अप्रवर्तिविशेषणफलम् — नास्यास्माल्लोकात्प्रजोद्वर्तत इति, प्रजा सन्तानाविच्छित्तिः ॥
स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६ ॥
तथा वायौ प्राणे हृदि च एका देवता ; तस्या विशेषणम् — इन्द्रः परमेश्वरः, वैकुण्ठः अप्रसह्यः, न परैर्जितपूर्वा अपराजिता सेना — मरुतां गणत्वप्रसिद्धेः ; उपासनफलमपि — जिष्णुर्ह जयनशीलः अपराजिष्णुः न च परैर्जितस्वभावः भवति, अन्यतस्त्यजायी अन्यतस्त्यानां सपत्नानां जयनशीलो भवति ॥
स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति ॥ ७ ॥
अग्नौ वाचि हृदि च एका देवता ; तस्या विशेषणम् — विषासहिः मर्षयिता परेषाम् अग्निबाहुल्यात् फलबाहुल्यं पूर्ववत् ॥
स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८ ॥
अप्सु रेतसि हृदि च एका देवता ; तस्या विशेषणम् — प्रतिरूपः अनुरूपः श्रुतिस्मृत्यप्रतिकूल इत्यर्थः ; फलम् — प्रतिरूपं श्रुतिस्मृतिशासनानुरूपमेव एनमुपगच्छति प्राप्नोति न विपरीतम् , अन्यच्च — अस्मात् तथाविध एवोपजायते ॥
स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा रोचिष्णुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति सर्वां स्तानतिरोचते ॥ ९ ॥
आदर्शे प्रसादस्वभावे चान्यत्र खड्गादौ, हार्दे च सत्त्वशुद्धिस्वाभाव्ये च एका देवता ; तस्या विशेषणम् — रोचिष्णुः दीप्तिस्वभावः ; फलं च तदेव, रोचनाधारबाहुल्यात्फलबाहुल्यम् ॥
स होवाच गार्ग्यो य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १० ॥
यन्तं गच्छन्तं य एवायं शब्दः पश्चात् पृष्ठतः अनूदेति, अध्यात्मं च जीवनहेतुः प्राणः — तमेकीकृत्याह ; असुः प्राणो जीवनहेतुरिति गुणस्तस्य ; फलम् — सर्वमायुरस्मिंल्लोक एतीति — यथोपात्तं कर्मणा आयुः कर्मफलपरिच्छिन्नकालात् पुरा पूर्वं रोगादिभिः पीड्यमानमप्येनं प्राणो न जहाति ॥
स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्छिद्यते ॥ ११ ॥
दिक्षु कर्णयोः हृदि चैका देवता अश्विनौ देवाववियुक्तस्वभावौ ; गुणस्तस्य द्वितीयवत्त्वम् अनपगत्वम् अवियुक्तता चान्योन्यं दिशामश्विनोश्च एवं धर्मित्वात् ; तदेव च फलमुपासकस्य — गणाविच्छेदः द्वितीयवत्त्वं च ॥
स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२ ॥
छायायां बाह्ये तमसि अध्यात्मं च आवरणात्मकेऽज्ञाने हृदि च एका देवता, तस्या विशेषणम् — मृत्युः ; फलं सर्वं पूर्ववत् , मृत्योरनागमनेन रोगादिपीडाभावो विशेषः ॥
स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः ॥ १३ ॥
आत्मनि प्रजापतौ बुद्धौ च हृदि च एका देवता ; तस्याः आत्मन्वी आत्मवानिति विशेषणम् ; फलम् — आत्मन्वी ह भवति आत्मवान्भवति, आत्मन्विनी हास्य प्रजा भवति, बुद्धिबहुलत्वात् प्रजायां सम्पादनमिति विशेषः । स्वयं परिज्ञातत्वेन एवं क्रमेण प्रत्याख्यातेषु ब्रह्मसु स गार्ग्यः क्षीणब्रह्मविज्ञानः अप्रतिभासमानोत्तरः तूष्णीमवाक्शिरा आस ॥
स होवाचाजातशत्रुरेतावन्नू ३ इत्येतावद्धीति नैतावता विदितं भवतीति स होवाच गार्ग्य उप त्वा यानीति ॥ १४ ॥
तं तथाभूतम् आलक्ष्य गार्ग्यं स होवाच अजातशत्रुः — एतावन्नू३ इति — किमेतावद्ब्रह्म निर्ज्ञातम् , आहोस्विदधिकमप्यस्तीति ; इतर आह — एतावद्धीति । नैतावता विदितेन ब्रह्म विदितं भवतीत्याह अजातशत्रुः — किमर्थं गर्वितोऽसि ब्रह्म ते ब्रवाणीति । किमेतावद्विदितं विदितमेव न भवतीत्युच्यते ? न, फलवद्विज्ञानश्रवणात् ; न चार्थवादत्वमेव वाक्यानामवगन्तुं शक्यम् ; अपूर्वविधानपराणि हि वाक्यानि प्रत्युपासनोपदेशं लक्ष्यन्ते — ‘अतिष्ठाः सर्वेषां भूतानाम्’ (बृ. उ. २ । १ । २) इत्यादीनि ; तदनुरूपाणि च फलानि सर्वत्र श्रूयन्ते विभक्तानि ; अर्थवादत्वे एतदसमञ्जसम् । कथं तर्हि नैतावता विदितं भवतीति ? नैष दोषः, अधिकृतापेक्षत्वात् — ब्रह्मोपदेशार्थं हि शुश्रूषवे अजातशत्रवे अमुख्यब्रह्मवित् गार्ग्यः प्रवृत्तः ; स युक्त एव मुख्यब्रह्मविदा अजातशत्रुणा अमुख्यब्रह्मविद्गार्ग्यो वक्तुम् — यन्मुख्यं ब्रह्म वक्तुं प्रवृत्तः त्वं तत् न जानीष इति ; यद्यमुख्यब्रह्मविज्ञानमपि प्रत्याख्यायेत, तदा एतावतेति न ब्रूयात् , न किञ्चिज्ज्ञातं त्वयेत्येवं ब्रूयात् ; तस्माद्भवन्ति एतावन्ति अविद्याविषये ब्रह्माणि ; एतावद्विज्ञानद्वारत्वाच्च परब्रह्मविज्ञानस्य युक्तमेव वक्तुम् — नैतावता विदितं भवतीति ; अविद्याविषये विज्ञेयत्वं नामरूपकर्मात्मकत्वं च एषां तृतीयेऽध्याये प्रदर्शितम् ; तस्मात् ‘नैतावता विदितं भवति’ इति ब्रुवता अधिकं ब्रह्म ज्ञातव्यमस्तीति दर्शितं भवति । तच्च अनुपसन्नाय न वक्तव्यमित्याचारविधिज्ञो गार्ग्यः स्वयमेव आह — उप त्वा यानीति — उपगच्छानीति — त्वाम् , यथान्यः शिष्यो गुरुम् ॥
स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ तं पाणिनापेषं बोधयाञ्चकार स होत्तस्थौ ॥ १५ ॥
स होवाच अजातशत्रुः — प्रतिलोमं विपरीतं चैतत् ; किं तत् ? यद्ब्राह्मणः उत्तमवर्णः आचार्यत्वेऽधिकृतः सन् क्षत्रियमनाचार्यस्वभावम् उपेयात् उपगच्छेत् शिष्यवृत्त्या — ब्रह्म मे वक्ष्यतीति ; एतदाचारविधिशास्त्रेषु निषिद्धम् ; तस्मात् तिष्ठ त्वम् आचार्य एव सन् ; विज्ञपयिष्याम्येव त्वामहम् — यस्मिन्विदिते ब्रह्म विदितं भवति, यत्तन्मुख्यं ब्रह्म वेद्यम् । तं गार्ग्यं सलज्जमालक्ष्य विस्रम्भजननाय पाणौ हस्ते आदाय गृहीत्वा उत्तस्थौ उत्थितवान् । तौ ह गार्ग्याजातशत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचित् आजग्मतुः आगतौ । तं च पुरुषं सुप्तं प्राप्य एतैर्नामभिः — बृहन् पाण्डरवासः सोम राजन्नित्येतैः — आमन्त्रयाञ्चक्रे । एवमामन्त्र्यमाणोऽपि स सुप्तः नोत्तस्थौ । तम् अप्रतिबुद्ध्यमानं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार प्रतिबोधितवान् । तेन स होत्तस्थौ । तस्माद्यो गार्ग्येणाभिप्रेतः, नासावस्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति ॥
कथं पुनरिदमवगम्यते — सुप्तपुरुषगमनतत्सम्बोधनानुत्थानैः गार्ग्याभिमतस्य ब्रह्मणोऽब्रह्मत्वं ज्ञापितमिति ? जागरितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म सन्निहितः करणेषु यथा, तथा अजातशत्र्वभिप्रेतोऽपि तत्स्वामी भृत्येष्विव राजा सन्निहित एव ; किं तु भृत्यस्वामिनोः गार्ग्याजातशत्र्वभिप्रेतयोः यद्विवेकावधारणकारणम् , तत् सङ्कीर्णत्वादनवधारितविशेषम् ; यत् द्रष्टृत्वमेव भोक्तुः न दृश्यत्वम् , यच्च अभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम् , तच्च उभयम् इह सङ्कीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुप्तपुरुषगमनम् । ननु सुप्तेऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो भोक्तैव प्रतिपत्स्यते, न अभोक्ता — इति नैव निर्णयः स्यादिति । न, निर्धारितविशेषत्वाद्गार्ग्याभिप्रेतस्य — यो हि सत्येन च्छन्नः प्राण आत्मा अमृतः वागादिषु अनस्तमितः निम्लोचत्सु, यस्य आपः शरीरं पाण्डरवासाः, यश्च असपत्नत्वात् बृहन् , यश्च सोमो राजा षोडशकलः, स स्वव्यापारारूढो यथानिर्ज्ञात एव अनस्तमितस्वभाव आस्ते ; न च अन्यस्य कस्यचिद्व्यापारः तस्मिन्काले गार्ग्येणाभिप्रेयते तद्विरोधिनः ; तस्मात् स्वनामभिरामन्त्रितेन प्रतिबोद्धव्यम् ; न च प्रत्यबुध्यत ; तस्मात् पारिशेष्यात् गार्ग्याभिप्रेतस्य अभोक्तृत्वं ब्रह्मणः । भोक्तृस्वभावश्चेत् भुञ्जीतैव स्वं विषयं प्राप्तम् ; न हि दग्धृस्वभावः प्रकाशयितृस्वभावः सन् वह्निः तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति ; न चेत् दहति प्रकाशयति वा प्राप्तं स्वं विषयम् , नासौ वह्निः दग्धा प्रकाशयिता वेति निश्चीयते ; तथा असौ प्राप्तशब्दादिविषयोपलब्धृस्वभावश्चेत् गार्ग्याभिप्रेतः प्राणः, बृहन्पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत — यथा प्राप्तं तृणोलपादि वह्निः दहेत् प्रकाशयेच्च अव्यभिचारेण तद्वत् । तस्मात् प्राप्तानां शब्दादीनाम् अप्रतिबोधात् अभोक्तृस्वभाव इति निश्चीयते ; न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि ; अतः सिद्धं प्राणस्याभोक्तृत्वम् । सम्बोधनार्थनामविशेषेण सम्बन्धाग्रहणात् अप्रतिबोध इति चेत् — स्यादेतत् — यथा बहुष्वासीनेषु स्वनामविशेषेण सम्बन्धाग्रहणात् मामयं सम्बोधयतीति, शृण्वन्नपि सम्बोध्यमानः विशेषतो न प्रतिपद्यते ; तथा इमानि बृहन्नित्येवमादीनि मम नामानीति अगृहीतसम्बन्धत्वात् प्राणो न गृह्णाति सम्बोधनार्थं शब्दम् , न त्वविज्ञातृत्वादेव — इति चेत् — न, देवताभ्युपगमे अग्रहणानुपपत्तेः ; यस्य हि चन्द्राद्यभिमानिनी देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तया संव्यवहाराय विशेषनाम्ना सम्बन्धोऽवश्यं ग्रहीतव्यः ; अन्यथा आह्वानादिविषये संव्यवहारोऽनुपपन्नः स्यात् । व्यतिरिक्तपक्षेऽपि अप्रतिपत्तेः अयुक्तमिति चेत् — यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभिः सम्बोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात् प्रतिपत्तिर्युक्ता ; न च कदाचिदपि बृहत्त्वादिशब्दैः सम्बोधितः प्रतिपद्यमानो दृश्यते ; तस्मात् अकारणम् अभोक्तृत्वे सम्बोधनाप्रतिपत्तिरिति चेत् — न, तद्वतः तावन्मात्राभिमानानुपपत्तेः ; यस्य प्राणव्यतिरिक्तो भोक्ता, सः प्राणादिकरणवान् प्राणी ; तस्य न प्राणदेवतामात्रेऽभिमानः, यथा हस्ते ; तस्मात् प्राणनामसम्बोधने कृत्स्नाभिमानिनो युक्तैव अप्रतिपत्तिः, न तु प्राणस्य असाधारणनामसंयोगे ; देवतात्मत्वानभिमानाच्च आत्मनः । स्वनामप्रयोगेऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत् — सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि सम्बोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः ; तथा भोक्तापि सन् प्राणो न प्रतिपद्यत इति चेत् — न, आत्मप्राणयोः सुप्तासुप्तत्वविशेषोपपत्तेः ; सुषुप्तत्वात् प्राणग्रस्ततया उपरतकरण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते ; न तु तत् असुप्तस्य प्राणस्य भोक्तृत्वे उपरतकरणत्वं सम्बोधनाग्रहणं वा युक्तम् । अप्रसिद्धनामभिः सम्बोधनमयुक्तमिति चेत् — सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि ; तान्यपोह्य अप्रसिद्धैर्बृहत्त्वादिनामभिः सम्बोधनमयुक्तम् , लौकिकन्यायापोहात् ; तस्मात् भोक्तुरेव सतः प्राणस्याप्रतिपत्तिरिति चेत् — न देवताप्रत्याख्यानार्थत्वात् ; केवलसम्बोधनमात्राप्रतिपत्त्यैव असुप्तस्य आध्यात्मिकस्य प्राणस्याभोक्तृत्वे सिद्धे, यत् चन्द्रदेवताविषयैर्नामभिः सम्बोधनम् , तत् चन्द्रदेवता प्राणः अस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम् ; न हि तत् लौकिकनाम्ना सम्बोधने शक्यं कर्तुम् । प्राणप्रत्याख्यानेनैव प्राणग्रस्तत्वात्करणान्तराणां प्रवृत्त्यनुपपत्तेः भोक्तृत्वाशङ्कानुपपत्तिः । देवतान्तराभावाच्च ; ननु अतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत् , न, तस्य प्राण एव एकत्वाभ्युपगमात् सर्वश्रुतिषु अरनाभिनिदर्शनेन, ‘सत्येन च्छन्नः’ ‘प्राणो वा अमृतम्’ (बृ. उ. १ । ६ । ३) इति च प्राणबाह्यस्य अन्यस्य अनभ्युपगमात् भोक्तुः । ‘एष उ ह्येव सर्वे देवाः, कतम एको देव इति, प्राणः’ (बृ. उ. ३ । ९ । ९) इति च सर्वदेवानां प्राण एव एकत्वोपपादनाच्च । तथा करणभेदेष्वनाशङ्का, देहभेदेष्विव स्मृतिज्ञानेच्छादिप्रतिसन्धानानुपपत्तेः ; न हि अन्यदृष्टम् अन्यः स्मरति जानाति इच्छति प्रतिसन्दधाति वा ; तस्मात् न करणभेदविषया भोक्तृत्वाशङ्का विज्ञानमात्रविषया वा कदाचिदप्युपपद्यते । ननु सङ्घात एवास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति — न, आपेषणे विशेषदर्शनात् ; यदि हि प्राणशरीरसङ्घातमात्रो भोक्ता स्यात् सङ्घातमात्राविशेषात् सदा आपिष्टस्य अनापिष्टस्य च प्रतिबोधे विशेषो न स्यात् ; सङ्घातव्यतिरिक्ते तु पुनर्भोक्तरि सङ्घातसम्बन्धविशेषानेकत्वात् पेषणापेषणकृतवेदनायाः सुखदुःखमोहमध्यमाधामोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्तः ; न तु सङ्घातमात्रे सम्बन्धकर्मफलभेदानुपपत्तेः विशेषो युक्तः ; तथा शब्दादिपटुमान्द्यादिकृतश्च । अस्ति चायं विशेषः — यस्मात् स्पर्शमात्रेण अप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार अजातशत्रुः । तस्मात् यः आपेषणेन प्रतिबुबुधे — ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोधचेष्टाकारविशेषादिमत्त्वेन आपादयन् , सोऽन्योऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त इति सिद्धम् । संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य ; गृहस्य स्तम्भादिवत् शरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम — अरनेमिवच्च, नाभिस्थानीय एतस्मिन्सर्वमिति च ; तस्मात् गृहादिवत् स्वावयवसमुदायजातीयव्यतिरिक्तार्थं संहन्यत इत्येवम् अवगच्छाम । स्तम्भकुड्यतृणकाष्ठादिगृहावयवानां स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि — तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं दृष्ट्वा, मन्यामहे, तत्सङ्घातस्य च — तथा प्राणाद्यवयवानां तत्सङ्घातस्य च स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि — तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति । देवताचेतनावत्त्वे समत्वाद्गुणभावानुपगम इति चेत् — प्राणस्य विशिष्टैर्नामभिरामन्त्रणदर्शनात् चेतनावत्त्वमभ्युपगतम् ; चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत् — न निरुपाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् क्रियाकारकफलात्मकता हि आत्मनो नामरूपोपाधिजनिता अविद्याध्यारोपिता ; तन्निमित्तो लोकस्य क्रियाकारकफलाभिमानलक्षणः संसारः ; स निरूपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषया उपनिषदारम्भः — ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । १ । १) ‘नैतावता विदितं भवति’ (बृ. उ. २ । १ । १) इति च उपक्रम्य ‘एतावदरे खल्वमृतत्वम्’ (बृ. उ. ४ । ५ । १५) इति च उपसंहारात् ; न च अतोऽन्यत् अन्तराले विवक्षितम् उक्तं वा अस्ति ; तस्मादनवसरः समत्वाद्गुणभावानुपगम इति चोद्यस्य । विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य ; निरुपाख्यो हि विजिज्ञापयिषितः सर्वस्यामुपनिषदि, ‘स एष नेति नेति’ (बृ. उ. ४ । ५ । १५) इत्युपसंहारात् । तस्मात् आदित्यादिब्रह्मभ्य एतेभ्योऽविज्ञानमयेभ्यो विलक्षणः अन्योऽस्ति विज्ञानमय इत्येतत्सिद्धम् ॥
स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति तदु ह न मेने गार्ग्यः ॥ १६ ॥
स एवम् अजातशत्रुः व्यतिरिक्तात्मास्तित्वं प्रतिपाद्य गार्ग्यमुवाच — यत्र यस्मिन्काले एषः विज्ञानमयः पुरुषः एतत् स्वपनं सुप्तः अभूत् प्राक् पाणिपेषप्रतिबोधात् ; विज्ञानम् विज्ञायतेऽनेनेत्यन्तःकरणं बुद्धिः उच्यते, तन्मयः तत्प्रायः विज्ञानमयः ; किं पुनस्तत्प्रायत्वम् ? तस्मिन्नुपलभ्यत्वम् , तेन चोपलभ्यत्वम् , उपलब्धृत्वं च ; कथं पुनर्मयटोऽनेकार्थत्वे प्रायार्थतैव अवगम्यते ? ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः’ (बृ. उ. ४ । ४ । ५) इत्येवमादौ प्रायार्थ एव प्रयोगदर्शनात् परविज्ञानविकारत्वस्याप्रसिद्धत्वात् ‘य एष विज्ञानमयः’ इति च प्रसिद्धवदनुवादात् अवयवोपमार्थयोश्च अत्रासम्भवात् पारिशेष्यात् प्रायार्थतैव ; तस्मात् सङ्कल्पविकल्पाद्यात्मकमन्तःकरणं तन्मय इत्येतत् ; पुरुषः, पुरि शयनात् । क्वैष तदा अभूदिति प्रश्नः स्वभावविजिज्ञापयिषया — प्राक् प्रतिबोधात् क्रियाकारकफलविपरीतस्वभाव आत्मेति कार्याभावेन दिदर्शयिषितम् ; न हि प्राक्प्रतिबोधात्कर्मादिकार्यं सुखादि किञ्चन गृह्यते ; तस्मात् अकर्मप्रयुक्तत्वात् तथास्वाभाव्यमेव आत्मनोऽवगम्यते — यस्मिन्स्वाभाव्येऽभूत् , यतश्च स्वाभाव्यात्प्रच्युतः संसारी स्वभावविलक्षण इति — एतद्विवक्षया पृच्छति गार्ग्यं प्रतिभानरहितं बुद्धिव्युत्पादनाय । क्वैष तदाभूत् , कुत एतदागात् — इत्येतदुभयं गार्ग्येणैव प्रष्टव्यमासीत् ; तथापि गार्ग्येण न पृष्टमिति नोदास्तेऽजातशत्रुः ; बोधयितव्य एवेति प्रवर्तते, ज्ञापयिष्याम्येवेति प्रतिज्ञातत्वात् । एवमसौ व्युत्पाद्यमानोऽपि गार्ग्यः — यत्रैष आत्माभूत् प्राक्प्रतिबोधात् , यतश्चैतदागमनमागात् — तदुभयं न व्युत्पेदे वक्तुं वा प्रष्टुं वा — गार्ग्यो ह न मेने न ज्ञातवान् ॥
स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः ॥ १७ ॥
स होवाच अजातशत्रुः विवक्षितार्थसमर्पणाय । यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः — क्वैष तदाभूत्कुत एतदागादिति यदपृच्छाम, तत् शृणु उच्यमानम् — यत्रैष एतत्सुप्तोऽभूत् , तत् तदा तस्मिन्काले एषां वागादीनां प्राणानाम् , विज्ञानेन अन्तःकरणगताभिव्यक्तिविशेषविज्ञानेन उपाधिस्वभावजनितेन, आदाय विज्ञानम् वागादीनां स्वस्वविषयगतसामर्थ्यं गृहीत्वा, य एषः अन्तः मध्ये हृदये हृदयस्य आकाशः — य आकाशशब्देन पर एव स्व आत्मोच्यते — तस्मिन् स्वे आत्मन्याकाशे शेते स्वाभाविकेऽसांसारिके ; न केवल आकाश एव, श्रुत्यन्तरसामर्थ्यात् — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति ; लिङ्गोपाधिसम्बन्धकृतं विशेषात्मस्वरूपमुत्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवले वर्तत इत्यभिप्रायः । यदा शरीरेन्द्रियाध्यक्षतामुत्सृजति तदा असौ स्वात्मनि वर्तत इति कथमवगम्यते ? नामप्रसिद्ध्या ; कासौ नामप्रसिद्धिरित्याह — तानि वागादेर्विज्ञानानि यदा यस्मिन्काले गृह्णाति आदत्ते, अथ तदा ह एतत्पुरुषः स्वपितिनाम एतन्नाम अस्य पुरुषस्य तदा प्रसिद्धं भवति ; गौणमेवास्य नाम भवति ; स्वमेव आत्मानम् अपीति अपिगच्छतीति स्वपितीत्युच्यते । सत्यं स्वपितीतिनामप्रसिद्ध्या आत्मनः संसारधर्मविलक्षणं रूपमवगम्यते, न त्वत्र युक्तिरस्तीत्याशङ्क्याह — तत् तत्र स्वापकाले गृहीत एव प्राणो भवति ; प्राण इति घ्राणेन्द्रियम् , वागादिप्रकरणात् ; वागादिसम्बन्धे हि सति तदुपाधित्वादस्य संसारधर्मित्वं लक्ष्यते ; वागादयश्च उपसंहृता एव तदा तेन ; कथम् ? गृहीता वाक् , गृहीतं चक्षुः, गृहीतं श्रोत्रम् , गृहीतं मनः ; तस्मात् उपसंहृतेषु वागादिषु क्रियाकारकफलात्मताभावात् स्वात्मस्थ एव आत्मा भवतीत्यवगम्यते ॥
स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥
ननु दर्शनलक्षणायां स्वप्नावस्थायां कार्यकरणवियोगेऽपि संसारधर्मित्वमस्य दृश्यते — यथा च जागरिते सुखी दुःखी बन्धुवियुक्तः शोचति मुह्यते च ; तस्मात् शोकमोहधर्मवानेवायम् ; नास्य शोकमोहादयः सुखदुःखादयश्च कार्यकरणसंयोगजनितभ्रान्त्या अध्यारोपिता इति । न, मृषात्वात् — सः प्रकृत आत्मा यत्र यस्मिन्काले दर्शनलक्षणया स्वप्न्यया स्वप्नवृत्त्या चरति वर्तते, तदा ते ह अस्य लोकाः कर्मफलानि — के ते ? तत् तत्र उत अपि महाराज इव भवति ; सोऽयं महाराजत्वमिव अस्य लोकः, न महाराजत्वमेव जागरित इव ; तथा महाब्राह्मण इव, उत अपि, उच्चावचम् — उच्चं च देवत्वादि, अवचं च तिर्यक्त्वादि, उच्चमिव अवचमिव च — निगच्छति मृषैव महाराजत्वादयोऽस्य लोकाः, इव - शब्दप्रयोगात् , व्यभिचारदर्शनाच्च ; तस्मात् न बन्धुवियोगादिजनितशोकमोहादिभिः स्वप्ने सम्बध्यत एव ॥
ननु च यथा जागरिते जाग्रत्कालाव्यभिचारिणो लोकाः, एवं स्वप्नेऽपि तेऽस्य महाराजत्वादयो लोकाः स्वप्नकालभाविनः स्वप्नकालाव्यभिचारिण आत्मभूता एव, न तु अविद्याध्यारोपिता इति — ननु च जाग्रत्कार्यकरणात्मत्वं देवतात्मत्वं च अविद्याध्यारोपितं न परमार्थत इति व्यतिरिक्तविज्ञानमयात्मप्रदर्शनेन प्रदर्शितम् ; तत् कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इव उज्जीविष्यन् प्रादुर्भविष्यति — सत्यम् , विज्ञानमये व्यतिरिक्ते कार्यकरणदेवतात्मत्वप्रदर्शनम् अविद्याध्यारोपितम् — शुक्तिकायामिव रजतत्वदर्शनम् — इत्येतत्सिध्यति व्यतिरिक्तात्मास्तित्वप्रदर्शनन्यायेनैव, न तु तद्विशुद्धिपरतयैव न्याय उक्तः इति — असन्नपि दृष्टान्तः जाग्रत्कार्यकरणदेवतात्मत्वदर्शनलक्षणः पुनरुद्भाव्यते ; सर्वो हि न्यायः किञ्चिद्विशेषमपेक्षमाणः अपुनरुक्ती भवति । न तावत्स्वप्नेऽनुभूतमहाराजत्वादयो लोका आत्मभूताः, आत्मनोऽन्यस्य जाग्रत्प्रतिबिम्बभूतस्य लोकस्य दर्शनात् ; महाराज एव तावत् व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन् उपसंहृतकरणः पुनरुपगतप्रकृतिं महाराजमिव आत्मानं जागरित इव पश्यति यात्रागतं भुञ्जानमिव च भोगान् ; न च तस्य महाराजस्य पर्यङ्के शयानात् द्वितीय अन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिद्धोऽस्ति, यमसौ सुप्तः पश्यति ; न च उपसंहृतकरणस्य रूपादिमतो दर्शनमुपपद्यते ; न च देहे देहान्तरस्य तत्तुल्यस्य सम्भवोऽस्ति ; देहस्थस्यैव हि स्वप्नदर्शनम् । ननु पर्यङ्के शयानः पथि प्रवृत्तमात्मानं पश्यति — न बहिः स्वप्नान्पश्यतीत्येतदाह — सः महाराजः, जानपदान् जनपदे भवान् राजोपकरणभूतान् भृत्यानन्यांश्च, गृहीत्वा उपादाय, स्वे आत्मीय एव जयादिनोपार्जिते जनपदे, यथाकामं यो यः कामोऽस्य यथाकामम् इच्छातो यथा परिवर्तेतेत्यर्थः ; एवमेव एष विज्ञानमयः, एतदिति क्रियाविशेषणम् , प्राणान्गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य, स्वे शरीरे स्व एव देहे न बहिः, यथाकामं परिवर्तते — कामकर्मभ्यामुद्भासिताः पूर्वानुभूतवस्तुसदृशीर्वासना अनुभवतीत्यर्थः । तस्मात् स्वप्ने मृषाध्यारोपिता एव आत्मभूतत्वेन लोका अविद्यमाना एव सन्तः ; तथा जागरितेऽपि — इति प्रत्येतव्यम् । तस्मात् विशुद्धः अक्रियाकारकफलात्मको विज्ञानमय इत्येतत्सिद्धम् । यस्मात् दृश्यन्ते द्रष्टुर्विषयभूताः क्रियाकारकफलात्मकाः कार्यकरणलक्षणा लोकाः, तथा स्वप्नेऽपि, तस्मात् अन्योऽसौ दृश्येभ्यः स्वप्नजागरितलोकेभ्यो द्रष्टा विज्ञानमयो विशुद्धः ॥
दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वादतद्धर्मतेति विशुद्धता अवगता आत्मनः ; तत्र यथाकामं परिवर्तत इति कामवशात्परिवर्तनमुक्तम् ; द्रष्टुर्दृश्यसम्बन्धश्च अस्य स्वाभाविक इत्यशुद्धता शङ्क्यते ; अतस्तद्विशुद्ध्यर्थमाह —
अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९ ॥
अथ यदा सुषुप्तो भवति — यदा स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव ; अथ पुनः यदा हित्वा दर्शनवृत्तिं स्वप्नं यदा यस्मिन्काले सुषुप्तः सुष्ठु सुप्तः सम्प्रसादं स्वाभाव्यं गतः भवति — सलिलमिवान्यसम्बन्धकालुष्यं हित्वा स्वाभाव्येन प्रसीदति । कदा सुषुप्तो भवति ? यदा यस्मिन्काले, न कस्यचन न किञ्चनेत्यर्थः, वेद विजानाति ; कस्यचन वा शब्दादेः सम्बन्धिवस्त्वन्तरं किञ्चन न वेद — इत्यध्याहार्यम् ; पूर्वं तु न्याय्यम् , सुप्ते तु विशेषविज्ञानाभावस्य विवक्षितत्वात् । एवं तावद्विशेषविज्ञानाभावे सुषुप्तो भवतीत्युक्तम् ; केन पुनः क्रमेण सुषुप्तो भवतीत्युच्यते — हिता नाम हिता इत्येवंनाम्न्यो नाड्यः सिराः देहस्यान्नरसविपरिणामभूताः, ताश्च, द्वासप्ततिः सहस्राणि — द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि — ता द्वासप्ततिः सहस्राणि, हृदयात् — हृदयं नाम मांसपिण्डः — तस्मान्मांसपिण्डात्पुण्डरीकाकारात् , पुरीततं हृदयपरिवेष्टनमाचक्षते — तदुपलक्षितं शरीरमिह पुरीतच्छब्देनाभिप्रेतम् — पुरीततमभिप्रतिष्ठन्त इति — शरीरं कृत्स्नं व्याप्नुवत्यः अश्वत्थपर्णराजय इव बहिर्मुख्यः प्रवृत्ता इत्यर्थः । तत्र बुद्धेरन्तःकरणस्य हृदयं स्थानम् ; तत्रस्थबुद्धितन्त्राणि च इतराणि बाह्यानि करणानि ; तेन बुद्धिः कर्मवशात् श्रोत्रादीनि ताभिर्नाडीभिः मत्स्यजालवत् कर्णशष्कुल्यादिस्थानेभ्यः प्रसारयति ; प्रसार्य च अधितिष्ठति जागरितकाले ; तां विज्ञानमयोऽभिव्यक्तस्वात्मचैतन्यावभासतया व्याप्नोति ; सङ्कोचनकाले च तस्याः अनुसङ्कुचति ; सोऽस्य विज्ञानमयस्य स्वापः ; जाग्रद्विकासानुभवो भोगः ; बुद्ध्युपाधिस्वभावानुविधायी हि सः, चन्द्रादिप्रतिबिम्ब इव जलाद्यनुविधायी । तस्मात् तस्या बुद्धेः जाग्रद्विषयायाः ताभिः नाडीभिः प्रत्यवसर्पणमनु प्रत्यवसृप्य पुरीतति शरीरे शेते तिष्ठति — तप्तमिव लोहपिण्डम् अविशेषेण संव्याप्य अग्निवत् शरीरं संव्याप्य वर्तत इत्यर्थः । स्वाभाविक एव स्वात्मनि वर्तमानोऽपि कर्मानुगतबुद्ध्यनुवृत्तित्वात् पुरीतति शेत इत्युच्यते । न हि सुषुप्तिकाले शरीरसम्बन्धोऽस्ति । ‘तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य’ (बृ. उ. ४ । ३ । २२) इति हि वक्ष्यति । सर्वसंसारदुःखवियुक्तेयमवस्थेत्यत्र दृष्टान्तः — स यथा कुमारो वा अत्यन्तबालो वा, महाराजो वा अत्यन्तवश्यप्रकृतिः यथोक्तकृत् , महाब्राह्मणो वा अत्यन्तपरिपक्वविद्याविनयसम्पन्नः, अतिघ्नीम् — अतिशयेन दुःखं हन्तीत्यतिघ्नी आनन्दस्य अवस्था सुखावस्था ताम् प्राप्य गत्वा, शयीत अवतिष्ठेत । एषां च कुमारादीनां स्वभावस्थानां सुखं निरतिशयं प्रसिद्धं लोके ; विक्रियमाणानां हि तेषां दुःखं न स्वभावतः ; तेन तेषां स्वाभाविक्यवस्था दृष्टान्तत्वेनोपादीयते, प्रसिद्धत्वात् ; न तेषां स्वाप एवाभिप्रेतः, स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितत्वात् विशेषाभावाच्च ; विशेषे हि सति दृष्टान्तदार्ष्टान्तिकभेदः स्यात् ; तस्मान्न तेषां स्वापो दृष्टान्तः — एवमेव, यथा अयं दृष्टान्तः, एष विज्ञानमय एतत् शयनं शेते इति — एतच्छन्दः क्रियाविशेषणार्थः — एवमयं स्वाभाविके स्व आत्मनि सर्वसंसारधर्मातीतो वर्तते स्वापकाल इति ॥
क्वैष तदाभूदित्यस्य प्रश्नस्य प्रतिवचनमुक्तम् ; अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुद्धिः असंसारित्वं च उक्तम् ; कुत एतदागादित्यस्य प्रश्नस्यापाकरणार्थः आरम्भः । ननु यस्मिन्ग्रामे नगरे वा यो भवति, सोऽन्यत्र गच्छन् तत एव ग्रामान्नगराद्वा गच्छति, नान्यतः ; तथा सति क्वैष तदाभूदित्येतावानेवास्तु प्रश्नः ; यत्राभूत् तत एव आगमनं प्रसिद्धं स्यात् नान्यत इति कुत एतदागादिति प्रश्नो निरर्थक एव — किं श्रुतिरुपालभ्यते भवता ? न ; किं तर्हि द्वितीयस्य प्रश्नस्य अर्थान्तरं श्रोतुमिच्छामि, अत आनर्थक्यं चोदयामि । एवं तर्हि कुत इत्यपादानार्थता न गृह्यते ; अपादानार्थत्वे हि पुनरुक्तता, नान्यार्थत्वे ; अस्तु तर्हि निमित्तार्थः प्रश्नः — कुत एतदागात् — किन्निमित्तमिहागमनमिति । न निमित्तार्थतापि, प्रतिवचनवैरूप्यात् ; आत्मनश्च सर्वस्य जगतः अग्निविस्फुलिङ्गादिवदुत्पत्तिः प्रतिवचने श्रूयते ; न हि विस्फुलिङ्गानां विद्रवणे अग्निर्निमित्तम् , अपादानमेव तु सः ; तथा परमात्मा विज्ञानमयस्य आत्मनोऽपादानत्वेन श्रूयते — ‘अस्मादात्मनः’ इत्येतस्मिन्वाक्ये ; तस्मात् प्रतिवचनवैलोम्यात् कुत इति प्रश्नस्य निमित्तार्थता न शक्यते वर्णयितुम् । नन्वपादानपक्षेऽपि पुनरुक्ततादोषः स्थित एव ॥
नैष दोषः, प्रश्नाभ्यामात्मनि क्रियाकारकफलात्मतापोहस्य विवक्षितत्वात् । इह हि विद्याविद्याविषयावुपन्यस्तौ — ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) ‘आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) इति विद्याविषयः, तथा अविद्याविषयश्च पाङ्क्तं कर्म तत्फलं चान्नत्रयं नामरूपकर्मात्मकमिति । तत्र अविद्याविषये वक्तव्यं सर्वमुक्तम् । विद्याविषयस्तु आत्मा केवल उपन्यस्तः न निर्णीतः । तन्निर्णयाय च ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । १ । १) इति प्रक्रान्तम् , ‘ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इति च । अतः तद्ब्रह्म विद्याविषयभूतं ज्ञापयितव्यं याथात्म्यतः । तस्य च याथात्म्यं क्रियाकारकफलभेदशून्यम् अत्यन्तविशुद्धमद्वैतम् — इत्येतद्विवक्षितम् । अतस्तदनुरूपौ प्रश्नावुत्थाप्येते श्रुत्या — क्वैष तदाभूत्कुत एतदागादिति । तत्र — यत्र भवति तत् अधिकरणम् , यद्भवति तदधिकर्तव्यम् — तयोश्च अधिकरणाधिकर्तव्ययोर्भेदः दृष्टो लोके । तथा — यत आगच्छति तत् अपादानम् — य आगच्छति स कर्ता, तस्मादन्यो दृष्टः । तथा आत्मा क्वाप्यभूदन्यस्मिन्नन्यः, कुतश्चिदागादन्यस्मादन्यः — केनचिद्भिन्नेन साधनान्तरेण — इत्येवं लोकवत्प्राप्ता बुद्धिः ; सा प्रतिवचनेन निवर्तयितव्येति । नायमात्मा अन्यः अन्यत्र अभूत् , अन्यो वा अन्यस्मादागतः, साधनान्तरं वा आत्मन्यस्ति ; किं तर्हि स्वात्मन्येवाभूत् — ‘स्वमात्मानमपीतो भवति’ (छा. उ. ६ । ८ । १) ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (बृ. उ. ४ । ३ । २१) ‘पर आत्मनि सम्प्रतिष्ठते’ (प्र. उ. ४ । ९) इत्यादिश्रुतिभ्यः ; अत एव नान्यः अन्यस्मादागच्छति ; तत् श्रुत्यैव प्रदर्श्यते ‘अस्मादात्मनः’ इति, आत्मव्यतिरेकेण वस्त्वन्तराभावात् । नन्वस्ति प्राणाद्यात्मव्यतिरिक्तं वस्त्वन्तरम् — न, प्राणादेस्तत एव निष्पत्तेः ॥
तत्कथमिति उच्यते —
स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥
तत्र दृष्टान्तः — स यथा लोके ऊर्णनाभिः लूताकीट एक एव प्रसिद्धः सन् स्वात्माप्रविभक्तेन तन्तुना उच्चरेत् उद्गच्छेत् ; न चास्ति तस्योद्गमने स्वतोऽतिरिक्तं कारकान्तरम् — यथा च एकरूपादेकस्मादग्नेः क्षुद्रा अल्पाः विस्फुलिङ्गाः त्रुटयः अग्न्यवयवाः व्युच्चरन्ति विविधं नाना वा उच्चरन्ति — यथा इमौ दृष्टान्तौ कारकभेदाभावेऽपि प्रवृत्तिं दर्शयतः, प्राक्प्रवृत्तेश्च स्वभावत एकत्वम् — एवमेव अस्मात् आत्मनो विज्ञानमयस्य प्राक्प्रतिबोधात् यत्स्वरूपं तस्मादित्यर्थः, सर्वे प्राणा वागादयः, सर्वे लोका भूरादयः सर्वाणि कर्मफलानि, सर्वे देवाः प्राणलोकाधिष्ठातारः अग्न्यादयः सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि प्राणिजातानि, सर्व एव आत्मान इत्यस्मिन्पाठे उपाधिसम्पर्कजनितप्रबुध्यमानविशेषात्मान इत्यर्थः, व्युच्चरन्ति । यस्मादात्मनः स्थावरजङ्गमं जगदिदम् अग्निविस्फुलिङ्गवत् व्युच्चरत्यनिशम् , यस्मिन्नेव च प्रलीयते जलबुद्बुदवत् , यदात्मकं च वर्तते स्थितिकाले, तस्य अस्य आत्मनो ब्रह्मणः, उपनिषत् — उप समीपं निगमयतीति अभिधायकः शब्द उपनिषदित्युच्यते — शास्त्रप्रामाण्यादेतच्छब्दगतो विशेषोऽवसीयते उपनिगमयितृत्वं नाम ; कासावुपनिषदित्याह — सत्यस्य सत्यमिति ; सा हि सर्वत्र चोपनिषत् अलौकिकार्थत्वाद्दुर्विज्ञेयार्थेति तदर्थमाचष्टे — प्राणा वै सत्यं तेषामेष सत्यमिति । एतस्यैव वाक्यस्य व्याख्यानाय उत्तरं ब्राह्मणद्वयं भविष्यति ॥
भवतु तावत् उपनिषद्व्याख्यानाय उत्तरं ब्राह्मणद्वयम् ; तस्योपनिषदित्युक्तम् ; तत्र न जानीमः — किं प्रकृतस्य आत्मनो विज्ञानमयस्य पाणिपेषणोत्थितस्य संसारिणः शब्दादिभुज इयमुपनिषत् , आहोस्वित् संसारिणः कस्यचित् ; किञ्चातः ? यदि संसारिणः तदा संसार्येव विज्ञेयः, तद्विज्ञानादेव सर्वप्राप्तिः, स एव ब्रह्मशब्दवाच्यः तद्विद्यैव ब्रह्मविद्येति ; अथ असंसारिणः, तदा तद्विषया विद्या ब्रह्मविद्या, तस्माच्च ब्रह्मविज्ञानात्सर्वभावापत्तिः ; सर्वमेतच्छास्त्रप्रामाण्याद्भविष्यति ; किन्तु अस्मिन्पक्षे ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) ‘आत्मानमेवावेदहं ब्रह्मास्मि —’ (बृ. उ. १ । ४ । १०) इति परब्रह्मैकत्वप्रतिपादिकाः श्रुतयः कुप्येरन् , संसारिणश्च अन्यस्याभावे उपदेशानर्थक्यात् । यत एवं पण्डितानामप्येतन्महामोहस्थानम् अनुक्तप्रतिवचनप्रश्नविषयम् , अतो यथाशक्ति ब्रह्मविद्याप्रतिपादकवाक्येषु ब्रह्म विजिज्ञासूनां बुद्धिव्युत्पादनाय विचारयिष्यामः ॥
न तावत् असंसारी परः — पाणिपेषणप्रतिबोधितात् शब्दादिभुजः अवस्थान्तरविशिष्टात् उत्पत्तिश्रुतेः ; न प्रशासिता अशनायादिवर्जितः परो विद्यते ; कस्मात् ? यस्मात् ‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इति प्रतिज्ञाय, सुप्तं पुरुषं पाणिपेष बोधयित्वा, तं शब्दादिभोक्तृत्वविशिष्टं दर्शयित्वा, तस्यैव स्वप्नद्वारेण सुषुप्त्याख्यमवस्थान्तरमुन्नीय, तस्मादेव आत्मनः सुषुप्त्यवस्थाविशिष्टात् अग्निविस्फुलिङ्गोर्णनाभिदृष्टान्ताभ्याम् उत्पत्तिं दर्शयति श्रुतिः — ‘एवमेवास्मात्’ इत्यादिना ; न चान्यो जगदुत्पत्तिकारणमन्तराले श्रुतोऽस्ति ; विज्ञानमयस्यैव हि प्रकरणम् । समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनाम् आदित्यादिपुरुषान्प्रस्तुत्य ‘स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः’ (कौ. उ. ४ । १९) इति प्रबुद्धस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति, नार्थान्तरस्य । तथा च ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २ । ४ । ५) इत्युक्त्वा, य एव आत्मा प्रियः प्रसिद्धः तस्यैव द्रष्टव्यश्रोतव्यमन्तव्यनिदिध्यासितव्यतां दर्शयति । तथा च विद्योपन्यासकाले ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) ‘तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्’ (बृ. उ. १ । ४ । ८) ‘तदात्मानमेवावेदहं ब्रह्मास्मि - ’ (बृ. उ. १ । ४ । १०) इत्येवमादिवाक्यानामानुलोम्यं स्यात् पराभावे । वक्ष्यति च — ‘आत्मानं चेद्विजानीयादयमस्मीति पूरुषः’ (बृ. उ. ४ । ४ । १२) इति । सर्ववेदान्तेषु च प्रत्यगात्मवेद्यतैव प्रदर्श्यते — अहमिति, न बहिर्वेद्यता शब्दादिवत् प्रदर्श्यते असौ ब्रह्मेति । तथा कौषीतकिनामेव ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ (कौ. उ. ३ । ८) इत्यादिना वागादिकरणैर्व्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्शयति । अवस्थान्तरविशिष्टोऽसंसारीति चेत् — अथापि स्यात् , यो जागरिते शब्दादिभुक् विज्ञानमयः, स एव सुषुप्ताख्यमवस्थान्तरं गतः असंसारी परः प्रशासिता अन्यः स्यादिति चेत् — न, अदृष्टत्वात् । न ह्येवंधर्मकः पदार्थो दृष्टः अन्यत्र वैनाशिकसिद्धान्तात् । न हि लोके गौः तिष्ठन् गच्छन्वा गौर्भवति, शयानस्तु अश्वादिजात्यन्तरमिति । न्यायाच्च — यद्धर्मको यः पदार्थः प्रमाणेनावगतो भवति, स देशकालावस्थान्तरेष्वपि तद्धर्मक एव भवति ; स चेत् तद्धर्मकत्वं व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत । तथा च न्यायविदः साङ्ख्यमीमांसकादय असंसारिण अभावं युक्तिशतैः प्रतिपादयन्ति । संसारिणोऽपि जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानस्याभावात् अयुक्तमिति चेत् — यत् महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक् संसार्येव अवस्थान्तरविशिष्टो जगत इह कर्तेति — तदसत् ; यतो जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानशक्तिसाधनाभावः सर्वलोकप्रत्यक्षः संसारिणः ; स कथम् अस्मदादिः संसारी मनसापि चिन्तयितुमशक्यं पृथिव्यादिविन्यासविशिष्टं जगत् निर्मिनुयात् अतोऽयुक्तमिति चेत् — न, शास्त्रात् ; शास्त्रं संसारिणः ‘एवमेवास्मादात्मनः’ इति जगदुत्पत्त्यादि दर्शयति ; तस्मात् सर्वं श्रद्धेयमिति स्यादयम् एकः पक्षः ॥
‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९), (मु. उ. २ । २ । ७) ‘योऽशनायापिपासे अत्येति’ (बृ. उ. ३ । ५ । १) ‘असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६) ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) ‘यः सर्वेषु भूतेषु तिष्ठन् — अन्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । १५) ‘स यस्तान्पुरुषान्निरुह्यात्यक्रामत्’ (बृ. उ. ३ । ९ । २६) ‘स वा एष महानज आत्मा’ (बृ. उ. ४ । ४ । २२) ‘एष सेतुर्विधरणः’ (बृ. उ. ४ । ४ । २२) ‘सर्वस्य वशी सर्वस्येशानः’ (बृ. उ. ४ । ४ । २२) ‘य आत्मापहतपाप्मा विजरो विमृत्युः’ (छा. उ. ८ । ७ । १), (छा. उ. ८ । ७ । ३) ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) इत्यादिश्रुतिशतेभ्यः — स्मृतेश्च ‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’ (भ. गी. १० । ८) इति — परोऽस्ति असंसारी श्रुतिस्मृतिन्यायेभ्यश्च ; स च कारणं जगतः । ननु ‘एवमेवास्मादात्मनः’ इति संसारिण एवोत्पत्तिं दर्शयतीत्युक्तम् — न, ‘य एषोऽन्तर्हृदय आकाशः’ (बृ. उ. २ । १ । १७) इति परस्य प्रकृतत्वात् , ‘अस्मादात्मनः’ इति युक्तः परस्यैव परामर्शः । ‘क्वैष तदाभूत्’ (बृ. उ. २ । १ । १६) इत्यस्य प्रश्नस्य प्रतिवचनत्वेन आकाशशब्दवाच्यः पर आत्मा उक्तः ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते’ (बृ. उ. २ । १ । १६) इति ; ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८ । ३ । २) ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (बृ. उ. ४ । ३ । २१) ‘पर आत्मनि सम्प्रतिष्ठते’ (प्र. उ. ४ । ७) इत्यादिश्रुतिभ्य आकाशशब्दः परआत्मेति निश्चीयते ; ‘दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८ । १ । १) इति प्रस्तुत्य तस्मिन्नेव आत्मशब्दप्रयोगाच्च ; प्रकृत एव पर आत्मा । तस्मात् युक्तम् ‘एवमेवास्मादात्मनः’ इति परमात्मन एव सृष्टिरिति ; संसारिणः सृष्टिस्थितिसंहारज्ञानसामर्थ्याभावं च अवोचाम । अत्र च ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) ‘आत्मानमेवावेदहं ब्रह्मास्मि - ’ (बृ. उ. १ । ४ । १०) इति ब्रह्मविद्या प्रस्तुता ; ब्रह्मविषयं च ब्रह्मविज्ञानमिति ; ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । २ । १) इति ‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इति प्रारब्धम् । तत्र इदानीम् असंसारि ब्रह्म जगतः कारणम् अशनायाद्यतीतं नित्यशुद्धबुद्धमुक्तस्वभावम् ; तद्विपरीतश्च संसारी ; तस्मात् अहं ब्रह्मास्मीति न गृह्णीयात् ; परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन् कथं न दोषभाक्स्यात् ; तस्मात् न अहं ब्रह्मास्मीति युक्तम् । तस्मात्पुष्पोदकाञ्जलिस्तुतिनमस्कारबल्युपहारस्वाध्यायध्यानयोगादिभिः आरिराधयिषेत ; आराधनेन विदित्वा सर्वेशितृ ब्रह्म भवति ; न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेत् — अग्निमिव शीतत्वेन आकाशमिव मूर्तिमत्त्वेन । ब्रह्मात्मत्वप्रतिपादकमपि शास्त्रम् अर्थवादो भविष्यति । सर्वतर्कशास्त्रलोकन्यायैश्च एवमविरोधः स्यात् ॥
न, मन्त्रब्राह्मणवादेभ्यः तस्यैव प्रवेशश्रवणात् । ‘पुरश्चक्रे’ (बृ. उ. २ । ५ । १०) इति प्रकृत्य ‘पुरः पुरुष आविशत्’ (बृ. उ. २ । ५ । १८) इति, ‘रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय’ (बृ. उ. २ । ५ । १९) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) इति सर्वशाखासु सहस्रशो मन्त्रवादाः सृष्टिकर्तुरेवासंसारिणः शरीरप्रवेशं दर्शयन्ति । तथा ब्राह्मणवादाः — ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । ६) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (ऐ. उ. १ । ३ । १२) ‘सेयं देवता — इमास्तिस्रो देवता अनेन जीवेन आत्मनानुप्रविश्य’ (छा. उ. ६ । २ । ३) ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते’ (क. उ. १ । ३ । १२) इत्याद्याः । सर्वश्रुतिषु च ब्रह्मणि आत्मशब्दप्रयोगात् आत्मशब्दस्य च प्रत्यगात्माभिधायकत्वात् , ‘एष सर्वभूतान्तरात्मा’ (मु. उ. २ । १ । ४) इति च श्रुतेः परमात्मव्यतिरेकेण संसारिणोऽभावात् — ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘ब्रह्मैवेदम्’ (मु. उ. २ । २ । ११) ‘आत्मैवेदम्’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यः युक्तमेव अहं ब्रह्मास्मीत्यवधारयितुम् ॥
यदा एवं स्थितः शास्त्रार्थः, तदा परमात्मनः संसारित्वम् ; तथा च सति शास्त्रानर्थक्यम् , असंसारित्वे च उपदेशानर्थक्यं स्पष्टो दोषः प्राप्तः ; यदि तावत् परमात्मा सर्वभूतान्तरात्मा सर्वशरीरसम्पर्कजनितदुःखानि अनुभवतीति, स्पष्टं परस्य संसारित्वं प्राप्तम् ; तथा च परस्य असंसारित्वप्रतिपादिकाः श्रुतयः कुप्येरन् , स्मृतयश्च, सर्वे च न्यायाः ; अथ कथञ्चित् प्राणशरीरसम्बन्धजैर्दुःखैर्न सम्बध्यत इति शक्यं प्रतिपादयितुम् , परमात्मनः साध्यपरिहार्याभावात् उपदेशानर्थक्यदोषो न शक्यते निवारयितुम् । अत्र केचित्परिहारमाचक्षते — परमात्मा न साक्षाद्भूतेष्वनु प्रविष्टः स्वेन रूपेण ; किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्रतिपेदे ; स च विज्ञानात्मा परस्मात् अन्यः अनन्यश्च ; येनान्यः, तेन संसारित्वसम्बन्धी, येन अनन्यः तेन अहं ब्रह्मेत्यवधारणार्हः ; एवं सर्वमविरुद्धं भविष्यतीति ॥
तत्र विज्ञानात्मनो विकारपक्ष एता गतयः — पृथिवीद्रव्यवत् अनेकद्रव्यसमाहारस्य सावयवस्य परमात्मनः, एकदेशविपरिणामो विज्ञानात्मा घटादिवत् ; पूर्वसंस्थानावस्थस्य वा परस्य एकदेशो विक्रियते केशोषरादिवत् , सर्व एव वा परः परिणमेत् क्षीरादिवत् । तत्र समानजातीयानेकद्रव्यसमूहस्य कश्चिद्द्रव्यविशेषो विज्ञानात्मत्वं प्रतिपद्यते यदा, तदा समानजातीयत्वात् एकत्वमुपचरितमेव न तु परमार्थतः ; तथा च सति सिद्धान्तविरोधः । अथ नित्यायुतसिद्धावयवानुगतः अवयवी पर आत्मा, तस्य तदवस्थस्य एकदेशो विज्ञानात्मा संसारी — तदापि सर्वावयवानुगतत्वात् अवयविन एव अवयवगतो दोषो गुणो वेति, विज्ञानात्मनः संसारित्वदोषेण पर एव आत्मा सम्बध्यत इति, इयमप्यनिष्टा कल्पना । क्षीरवत् सर्वपरिणामपक्षे सर्वश्रुतिस्मृतिकोपः, स च अनिष्टः । ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. ६ । १९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) ‘स वा एष महानज आत्माजरोऽमरोऽमृतः’ (बृ. उ. ४ । ४ । २५) ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २ । २०) ‘अव्यक्तोऽयम्’ (भ. गी. २ । २५) इत्यादिश्रुतिस्मृतिन्यायविरुद्धा एते सर्वे पक्षाः । अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मनः कर्मफलदेशसंसरणानुपपत्तिः, परस्य वा संसारित्वम् — इत्युक्तम् । परस्यैकदेशः अग्निविस्फुलिङ्गवत् स्फुटितः विज्ञानात्मा संसरतीति चेत् — तथापि परस्यावयवस्फुटनेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रताप्राप्तिः, अव्रणत्ववाक्यविरोधश्च ; आत्मावयवभूतस्य विज्ञानात्मनः संसरणे परमात्मशून्यप्रदेशाभावात् अवयवान्तरनोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः । अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत् , न ; श्रुतेर्ज्ञापकत्वात् — न शास्त्रं पदार्थानन्यथा कर्तुं प्रवृत्तम् , किं तर्हि यथाभूतानाम् अज्ञातानां ज्ञापने ; किञ्चातः ? शृणु, अतो यद्भवति ; यथाभूता मूर्तामूर्तादिपदार्थधर्मा लोके प्रसिद्धाः ; तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञापयितुं प्रवृत्तं शास्त्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिकमेव दृष्टान्तमुपादत्ते ; उपादीयमानोऽपि दृष्टान्तः अनर्थकः स्यात् , दार्ष्टान्तिकासङ्गतेः ; न हि अग्निः शीतः आदित्यो न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं शक्यम् , प्रमाणान्तरेण अन्यथाधिगतत्वाद्वस्तुनः ; न च प्रमाणं प्रमाणान्तरेण विरुध्यते ; प्रमाणान्तराविषयमेव हि प्रमाणान्तरं ज्ञापयति ; न च लौकिकपदपदार्थाश्रयणव्यतिरेकेण आगमेन शक्यमज्ञातं वस्त्वन्तरम् अवगमयितुम् ; तस्मात् प्रसिद्धन्यायमनुसरता न शक्या परमात्मनः सावयवांशांशित्वकल्पना परमार्थतः प्रतिपादयितुम् । ‘क्षुद्राविस्फुलिङ्गाः’ (बृ. उ. २ । १ । २०) ‘ममैवांशः’ (भ. गी. १५ । ७) इति च श्रूयते स्मर्यते चेति चेत् , न, एकत्वप्रत्ययार्थपरत्वात् ; अग्नेर्हि विस्फुलिङ्गः अग्निरेव इत्येकत्वप्रत्ययार्हो दृष्टो लोके ; तथा च अंशः अंशिना एकत्वप्रत्ययार्हः ; तत्रैवं सति विज्ञानात्मनः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः । उपक्रमोपसंहाराभ्यां च — सर्वासु हि उपनिषत्सु पूर्वमेकत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादित्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति ; तद्यथा इहैव तावत् ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति प्रतिज्ञाय, उत्पत्तिस्थितिलयहेतुदृष्टान्तैः विकारविकारित्वाद्येकत्वप्रत्ययहेतून् प्रतिपाद्य ‘अनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्युपसंहरिष्यति ; तस्मात् उपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते — परमात्मैकत्वप्रत्ययद्रढिम्ने उत्पत्तिस्थितिलयप्रतिपादकानि वाक्यानीति ; अन्यथा वाक्यभेदप्रसङ्गाच्च — सर्वोपनिषत्सु हि विज्ञानात्मनः परमात्मना एकत्वप्रत्ययो विधीयत इत्यविप्रतिपत्तिः सर्वेषामुपनिषद्वादिनाम् ; तद्विध्येकवाक्ययोगे च सम्भवति उत्पत्त्यादिवाक्यानां वाक्यान्तरत्वकल्पनायां न प्रमाणमस्ति ; फलान्तरं च कल्पयितव्यं स्यात् ; तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः ॥
अत्र च सम्प्रदायविद आख्यायिकां सम्प्रचक्षते — कश्चित्किल राजपुत्रः जातमात्र एव मातापितृभ्यामपविद्धः व्याधगृहे संवर्धितः ; सः अमुष्य वंश्यतामजानन् व्याधजातिप्रत्ययः व्याधजातिकर्माण्येवानुवर्तते, न राजास्मीति राजजातिकर्माण्यनुवर्तते ; यदा पुनः कश्चित्परमकारुणिकः राजपुत्रस्य राजश्रीप्राप्तियोग्यतां जानन् अमुष्य पुत्रतां बोधयति — ‘न त्वं व्याधः, अमुष्य राज्ञः पुत्रः ; कथञ्चिद्व्याधगृहमनुप्रविष्टः’ इति — स एवं बोधितः त्यक्त्वा व्याधजातिप्रत्ययकर्माणि पितृपैतामहीम् आत्मनः पदवीमनुवर्तते — राजाहमस्मीति । तथा किल अयं परस्मात् अग्निविस्फुलिङ्गादिवत् तज्जातिरेव विभक्तः इह देहेन्द्रियादिगहने प्रविष्टः असंसारी सन् देहेन्द्रियादिसंसारधर्ममनुवर्तते — देहेन्द्रियसङ्घातोऽस्मि कृशः स्थूलः सुखी दुःखीति — परमात्मतामजानन्नात्मनः ; न त्वम् एतदात्मकः परमेव ब्रह्मासि असंसारी — इति प्रतिबोधित आचार्येण, हित्वा एषणात्रयानुवृत्तिं ब्रह्मैवास्मीति प्रतिपद्यते । अत्र राजपुत्रस्य राजप्रत्ययवत् ब्रह्मप्रत्ययो दृढी भवति — विस्फुलिङ्गवदेव त्वं परस्माद्ब्रह्मणो भ्रष्ट इत्युक्ते, विस्फुलिङ्गस्य प्रागग्नेर्भ्रंशात् अग्न्येकत्वदर्शनात् । तस्मात् एकत्वप्रत्ययदार्ढ्याय सुवर्णमणिलोहाग्निविस्फुलिङ्गदृष्टान्ताः, न उत्पत्त्यादिभेदप्रतिपादनपराः । सैन्धवघनवत् प्रज्ञप्त्येकरसनैरन्तर्यावधारणात् ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) इति च — यदि च ब्रह्मणः चित्रपटवत् वृक्षसमुद्रादिवच्च उत्पत्त्याद्यनेकधर्मविचित्रता विजिग्राहयिषिता, एकरसं सैन्धवघनवदनन्तरमबाह्यम् — इति नोपसमहरिष्यत् , ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) इति च न प्रायोक्ष्यत — ‘य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इति निन्दावचनं च । तस्मात् एकरूपैकत्वप्रत्ययदार्ढ्यायैव सर्ववेदान्तेषु उत्पत्तिस्थितिलयादिकल्पना, न तत्प्रत्ययकरणाय ॥
न च निरवयवस्य परमात्मनः असंसारिणः संसार्येकदेशकल्पना न्याय्या, स्वतोऽदेशत्वात् परमात्मनः । अदेशस्य परस्य एकदेशसंसारित्वकल्पनायां पर एव संसारीति कल्पितं भवेत् । अथ परोपाधिकृत एकदेशः परस्य, घटकरकाद्याकाशवत् । न तदा तत्र विवेकिनां परमात्मैकदेशः पृथक्संव्यवहारभागिति बुद्धिरुत्पद्यते । अविवेकिनां विवेकिनां च उपचरिता बुद्धिर्दृष्टेति चेत् , न, अविवेकिनां मिथ्याबुद्धित्वात् , विवेकिनां च संव्यवहारमात्रालम्बनार्थत्वात् — यथा कृष्णो रक्तश्च आकाश इति विवेकिनामपि कदाचित् कृष्णता रक्तता च आकाशस्य संव्यवहारमात्रालम्बनार्थत्वं प्रतिपद्यत इति, न परमार्थतः कृष्णो रक्तो वा आकाशो भवितुमर्हति । अतो न पण्डितैर्ब्रह्मस्वरूपप्रतिपत्तिविषये ब्रह्मणः अंशांश्येकदेशैकदेशिविकारविकारित्वकल्पना कार्या, सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम् । अतो हित्वा सर्वकल्पनाम् आकाशस्येव निर्विशेषता प्रतिपत्तव्या — ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) इत्यादिश्रुतिशतेभ्यः । न आत्मानं ब्रह्मविलक्षणं कल्पयेत् — उष्णात्मक इवाग्नौ शीतैकदेशम् , प्रकाशात्मके वा सवितरि तमएकदेशम् — सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम् । तस्मात् नामरूपोपाधिनिमित्ता एव आत्मनि असंसारधर्मिणि सर्वे व्यवहाराः — ‘रूपं रूपं प्रतिरूपो बभूव’ (बृ. उ. २ । ५ । १९) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) इत्येवमादिमन्त्रवर्णेभ्यः — न स्वत आत्मनः संसारित्वम् , अलक्तकाद्युपाधिसंयोगजनितरक्तस्फटिकादिबुद्धिवत् भ्रान्तमेव न परमार्थतः । ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘न कर्मणा वर्धते नो कनीयान्’ (बृ. उ. ४ । ४ । २३) ‘न कर्मणा लिप्यते पापकेन’ (बृ. उ. ४ । ४ । २३) ‘समं सर्वेषु भूतेषु तिष्ठन्तम्’ (भ. गी. १३ । २७) ‘शुनि चैव श्वपाके च’ (भ. गी. ५ । १०) इत्यादिश्रुतिस्मृतिन्यायेभ्यः परमात्मनोऽसंसारितैव । अत एकदेशो विकारः शक्तिर्वा विज्ञानात्मा अन्यो वेति विकल्पयितुं निरवयवत्वाभ्युपगमे विशेषतो न शक्यते । अंशादिश्रुतिस्मृतिवादाश्च एकत्वार्थाः, न तु भेदप्रतिपादकाः, विवक्षितार्थैकवाक्ययोगात् — इत्यवोचाम ॥
सर्वोपनिषदां परमात्मैकत्वज्ञापनपरत्वे अथ किमर्थं तत्प्रतिकूलोऽर्थः विज्ञानात्मभेदः परिकल्प्यत इति । कर्मकाण्डप्रामाण्यविरोधपरिहारायेत्येके ; कर्मप्रतिपादकानि हि वाक्यानि अनेकक्रियाकारकफलभोक्तृकर्त्राश्रयाणि, विज्ञानात्मभेदाभावे हि असंसारिण एव परमात्मन एकत्वे, कथम् इष्टफलासु क्रियासु प्रवर्तयेयुः, अनिष्टफलाभ्यो वा क्रियाभ्यो निवर्तयेयुः ? कस्य वा बद्धस्य मोक्षाय उपनिषदारभ्येत ? अपि च परमात्मैकत्ववादिपक्षे कथं परमात्मैकत्वोपदेशः ? कथं वा तदुपदेशग्रहणफलम् ? बद्धस्य हि बन्धनाशाय उपदेशः ; तदभावे उपनिषच्छास्त्रं निर्विषयमेव । एवं तर्हि उपनिषद्वादिपक्षस्य कर्मकाण्डवादिपक्षेण चोद्यपरिहारयोः समानः पन्थाः — येन भेदाभावे कर्मकाण्डं निरालम्बनमात्मानं न लभते प्रामाण्यं प्रति, तथा उपनिषदपि । एवं तर्हि यस्य प्रामाण्ये स्वार्थविघातो नास्ति, तस्यैव कर्मकाण्डस्यास्तु प्रामाण्यम् ; उपनिषदां तु प्रामाण्यकल्पनायां स्वार्थविघातो भवेदिति मा भूत्प्रामाण्यम् । न हि कर्मकाण्डं प्रमाणं सत् अप्रमाणं भवितुमर्हति ; न हि प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाशयति च इति । प्रत्यक्षादिप्रमाणविप्रतिषेधाच्च — न केवलमुपनिषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्मकाण्डप्रामाण्यविघातं च कुर्वन्ति ; प्रत्यक्षादिनिश्चितभेदप्रतिपत्त्यर्थप्रमाणैश्च विरुध्यन्ते । तस्मादप्रामाण्यमेव उपनिषदाम् ; अन्यार्थता वास्तु ; न त्वेव ब्रह्मैकत्वप्रतिपत्त्यर्थता ॥
न उक्तोत्तरत्वात् । प्रमाणस्य हि प्रमाणत्वम् अप्रमाणत्वं वा प्रमोत्पादनानुत्पादननिमित्तम् , अन्यथा चेत् स्तम्भादीनां प्रामाण्यप्रसङ्गात् शब्दादौ प्रमेये । किञ्चातः ? यदि तावत् उपनिषदो ब्रह्मैकत्वप्रतिपत्तिप्रमां कुर्वन्ति, कथमप्रमाणं भवेयुः । न कुर्वन्त्येवेति चेत् — यथा अग्निः शीतम् — इति, स भवानेवं वदन् वक्तव्यः — उपनिषत्प्रामाण्यप्रतिषेधार्थं भवतो वाक्यम् उपनिषत्प्रामाण्यप्रतिषेधं किं न करोत्येव, अग्निर्वा रूपप्रकाशम् ; अथ करोति — यदि करोति, भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम् , अग्निश्च रूपप्रकाशको भवेत् ; प्रतिषेधवाक्यप्रामाण्ये भवत्येवोपनिषदां प्रामाण्यम् । अत्रभवन्तो ब्रुवन्तु कः परिहार इति । ननु अत्र प्रत्यक्षा मद्वाक्य उपनिषत्प्रामाण्यप्रतिषेधार्थप्रतिपत्तिः अग्नौ च रूपप्रकाशनप्रतिपत्तिः प्रमा ; कस्तर्हि भवतः प्रद्वेषः ब्रह्मैकत्वप्रत्यये प्रमां प्रत्यक्षं कुर्वतीषु उपनिषत्सु उपलभ्यमानासु ? प्रतिषेधानुपपत्तेः । शोकमोहादिनिवृत्तिश्च प्रत्यक्षं फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितम् इत्यवोचाम । तस्मादुक्तोत्तरत्वात् उपनिषदं प्रति अप्रामाण्यशङ्का तावन्नास्ति ॥
यच्चोक्तम् स्वार्थविघातकरत्वादप्रामाण्यमिति, तदपि न, तदर्थप्रतिपत्तेर्बाधकाभावात् । न हि उपनिषद्भ्यः — ब्रह्मैकमेवाद्वितीयम् , नैव च — इति प्रतिपत्तिरस्ति — यथा अग्निरुष्णः शीतश्चेत्यस्माद्वाक्यात् विरुद्धार्थद्वयप्रतिपत्तिः । अभ्युपगम्य चैतदवोचाम ; न तु वाक्यप्रामाण्यसमये एष न्यायः — यदुत एकस्य वाक्यस्य अनेकार्थत्वम् ; सति च अनेकार्थत्वे, स्वार्थश्च स्यात् , तद्विघातकृच्च विरुद्धः अन्योऽर्थः । न त्वेतत् — वाक्यप्रमाणकानां विरुद्धमविरुद्धं च, एकं वाक्यम् , अनेकमर्थं प्रतिपादयतीत्येष समयः ; अर्थैकत्वाद्धि एकवाक्यता । न च कानिचिदुपनिषद्वाक्यानि ब्रह्मैकत्वप्रतिषेधं कुर्वन्ति । यत्तु लौकिकं वाक्यम् — अग्निरुष्णः शीतश्चेति, न तत्र एकवाक्यता, तदेकदेशस्य प्रमाणान्तरविषयानुवादित्वात् ; अग्निः शीत इत्येतत् एकं वाक्यम् ; अग्निरुष्ण इति तु प्रमाणान्तरानुभवस्मारकम् , न तु स्वयमर्थावबोधकम् ; अतो न अग्निः शीत इत्यनेन एकवाक्यता, प्रमाणान्तरानुभवस्मारणेनैवोपक्षीणत्वात् । यत्तु विरुद्धार्थप्रतिपादकमिदं वाक्यमिति मन्यते, तत् शीतोष्णपदाभ्याम् अग्निपदसामानाधिकरण्यप्रयोगनिमित्ता भ्रान्तिः ; न त्वेव एकस्य वाक्यस्य अनेकार्थत्वं लौकिकस्य वैदिकस्य वा ॥
यच्चोक्तम् — कर्मकाण्डप्रामाण्यविघातकृत् उपनिषद्वाक्यमिति, तन्न, अन्यार्थत्वात् । ब्रह्मैकत्वप्रतिपादनपरा हि उपनिषदः न इष्टार्थप्राप्तौ साधनोपदेशं तस्मिन्वा पुरुषनियोगं वारयन्ति, अनेकार्थत्वानुपपत्तेरेव । न च कर्मकाण्डवाक्यानां स्वार्थे प्रमा नोत्पद्यते । असाधारणे चेत्स्वार्थे प्रमाम् उत्पादयति वाक्यम् , कुतोऽन्येन विरोधः स्यात् । ब्रह्मैकत्वे निर्विषयत्वात् प्रमा नोत्पद्यत एवेति चेत् , न, प्रत्यक्षत्वात्प्रमायाः । ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ ( ? ) ‘ब्राह्मणो न हन्तव्यः’ ( ? ) इत्येवमादिवाक्येभ्यः प्रत्यक्षा प्रमा जायमाना ; सा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोधयिष्यन्तीत्यनुमानम् ; न च अनुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते ; तस्मादसदेवैतद्गीयते — प्रमैव नोत्पद्यत इति । अपि च यथाप्राप्तस्यैव अविद्याप्रत्युपस्थापितस्य क्रियाकारकफलस्य आश्रयणेन इष्टानिष्टप्राप्तिपरिहारोपायसामान्ये प्रवृत्तस्य तद्विशेषमजानतः तदाचक्षाणा श्रुतिः क्रियाकारकफलभेदस्य लोकप्रसिद्धस्य सत्यताम् असत्यतां वा न आचष्टे न च वारयति, इष्टानिष्टफलप्राप्तिपरिहारोपायविधिपरत्वात् । यथा काम्येषु प्रवृत्ता श्रुतिः कामानां मिथ्याज्ञानप्रभवत्वे सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते, न तु — कामानां मिथ्याज्ञानप्रभवत्वादनर्थरूपत्वं चेति — न विदधाति ; तथा नित्याग्निहोत्रादिशास्त्रमपि मिथ्याज्ञानप्रभवं क्रियाकारकभेदं यथाप्राप्तमेव आदाय इष्टविशेषप्राप्तिम् अनिष्टविशेषपरिहारं वा किमपि प्रयोजनं पश्यत् अग्निहोत्रादीनि कर्माणि विधत्ते, न — अविद्यागोचरासद्वस्तुविषयमिति — न प्रवर्तते — यथा काम्येषु । न च पुरुषा न प्रवर्तेरन् अविद्यावन्तः, दृष्टत्वात् — यथा कामिनः । विद्यावतामेव कर्माधिकार इति चेत् , न, ब्रह्मैकत्वविद्यायां कर्माधिकारविरोधस्योक्तत्वात् । एतेन ब्रह्मैकत्वे निर्विषयत्वात् उपदेशेन तद्ग्रहणफलाभावदोषपरिहार उक्तो वेदितव्यः । पुरुषेच्छारागादिवैचित्र्याच्च — अनेका हि पुरुषाणामिच्छा ; रागादयश्च दोषा विचित्राः ; ततश्च बाह्यविषयरागाद्यपहृतचेतसो न शास्त्रं निवर्तयितुं शक्तम् ; नापि स्वभावतो बाह्यविषयविरक्तचेतसो विषयेषु प्रवर्तयितुं शक्तम् ; किन्तु शास्त्रात् एतावदेव भवति — इदमिष्टसाधनम् इदमनिष्टसाधनमिति साध्यसाधनसम्बन्धविशेषाभिव्यक्तिः — प्रदीपादिवत् तमसि रूपादिज्ञानम् ; न तु शास्त्रं भृत्यानिव बलात् निवर्तयति नियोजयति वा ; दृश्यन्ते हि पुरुषा रागादिगौरवात् शास्त्रमप्यतिक्रामन्तः । तस्मात् पुरुषमतिवैचित्र्यमपेक्ष्य साध्यसाधनसम्बन्धविशेषान् अनेकधा उपदिशति । तत्र पुरुषाः स्वयमेव यथारुचि साधनविशेषेषु प्रवर्तन्ते ; शास्त्रं तु सवितृप्रदीपादिवत् उदास्त एव । तथा कस्यचित्परोऽपि पुरुषार्थः अपुरुषार्थवदवभासते ; यस्य यथावभासः, स तथारूपं पुरुषार्थं पश्यति ; तदनुरूपाणि साधनान्युपादित्सते । तथा च अर्थवादोऽपि — ‘त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः’ (बृ. उ. ५ । २ । १) इत्यादिः । तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्त्रस्य बाधकाः । न च विधिशास्त्रम् एतावता निर्विषयं स्यात् । नापि उक्तकारकादिभेदं विधिशास्त्रम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति । स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत् ॥
तत्र पण्डितम्मन्याः केचित् स्वचित्तवशात् सर्वं प्रमाणमितरेतरविरुद्धं मन्यन्ते, तथा प्रत्यक्षादिविरोधमपि चोदयन्ति ब्रह्मैकत्वे — शब्दादयः किल श्रोत्रादिविषया भिन्नाः प्रत्यक्षत उपलभ्यन्ते ; ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोधः स्यात् ; तथा श्रोत्रादिभिः शब्दाद्युपलब्धारः कर्तारश्च धर्माधर्मयोः प्रतिशरीरं भिन्ना अनुमीयन्ते संसारिणः ; तत्र ब्रह्मैकत्वं ब्रुवतामनुमानविरोधश्च ; तथा च आगमविरोधं वदन्ति — ‘ग्रामकामो यजेत’ (तै. आ. १७ । १० । ४) ‘पशुकामो यजेत’ (तै. आ. १६ । १२ । ८) ‘स्वर्गकामो यजेत’ (तै. आ. १६ । ३ । ३) इत्येवमादिवाक्येभ्यः ग्रामपशुस्वर्गादिकामाः तत्साधनाद्यनुष्ठातारश्च भिन्ना अवगम्यन्ते । अत्रोच्यते — ते तु कुतर्कदूषितान्तःकरणाः ब्राह्मणादिवर्णापशदाः अनुकम्पनीयाः आगमार्थविच्छिन्नसम्प्रदायबुद्धय इति । कथम् ? श्रोत्रादिद्वारैः शब्दादिभिः प्रत्यक्षत उपलभ्यमानैः ब्रह्मण एकत्वं विरुध्यत इति वदन्तो वक्तव्याः — किं शब्दादीनां भेदेन आकाशैकत्वं विरुध्यत इति ; अथ न विरुध्यते, न तर्हि प्रत्यक्षविरोधः । यच्चोक्तम् — प्रतिशरीरं शब्दाद्युपलब्धारः धर्माधर्मयोश्च कर्तारः भिन्ना अनुमीयन्ते, तथा च ब्रह्मैकत्वेऽनुमानविरोध इति ; भिन्नाः कैरनुमीयन्त इति प्रष्टव्याः ; अथ यदि ब्रूयुः — सर्वैरस्माभिरनुमानकुशलैरिति — के यूयम् अनुमानकुशला इत्येवं पृष्टानां किमुत्तरम् ; शरीरेन्द्रियमनआत्मसु च प्रत्येकमनुमानकौशलप्रत्याख्याने, शरीरेन्द्रियमनःसाधना आत्मानो वयमनुमानकुशलाः, अनेककारकसाध्यत्वात्क्रियाणामिति चेत् — एवं तर्हि अनुमानकौशले भवतामनेकत्वप्रसङ्गः ; अनेककारकसाध्या हि क्रियेति भवद्भिरेवाभ्युपगतम् ; तत्र अनुमानं च क्रिया ; सा शरीरेन्द्रियमनआत्मसाधनैः कारकैः आत्मकर्तृका निर्वर्त्यत इत्येतत्प्रतिज्ञातम् ; तत्र वयमनुमानकुशला इत्येवं वदद्भिः शरीरेन्द्रियमनःसाधना आत्मानः प्रत्येकं वयमनेके — इत्यभ्युपगतं स्यात् ; अहो अनुमानकौशलं दर्शितम् अपुच्छशृङ्गैः तार्किकबलीवर्दैः । यो हि आत्मानमेव न जानाति, स कथं मूढः तद्गतं भेदमभेदं वा जानीयात् ; तत्र किमनुमिनोति ? केन वा लिङ्गेन ? न हि आत्मनः स्वतो भेदप्रतिपादकं किञ्चिल्लिङ्गमस्ति, येन लिङ्गेन आत्मभेदं साधयेत् ; यानि लिङ्गानि आत्मभेदसाधनाय नामरूपवन्ति उपन्यस्यन्ति, तानि नामरूपगतानि उपाधय एव आत्मनः — घटकरकापवरकभूछिद्राणीव आकाशस्य ; यदा आकाशस्य भेदलिङ्गं पश्यति, तदा आत्मनोऽपि भेदलिङ्गं लभेत सः ; न ह्यात्मनः परतो विशेषमभ्युपगच्छद्भिस्तार्किकशतैरपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते ; स्वतस्तु दूरादपनीतमेव, अविषयत्वादात्मनः । यद्यत् परः आत्मधर्मत्वेनाभ्युपगच्छति, तस्य तस्य नामरूपात्मकत्वाभ्युपगमात् , नामरूपाभ्यां च आत्मनोऽन्यत्वाभ्युपगमात् , ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति श्रुतेः, ‘नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति च — उत्पत्तिप्रलयात्मके हि नामरूपे, तद्विलक्षणं च ब्रह्म — अतः अनुमानस्यैवाविषयत्वात् कुतोऽनुमानविरोधः । एतेन आगमविरोधः प्रत्युक्तः । यदुक्तम् — ब्रह्मैकत्वे यस्मै उपदेशः, यस्य च उपदेशग्रहणफलम् , तदभावात् एकत्वोपदेशानर्थक्यमिति — तदपि न, अनेककारकसाध्यत्वात्क्रियाणां कश्चोद्यो भवति ; एकस्मिन्ब्रह्मणि निरुपाधिके नोपदेशः, नोपदेष्टा, न च उपदेशग्रहणफलम् ; तस्मादुपनिषदां च आनर्थक्यमित्येतत् अभ्युपगतमेव ; अथ अनेककारकविषयानर्थक्यं चोद्यते — न, स्वतोऽभ्युपगमविरोधादात्मवादिनाम् । तस्मात् तार्किकचाटभटराजाप्रवेश्यम् अभयं दुर्गमिदम् अल्पबुद्ध्यगम्यं शास्त्रगुरुप्रसादरहितैश्च — ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (क. उ. १ । २ । २१) ‘देवैरत्रापि विचिकित्सितं पुरा’ (क. उ. १ । १ । २१) ‘नैषा तर्केण मतिरापनेया’ (क. उ. १ । २ । ९) — वरप्रसादलभ्यत्वश्रुतिस्मृतिवादेभ्यश्च’ ‘तदेजति तन्नैजति तद्दूरे तद्वन्तिके’ (ई. उ. ५) इत्यादिविरुद्धधर्मसमवायित्वप्रकाशमन्त्रवर्णेभ्यश्च ; गीतासु च ‘मत्स्थानि सर्वभूतानि’ (भ. गी. ९ । ४) इत्यादि । तस्मात् परब्रह्मव्यतिरेकेण संसारी नाम न अन्यत् वस्त्वन्तरमस्ति । तस्मात्सुष्ठूच्यते ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् अहं ब्रह्मास्मीति’ (बृ. उ. १ । ४ । १०) —’ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ’ इत्यादिश्रुतिशतेभ्यः । तस्मात् परस्यैव ब्रह्मणः सत्यस्य सत्यं नाम उपनिषत् परा ॥
इति द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥
तद्धेदमित्यविज्ञातप्रत्यक्तत्त्वादिदं जगत् ।।
रज्ज्वां सर्पादिवज्जातं नामरूपक्रियात्मकम् ।। १ ।।
अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।।
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ।। २ ।।
अनर्थहेतुरज्ञानं, तदुत्थं चाखिलं जगत् ।।
प्रतीचोऽनर्थ, इत्यस्माद्भीतोऽत्यर्थं मुमुक्षति ।। ३ ।।
पुरुषार्थोऽखिलानर्थप्रध्वस्तिः प्रत्यगात्मनः ।।
सम्यक्तत्त्वपरिज्ञानं पुरुषार्थस्य कारणम् ।। ४ ।।
निरस्ताशेषानर्थाप्तकृत्स्नाह्लादसतत्त्वकः ।।
स्वतो यतोऽयं संसारी तेनाज्ञो विपरीतदृक् ।। ५ ।।
मोहमात्रान्तरायत्वात्पुरुषार्थस्य नापरम् ।।
अविद्याध्वंसिनो बोधात्किंचित्साधनमिष्यते ।। ६ ।।
आत्मेत्येवेति विद्यायाः सूत्रमित्युदितं पुरा ।।
उपोद्धातस्तथा तस्य प्रागुक्तः सप्रयोजनः ।। ७ ।।
प्रतीचि साक्षाद्विज्ञाते ज्ञेयं सर्वं समाप्यते ।।
निःशेषतस्तमोध्वस्तेः पुमर्थश्च समाप्यते ।। ८ ।।
यत एवमतः पश्येदात्मन्यात्मानमद्वयम् ।।
आत्मैको ब्रह्मविद्याया विषयः श्रुतितो मतः ।। ९ ।।
अथ योऽन्यामिति तथाऽविद्यां चानूद्य नश्वरीम् ।।
आऽध्यायावसितेः कार्यं तस्या व्याख्यातमञ्जसा ।। १० ।।
अध्यात्ममधिभूतं च तथा चैवाधिदैवतम् ।।
भूतं भवद्भविष्यं च साध्यं साधनमेव च ।।
जनिमत्सर्वमेवेदमविद्यायाः समुत्थितम् ।। ११ ।।
संक्षिप्य चाप्युपन्यस्तमध्यायान्ते च तत्पुनः ।। १२ ।।
त्रयं वा इदमित्येवं रूपं नाम च कर्म च ।।
त्रयस्यापि च संक्षेपो लिङ्गदेहात्मसंहतिः ।। १३ ।।
त्रैलोक्यात्मशरीर्येष विश्वरूपः प्रजापतिः ।।
अन्तर्णीताखिलानन्तदेवतः प्राणविग्रहः ।। १४ ।।
अविज्ञातात्मतत्त्वः संस्तदध्यस्ताभिमानवान् ।।
पराक्प्रवृत्तेर्विरातो विद्याया विषयस्त्वयम् ।। १५ ।।
साक्षात्कृतात्मभावोऽयमेवंलक्षणवस्तुनि ।।
श्रुत्योपस्थाप्यते गार्ग्यो ब्रह्मविद्याभिधित्सया ।। १६ ।।
अकृत्स्नब्रह्मवेदित्वाद्दृप्तोऽसावल्पकस्ततः ।।
न हि पूर्णपरिज्ञानः कश्चिद्दृप्यति निर्द्वयः ।। १७ ।।
समाप्ताशेषविज्ञेयपुरुषार्थस्तथा परः ।।
अजातशत्रुरैकात्म्याद्गार्ग्याचार्यः प्रकल्पते ।। १८ ।।
व्याख्यातायामविद्यायां तदुच्छित्तावथाधुना ।।
आत्मेत्येवेति सूत्रस्य व्याख्या प्रस्तूयते स्फुटा ।। १९ ।।
श्रुत्या गार्ग्याद्युपन्यासशिष्याचार्यस्वरूपया ।।
सुखावबोधसिद्ध्यर्थमियमाख्यायिकोदिता ।। २० ।।
अन्ये त्वत्राभिसंबन्धमेवं व्याचक्षते बुधाः ।।
स एष इत्युपन्यस्तो विज्ञानात्मा हि यः पुरा ।। २१ ।।
गार्ग्यकाश्येतिहासेन वक्ष्यते तस्य निर्णयः ।।
कर्त्र्यो भोक्त्र्यश्च देेहेऽस्मिन्देवता एव नापरः ।।
श्रुतिर्गार्ग्यात्मना सेयं पूर्वपक्षमभाषत ।। २२ ।।
आत्मनोऽस्तित्वकर्तृत्वभोक्तृत्वप्रतिपत्तये ।। २३ ।।
श्रुत्या सिद्धान्तसिद्ध्यर्थं काश्यरूपं प्रकल्पितम् ।।
निष्फलत्वात्स चायुक्तः प्रकृतानभिसंगतेः ।। २४ ।।
देवतास्तित्वपक्षेऽपि किमस्तित्वादि नेष्यते ।।
देहाद्भिन्नस्य विज्ञातुरिष्टं चेन्निष्फलः श्रमः ।। २५ ।।
अज्ञातैकात्म्ययाथात्म्यो यदा त्विह विवक्ष्यते ।।
अविद्याकार्यनिष्ठः सञ्श्रुत्या गार्ग्यशरीरया ।। २६ ।।
पूर्वपक्षितयाऽशेषदुःखहेतूपशान्तये ।।
पूर्वपक्षनिदानच्छित्काश्यः सिद्धान्तवाद्यपि ।। २७ ।।
श्रुत्येहोत्थाप्यतेऽशेषवेदान्तार्थावबुद्धये ।।
सर्वोऽप्येष तदा यत्नः फलवान्स्यान्न चान्यथा ।। २८ ।।
श्रद्धाचारादिविध्यर्था यदि वाऽऽख्यायिका त्वियम् ।।
यथोक्तदर्शनाप्तार्थो नान्यदस्तीति भावितः ।।
अतोऽतिदृप्तोऽविज्ञातदर्पकारणघस्मरः ।। २९ ।।
श्रद्धालुं वित्तसंपन्नं श्रेयोर्थिनमुपेत्य तु ।।
ब्रह्म तेऽहं ब्रवाणीति गार्ग्यः काश्यमभाषत ।। ३० ।।
न जातो न भविष्योऽस्ति शत्रुरैकात्म्यदर्शनात् ।।
अजातशत्रुः काश्योऽतो गार्ग्यबुद्धिविरुद्धधीः ।। ३१ ।।
ब्रह्म यस्मात्परं नास्ति न च वस्त्वन्तरं यतः ।।
ब्रवाण्युपास्यं तत्तेऽहं सर्वापध्वस्तिकारणम् ।। ३२ ।।
नापृष्ट इति नन्वेतद्विरुद्धमकरोदृषिः ।।
यद्ब्रह्म ते ब्रवाणीति ह्यपृष्टः काश्यमब्रवीत् ।। ३३ ।।
दर्पादिदर्शनान्नूनं वेत्त्यकृत्स्नात्मदर्शनम् ।।
कृत्स्नत्वार्थमतोऽप्राक्षीत्काश्यं प्रज्ञासमन्वितम् ।। ३४ ।।
श्रद्धालुरधिकारी यो जिज्ञासुर्विनयान्वितः ।।
अपृष्टेनापि वक्तव्या तस्मै विद्या विपश्चिता ।। ३५ ।।
धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा ।।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ।। ३६ ।।
धर्मार्थौ यत्र च स्यातां शुश्रूपा वाऽपि तद्विधा ।।
वक्तव्या तत्र विद्येति निषेधादेव लिङ्ग्यते ।। ३७ ।।
नष्टाश्वदग्धरथवन्न्यायं चाऽऽश्रित्य भूमिपम् ।।
प्राह मानुषवित्ताढ्यं दैववित्तसमन्वितम् ।। ३८ ।।
वित्तद्वयेन संपन्नो यतोऽधिक्रियते नरः ।।
सर्वकर्मस्वतोऽवादीद्वालाकिः काश्यमन्तिकात् ।। ३९ ।।
ब्रह्म तुभ्यं ब्रवाणीतिवाङ्भात्रव्यापृतावहम् ।।
गोसहस्रं ददाम्यद्य विनाऽप्यैकात्म्यनिर्णयात् ।। ४० ।।
गोसहस्रप्रदानस्य निमित्तं श्रुतिरभ्यधात् ।।
जनको जनक इति नामाभ्यासोक्तितः स्फुटम् ।। ४१ ।।
शुश्रूषुं जनकं सर्वे जना दित्सन्तमेव च ।।
विवक्षवोऽभिधावन्ति तमुद्दिश्य जिघृक्षवः ।। ४२ ।।
मौग्धीं प्रसिद्धिमुल्लङ्घ्य गार्ग्योऽयं मामुपागतः।।।।
नूनं दित्सुं च शुश्रूषुं संभावयति मामपि ।। ४३ ।।
आदित्यचक्षुर्बुद्धिस्थश्चेतनः सर्वगो ध्रुवः ।।
एतमेव सदोपासे ब्रह्मेति रविमध्यगम् ।। ४४ ।।
तथा ब्रुवाणं तं गार्ग्यं काश्यो मा मेत्यथोचिवान् ।।
केवलो मतिसंवादो भवदुक्तॆर्ममाभवत् ।। ४५ ।।
न त्वपूर्वार्थविज्ञानं प्रतिज्ञातं यथा त्वया ।।
मा वोचोऽतो यतो वेग्नि विनाऽपि वचनात्तव ।। ४६ ।।
निषेधाभ्यासो मा मेति ज्ञातब्रह्मप्रवादिनः ।।
आबाधितधियाऽभ्यस्तो गार्ग्यस्यानुक्तिकारणात् ।। ४७ ।।
सुप्रसिद्धं यदस्माकं त्वच्छासनमृतेऽपि तत् ।।
नापेक्षते भवद्वाक्यं सिद्ध्यर्थं प्राक्प्रसिद्धितः ।। ४८ ।।
तदुपासां न वेद्मीति मा च शङ्कां कृथा यतः ।।
उपासनं च वेद्म्यस्य गुणं तत्फलमेव च ।। ४९ ।।
अतीत्य सर्वभूतानि प्राधान्येन स्थितो यतः ।। ५० ।।
अतिष्ठा इति नामास्य तेनाऽऽदित्यात्मनोऽभवत् ।।
चक्षुरुद्दीप्तिमत्त्वाच्च राजेत्येषोऽभिधीयते ।। ५१ ।।
स य एतं यथोद्दिष्टमुपास्तेऽहर्निशं नरः ।।
यथोपासनमेवास्य फलं भवति नान्यथा ।। ५२ ।।
मतिसंवाददोषेण काश्येनोत्सारिते रवौ ।।
गार्ग्यो ब्रह्मान्तरं राज्ञे प्रवक्तुमुपचक्रमे ।। ५३ ।।
चन्द्रे मनसि बुद्धौ च ब्रह्मोपासेऽहमद्वयम् ।।
भानुमण्डलतो यस्माद्द्विगुण चन्द्रमण्डलम् ।।
बृहन्निति ततश्चन्द्रः प्रमाणेनाभिधीयते ।। ५४ ।।
अम्भोऽतिपाण्डरं वासो यस्माच्चन्द्राभिमानिनः।।
तस्मात्पाण्डरवासाः स्यात्सोमः सौम्यत्वकारणात् ।। ५५ ।।
ज्योत्स्नया राजतेऽत्यर्थं सोमो ब्राह्मणराजतः ।।
सोमो राजेत्येतो वक्ति तदुपासविधित्सया ।। ५६ ।।
तुल्याभिधानधर्मत्वाल्लता सोमोऽपि गृह्यते ।।
उभयोर्देवतैकत्वादुपास्यं तेन तद्द्वयम् ।। ५७ ।।
एषैका देवता विभ्वी प्रत्येकार्थावसायिनी ।।
भोक्त्री कर्त्री च सर्वत्र तस्या भोज्यमतोऽपरम् ।। ५८ ।।
ब्रह्मैषा सर्वसंव्याप्तेरात्मेत्येतामुपास्महे ।।
व्याख्या तुल्यैव विज्ञेया सर्ववाक्येषु पूर्ववत् ।। ५९ ।।
गुणो यत्र हि यः पुंसो नाम्ना संभाव्यतेऽत्र तु ।।
फलं तदेव तस्य स्यात्सर्ववाक्येषु निर्णयः ।। ६० ।।
भानुचन्द्रमसोस्तेजो जलदैरभिभूयते ।।
विद्युत्तत्राप्यतितरां तेजस्वी तेन विद्युति ।। ६१ ।।
खण्डशो न यथा मूर्तं खं पूर्णं चाप्रवर्तनात् ।।
अप्रवर्त्यक्रियावत्स्युर्व्योम्नि सर्वाः प्रवृत्तयः ।। ६२ ।।
जिष्णुः स्याज्जयशीलत्वाज्जीयते न परैर्यतः ।।
अपराजिष्णुरित्येवं तस्मादेवाभिधीयते ।। ६३ ।।
अन्यतो मातृतो जाता अन्यतस्त्या उदाहृताः ।।
अप्यन्यतस्त्यजायी स्यात्सापत्नभ्रातृमर्दनः ।। ६४ ।।
जिष्णुरिन्द्रगुणोपास्तेर्वैकुण्ठगुणतः परः।।।।
सेनाऽपराजितेत्यस्मात्सपत्नानां पराजयः ।। ६५ ।।
अभ्याहितमपि जगत्सहतेऽग्निर्यतस्ततः ।।
भस्मसात्करणादुक्तो विषासहिरितीश्वरैः ।। ६६ ।।
अप्सु रेतसि बुद्धौ च पुरुषं ब्रह्म चेतनम् ।।
उपास एतमित्युक्तः काश्यः प्रत्याह पूर्ववत् ।। ६७ ।।
प्रतिबिम्बोदयः कार्यं प्रतिरूपं यतस्ततः ।।
प्रतिरूप उपास्योऽप्सु फलमप्यस्य तादृशम् ।। ६८ ।।
अन्वर्थे प्रतिशब्दोऽयं फलस्य पुरुषार्थतः ।।
प्रातिलोम्येन तु ज्ञेयो ह्यनर्थः स्यात्तथा सति ।। ६९ ।।
श्रुतिस्मृतिसदाचारान्प्रति यः सततोद्यतः ।।
प्रतिश्रुत्यादिरूपत्वात्प्रतिरूपस्ततोऽस्तु सः ।। ७० ।।
रोचिप्णूपनिपत्कान्तमादर्शाक्षादिबुद्धिषु ।।
उपास इत्यभिहिते काश्यः प्रत्याह पूर्ववत् ।। ७१ ।।
यत्रोपास्यबहुत्वं स्यात्फलं तत्र प्रजास्वपि ।।
शतह्रदादर्शाद्यर्था बहवस्ते प्रसिद्धितः ।। ७२ ।।
फलं यद्गुणकं यत्र तद्गुणं स्यादुपासनम् ।।
फलानुमानतस्तत्र न फलं ह्यनुपासितम् ।। ७३ ।।
गच्छन्तमनु यः शब्दो बहिर्वच्छूयतेऽध्वनि ।।
अध्यात्मं दैहिके शब्दे बुद्धौ चेति विनिर्दिशेत् ।। ७४ ।।
पुंसोऽभिधावतस्तूर्णं देहदेशैः समाहतः ।।
प्राणो वृत्तिविशेषेण बहिर्वत्कुरुते ध्वनिम् ।। ७५ ।।
वृत्तिक्षेपादसुरयमायुषश्च तदाश्रितेः ।।
शतायुरेव भवति म्रियते नापमृत्युना ।। ७६ ।।
दिक्षु द्वितीयोऽनपगः सद्वितीयः सदैव सः ।।
दुःसंभाव्या हि पूर्वा दिङ्भुक्त्वाऽऽशां पश्चिमां जनैः ।। ७७ ।।
साधुभृत्यपरीवारः सर्वदोपासको भवेत् ।।
पुत्रादिगणसंतानस्थैर्यमेव सदा भवेत् ।। ७८ ।।
छायामये तथाऽज्ञाने बुद्धौ चैकैव देवता ।।
मृत्युकालात्पुरा नास्य व्याधिरप्युपसर्पति ।। ७९ ।।
विराडात्मनि देहे च बुद्धावित्यादि पूर्ववत् ।।
आत्मन्वीति च वश्यात्मा प्रजा चापि शमान्विता ।। ८० ।।
व्यस्तानां पूर्वमुद्देशः समस्तानां त्विहोदितः ।।
विवक्षावसितिर्गार्गी तथा सत्युपपद्यते ।। ८१ ।।
प्रत्याख्यातोपदेशः सन्संवादेन पुनः पुनः ।।
ब्रह्मान्यदन्यदवददात्मन्वीत्यन्तमादरात् ।। ८२ ।।
विशेषाणामनन्तत्वात्समस्तं ब्रह्म सोऽवदत् ।।
तस्मिन्नपि निषिद्धेऽथ तूष्णीं गार्ग्यो बभूव ह ।। ८३ ।।
यत्कृत्स्नं ब्रह्म पूर्वोक्तं तदेवेदमविद्यया ।।
एकधाऽनेकधा मूढैः कल्प्यते रज्जुसर्पवत् ।। ८४ ।।
अवाक्शिरस्कमालोक्य नृपो गार्ग्यमनुत्तरम् ।।
एतावदिति तं प्राह शेपाशङ्कानिवृत्तये ।। ८५ ।।
निगृह्यमाणयोगे च प्लुतिमत्र विनिर्दिशेत् ।।
ब्रह्म ब्रवाणीत्यात्थ त्वमेतावद्ब्रह्म तच्च ते ।। ८६ ।।
अज्ञाते जगदज्ञातं ज्ञाते ज्ञातं च यत्र तत् ।।
तदेव ब्रह्म पूर्णत्वान्न त्वदुक्तमकृत्स्नतः ।। ८७ ।।
अव्यावृ्त्ताननुगतस्वतः सिद्धात्मवस्तुनि ।।
मुख्यार्थो ब्रह्मशब्दः स्यान्न त्वदुक्तेऽतथात्वतः ।। ८८ ।।
यस्मादेवमतो गार्ग्यमेतावद्धीतिवादिनम् ।।
नृपो नैतावतेत्याह ब्रह्मत्वासंभवं स्फुटम् ।। ८९ ।।
अज्ञातब्रह्मतत्त्वस्य दुःसंभाव्यमिदं वचः ।।
नैतावतेति ब्रह्मातः काश्यो वेत्तीति लिङ्ग्यते ।। ९० ।।
गार्ग्योऽनुमाय राज्ञोऽथ प्रावीण्यं ब्रह्मवेदने ।।
उपायानीत्युवाचेमं परब्रह्मावबुद्धये ।। ९१ ।।
परं ब्रह्म विजिज्ञासुरुपेतोऽस्म्यहमादरात् ।।
अनुशाधि यथातत्त्वमित्येवंवादिनं नृपः ।। ९२ ।।
क्षत्र्रियं ब्राह्मणो जात्या यदुपेयादनापदि ।।
प्रतिलोममिदं वृत्तं धर्मशास्रैर्निषिद्धतः ।। ९३ ।।
योगक्षेमफलार्थाय गमनं न निपिध्यते ।।
ब्रह्म मे वक्ष्यतीत्यर्थं निषिद्धं नृपसर्पणम् ।। ९४ ।।
अतोऽनुपेतमेव त्वां करविन्यस्तबिल्ववत् ।।
ब्रह्म विज्ञापयिष्यामि यज्ज्ञाने सर्वविद्भवेत् ।। ९५ ।।
इत्युक्त्वा तमथो पाणौ गृहीत्वोत्थितवान्नृपः ।।
आजग्मतुश्च तौ सुप्तं नरं कार्यविवक्षया ।। ९६ ।।
गार्ग्योक्तब्रह्माभोक्तृत्वं तथाऽमीफामनात्मताम् ।।
बालाकेर्बोधयिष्यामीत्यतः सुप्तमगान्नृपः ।। ९७ ।।
देवतानामभिः काश्यो गत्वा सुप्तं यथोदितैः ।।
आमन्त्रयां तदा चक्रे बृहन्नित्येवमादिभिः ।। ९८ ।।
संबोध्यमानोऽपि तथा सुप्तो नैवोदबुध्यत ।।
यतोऽतो गार्ग्याभिमतो न भोक्तोत्यवगम्यते ।। ९९ ।।
जाग्रत्कालं परित्यज्य सुप्तं किमिति जग्मतुः ।।
स्पष्टता सर्वभावानां जाग्रत्काले हि लक्ष्यते ।। १०० ।।
प्राणानां देवतानां च पुरुषस्य च संकरात् ।।
बोधे न शक्यते कर्तुं विवेको भोक्तृभोज्ययोः ।। १०१ ।।
भोक्तृत्वमेव पुंसोऽस्ति भोज्यत्वं न मनागपि ।।
काश्याभिप्रायतोऽनस्य भोज्यतैव न भोक्तृता ।। १०२ ।।
संकीर्णत्वादशक्यः स्यात्प्रबोधे भोक्तृभोज्ययोः ।।
कर्तुं विवेकोऽतो यातः सुप्तं पुरुषमादरात् ।। १०३ ।।
तस्माद्यद्यपि सांनिध्यं प्राणादीनां प्रजागरे ।।
संकीर्णत्वान्मिथस्तेषां दुःशकं तद्विवेचनम् ।। १०४ ।।
आत्मनः प्रोषितत्वात्तु भोगोऽस्मै न प्रयुज्यते ।।
उदासतेऽखिलाः सुप्ते देवताः करणैः सह ।। १०५ ।।
जाग्रद्भोगप्रयुक्तस्य कर्मणः प्रक्षयात्तदा ।।
शेरते करणान्यस्य सह भोक्त्राऽऽत्मना ऽऽत्मनि ।। १०६ ।।
प्राण एकस्तु जागर्ति भोक्ता यो गार्ग्यसंमतः ।।
प्राणेन रक्षन्निति च तथोदर्के प्रवक्ष्यते ।। १०७ ।।
प्राणाग्नय इति स्पष्टं तथाऽनस्तमितश्रुतेः ।।
अश्रान्तः प्राण एवातो जागर्त्यत्र दिवानिशम् ।। १०८ ।।
यथा जाग्रदवस्थायां भोक्ता प्राणः पुराऽभवत् ।।
स्वप्नेऽप्येष तथैवाऽऽस्ते बोद्धा चेद्बुध्यतामयम् ।। १०९ ।।
प्रणस्येन्दोस्तथा चापां त्र्यन्नात्माविष्कृतौ यतः ।।
ऐक्यमुक्तमतः प्राणो बोध्यते चन्द्रनामभिः ।। ११० ।।
बृहन्नित्येवमादीनि सन्तु चेहोपलक्षणम् ।।
अनुक्तदेवतानाम्नां सामर्थ्यात्तद्ग्रहोऽथवा ।। १११ ।।
यदि भोक्ता भवेत्प्राणो जाग्रद्वच्छब्दमागतम् ।।
अश्रोष्यत्स न चेद्भोक्ता नाश्रोष्यदुपलादिवत् ।। ११२ ।।
ननु सुप्तेऽपि पुंस्यस्मिन्बोधितः सन्स्वनामभिः ।।
भोक्तैव भोत्स्यते शब्दं न त्वभोक्ता परो जडः ।। ११३ ।।
नैवातोऽपि विवेकः स्यादुत्थितः कोऽनयोर्द्वयोः ।। ११४ ।।
नैवं गार्गीयपक्षस्य विशेषावधृतेः सदा ।।
अजातशत्र्वभिप्रेतब्रह्मणः प्राक्प्रमाणतः ।। ११५ ।।
योऽनस्तमित एकोऽत्र वागाद्यस्तमयेऽमृतः ।।
इन्द्रोऽसपत्नोऽब्देहश्च नामरूपसमावृतः ।। ११६ ।।
अध्यात्माद्यखिलं विश्वं संव्याप्य समवस्थितः ।।
ओतं प्रोतं जगद्यस्मिन्नरनाभिनिदर्शनात् ।। ११७ ।।
कुर्वाणस्तुमुलं शब्दं स्वव्यापारमशेषतः ।।
कुर्वाण एव स्वप्नेऽपि प्राण आस्ते प्रबोधवत् ।। ११८ ।।
न च भोक्त्रन्तरं प्राणाद्गागॆर्येणेहाभ्युपेयते ।।
तत्काले भिन्नकाले वा प्राणादन्यस्य भोज्यतः ।। ११९ ।।
तस्मादवश्यं बोद्धव्यं बोध्यं साक्षादुपस्थितम् ।।
प्राणेन बोद्धृरूपत्वाद्दाह्यं दग्धा यथा दहेत् ।। १२० ।।
न चासौ बोध्यमानोऽपि प्रत्यबुध्यत नाम तत् ।।
प्राणोऽभोक्ता ततः सिद्धः स्वनामाप्रतिबोधनात् ।। १२१ ।।
स्वाख्याविशेपसंबन्धाग्रहणाच्चेन्न बुद्धवान् ।।
अग्रहासंभवान्नैवं सर्वज्ञा देवता यतः ।। १२२ ।।
त्वत्पक्षेऽप्यग्रहो दोषस्तुल्यश्चेदिति चोद्यते ।।
नैवं कृत्स्नाभिमानित्वादेकदेशानहंकृतेः ।। १२३ ।।
अङ्गुल्याद्यभिधानोक्तौ न हि तद्वान्प्रबुध्यते ।।
कृत्स्नदेहाभिमान्येवं नैकदेहाभिमानभुक् ।। १२४ ।।
प्राणस्य तु समाप्तत्वात्समस्तव्यस्तवस्तुषु ।।
नाऽऽत्मवत्स्यादसंबोधस्तस्य सर्वाभिमानतः ।। १२५ ।।
बोधाबोधौ चितेर्न स्तः कूटस्थज्ञप्तिमात्रतः ।।
परायत्तप्रबोधो ना ह्यप्पात्रोत्थाद्रवेरिव ।। १२६ ।।
स्वसंज्ञयाऽप्यसंबोधो यथा दृष्टस्तदात्मनः ।।
भोक्तृत्वे सत्यपि तथा प्राणेऽप्यप्रतिबोधनम् ।। १२७ ।।
सुप्तासुप्तत्वसंभेदविशेषन्यायसंभवात् ।।
नैव सुप्तग्रहो युक्तो न त्वसुप्तस्य युज्यते ।। १२८ ।।
श्रोत्रादेर्गुणभूतत्वात्प्रधानं प्रति सर्वदा ।।
तस्मिञ्जाग्रति जागर्ति सुप्ते स्वपिति तद्वशात् ।। १२९ ।।
नेन्द्रियाणां भवेत्स्वापो यदि प्राणप्रधानता ।।
नामात्याः शेरते यस्माद्राज्ञि स्वामिनि जाग्रति ।। १३० ।।
अप्रसिद्धार्थसंज्ञाभिरुक्तेश्चॆदप्रबोधनम् ।।
देवतात्मनिषेधार्थपरत्वात्तद्ग्रहोऽर्थवान् ।। १३१ ।।
प्राणस्याभोक्तृतासिद्धिः स्वनामाग्रहणादपि ।।
देवताप्रतिषेधार्थं बोध्यते चन्द्रनामभिः ।। १३२ ।।
स्मृतिज्ञानेषणादीनां संधानानुपपत्तितः ।।
करणानामभोक्तृत्वं देहाशानामिवेष्यते ।। १३३ ।।
अचैतन्यात्तथोक्तस्य कुतो भोक्तृत्वसंभवः ।।
चिदन्यस्य च भोज्यत्वान्नान्यस्यातोऽस्ति भोक्तृता ।। १३४ ।।
दण्डापूपिकनीत्यैव करणानामभोक्तृता ।।
न च प्राणातिरेकेण देवताऽन्योपपद्यते ।। १३५ ।।
ननु तद्व्यतिरेकेण प्रागादित्यादिरीरितः ।।
देवताविषयो भेदः स कथं विनिवार्यते ।। १३६ ।।
नैवं तस्य समस्तस्य प्राण एकत्वहेतुतः ।।
अरनाभ्यादिदृष्टान्ताद्वायुप्राधान्यतस्तथा ।। १३७ ।।
संघात एव भोक्ताऽस्तु तस्य प्रत्यक्षसंगतेः ।।
न तु तद्व्यतिरिक्तस्य भोक्तृता मित्यसंभवात् ।। १३८ ।।
नाचेतनस्य भोक्तृत्वं कथंचिदवकल्पते ।।
चिदन्यस्य च भोग्यत्वात्कम्बलौदनतोयवत् ।। १३९ ।।
न चापि चिद्विशिष्टत्वं प्रत्यक्षेणोपलभ्यते ।।
चित्संबन्धोपलब्ध्यर्थं तज्ज्ञाता कः प्रकल्प्यते ।। १४० ।।
नेह चिद्व्यतिरेकेण स्वार्थं किंचिदपीष्यते ।।
नापि स्वार्थातिरेकेण प्रमाणफलभाग्भवेत् ।। १४१ ।।
न ह्यचित्कं प्रमेयं सच्चिन्मित्किंचिदपीक्ष्यते ।।
न चानुभूतिः प्रात्यक्ष्यमन्यतोऽपेक्षते जडात् ।। १४२ ।।
देहात्प्रत्यक्षनिप्पत्तौ न च प्रत्यक्षमिष्यते ।।
लिङ्गस्य चाप्रमाणत्वात्कुतः प्रत्यक्षमानिता ।। १४३ ।।
तथाऽर्थान्तरसंबन्धे प्रत्यक्षे देहनिष्ठिते ।।
अनुसंधानसंसिद्धौ न किंचिन्मानमिष्यते ।। १४४ ।।
वागभिव्याहृतिश्चेयं लिङ्गाप्रामाण्यवादिनः ।।
आप्रत्यक्ष्यात्परज्ञप्तिसंगतेः स्यादनर्थिका ।। १४५ ।।
स्वात्मदृष्ट्यनुरोधेऽपि मौढ्यमेव प्रसज्यते ।।
व्युत्पत्तेः साधुलोकस्य न कश्चिदपि दित्सति ।। १४६ ।।
अधर्मादिभयाभावाद्धन्युरेनमशङ्किताः ।।
आदद्युश्च बलाद्वित्तमेतद्व्युत्पत्तितः फलम् ।। १४७ ।।
आपेषणे विशेषस्य दृष्टत्वाद्देहसंहतिः ।।
न भोक्त्री सुखदुःखादिफलानां स्यात्कदाचन ।। १४८ ।।
यदि संघातमात्रस्य भोक्तृत्वमिह कल्प्यते ।।
संघातस्याविशिष्टत्वान्नातिशीतिर्भवेत्सदा ।। १४९ ।।
ईषत्संस्पृष्टमात्रस्य बलाच्चाऽऽपेषणात्तथा ।।
देहादिभिन्नजातीयो भोक्ता यस्य च वादिनः ।। १५० ।।
धर्मादिहेतुसंबन्धबहुत्वत्स्यात्समञ्जसम् ।।
पेषणापेषणकृतवेदनायां भवेद्भिदा ।। १५१ ।।
सुखदुःखादिहेतूनामुत्तमाधममध्यतः ।।
तत्प्रबोधविशेषोऽयं युक्त एव भवेत्तदा ।। १५२ ।।
अस्ति चायं विशेषोऽत्र यत्संस्पर्शनमात्रतः ।।
अबुध्यमानः संसुप्त आपिष्याऽऽपिष्य बोधितः ।। १५३ ।।
अत आपेषणाद्योऽसावुत्थितः करणैःसह ।।
राजेव सचिवैः सार्धं स भोक्तेहेति गम्यताम् ।। १५४ ।।
मृतकल्पमिमं देहं स्वचित्तावेशयन्निव ।।
ज्वलन्निव समुत्तस्थौ यः स भोक्तेति गम्यताम् ।। १५५ ।।
क्रोधहर्षभयोद्वेगज्ञानधर्मौर्विशेषयन् ।।
शरीरं यः समुत्तस्थौ स भोक्तेत्यवसीयताम् ।। १५६ ।।
अपि प्राणस्य पारार्थ्यं संहतत्वाद्गृहादिवत् ।।
ततश्च भोग्यरूपस्य भोक्तृत्वं नोपपद्यते ।। १५७ ।।
देहस्यान्तर्गतः प्राणः स्थूणावद्देहभृत्सदा ।।
संहन्यते शरीरेण यथा वायुस्तथैव सः ।। १५८ ।।
यत एवमतः प्राणो गृहादिवदिहेष्यते ।।
देहाच्च देहधर्मेभ्यो विधर्मात्माऽवभुक्ततः ।। १५९ ।।
स्वात्मांशांशिसजातीयविविक्तिफलसद्मवत् ।।
संहतत्वात्तथा प्राणोऽसंहतात्मोपभोगकृत् ।। १६० ।।
स्वजन्मोपचयग्लानिनाशाख्याकृतिजन्मदि -
ग्धर्मानपेक्षसंलब्धसत्त्वादिस्वार्थरूपकः ।। १६१ ।।
तद्गोचरैकसंद्रष्टृविज्ञात्रर्थं समीक्ष्य हि ।।
प्राणस्य तद्गुणानां च तथार्थत्वं प्रतीयताम् ।। १६२ ।।
ननु वेदान्तसिद्धान्ते न वस्त्वन्तरमिष्यते ।।
सांख्यराद्धान्तवत्किंचित्प्रत्यगात्मैकवस्तुनः ।। १६३ ।।
ऐकात्म्याविद्यया सर्वं प्रतीचि परिकल्पितम् ।।
प्राणाद्यनात्मजातं यद्रूपं नाम च कर्म च ।। १६४ ।।
कल्पिताकल्पितं सर्वं यदाऽऽत्मैवाभ्युपेयते ।।
अन्वयव्यतिरेकोक्तिस्तदैक्यान्नेह युज्यते ।। १६५ ।।
नान्वयो व्यतिरेको वा कल्पितस्यानृतत्वतः ।।
अकल्पितस्य चैकत्वान्नितरां न प्रसिध्यति ।। १६६ ।।
पुंव्युत्पत्तिप्रधानत्वादन्वयादेरदोषता ।।
न त्वन्वयादिनैवेह वस्तुतत्त्वस्य संस्थितिः ।। १६७ ।।
अविद्याकल्पितेऽप्यस्मिन्नात्मप्रत्ययमानभाक् ।।
भोक्तेह गम्यते लोके न त्वनात्ममितिप्रमः ।। १६८ ।।
अतोऽनूद्य यथासिद्धमन्वयव्यतिरेकतः ।।
भोक्तृभोग्यविवेकेन श्रुत्यैकात्म्यं प्रबोध्यते ।। १६९ ।।
चिदन्वयो हि सर्वत्र तत्कार्येषु समीक्ष्यते ।।
व्यतिरेकोऽप्यपह्नुत्या कार्यस्येह प्रसिध्यति ।। १७० ।।
ऐकात्म्यसिद्धौ दोषः स्यात्तत्सिद्धिश्च न वास्तवी ।।
प्रामाणिकी हि तत्सिद्धिरतो नासौ विरुध्यते ।। १७१ ।।
न चापि मानव्यापारव्यपेक्षैकात्म्यनिश्चितौ ।।
तत्फलस्य समाप्तत्वादपेक्षा निष्फला यतः ।। १७२ ।।
यावत्त्वागमतः साक्षान्न वेत्त्यात्मानमद्वयम् ।।
अन्वयाद्यात्मबोधार्थं तावत्तत्केन वार्यते ।। १७३ ।।
अज्ञानं च तदुत्थं च ह्यात्मैवाज्ञाततत्त्वकः ।।
तत्तत्त्वबोधात्तद्बाधः सर्परज्ज्वादिबाधवत् ।। १७४ ।।
क्लृप्तानामपि रज्ज्वादौ कल्पितान्तरसंश्रयात् ।।
क्लृप्तान्तरापनुत्तिः स्याद्यथा तद्विदिहाऽऽत्मनि ।। १७५ ।।
प्रत्यङ्मानैकमेयोऽतो भोक्ता भोग्यं ततोऽपरम् ।।
भोग्यानां व्यभिचारेऽपि भोक्तैकोऽव्यभिचारवान्न ।। १७६ ।।
बृहन्नित्यादिभिः प्राणो बोध्यमानोऽपि यत्नतः ।।
नैवान्वबुध्यत यदा चक्रे यत्नान्तरं तदा ।। १७७ ।।
पाणिनाऽऽपिफ्य वहुशः सुप्तं काश्योऽप्यबोधयत् ।।
आपेषोद्भूतसंक्षोभस्ततोऽसौ प्रत्यबुध्यत ।। १७८ ।।
कारणानामिदं वृत्तं यन्निमित्तान्तराश्रयात् ।।
स्वात्मकार्यसमुद्भूतिरम्बरादभ्रभूतिवत् ।। १७९ ।।
आपेषाल्लीनबुद्ध्यादिसमुत्पत्तौ परात्मनः ।।
घटाकाशवदुत्पत्तिर्नाञ्जसैव सदा दृशेः ।। १८० ।।
तस्मादप्रतिबोधेन प्राणोऽभोक्तेति गम्यताम् ।।
पुंसस्तु प्रतिबोधेन भोक्तृतैवावसीयते ।। १८१ ।।
अदाहकानां दग्धृत्वं यथा दाहकसंगतेः ।।
योक्तृसंयोगतस्तद्वद्भोक्तृत्वं देवतात्मनः ।। १८२ ।।
देहेन्द्रियमनोधीभ्यो विविच्याऽऽत्मानमेकलम् ।।
भोक्तारं दर्शयित्वाऽथ राजा गार्ग्यमपृच्छत ।। १८३ ।।
आपेषणेन बुबुधे यः प्राणादिविलक्षणः ।।
क्वाभूदयं पुरा बोधात्कुतश्चाऽऽगतवान्पुमान् ।। १८४ ।।
अन्तःकरणसंबन्धे विज्ञानमिति कर्तरि ।।
प्रत्ययः करणार्थः स्यात्क्रियायां भावसाधनः ।। १८५ ।।
प्रमेयार्थविवक्षायां शब्दः स्यात्कर्मसाधनः ।।
यथोक्तानामसद्भावात्प्रायार्थः प्रत्यगात्मनि ।। १८६ ।।
स्वाभासवदविद्योत्थबुद्ध्यादिव्याप्तिविभ्रमात् ।।
तदात्मत्वाभिमानित्वाद्विज्ञानमयताऽऽत्मनः ।। १८७ ।।
साक्षित्वेनोपलभ्यत्वात्साक्ष्यबुद्ध्यादिसंश्रयात् ।।
अकारकफलत्वेन तेन प्रायार्थतेष्यते ।। १८८ ।।
यतो विज्ञानमानी सन्सर्वं वस्त्ववगच्छति ।।
विज्ञानमयता तस्मात्प्रतीचोऽबोधकारणात् ।। १८९ ।।
विज्ञानेन विशिष्टं वा यस्मान्मेयं प्रपद्यते ।।
प्रायार्थत्वं प्रतीचोऽतस्तदभिन्नग्रहाद्भवेत् ।। १९० ।।
विज्ञानमय इत्युक्त्वा पृथिव्यादिमयोक्तितः ।।
षड्विकारनिषेधाच्च प्रायार्थत्वं समञ्जसम् ।। १९१ ।।
अनात्मनो यतोऽशेषान्कल्पितत्वादकल्पितः ।।
पूरयन्पुरुपः प्रत्यक्सर्पादीन्नशना यथा ।। १९२ ।।
व्युत्पत्तिरियमेवात्र तात्पर्यस्य समीक्षणात् ।।
स वा इति ह्युपक्रम्य नैनेनेत्यादिनिर्णयात् ।। १९३ ।।
इयं तावत्पदार्थोक्तिः संबन्धोक्तिरथाधुना ।।
प्रश्नस्य क्वैष इत्यादेः किमर्थोऽयमुपक्रमः ।। १९४ ।।
चोद्यैकमूलां प्रश्नोक्तिं केचिद्व्याचक्षतेऽपरे ।।
याथात्म्यप्रतिपत्त्यर्थमुत्थितस्य प्रचक्षते ।। १९५ ।।
पुंसोऽस्य ज्ञस्वभावत्वे कारणेष्वपि सत्सु च ।।
कादाचित्कोऽवबोधोऽस्य कुत इत्युच्यतां यथा ।। १९६ ।।
विहायैतच्छरीरं वा गतो देशान्तरं पुमान् ।।
विनष्टो वा कुतो भूयो देहमागादितीर्यताम् ।। १९७ ।।
प्रष्टव्यमेतद्गर्ग्येण शिष्यत्वान्न त्वचूचुदत् ।।
नैवोदास्ते तथाऽपीनो बोधाभ्युपगमात्स्वयम् ।। १९८ ।।
अर्थिनेऽर्थं प्रतिज्ञाय नासंपाद्य निवर्तते ।।
यथार्थितं सत्पुरुष इति सत्पुरुषव्रतम् ।। १९९ ।।
कूटस्थोऽस्यावबोधश्चेत्कादाचित्कं कुतो भवेत् ।।
मतोऽवबोधोऽनित्यश्चेत्कादाचित्कं तदाऽर्थवत् ।। २०० ।।
देहादिष्वभिमानोऽस्य कादाचित्कः सहेतुकः ।।
आगमापायिसाक्षित्वं नित्यमेवानिमित्ततः ।। २०१ ।।
इदमेव यतो वृत्तं कारणापेक्षिणां सताम् ।।
अभूत्वा भवनं तस्मात्कादाचित्कं न दोषभाक् ।। २०२ ।।
प्रतीच्येव यतश्चाभूदागाच्च प्रत्यगात्मनः ।।
प्रश्नार्थप्रतिकूलत्वात्प्रत्युक्तेर्नेदृगर्थता ।। २०३ ।।
गत्यादिसाधनानां च देह एव स्थितेः कुतः ।।
देशान्तरगतिः पुंसो नापि नाशोऽस्य युक्तिमान् ।। २०४ ।।
साक्षाद्ब्रह्मावबोधस्य प्रतिज्ञातत्वकारणात् ।।
भोक्तृभोक्तव्ययोस्तत्त्वं वक्तुं युक्तमतोऽञ्जसा ।। २०५ ।।
कर्मादिहेतुजं रूपमतत्त्वं तदनन्वयात् ।।
अनिमित्तं स्वतस्तस्य सर्वदाऽव्यभिचारतः ।। २०६ ।।
अकारकक्रियाकार्यं रूपं प्राक्प्रतिबोधतः ।।
बुबोधयिषितं भोक्तुरस्मद्गोचरवर्तिनः ।। २०७ ।।
यतोऽस्य न पुरा बोधात्कर्मादेः कार्यमण्वपि ।।
प्रतीचो गृह्यते मानादतोऽयं तत्स्वभावकः ।। २०८ ।।
काभूदेष पुरा बोधात्कुतश्चायमुपागतः ।।
आचक्ष्वैतद्वयं गार्ग्य स्थितावागमनेऽवधिम् ।। २०९ ।।
अभूत्प्रतीचोऽन्यत्रायमन्यस्माच्चायमागतः ।।
यदि चेत्कारकत्वं स्यान्नो चेद्धान्तिरियं भवेत् ।। २१० ।।
यत्र वा अन्यदित्येवं यत्र त्वस्येति चापरम् ।।
अविद्याविद्ययोः कार्यं तथाच श्रुतिरब्रवीत् ।। २११ ।।
वक्तुं प्रष्टुं च बालाकिर्न यतो जज्ञिवांस्ततः ।।
प्रश्नयोः स्वयमेवार्थं काश्यो वक्तुं प्रचक्रमे ।। २१२ ।।
पृष्टेनापि न विज्ञातं भवता तदिदं मया ।।
उच्यमानं यथा तत्त्वं सम्यक्त्वं श्रोतुमर्हसि ।। २१३ ।।
यत्रैष एतत्सुप्तोऽभूत्स्वनामामन्त्रणध्वनिम् ।।
नाश्रौषीद्यन्निमित्तं ज्ञस्तन्निमित्तिमिदं शृणु ।। २१४ ।।
त्रैविध्यं लक्ष्यते यस्माद्बुद्ध्यादिप्राणभूमिषु ।।
तदेषामिति षष्ठीयं श्रुत्या तस्मात्प्रयुज्यते ।। २१५ ।।
प्रत्यक्चिदवभासश्च कारणानुगमोऽपरः ।।
तथाच करणात्मानो बाह्यगोचररञ्जिताः ।। २१६ ।।
बुद्ध्यादेः कृत्स्नकार्यस्य पुंस्कर्मोद्भूतिहेतुतः ।।
बुद्ध्याद्युत्क्षेपसंहारौ तस्मात्कर्मनिबन्धनौ ।। २१७ ।।
स्वात्मावभासतो भोक्ता कर्ता त्वज्ञानहेतुतः ।।
द्वयाविविक्तो हि परो भोक्ता कर्तेति चोच्यते ।। २१८ ।।
जाग्रत्फलप्रयोगस्य यदा कर्म प्रहीयते ।।
व्युत्थानहेत्वसद्भावात्तदाऽकर्ता सुषुप्सति ।। २१९ ।।
भोक्तृप्रयुक्तं कर्तृत्वं कर्त्रा कर्म प्रयुज्यते ।।
कर्मप्रयुक्तो भोगश्च ततः संस्कारसंभवः ।। २२० ।।
सुखुदुःखादिसंस्कारसंस्कृतोऽयं जडः पुमान् ।।
रागद्वेषादिनाऽऽक्षिप्तस्ततो भूयः प्रवर्तते ।। २२१ ।।
अन्योन्यं कार्यता चैषां कारणत्वं तथैव च ।।
तेनानुच्छन्नसंस्कार आत्माऽयं प्राक्प्रबोधतः ।। २२२ ।।
अविद्यानाभिसंबन्धो मिथ्याधीचक्रसंस्थितः ।।
आब्रह्माऽऽस्थाण्वयं योनीर्बम्भ्रमीत्यनिशं परः ।। २२३ ।।
जाग्रत्कर्मक्षये सोऽयमादायाशेषभावनाः ।।
असंबुद्धात्मकोद्भूतमनोबुद्ध्यादिरूपिणा ।। २२४ ।।
आधिस्वभावजेनेति कर्ताऽऽदानस्य भण्यते ।।
प्रत्यक्चिदवभासान्तः कर्ता क्षेत्रज्ञ उच्यते ।। २२५ ।।
आदीयमानं विज्ञानं सामर्थ्यं विषयोन्मुखम् ।।
वागादीनामिह ग्राह्यं प्राणानां विषयाञ्जनम् ।। २२६ ।।
शक्तयः करणान्यत्र गृह्यन्ते कारणात्मना ।।
परमात्मा ग्रहीताऽत्र स्वाभासाभिन्नविग्रहः ।। २२७ ।।
तथा संवर्गविद्यायां प्राणवाय्वात्मना श्रुतिः ।।
वागग्न्याद्युपसंहारं वक्ति नान्येन कारणात् ।। २२८ ।।
नामाद्याशावसानं च प्राणे सर्वं प्रतिष्ठितम् ।।
प्राणबन्धनवाक्याच्च सूक्तमेतद्यथोदितम् ।। २२९ ।।
आविर्भूतस्वकार्यस्य संसर्गः कारणात्मना।।।।
वागाद्यादानमत्र स्याद्बुद्बुदानां यथाऽम्भसा ।। २३० ।।
सहार्थे वा तृतीयेयं विज्ञानेनेति या श्रुता ।।
सह प्रमातृज्ञानेन वागादेरुपसंहृतिः ।। २३१ ।।
यदि वाऽस्तु तृतीयेयमित्थंभूतार्थवाचिनी ।।
प्रत्यग्ज्ञानस्वभावेन कार्यकारणसंहृतिः ।। २३२ ।।
अनन्यबोधप्रत्यक्षो य एष इति भण्यते ।।
तस्य संप्रतिपत्त्यर्थमन्तर्हृदयकीर्तनम् ।। २३३ ।।
पराक्प्रमेयभूमिभ्यो व्युत्थाप्य मन आदरात् ।।
प्रत्यक्प्रवणया दृष्ट्या पश्याऽऽत्मानं त्वमञ्जसा ।। २३४ ।।
आत्मबुद्धिरियं पुंसां लक्ष्यतेऽव्यभिचारिणी ।।
व्यभिचारिणीष्वनात्मोत्थबुद्धिषु प्रत्यगात्मनि ।। २३५ ।।
बुद्धात्मनोऽपि सा बाह्यपदार्थज्ञानविभ्रमात् ।।
संकीर्यमाणेवाऽऽभाति तमसोपहतात्मनाम् ।। २३६ ।।
जग्धे कार्ये च निःशेषे कारणे चाऽऽत्मविद्यया ।।
अपूर्वाद्यात्मनाऽऽत्माऽयमात्मन्येवावसीयताम् ।। २३७ ।।
आदायाकाशशब्दाभ्यामैकात्म्यं प्रतिपाद्यते ।।
क्षेत्रज्ञेश्वरयोः साक्षाच्छ्रुत्येहाज्ञानहानतः ।। २३८ ।।
तात्स्थ्याद्धृदयशब्देन बुद्धिरत्राभिधीयते ।।
ऐकात्म्यप्रतिपत्त्यर्थं क्षेत्रज्ञपरमात्मनोः ।। २३९ ।।
घटाकाशो महाकाश इत्युक्तौ खैकधीर्यथा ।।
तथेहापि कथं नाम प्रत्यग्धीः स्यादितीर्यते ।। २४० ।।
बुद्धेरन्तः प्रतीचोऽन्यो नार्थः संभाव्यते यतः ।।
तस्मादाकाशशब्देन प्रत्यगात्माऽभिधीयते ।। २४१ ।।
प्राणादीनां यतो जन्म वक्ष्यते प्रत्यगात्मनः ।।
तस्माच्चाऽऽकाशशब्देन ब्रह्मैवात्राभिधीयते ।। २४२ ।।
अथाऽऽकाशो ह वै नाम सता सोम्येति च श्रुतिः ।।
ब्रह्माकाशात्परो नान्य आकाश इह गृह्यते ।। २४३ ।।
स्वतोवगमरूपेऽस्मिन्कूटस्थे कारणात्मना ।।
कार्त्स्न्येनावसितिर्भोक्तुः शेत इत्यभिधीयते ।। २४४ ।।
दृष्टान्तश्च कुमारादि तथाच घटतेऽञ्जसा ।।
प्रत्यक्चैतन्यमात्रत्वान्न तु निद्रेह युज्यते ।। २४५ ।।
देहाद्यध्यक्षतां हित्वा यदाऽयं वर्तते तदा ।।
स्वात्मन्येवाऽऽस्त इत्येतत्कुतश्चेत्स्वपितीत्यतः ।। २४६ ।।
इतश्च प्रत्यगात्मस्थो नान्यत्रागादयं पुमान् ।।
सुषुप्ते स्वपितीत्युक्तेस्तदेतदभिधीयते ।। २४७ ।।
अन्ये व्याचक्षते बुद्धिविज्ञानेनेति विस्मिताः ।।
वागादिज्ञानमादाय हृत्खे शेते य उत्थितः ।। २४८ ।।
सुषुप्सुर्मनसैवाऽऽत्मा मनस्येव समूहति ।।
प्राणान्स्वशक्तिभिः साकं मनोऽप्यात्मनि लीयते ।। २४९ ।।
विशीर्णकरणग्रामो बुद्धिभावनया युतः ।।
हृद्याकाशात्प्रसृत्याऽऽत्मा नाडीभिः स्वप्नमश्नुते ।। २५० ।।
मनोवागादिविज्ञानविग्रहः करणाख्यया ।।
विजानातीति कर्तृस्थे परस्मिन्भावसाधनः ।। २५१ ।।
प्रकाशवृत्तिर्या ज्ञस्य सा हृद्धर्मानुगा सती ।।
उद्गच्छति यतस्तस्माद्धृद्विशेषे लयं विदुः ।। २५२ ।।
स्वगोचरोन्मुखं ज्ञानं वागादीनामशेषतः ।।
आदाय भावनाबुद्ध्या शेते ज्ञो हृदयाम्बरे ।। २५३ ।।
भावनारूपविज्ञानमभिव्यक्तं यदा हृदि ।।
क्षेत्रज्ञस्यार्थवद्भाति शेते हृदीत्यतो वचः ।। २५४ ।।
एवं श्रुतिरियं कैश्चिद्व्याख्याताऽतिप्रयत्नतः ।।
परीक्ष्यैतद्वयं ग्राह्यं स्वयमेव परीक्षकैः ।। २५५ ।।
सह भावनया बुद्धेः श्रुतत्वादुपसंहृतेः ।।
न स्यात्तथोपसंहारस्तेनेयं कल्पना मुधा ।। २५६ ।।
स्वगोचरेषूत्सृष्टानि यदा गृह्णात्ययं स्वयम् ।।
वागादीनि तदैवैनं स्वपितीति प्रचक्षते ।। २५७ ।।
समाख्यासंश्रयात्तस्मादभूत्प्राक्प्रत्यगात्मनि ।।
व्यभिचारोऽपि चेन्नाम्नि ततो युक्तिरपीर्यते ।। २५८ ।।
वागादिप्रकृतौ प्राणशब्दो घ्राणेऽवगम्यते ।।
मुख्यस्यानुपसंहारान्न तद्वाचक इष्यते ।। २५९ ।।
वासनामात्रहेतुश्च स्वप्ने कर्मेन्द्रियाश्रयः ।।
सर्वेन्द्रियाणां लीनात्वद्व्यापारो न प्रबोधवत् ।। २६० ।।
वागाद्युपाधिसंबन्धे संसारित्वमिवेक्ष्यते ।।
ते तूपसंहृताः सर्वेऽसंसारित्वमतो दृशेः ।। २६१ ।।
ननु स्वप्नेऽपि जाग्रद्वत्प्रत्यक्षमुपलभ्यते ।।
सर्वेन्द्रियवियोगेऽपि सुखिदुःखित्वमात्मनः ।। २६२ ।।
मैवं मृषात्वात्स्वप्नोत्थसुखदुःखादिलक्षण -
संसारस्येत्यतो वक्ति श्रुतिस्तस्य मृषार्थताम् ।। २६३ ।।
नास्य स्वापः प्रबोधो वा कुतः स्वप्नस्य संभवः ।।
प्रत्यक्स्वभाव एवास्य जाग्रत्स्वप्नसुषुप्तयः ।। २६४ ।।
सुप्तः प्रबुद्ध इत्येवं स्वप्नं पश्यति चेति यः ।।
विकल्प एष भूतानामविद्यारात्रिशायिनाम् ।। २६५ ।।
मायामात्रमिदं सर्वं जगत्स्थावरजङ्गमम् ।।
सर्पादेरिव रज्ज्वादिस्तत्त्वमस्यपरं पदम् ।। २६६ ।।
चित्तसंमोहमात्रेस्मिल्लोकोऽयं परिखिद्यते ।।
दिङ्मोहाकुलविज्ञानो नष्टमार्ग इवाध्वगः ।। २६७ ।।
अस्मिन्नर्थे जगादेमौ श्लोकौ यदुकुलोद्वहः ।।
पुराणः शाश्वतो विष्णुः प्रपन्नाय किरीटिने ।। २६८ ।।
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।।
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ।। २६९ ।।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। २७० ।।
आत्मैवेदं जगत्सर्वं सत्यापूर्वादिलक्षणम् ।।
वेत्ति यस्तत्त्वतो वाक्यात्तस्यैवेह कृतार्थता ।। २७१ ।।
प्रत्यक्तमोवसाय्येव पराग्ज्ञानमशेषतः ।।
प्रत्यगात्मन्यविद्येति त्वविद्यापरिकल्पना ।। २७२ ।।
स्वार्थं प्रत्येव विज्ञेयाः सदसत्त्वादिकल्पनाः ।।
जाग्रत्स्वप्नावतः सिद्धौ स्वार्थं प्रत्येव न स्वतः ।। २७३ ।।
वागादिसाध्यसंदृष्टेः स्वप्नो बोधसमो यदि ।।
अवस्थात्रितयस्यास्य कुतः सिद्धिरितीर्यताम् ।। २७४ ।।
आदायेति च क्त्वान्तोक्तेः पूर्वाकलैककर्मणः ।।
स्वप्न एव तु संसिद्धिरादावन्ते ह्यसंभवात् ।। २७५ ।।
इति भूतार्थसंबोधज्ञानोन्मीलितचक्षुषाम् ।।
नास्ति व्याधिर्जरा नास्ति नास्ति देशपरिभ्रमः ।। २७६ ।।
नास्ति रोगो न संतापो नास्ति कामादिसंप्लुतिः ।।
न स्युर्हर्षभयोद्वेगहानोपचयमृत्यवः ।। २७७ ।।
न शोको नारतिः काचिन्न कर्तृत्वं न कार्यता ।।
न ज्ञेयं नापि च ज्ञाता तदभावोऽपि नेष्यते ।। २७८ ।।
इति क्षरार्थसंबन्धज्ञानेऽस्मिल्लो़कचक्षुषा ।।
विकल्पहेत्वविद्यायाः प्रत्यग्याथात्मनिष्ठितः ।।
सम्यग्बोधाग्निना ध्वस्तौ विकल्पो नावशिष्यते ।। २७९ ।।
विजिज्ञापयिषुर्गार्ग्यमिममर्थमतो नृपः ।।
स यत्रेत्यादिकामाह परामुक्तिपरंपराम् ।। २८० ।।
स्वप्ने भवत्वात्स्वप्नेति जाग्रत्स्वापाद्विवेचनम् ।।
मिथ्यात्वप्रतिपत्त्यर्थं स्वप्नस्य क्रियते स्फुटम् ।। २८१ ।।
निशायां संप्रवृत्तायां संहृताक्षस्य निद्रया ।।
जाग्रत्कर्मण्युपक्षीणे स्वप्नभोग उपस्थिते ।। २८२ ।।
बोधावस्था तिरोनीय देहाद्याश्रयलक्षणाम् ।।
कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया ।। २८३ ।।
अवस्थां प्रययावन्यां मायावीवाऽऽत्ममायया ।।
उच्चावचान्बहूनर्थान्सोऽसृजत्सृजतेऽनृतान् ।। २८४ ।।
अविद्याकामकर्मादिसाधनैः समुपार्जितान् ।।
बोधे साधारणा येऽस्य स्वप्ने तेऽनन्यद्रष्टृकाः ।। २८५ ।।
लोकाः कर्मफलानीति तेषां मिथ्यात्वमुच्यते ।।
उतेवेत्यादिना स्पष्टमैकात्म्यप्रतिपत्तये ।। २८६ ।।
ननु बोधे यथा लोकास्तत्कालाव्यभिचारिणः ।।
स्वप्नेऽपि स्वप्नकालस्थास्तद्वत्सन्त्विति भण्यते ।। २८७ ।।
ननु जाग्रत्स्थलोकानां मिथ्यात्वं प्राक्प्रपञ्चितम् ।।
अविद्यामात्रहेतुत्वं पाणिपेषप्रबोधनात् ।। २८८ ।।
तथाच सति दृष्टान्तो भवतो नोपपद्यते ।।
मिथ्यात्मकत्वात्सर्वस्य नैतदेवं कुतो यतः ।। २८९ ।।
विवेकमात्रसिद्ध्यर्थो भोक्तृभोग्यपदार्थयोः ।।
पाणिपेषादिको ग्रन्थः शुद्धिस्तत्र विवक्ष्यते ।। २९० ।।
तस्मात्कृतकदृष्टान्तमुपादायाऽऽत्मनोऽञ्जसा ।।
आध्यात्मिकादिलेपानां विशुद्धिरिह भण्यते ।। २९१ ।।
किंचित्सामान्यमाश्रित्य जामित्वं प्रतिपद्यते ।।
न्यायः सर्वोऽपि येनातो नैतत्साधु प्रचोदितम् ।। २९२ ।।
महाराजादयो नास्य स्वप्नानुभवगोचराः ।।
आत्मभूता इति ज्ञेयास्तद्भेदेनोपलम्भनात् ।। २९३ ।।
पर्यङ्कशयिताद्राज्ञः प्रत्यक्षादिप्रमाणकात् ।।
बहिः समीक्ष्यते राजा स्वप्नदृग्भिर्वनं गतः ।। २९४ ।।
स्वानुभूत्यनुरोधेन राज्ञो राजाऽमृषा गृहे ।।
स्वप्ने प्रवद्धस्य सतो मृषा स्याद्वनमाश्रितः ।। २९५ ।।
जाग्रद्दृष्टं मृषा स्वप्ने सज्जागरे मृषा ।।
अन्योन्यव्यभिचारित्वात्स्वप्नजाग्रत्पदार्थयोः ।। २९६ ।।
अहः क्षपायां च कुतः, संहृताक्षस्य चेक्षणम् ।।
मृतानां जीवनं तद्वद्वृद्धानां यौवनं कुतः ।। २९७ ।।
न चक्षुरादिदृष्टीनामन्तर्देहसमीक्षणम् ।।
हिमवत्प्रभृतीनां च कुतोऽन्तः संभवो हृदि ।। २९८ ।।
नापि देहाद्विनिष्क्रम्य पर्वतादीन्समीक्षते ।।
देहं विना कथमगाद्गतिसाधनवर्जितः ।। २९९ ।।
अन्तरेणापि देहादींस्तत्कार्यं चेत्करोत्ययम् ।।
व्यर्थं देहाद्युपादानमस्य प्राप्नोत्यसंशयम् ।। ३०० ।।
ननु पर्यङ्क आसीनो गच्छञ्शिविकया वनम् ।।
वेश्मतो बहिरात्मानं द्रक्ष्यतीति न तद्यतः ।। ३०१ ।।
अमात्यादीन्यथाऽऽदाय स्वात्मभोगप्रसिद्धये ।।
नृपः स्वदेशमध्यस्थो यथेष्टं परिवर्तते ।। ३०२ ।।
स्वदेहराष्ट्रसंस्थोऽयं जाग्रद्भावनिरूपिणः ।।
प्राणानात्मा तथाऽऽदाय स्वप्नान्पश्यति कामतः ।। ३०३ ।।
असत्योपाधिभिः सोऽयं कूटस्थासङ्गविग्रहः ।।
अविद्यारोपितमलो विद्ययाऽऽत्मा विशोध्यते ।। ३०४ ।।
निःसङ्गस्य ससङ्गेन कूटस्थस्य विनाशिना ।।
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते ।। ३०५ ।।
कूटस्थादत्तानुज्ञं सत्प्रत्याख्यातं सहान्वयम् ।।
कारकाद्यन्यतो मोहान्नाऽऽत्मानं प्रति ढौकते ।। ३०६ ।।
ननु कामवशादस्य त्वयोक्तं परिवर्तनम् ।।
द्रष्टृदृश्यादिभावश्च कथं शुद्धस्तथा सति ।। ३०७ ।।
मैवं स्वतोऽवबुद्धत्वात्कुतोऽज्ञानेन संगतिः ।।
अज्ञानसंगतिं मुक्त्वा न स्यात्तज्जेन संगतिः ।। ३०८ ।।
एवं यस्मात्स्वतः शुद्धो द्वितीयासंगतेरयम् ।।
आत्मातस्मात्स्वतो मुक्तः कूटस्थज्ञाप्तिमात्रतः ।। ३०९ ।।
न यथा श्रोत्रविज्ञानं रूपेणैति समागमम् ।।
संसारेण तथैवाऽऽत्मा कौटस्थ्यान्नैति संगतिम् ।। ३१० ।।
इत्यर्थस्यावबोधार्थं परो ग्रन्थोऽवतार्यते ।। ३११ ।।
विशुद्धिं व्यतिरेकं च स्वप्नजाग्रदवस्थयोः ।।
उक्त्वाऽऽत्मनोऽद्वयत्वं च सुषुप्ते चाधुनोच्यते ।। ३१२ ।।
न वेदेत्या त्मनः श्रुत्या कर्तृत्वं प्रतिषिध्यते ।।
पश्यन्नपि यतः प्राज्ञो कौटस्थ्यान्न प्रपश्यति ।। ३१३ ।।
अथ यो वेदेति तथा ज्ञातृसाक्षित्वमात्मनः ।।
प्रतीचोऽकारकत्वं नः सर्वत्र प्रतिपाद्यते ।। ३१४ ।।
क्वचित्प्रमातृवित्साक्षी कचित्प्रत्ययवित्परः ।।
क्वचिद्बाह्यार्थविच्चाऽऽत्मा तत्कर्तृत्वं निषिध्यते ।। ३१५ ।।
परप्रयुक्तं वेत्तृत्वं यदस्य प्रत्यगात्मनः ।।
संबन्धजत्वात्तस्यातः कस्येत्यत्राभिधीयते ।। ३१६ ।।
कर्मोत्थत्वात्प्रमात्रादेस्तत्क्षये क्षयवत्त्वतः ।।
षष्ठीयं कर्मणि न्याय्या द्वयाभावविवक्षया ।। ३१७ ।।
अप्यर्थे चनशब्दोऽयमभावस्यापि वारकः ।।
शेषशेषितिरोभावे सुषुप्तिरिह भण्यते ।। ३१८ ।।
अथ केन क्रमेणायं सुषुप्तं प्रतिपद्यते ।।
इति क्रमविधानार्थं हिता नामेति भण्यते ।। ३१९ ।।
आ नाभितस्तथा कण्ठाद्धृदयं मध्यतः स्थितम् ।।
सनालं पद्मकोशाभं पञ्चच्छिद्रमधोमुखम् ।। ३२० ।।
स्वप्नाश्रयाणि हृन्मध्ये नीलाद्याभानि देहिनः ।।
स्थानानि सुरमर्त्यादिजुष्टान्यस्य भवन्त्युत ।। ३२१ ।।
बिलानि सुपयश्चैता जाग्रद्वत्प्रत्ययोद्भवाः ।।
एकोत्तरं नाडिशतं विष्वक्ताभ्यो विनिर्गतम् ।। ३२२ ।।
प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः ।।
ना़ड्यः कर्मादिहेतूत्थाः स्वप्नादिफलभुक्तये ।। ३२३ ।।
वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा ।।
अनन्तैकोर्ध्वगा नाडी तया गच्छन्विमुच्यते ।। ३२४ ।।
एकैकस्याः पुनर्नाड्याः सूक्ष्मभेदाः प्रकीर्तिताः ।।
द्वासप्ततिसहस्रैस्ते संख्याता योगचिन्तकैः ।। ३२५ ।।
कदम्बकुसुमोद्भूतकेसरा इव सर्वतः ।।
प्रसृता हृदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ।। ३२६ ।।
हितं फलं प्रयच्छन्ति यस्मात्तस्माद्धिताः स्मृताः ।।
हृदयात्ता विनिप्क्रान्ता यथाऽर्काद्रश्मयस्तथा ।। ३२७ ।।
पुरीतदभिधानेन हृद्वेष्टनमिहोच्यते ।।
तत्तूपलक्षणं विद्याद्देहव्याप्तिविवक्षया ।। ३२८ ।।
स्वप्नकर्मसमुद्भूता वासना या हृदि स्थिताः ।।
नाडीभिस्ता वितत्याऽऽत्मा स्वप्नान्पश्यति कामतः ।। ३२९ ।।
स्वाप्नान्भोगानशेषेण भुक्त्वा स्वप्नक्रियाक्षये ।।
ताभिरेवोपसंहृत्य प्राज्ञो याति सुषुप्तताम् ।। ३३० ।।
जाग्रत्स्वप्नक्रियोद्भूतान्भुक्त्वा भोगानशेषतः ।।
इन्द्रियाण्युपसंहृत्य शेते नाडीभिरात्मनि ।। ३३१ ।।
सामान्यप्रज्ञया देहं संव्याप्यान्तर्बहिः श्रमात् ।।
श्येनवत्परमं स्थानमात्माऽभ्येति सुषुप्तताम् ।। ३३२ ।।
धियोऽन्तःकरणस्येह स्थानं हृदयमिष्यते ।।
तत्रेन्द्रियाणि सर्वाणि बुद्धितन्त्राणि सर्वदा ।। ३३३ ।।
यत एवमतस्तानि नाडीभिः कर्मणो वशात् ।। ३३४ ।।
प्रसारयति धीर्वृत्तीर्मत्स्यजालकवद्बहिः ।।
प्रसार्याऽऽयतनस्थानि तानि धीरधितिष्ठति ।। ३३५ ।।
जाग्रत्काले ततो ज्ञोऽयमभिव्यक्तविशेषधीः ।।
व्याप्नोति निष्क्रियः सर्वान्भानुर्दश दिशो यथा ।। ३३६ ।।
ता एवेन्द्रियवृत्तीः स्वाश्चैतन्यखचिता यदा ।।
संयच्छति प्रतीच्यात्मा स्वपितीति तदोच्यते ।। ३३७ ।।
बुद्ध्युपाध्यनुरोधेन प्रतीचः प्रभवाप्ययौ ।।
विक्षेपलयहीनस्तु स्वतः कुम्भखवत्परः ।। ३३८ ।।
ताभिः प्रत्यवसृप्याऽऽत्मा वृत्तीर्नाडीभिरानयन् ।।
तप्तायोवच्छरीरं स्वं व्याप्य शेते स्व आत्मनि ।। ३३९ ।।
स्वहेतुमात्रया स्थानमिन्द्रियाणां न कार्यतः ।।
यतोऽतश्चिन्निभेनैव व्याप्तिः स्यात्कारणात्मना ।। ३४० ।।
सुषुप्तौ न शरीरेण संगतिः प्रत्यगात्मनः ।।
नापि बुद्ध्यादिभिः साक्षात्तत्स्थानासंगतेर्भवेत् ।। ३४१ ।।
तीर्णो हीति तथाचैतदुत्तरत्राभिधास्यते ।।
सुषुप्तेऽत्र पिता चेति सर्वसंबन्धवारणम् ।। ३४२ ।।
सर्वसंसारदुःखौघव्यतीतेयं पराऽऽत्मनः ।।
अवस्थेत्यत्र दृष्टान्तः स यथेत्यभिधीयते ।। ३४३ ।।
स्तनंधयो यथा वालो रागद्वेषविवर्जितः ।।
तदभावाद्विकुर्वन्ति चेतो न विशयाः सदा ।। ३४४ ।।
अप्ररूढेन्द्रियत्वाच्च रागद्वेषाद्यसंप्लुतिः ।।
मृदुकण्टकवत्तद्धीर्नालं वेद्धं स्वगोचरान् ।। ३४५ ।।
सर्वत्राव्याहताज्ञश्च विधेयप्रकृतित्वतः ।।
राजा वाऽतिसुखी लोके प्ररूढेन्द्रियवानपि ।। ३४६ ।।
विज्ञाताशेषतत्त्वो वा ब्राह्मणः कृतकृत्यतः ।।
आनन्दस्य परां काष्ठामतिघ्नीमेत्य निर्वृतः ।। ३४७ ।।
बालादित्रयमप्येतदेको दृष्टान्त इष्यते ।।
बालमौढ्यमदान्धत्वनिवृत्त्यर्थं तथोच्यते ।। ३४८ ।।
बालस्य निर्विवेकत्वात्सविवेकः क्षितीश्वरः ।।
तन्मदान्ध्यनिषेधार्थं महाब्राह्मण उच्यते ।। ३४९ ।।
अतीत्य दुःखहेतून्या हन्ति दुःखान्यशेषतः ।।
आनन्दस्य परा निष्ठा तेनातिघ्नीति भण्यते ।। ३५० ।।
निर्विकारात्मनां यस्माद्बालादीनां स्व आत्मनि ।।
अतीव जायते ह्रादो दृष्टान्तः स विवक्षितः ।। ३५१ ।।
परसंबन्धमेत्यात्मा कार्यकारणरूपिभिः ।।
ऐकात्म्यलक्षणं साक्षाच्छेत इत्यभिधीयते ।। ३५२ ।।
अत्यन्तसंनिकृष्टानामपि भिन्नात्मनां मितेः ।।
लोचनस्थाञ्जनादीनां न दृष्टिपथतेष्यते ।। ३५३ ।।
किमु प्रध्वस्तनिःशेषभेदहेताविहाऽऽत्मनि ।।
ग्राह्यग्राहकसंबन्धः सर्वभेदापनोदिनि ।। ३५४ ।।
स्वस्थावस्थैव यैतेषां प्रसिद्धा जगतीक्ष्यते ।।
दृष्टान्तत्वेन स्वापस्य सैव साक्षाद्विवक्ष्यते ।। ३५५ ।।
दार्ष्टान्तिकत्वेन यतः सुषुप्तोऽत्र विवक्षितः ।।
नापि बालादिस्वापस्य विशेषः कश्चिदीक्ष्यते ।। ३५६ ।।
अव्याहतमतिर्बालः सर्वातिशयवर्जिताम् ।।
आनंदस्य परां निष्ठामतिघ्नीं प्रतिपद्यते ।। ३५७ ।।
यावद्यावत्प्ररूढत्वं रागादेर्जायते शिशोः ।।
तावत्तावत्प्ररूढत्वं दुःखस्याप्यभिजायते ।। ३५८ ।।
यथैव तत्तनुत्वं च यावद्यावदिहाऽऽत्मनः ।।
दुःखस्यापि तनुत्वं स्यात्तावत्तावत्सुखात्मनः ।। ३५९ ।।
उत्तरोत्तरवृद्ध्याऽतो दुःखहेतुक्षयाच्छ्रुतौ ।।
सहस्रदशभागेन निष्ठाऽऽनन्दस्य भण्यते ।। ३६० ।।
अव्यावृत्ताननुगतप्रत्यङ्मात्रसमाप्तितः ।।
भूम्न्येव तु परा निष्ठाऽऽनन्दस्येति श्रुतेर्वचः ।। ३६१ ।।
आनन्दः स्वयमेवाऽऽत्मा भेदसंसर्गवर्जितः ।।
दुःखहेतुविनिर्मुक्तावतिघ्नीमेत्यतः स्वतः ।। ३६२ ।।
गार्ग्यं काश्यो यदप्राक्षीत्काभूदेष तदेति तत् ।।
सप्रपञ्चं यथावच्च सर्वमुक्तमशेषतः ।। ३६३ ।।
अनेन च यथोक्तेन पाणिपेषोत्थितस्य हि ।।
मोहोत्थाशेषकार्येभ्यो विशुद्धिं श्रुतिरब्रवीत् ।। ३६४ ।।
कुत आगादिति त्वस्य प्रश्नार्थाविश्चिकीर्षया ।।
सुषुप्ताज्जाग्रदापत्तिर्यथा तदधुनोच्यते ।। ३६५ ।।
नन्वस्थाद्यो हि यत्रेह स तस्मादन्यतो व्रजन् ।।
वेश्मतो ग्रामतो वाऽसौ तत एव व्रजेद्ध्रुवम् ।। ३६६ ।।
तस्मात्सामर्थ्यतः सिद्ध उत्तरप्रश्ननिर्णयः ।।
तन्निर्णयार्थमारम्भो न कार्यो जामिदोषतः ।। ३६७ ।।
न निमित्ताद्यर्थताऽपि पञ्चम्या उपपद्यते ।।
ऊर्णनाभ्यग्निदृष्टान्ते न निमित्तादि गम्यते ।। ३६८ ।।
प्रत्युक्तौ न निमित्तादि यदि साक्षात्समीक्ष्यते ।।
अपादानार्थतैवास्तु दोषस्यान्यत्र दर्शनात् ।। ३६९ ।।
नन्वत्रापि समो दोषो वाक्यस्य पुनरुक्तता ।।
नैवं यतोऽखिलध्वान्तकार्यध्वंसो विवक्षितः ।। ३७० ।।
अव्यावृत्ताननुगतं पूर्णं ब्रह्म विवक्षितम् ।।
प्रत्यङ्मात्रैकयाथात्म्यं न दोषो जामिता ततः ।। ३७१ ।।
विषयौ द्वावुपन्यस्तौ विद्याविद्यात्मनोरिह ।।
आत्मेत्येवेति विद्याया विषयः प्रागुदाहृतः ।। ३७२ ।।
अविद्याविषयस्तावत्संसारानर्थ ईरितः ।।
क्रियाकारकभेदेन नामरूपक्रियात्मकः ।। ३७३ ।।
तत्राविद्योद्भवं कार्यं यावत्किंचिद्विवक्षितम् ।।
तत्प्रत्यपादि निखिलं पूर्वं श्रुत्यैव यत्नतः ।। ३७४ ।।
अविद्याप्रतिपक्षाया विद्याया विषयोऽधुना ।।
प्रवक्तव्योऽतस्तद्योग्यौ प्रश्नौ द्वौ समुदाहृतौ ।। ३७५ ।।
हेतुस्वरूपकार्याणि विरोधीनि परस्परम् ।।
अविद्याविद्ययोर्यस्मात्तद्योग्यप्रश्नगीरतः ।। ३७६ ।।
कारकव्यवहारोऽयमविद्याविषयः सदा ।।
आधाराधेययोर्भित्तौ तयोः कारकतेष्यते ।। ३७७ ।।
तद्वद्गच्छति यो यस्माद्भेदे सत्येव याति सः ।।
इत्यविद्याव्यवस्थेयं विद्यायास्तद्विपर्ययः ।। ३७८ ।।
क्रियाकारकभेदाद्या लोकतः शेमुषी त्वभूत् ।।
यथास्थितात्मयाथात्म्यसम्यग्ज्ञानेन बाध्यते ।। ३७९ ।।
नान्योऽयमात्माऽन्यत्राभून्नान्योऽन्यस्मात्तथैति च ।।
इति निःशेषतन्मोहकार्यध्वंसो विवक्षितः ।। ३८० ।।
अभेदव्यतिरेकाभ्यां वस्त्वन्तरमिहाऽऽत्मनः ।।
श्रुत्या निषिध्यते साक्षाद्भेदहेतोर्निषेधतः ।। ३८१ ।।
ननु प्राणादिभिः सद्भिः कथं निर्भेदताऽऽत्मनः ।।
नाऽऽत्मन्येव तदध्यासाच्छुक्तिकारजतादिवत् ।। ३८२ ।।
कथं तदिति दृष्टान्त ऊर्णनाभ्यादिरुच्यते ।।
वास्तवं वृत्तमापेक्ष्य न त्वियं सृष्टिरात्मनः ।। ३८३ ।।
नासतो जन्मना योगः सतः सत्त्वान्न चेष्यते ।।
कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ।। ३८४ ।।
पुंस्प्रबोधप्रसिद्ध्यर्थं सृष्टिव्याजोऽयमुच्यते ।।
कौटस्थ्यात्त्वात्मनः सृष्टिर्न कथंचन युज्यते ।। ३८५ ।।
निःशेषवेदसिद्धान्तविद्वद्भिरपि भाषितम् ।।
गौडाचार्यैरिदं वस्तु यथाऽस्माभिः प्रपञ्चितम् ।। ३८६ ।।
मृल्लोहविस्फुल्लिङ्गाद्यैः सृष्टिर्या चोदिताऽन्यथा ।।
उपायः सोऽवताराय नास्ति भेदः कथंचन ।। ३८७ ।।
सृष्टावन्यपरायां तु न चोद्यस्यास्ति संभवः ।।
कूटस्थात्कथमुत्पत्तिरचित्कं चेतनात्कथम् ।। ३८८ ।।
निःसाधनं च कार्याणि कथं कुर्यादनेकधा ।।
विश्वरूपसमुत्पत्तिरेकरूपात्कथं भेवत् ।। ३८९ ।।
इत्येवमादिचोद्यानां पुंस्वभावानुरोधतः ।।
परिहारवच श्रौतं न च वस्त्वनुरोधतः ।। ३९० ।।
ऊर्णनाभिः स्वयं कर्ता प्रयुङ्त्के कर्म चाऽऽत्मना ।।
तन्तून्स्वतः प्रसिद्धेन करणेन च तन्तुना ।।
गमिक्रियां साधयति तथैकत्रापि चाऽऽत्मनि ।। ३९१ ।।
अचेतनो यथा जाल ऊर्णनाभेः सचेतनात् ।।
आकाशादिजगत्कार्यमात्मनश्चेतनात्तथा ।। ३९२ ।।
विस्फुलिङ्गा यथा चाग्नेर्जायन्तेऽग्निस्वभावकाः ।।
सुषुप्तादात्मनस्तद्वत्प्राणादीनां समुद्भवः ।। ३९३ ।।
सुषुप्तोदाहृतिर्येयं तया समुपलक्ष्यते ।।
विश्वाभिव्यक्तितः पूर्वं ब्रह्मैवानामरूपकम् ।। ३९४ ।।
सर्वासूपनिषत्स्वेवं कारणं नान्यदात्मनः ।।
श्रूयतेऽतः परात्मैव जगतः कारणं परम् ।। ३९५ ।।
ब्रह्मण्यस्तमितेऽत्यर्थं जगत्यस्मिन्नशेषतः ।।
जगत्प्रसूतौ को हेतुस्तदन्याव्यतिरेकतः ।। ३९६ ।।
अस्तीशो व्यतिरिक्तश्चेत्सोऽपि केन प्रवर्तितः ।।
जगन्निर्मिनुयादेतत्स्वतश्चेत्सर्वदा न किम् ।। ३९७ ।।
ऐश्वर्यं पारतन्त्रयं च नापि संभाव्यते मितेः ।।
नापि कार्यं विलीनत्वात्स्वात्मोत्पत्तौ प्रवर्तते ।। ३९८ ।।
भिन्नं चेत्कारणात्कार्यं कार्यकारणता तयोः ।।
पृथक्प्रसिद्धयोः केयं हिमवद्विन्ध्ययोरिव।।।। ३९९ ।।
अथाभिन्नं तदैकत्वात्कार्यकारणता कुतः ।।
नापि निष्प्रियरूपं सत्कारणत्वं समश्नुते ।। ४०० ।।
तथाचाक्रियमाणं सत्कथं कार्यमिहोच्यते ।।
क्रियाशून्यं च यद्वस्तु तच्चाकारकमिष्यते ।। ४०१ ।।
लयेनैव समाप्तत्वात्कालकर्मादिकारणम् ।।
स्वात्मोत्पत्तावशक्तं तद्व्यक्तं सामर्थ्यभाग्यतः ।। ४०२ ।।
नित्यशक्तित्वपक्षेऽपि युगपत्प्रभवादिकम् ।।
प्राप्नोति सर्वकार्यस्य न च तद्वर्तते तथा ।। ४०३ ।।
शक्त्युत्पत्त्यभ्युपेतौ च कारणं स्यादशक्तिमत् ।।
अथ शक्त्यन्तराच्छक्तिरनवस्था प्रसज्यते ।। ४०४ ।।
किमपेक्ष्य व्यपेतत्वं कालोऽयं वार्तमानिकः ।।
यायादनागतत्वं च तस्यैक्याभागवत्त्वतः ।। ४०५ ।।
नित्यमेकं विभु द्रव्यं यदि कालोऽभ्युपेयते ।।
अतीतानागतत्वादिभेदः स्यात्किंनिबन्धनः ।। ४०६ ।।
आदित्यादिगतिश्चेत्स्यात्कालोऽव्यक्तसमुत्थितौ ।।
आदित्यादेर्विलीनत्वान्न तदा तत्क्रियेष्यते ।। ४०७ ।।
न चावयविनो वृत्तिर्निरंशैकत्वहेतुतः ।।
भागेषु निष्कलत्वैक्यनिःसामान्यत्वकारणात् ।। ४०८ ।।
आधारेषु निरंशेषु यद्याद्येयस्तथाविधः ।।
भिन्नदेशेषु तेष्वेकस्तथाचावयवी कथम् ।। ४०९ ।।
तस्मान्न देशकालादिभेदो वस्त्वाश्रयो मितेः ।।
दिग्भेदक्लृप्तिवद्व्योम्नि भेदोऽयं तद्वदात्मनि ।। ४१० ।।
जगदुत्पत्तिसंहारास्तद्वदात्मनि कल्पिताः ।।
वस्तुवृत्तं समालोक्य कुतः सृष्ट्यादिसंभवः ।। ४११ ।।
कारकादिर्यथा भ्रान्तिस्तथा पूर्वमवादिषम् ।।
सर्वमात्मेति नेतीति तथा सत्युपपद्यते ।। ४१२ ।।
उद्भूतिस्थितिनाशाः स्युर्जगतोऽतः प्रतिक्षणम् ।।
अविद्यामात्रहेतुत्वान्नामीषां विद्यते क्रमः ।। ४१३ ।।
प्राणाः श्रोत्रादयोऽत्र स्युर्दश सप्त च ये मताः ।।
लोकावच्छेदतोऽमीषां भेदोऽध्यात्मादिलक्षणः ।। ४१४ ।।
जरायुजादिसंभेदभिन्ना लोकाः पृथग्विधाः ।।
तथाऽधिदेवतात्मानो देवाः स्युर्बहुभेदकाः ।। ४१५ ।।
तेऽपि साधारणाः प्राणा देहेऽसाधारणास्तु ते ।।
भूतानां परिणामोऽयं यथाकर्म यथाश्रुतम् ।। ४१६ ।।
प्राणादिजन्मना जज्ञे विस्फुलिङ्गैर्यथा शिखी ।।
परमात्माऽपि जज्ञे खं यथा कुम्भादिजन्मभिः ।। ४१७ ।।
प्राणाद्युद्भूतितो नान्या क्षेत्रज्ञोद्भूतिरिष्यते ।।
श्रुतेरेतेभ्य इति हि तथा स्पष्टं वचः श्रुतम् ।। ४१८ ।।
यस्मादविद्ययैवाऽऽत्मा प्राणक्षेत्रज्ञरूपभाक् ।।
स्वतोऽतः स परं ब्रह्म तस्योपनिषदुच्यते ।। ४१९ ।।
उपासनार्थं यद्गुह्यं नामोपनिषदुच्यते ।।
तदस्य परमं गुह्यं तेनोपासीत तत्त्वतः ।। ४२० ।।
ब्रह्मविद्याधिकारेऽस्मिन्यावत्किंचिदुपासनम् ।।
ब्रह्मविद्योत्थितिफलं तत्सर्वमिति निर्दिशेत् ।। ४२१ ।।
गोदोहनादिवद्विद्यादेवं सर्वमुपासनम् ।।
विद्याधिकारजीवित्वान्न स्वतन्त्रफलं भवेत् ।। ४२२ ।।
सत्यस्य सत्यमिति या ब्रह्मोपनिषदुच्यते ।।
प्राणा वै सत्यमित्यस्या व्याख्योपनिषदः कृता ।। ४२३ ।।
नामरूपात्मकाः प्राणाः परसत्याभिसंगतेः ।।
सत्यमित्यभिधीयन्ते तेषां सत्यं परं पदम् ।। ४२४ ।।
उक्तोपनिषदर्थस्य सम्यगाविष्कृदुत्तरम् ।।
यो ह वै शिशुमित्यादि भविता ब्राह्मणद्वयम् ।। ४२५ ।।
कामं ह्युपनिषद्व्याख्या भवतु ब्राह्मणद्वयम् ।।
संसारिब्रह्मणोः कस्य नामैतदिति भण्यताम् ।। ४२६ ।।
पाणिपेषप्रबुद्धस्य नाम संसारिणो यदि ।।
तदा स एव विज्ञेयस्तज्ज्ञानादेव मुक्तता ।। ४२७ ।।
ब्रह्मशब्दाभिधेयश्च संसार्येव तदा भवेत् ।।
तद्विद्या ब्रह्मविद्येति प्रतिपद्यामहे तदा ।। ४२८ ।।
अथासंसारिणो नाम न्यायतोऽध्यवसीयते ।।
संसारिणि यदुक्तं तत्तदा तत्र भविष्यति ।। ४२९ ।।
भिन्नात्मनोस्तयोर्दोषो ब्रह्मत्वप्रतिपादिकाः ।।
कुप्येरञ्श्रुतयः सर्वा नान्यदन्यद्भवेद्यतः ।। ४३० ।।
ब्रह्मणोऽव्यतिरेके च तद्वच्चासति दुःखिनि ।।
ब्रह्मविद्योपदेशस्य कैमर्थक्यं प्रसज्यते ।। ४३१ ।।
इति संदेहहेतुश्च विचारस्य प्रयोजकः ।।
तस्माद्विचारः कर्तव्य उक्तसंदेहहानिकृत् ।। ४३२ ।।
नासंसारी परोऽन्योऽस्ति पाणिपेषप्रबोधितात् ।।
प्राज्ञावस्थात्मकाद्यस्मादुत्पत्तिः श्रूयते श्रुतौ ।। ४३३ ।।
ब्रह्म तेऽहं ब्रवाणीति प्रतिज्ञाय ततो नृपः ।।
सुप्तं पुरुषमभ्येत्य पाणिना बोधयन्स्वयम् ।। ४३४ ।।
तमवस्थान्तरं नीत्वा स्वप्नदर्शनवर्त्मना ।।
सुषुप्ताख्यं ततस्तस्मात्प्राणाद्युत्पत्तिमब्रवीत् ।। ४३५ ।।
संसारी प्रक्रमाच्चेह नान्यः संभाव्यते ततः ।।
अनूद्य च प्रियात्मानं स द्रष्टव्य इतीर्यते ।। ४३६ ।।
वेदान्तेषु च सर्वेषु प्रत्यगात्मैव चोद्यते ।।
वेद्यत्वेन न तद्भिन्नं पश्येदित्यभिधीयते ।। ४३७ ।।
अवस्थान्तरसंबन्धादसंसारी भविष्यति ।।
संसार्यपि स्वतोऽयं चेन्नेदृग्दृष्टेरसंभवात् ।। ४३८ ।।
नान्यजातिविशिष्टोऽर्थः स्वतो जात्यन्तरं ततः ।।
कश्चिदेति जगत्यस्मिन्नन्यत्रेश्वरहेतुतः ।। ४३९ ।।
स्वभावमपि जह्याच्चेदग्निः शीतो भवेद्ध्रुवम् ।।
सर्वप्रमाणकोपश्च सर्वं स्यादधरोत्तरम् ।। ४४० ।।
सांख्यादयस्तथेशस्य ह्यभावं बहुयुक्तिभिः ।।
आपादयन्ति यत्नेन तेभ्योऽन्यः कोऽधिको धिया ।। ४४१ ।।
संसारिणोऽप्यसामर्थ्याज्जगज्जन्मादिकर्मसु ।।
जगद्धेतुत्वमन्याय्यमिति चेन्न श्रुतेर्बलात् ।। ४४२ ।।
अक्षाद्यगोचरो यद्वच्छास्त्रादध्यवसीयते ।।
तद्वत्संसारिकारित्वं जगतो गम्यतां श्रुतेः ।। ४४३ ।।
एवं तावदयं पक्षो न्यायतः प्रतिपादितः ।।
शास्त्रन्यायादितोऽन्योऽपि पक्षोऽथ प्रतिपाद्यते ।। ४४४ ।।
यः सर्वज्ञः सर्वविद्योऽशनायादिविवर्जितः ।।
यः पृथिव्यामिति तथा नेति नेतीति चाऽऽगमः ।। ४४५ ।।
अस्थूलाद्यक्षरोक्तेश्च तथाऽपूर्वादिवाक्यतः ।।
असंसारी परोऽस्तीशो यस्य सर्वमिदं वशे ।। ४४६ ।।
स एव च जगत्कारी सत्यज्ञानादिलक्षणः ।।
तस्मादित्यात्मनश्चेति सामानाधिकरण्यतः ।। ४४७ ।।
संसारिणो ननूत्पत्तिरेवमेवेति कीर्तिता ।।
नैवं महेश्वरस्यैव तत्राऽऽकाशत्वसंश्रयात् ।। ४४८ ।।
ब्रह्म तेऽहं ब्रवाणीति प्रकृत्य ब्रह्मबोधनम् ।।
अब्रह्माप्रकृतं ब्रूयात्कथं राजाऽतिपण्डितः ।। ४४९ ।।
श्रुत्यन्तरविरोधश्च संसारी चेदिहोच्यते ।।
सता सोम्येति सन्नाम्ना ब्रह्म तत्र विवक्षितम् ।। ४५० ।।
आकाशो ह वै नामेति ब्रह्मैवानामरूपकम् ।।
श्रुत्यन्तरे श्रुतं साक्षादाकाशाह्वानवत्परम् ।। ४५१ ।।
तथाचाहरहः शास्त्रं पर आत्मनि चेति यत् ।।
सुषुप्ते ब्रह्मणोऽन्यस्य नावकाशोऽस्ति दुःखिनः ।। ४५२ ।।
अतद्विकारतो जन्म प्रलयश्च तथाऽऽत्मनः ।।
भौतिकाकाशविषयो न कथंचन युज्यते ।। ४५३ ।।
जगज्जन्मादिसामर्थ्यं सामग्र्यादि च दुःखिनः ।।
संसारिणो न संभाव्यमस्मदादेर्यथा तथा ।। ४५४ ।।
न शक्त्याधानकृच्छास्रं तस्याभिव्यञ्जकत्वतः ।।
मानान्तरविरोधेन न हि मानं प्रवर्तते ।। ४५५ ।।
परस्परानपेक्षौ चेत्संसारीशौ स्वतः स्थितौ ।।
ऐकात्म्यं न तयोर्युक्तं प्रकाशतमसोरिव ।। ४५६ ।।
अहं ब्रह्मेत्यतोऽयुक्तं ब्रह्म प्रत्यक्तयाऽञ्जसा ।।
ग्रहीतुं दुःखिनोऽन्यत्वाद्दोषभाक्स्यादतोऽन्यथा ।। ४५७ ।।
सत्कर्मभिस्तु तं देवं जगतः कारणं परम् ।।
आराध्य परमोत्कर्षं तत्प्रसादात्समश्नुते ।। ४५८ ।।
ब्रह्मात्मैकत्वशंसीनि वाक्यान्यपि तथा सति ।।
अर्थवादी भविष्यन्ति विरोधः स्यादितोऽन्यथा ।। ४५९ ।।
तर्कशास्त्रैस्तथा लोकन्यायैरप्यविरुद्धता ।।
तथा सतीति संप्राप्तावत्र प्रतिविधीयते ।। ४६० ।।
नैतदेवं यतोऽस्यैव मन्त्रब्राह्मणमानतः ।।
प्रवेशः श्रूयते साक्षात्परमेशस्य सर्वतः ।। ४६१ ।।
पुरश्चक्रे द्विपदः पुरः पुरुष आविशत् ।।
रूपं रूपं च सर्वाणि त्वं स्त्रीं त्वं च पुमानसि ।। ४६२ ।।
इति सन्त्रसमाम्नायस्तथाच ब्राह्मणान्यपि ।।
इह प्रविष्ट इत्युक्तिः पुरस्ताद्ब्राह्मणोदिता ।। ४६३ ।।
तत्सृष्ट्वेति तथा वाक्यं तैत्तिरीयश्रुतौ श्रुतम् ।।
सेयमित्यादिकं वाक्यं छान्दोग्योपनिषद्यपि ।। ४६४ ।।
ब्रह्मात्मशब्दयोस्तद्वदेकाधिकरणश्रुतेः ।।
अहं ब्रह्मेत्यवसितुं युक्तमेव भवेदतः ।। ४६५ ।।
यदा चैवं स्थितः पक्षस्तदा दोषोऽयमागमत् ।।
संसारित्वं परस्येति तदनन्यत्वकारणात् ।। ४६६ ।।
अथासंसारितैतस्य कथंचिदुपपद्यते ।।
तदोपदेशानर्थक्यं तमृतेऽप्यस्य मुक्ततः ।। ४६७ ।।
एवं प्रचोदिते केचित्परिहारं प्रचक्षते ।।
सृष्टेषु न परः साक्षात्प्राविशत्परमेश्वरः ।। ४६८ ।।
विकाररूपापन्नः सन्विज्ञानात्मत्वलक्षणः ।।
ब्रह्मादिस्थावरान्तेषु भूतेषु प्राविशत्परः ।। ४६९ ।।
विज्ञानात्माऽपि महतः परमात्मस्वभावकात् ।।
अन्योऽनन्यश्च विज्ञेयः स्वाभाव्यात्सर्ववस्तुनः ।। ४७० ।।
येनान्यस्तेन संसारी कर्माधिकृत इष्यते ।।
अनन्यपक्षेऽहं ब्रह्मेत्युक्तेर्ब्रह्म प्रपत्स्यते ।। ४७१ ।।
यथोक्तदोषसंबन्धो नैवं सति भविष्यति ।।
इतोऽन्यथा कल्पनायां यतो दोषेण संगतिः ।। ४७२ ।।
देहाद्युपाधिस्रंबन्धं सिद्धं मान्तरसंश्रयात् ।।
अनूद्य ब्रह्मता वाक्यान्न प्रविष्टाद्यतः श्रुतेः ।। ४७३ ।।
विज्ञानात्मन एताः स्युर्गतयो विक्रियां प्रति ।।
नानाद्रव्यसमाहारः पृथिवीवत्परो भवेत् ।। ४७४ ।।
तस्य सावयवस्य स्यादेकदेशस्य विक्रिया ।।
विज्ञानात्मेति यं प्राहुः परिणामः स आत्मनः ।। ४७५ ।।
घटादिवत्क्षितेरस्य ह्येकदेशस्य विक्रिया ।।
संस्थानानुपमर्देन यद्वा केशोषरादिवत् ।। ४७६ ।।
कार्त्स्न्यॆन वा परिणमेत्क्षीरद्रव्यादिवत्परः ।।
इयन्त एव पक्षाः स्युर्विकारे परमात्मनः ।। ४७७ ।।
भिन्नद्रव्यसमूहस्य मुख्यैकत्वं न युज्यते ।।
एकजात्यभिसंबन्धादेकत्वं गुणतो यतः ।। ४७८ ।।
तथाच सति सिद्धान्तहानिर्वः संप्रसज्यते ।।
नित्यं चायुतसिद्धांशानुगतोऽवयवी यदि ।। ४७९ ।।
तदवस्थस्य तस्यैकदेशः संसारितामगात् ।।
प्रत्यंशावसितेस्तस्य तदाऽपि परमात्मनः ।। ४८० ।।
स्वभागानुगतो दोषो गुणो वाऽस्य प्रसज्यते ।।
संसारिता परस्यैवं दोषः स्याद्दुर्निवारणः ।। ४८१ ।।
निःशेषपरिणामेऽपि पयोवत्परमात्मनः ।।
श्रुतिस्मृत्युक्तिकोपः स्यात्स चानिष्टः प्रसज्यते ।। ४८२ ।।
न जायते म्रियते वा इति षड्भाविक्रिया -
निषेधकृद्वेदवाक्यं प्रत्यग्विकृतिवारणम् ।। ४८३ ।।
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।।
निष्कलं निष्क्रियं शान्तं विमलं व्योमवत्स्थितम् ।। ४८४ ।।
इत्यादिशतशो वाक्यैः श्रुतिस्मृत्युदितैरमी ।।
सर्वे पक्षा विरुध्यन्ते त्याज्यास्तेऽतः प्रयत्नतः ।। ४८५ ।।
संसारानुपपत्तिश्च कूटस्थात्मैकदेशतः ।।
स्वकर्मफलदेशेषु क्षेत्रज्ञस्य प्रसज्यते ।। ४८६ ।।
वियुक्तस्याऽऽत्मनश्चेत्स्याद्विस्फुलिङ्गादिवद्गतिः ।।
तथाऽपि क्षतसंप्राप्तिरव्रणस्य प्रसज्यते ।। ४८७ ।।
वारिणो मत्स्यसंचारे छिद्रसंग्रथने यथा ।।
भ्रमत्सु तद्वज्जीवेषु प्राप्नुतः परमात्मनः ।। ४८८ ।।
तथाचाव्रणवाक्येन विरोधोऽपि प्रसज्यते ।।
स्वकारणातिरेकेण वृत्तिः कार्यस्य नान्यतः ।। ४८९ ।।
परमात्मैकवृत्तित्वात्कुतो जीवस्य संसृतिः ।।
स्वप्नसंचारवत्तस्माज्जीवसंसार इष्यते ।। ४९० ।।
स्थास्नुष्वपि महद्दुःखं कण्टकादिषु देहिनाम् ।।
परात्मनो महद्दुःखं जीवसंचरणेऽप्यतः ।। ४९१ ।।
अदोषो विस्फुलिङ्गादिदृष्टान्तादिति चेन्मतम् ।।
नैवं यथास्थितार्थानां शास्त्रस्य ज्ञापकत्वतः ।। ४९२ ।।
अज्ञातज्ञापकं शास्त्रमेवंस्वाभाव्यतो मितेः ।।
पदार्थान्नान्यथा कर्तुं प्रवृत्तं माननिश्चितान् ।। ४९३ ।।
मूर्तामूर्तादयो यद्वत्पदार्था माननिश्चिताः ।।
यथादृष्टानुरोध्येव दृष्टान्तैर्वस्तु बोध्यते ।। ४९४ ।।
एवं प्रवृत्तं सर्वत्र शास्त्रं दृष्टान्तपूर्वकम् ।।
न प्रमान्तरसंसिद्धविपरीतात्मबोधनम् ।। ४९५ ।।
अतिशीतोऽग्निरित्यत्र दृष्टान्तानां शतैरपि ।।
प्रमान्तरविरुद्धत्वान्नेन्द्रेणाप्यधिगम्यते ।। ४९६ ।।
मानान्तरविरुद्धं च न च मानं सदिष्यते ।।
मानान्तरेणासंव्याप्ते मेये स्यान्मानता यतः ।। ४९७ ।।
तथा पदतदर्थांश्च लिङ्गप्रत्यक्षगोचरान् ।।
नानादृत्याऽऽगमेनार्थमज्ञातं वेत्ति कश्चन ।। ४९८ ।।
लोकप्रसिद्धन्यायार्थैरंशांशित्वादिकल्पना ।।
परात्मनः कल्पयितुं नातो युक्ता कथंचन ।। ४९९ ।।
विस्फुलिङ्गाद्युपन्यासः क्षेत्रज्ञपरमात्मनोः ।।
ऐकात्म्यप्रतिपत्त्यर्थस्तस्मादत्र विवक्षितः ।। ५०० ।।
उपक्रमोपसंहाराद्यथोक्तोऽर्थो विवक्षितः ।।
ब्रह्मादि सर्वमात्मेति प्रतिज्ञाय श्रुतिर्यथा ।। ५०१ ।।
दुन्दुभ्याद्यैश्च दृष्टान्तैर्हेतुभिश्च समर्थ्यते ।।
अपूर्वाद्यादिभिर्वाक्यैः प्रतिज्ञार्थोपसंहृतिः ।। ५०२ ।।
सर्ववेदान्तवाक्येषु ब्रह्मैकत्वं विधीयते ।।
इत्यविप्रतिपत्तिर्हि व्याख्यातृणामशेषतः ।। ५०३ ।।
तद्विध्येकोक्तियोगस्य ह्यक्लेशात्संभवे सति ।।
सृष्ट्यादिवचसां नैव युक्ताऽर्थान्तरकल्पना ।। ५०४ ।।
न च प्रमाणं तत्रास्ति कल्प्यं च स्यात्फलान्तरम् ।।
ऐकात्म्यपरतैवातः सृष्ट्यादिवचसां भवेत् ।। ५०५ ।।
आचक्षते तथाचात्र केचिदाख्यायिकां शुभाम् ।।
यथाभिलषितार्थोऽयं यथा संभाव्यते स्फुटः ।। ५०६ ।।
यथा हि कश्चित्प्रागासीच्चक्रवर्ति सुतो युवा ।।
व्याधियोगोपघातादेरुन्मत्तः समपद्यत ।। ५०७ ।।
ध्वस्तराजाभिमानः सन्मुग्धो वनमुपेयिवान् ।।
व्याधैः परिगृहीतश्च व्याधोऽस्मीत्यभिमन्यते ।। ५०८ ।।
तत्कर्मा तदहंकारः कालेन महताऽभवत् ।।
ध्वस्तराजत्वसंस्कारो वसञ्शबरसद्मनि ।। ५०९ ।।
शुभौषध्युपयोगाच्च स्वस्थधीः समजायत ।।
स्वस्वभावानुरोधाच्च व्याधेभ्यो व्युत्थितात्मधीः ।। ५१० ।।
तच्छीलरूपकर्मभ्यो व्यावृत्तधिषणः स्वतः ।।
केवलस्मृत्यभावाच्च न व्याधत्वं जहात्यसौ ।। ५११ ।।
कुतश्चिदागमाज्ज्ञात्वा तमुपेत्याप्रतारकः ।।
तज्जातिकर्मसंबन्धतत्त्ववित्तत्पितुः सखा ।। ५१२ ।।
प्रवृत्त्या कर्मणा जात्या चक्रवर्त्युचितैस्तथा ।।
लक्षणै राजपुत्रत्वं यथा कश्चित्प्रबोधयेत् ।। ५१३ ।।
लब्धमात्रस्मृतिः सोऽथ राजाऽस्मीत्यवबोधतः ।।
बाधित्वा स्वमसंबोधं हित्वा व्याधत्वमात्मनः ।। ५१४ ।।
राज्याभिषेकमाप्नोति प्राप्य सिंहासनं पितुः ।।
अवाप्तराजसूनुत्वात्तत्प्राप्तौ नापि चेष्टते ।। ५१५ ।।
मोहाध्यस्तात्मव्याधत्वान्मोहध्वंसातिरेकतः ।।
राजपुत्रत्वसंप्राप्तौ नान्यत्किंचिदपेक्षते ।। ५१६ ।।
यथा तथाऽयं ब्रह्मैव ब्रह्मासंबोधमात्रतः ।।
बुद्धीन्द्रियशरीरादावात्मत्वं प्रतिपेदिवान् ।। ५१७ ।।
सोऽयं सांसारिकैरर्थैः प्रत्यक्तत्त्वाप्रबोधतः ।।
विशिनष्टि स्वमात्मानं प्रतीचीनमनात्मभिः ।। ५१८ ।।
संसारभूमावासीनं संसार्यस्मीत्यवस्थितम् ।।
मुमुक्षुं तत्त्ववित्साक्षात्संसारव्युत्थितैषणम् ।। ५१९ ।।
य आत्मेत्यादिभिर्वाक्यैरन्वयव्यतिरेकतः ।।
तत्त्वमस्यादिवाक्येन गुरुः संबोधयेन्नरम् ।। ५२० ।।
सम्यग्ज्ञानाग्निसंप्लुष्टप्रत्यक्तत्त्वमहातमाः ।।
हित्वा मोहोत्थमखिलं ब्रह्मैव ब्रह्म यात्यथ ।। ५२१ ।।
प्रत्यक्तत्त्वतमोध्वंसव्यतिरेकेण मुक्तये ।।
अपेक्षते यतो नान्यत्किंचित्साधनमण्वपि ।। ५२२ ।।
जन्माद्यसंभवात्तस्माद्ब्रह्मबोधातिरेकतः ।।
कार्यान्तरं न संभाव्यं व्यर्थं चापि भवेद्वचः ।। ५२३ ।।
अंशांशित्वादि चेत्साक्षाद्ब्रह्मज्ञाने विवक्षितम् ।।
समुद्रादेरिव, तदा नावक्ष्यच्छ्रुतिरादरात् ।। ५२४ ।।
यदनभ्युदितं वाचा मनुते मनसा न यत् ।।
अपूर्वादि तथा वाक्यमपि सैन्धवखिल्यवत् ।। ५२५ ।।
नानात्वदृष्टिनिन्दां च मृत्योरिति तथा वचः ।।
अंशांशित्वविवक्षायां न प्रायोक्ष्यत्तदेदृशम् ।। ५२६ ।।
एकैकरूपैकात्म्यार्थधियो दार्ढ्यप्रसिद्धये ।।
सृष्ट्यादिश्रुतयस्तस्मान्न तु तत्प्रत्ययाय ताः ।। ५२७ ।।
न चाऽऽत्मनो निरंशस्य तथाऽसंसारिणः स्वतः ।।
अंशिसंसारिभावत्वं न्यायेनाप्युपपद्यते ।। ५२८ ।।
कल्पितोपाधिहेतुश्चेदंशिसंसारिकल्पना ।।
काममस्तु न तादृक्षु धीराणां सत्यधीर्भवेत् ।। ५२९ ।।
विवक्षितं चेदैकात्म्यं सर्वोपनिषदां भवेत् ।।
विज्ञानात्मादिसंभेदस्तद्विरुद्धः किमुच्यते ।। ५३० ।।
कर्मकाण्डप्रमाणत्वविरोधध्वस्तये किल ।।
विज्ञानात्मादिसंभेद इति केचित्प्रचक्षते ।। ५३१ ।।
ऐकात्म्यमात्रे जगति समाप्तपुरुषार्थके ।।
चोदनाप्रतिषेधौ वः स्यातां निर्विषयौ तदा ।। ५३२ ।।
स्वत एव विमुक्तत्वाद्बन्धाभावात्स्वतस्तथा ।।
वेदान्तानां तथाऽऽरम्भो निष्फलः संप्रसज्यते ।। ५३३ ।।
इत्येवमादिचोद्यानि परिहाराश्च वर्णिताः ।।
संबन्ध एव बहुशो विचारेषु च कीर्तिताः ।। ५३४ ।।
परस्परविरोधाच्च प्रकाशतमसोरिव ।।
कर्मकाण्डोपनिषदोर्निप्प्रामाण्यं द्वयोरपि ।। ५३५ ।।
सति यस्य प्रमाणत्वे प्रामाण्यं स्याद्वयोरपि ।।
तस्यैव कर्मकाण्डस्य प्रामाण्यमवसीयताम् ।। ५३६ ।।
कर्मकाण्डप्रमाणत्वे प्रामाण्यं चेद्वयोरपि ।।
सर्वग्रासि तदैकात्म्यमागादिह पुनर्बलात् ।। ५३७ ।।
यद्येवमप्रमाणत्वमस्तूपनिषदां तदा ।।
मानान्तरविरोधाच्च नैतासां मानतेष्यते ।। ५३८ ।।
अपि स्वार्थविघातं च करोत्युपनिषद्यतः ।।
अप्रामाण्यमतस्तस्याः, कर्मकाण्डस्य मानता ।। ५३९ ।।
नोक्तोत्तरत्वात्साध्वेतद्भवता परिचोद्यते ।।
व्यर्थतान्यार्थते नेह यथा तत्प्राक्प्रपञ्चितम् ।। ५४० ।।
ब्रह्मास्मीति धियो जन्मसमकाला विमुक्तता ।।
यतोऽनुभूयते साक्षान्नानर्थक्यं भवेत्ततः ।। ५४१ ।।
वस्तुमात्रावसायित्वं संबन्धे प्राक्प्रपाञ्चितम् ।।
यतोऽतो नोपनिषदामन्यार्थत्वं कथंचन ।। ५४२ ।।
स्वप्रमेयप्रमोत्पत्त्यनुत्पत्त्येकहेतुके ।।
प्रमाणत्वाप्रमाणत्वे नान्यथा ते प्रसिध्यतः ।। ५४३ ।।
किंचातो यदि नामैवं प्रकृतार्थोपयोगि यत् ।।
शृण्वेकाग्रमनाः सर्वं यदेवं सति वस्तु तत् ।। ५४४ ।।
स्वप्रमेये प्रमां साक्षात्करोत्युपनिषद्यदि ।।
अप्रामाण्यं कथं तस्याः कुतोऽतो मानताऽन्यथा ।। ५४५ ।।
न चेत्करोत्युपनिषत्प्रमामित्यभिधीयते ।।
प्रत्यक्षेण विरुद्धार्थं त्वदीयं वचनं भवेत् ।। ५४६ ।।
नाग्निर्दहति काष्ठानि न तापयति भास्करः ।।
इति यद्वत्तथोक्तिस्ते प्रत्यक्षेण विरुध्यते ।। ५४७ ।।
अग्निदाहादिवत्साक्षाद्वेदान्तज्ञानजं फलम् ।।
संसारानर्थहानाख्यं प्रत्यक्षमनुभूयते ।। ५४८ ।।
विघ्नन्ति स्वार्थमित्युक्तं यच्च तच्चापि पेलवम् ।।
यथा तदुच्यमानं त्वं यथावच्छ्रोतुमर्हसि ।। ५४९ ।।
स्वप्रमेयावबोधो हि मानानां स्वार्थ उच्यते ।।
तं चेत्कुर्वन्ति वेदान्ताः कुतस्तेषाममानता ।। ५५० ।।
न च वेदान्तवाक्योत्थज्ञानस्येहास्ति बाधकम् ।।
बाधकानामपि सतां प्रत्यग्याथात्म्यरूपतः ।। ५५१ ।।
प्रमाणमप्रमाणं च प्रमाभासस्तथैव च ।।
कुर्वन्त्येव प्रमां यत्र तदसंभावना कुतः ।। ५५२ ।।
किमेकविषयत्वेन किंवा विषयभेदतः ।।
विरोधः स्यात्प्रमाणानामित्येतदभिधीयताम् ।। ५५३ ।।
मानान्तरेण संवादो यदि चेदनुवादिता ।।
विरोधो न तु मानानां सदैकार्थसमागमे ।। ५५४ ।।
भिन्नप्रमेयतायां च श्रोत्रादीनां यथा तथा ।।
परस्परानपेक्षत्वान्नितरामविरुद्धता ।। ५५५ ।।
न चैकमेव सद्वाक्यं करोति न करोति च
प्रमां तत्प्रतिषेधं च कुर्वत्क्वचिदिहेष्यते ।। ५५६ ।।
अग्निः शीतस्तथोष्णश्चेत्येवमाद्युक्तितो ननु ।।
विरुद्धार्थावभासोऽयं जायमानः समीक्ष्यते ।। ५५७ ।।
नैकस्मान्नापि च द्वाभ्यां विरुद्धार्थोऽवसीयते ।।
अनूद्योक्त्येकदेशेन शीतोऽग्निरिति योध्यते ।। ५५८ ।।
संभवत्येव शीतोऽग्निः प्रमाणान्तरगोचरः ।।
मानान्तरविरोधोऽपि तथाच सति नेष्यते ।। ५५९ ।।
शीतवद्वा भवेच्छीतः शैत्यस्यानपहारतः ।।
एवमप्यविरोधः स्यादस्य मानान्तरैरपि ।। ५६० ।।
शैशिरोऽग्निर्भवेच्छीतस्तथोष्णः पार्थिवो भवेत् ।।
भिन्नार्थत्वावबोधित्वाद्वाक्ययोर्न विरुद्धता ।। ५६१ ।।
ऐकार्थ्ये न विरोधोऽस्ति द्व्यर्थत्वेऽपि न माश्रयात् ।।
मानान्तराच्च नैवास्ति मान्तराविषयत्वतः ।। ५६२ ।।
अभ्युपेत्यैतदुदितं न तु वाक्यविदां नयः ।।
यदनेकार्थबोधित्वमेकस्य वचसः सतः ।। ५६३ ।।
अर्थैकत्वादिति तथा वाक्यलक्षणमुच्यते ।।
अनेकार्थावबोधित्वे न स्याल्लक्षणवद्वचः ।। ५६४ ।।
एकमेव यदा वाक्यं कृत्स्नो वेदोऽभ्युपेयते ।।
वाक्यान्तरासंभवतस्तदा केन विरुद्धता ।। ५६५ ।।
वाक्यद्वयं चेदथवा सिद्धसाध्यार्थभेदतः ।।
तदाऽपि न विरोधोऽत्र विभिन्नार्थावबोधिनोः ५६६ ।।
नापि स्वार्थं परार्थं वा विहन्त्युपनिषत्कचित् ।।
कथं चेदुच्यमानं तच्छृण्वेकाग्रमना यथा ।। ५६७ ।।
सर्वमात्मेति चेत्कुर्यात्प्रमेयविषयां प्रमाम् ।।
विहन्त्युपनिषत्स्वार्थमिति निर्लज्जगीरियम् ।। ५६८ ।।
निःशेषपुरुषार्थाप्तिः सर्वानर्थात्ययः सदा ।।
वेदान्तज्ञानतश्चेत्स्यात्स्वार्थोऽतोऽन्यः क इष्यते ।। ५६९ ।।
निषेधति विधत्ते वा न चाप्युपनिषत्क्रियाम् ।।
प्रत्यक्तत्वैकसंबोधे तद्वाक्योपक्षयत्वतः ।। ५७० ।।
न चापि कर्मकाण्डोक्तिः स्वार्थे न कुरुते प्रमाम् ।।
स्वार्थे च सा प्रमां कुर्वत्यमानं कथमुच्यते ।। ५७१ ।।
प्रात्यक्ष्याच्च प्रमोत्पत्तेर्ज्योतिष्टोमादिवाक्यतः ।।
प्रमैवोत्पद्यते नेति वक्तुमेतन्न शक्यते ।। ५७२ ।।
विषयापहृतेर्नो चेद्वेदान्तोक्त्या प्रमोत्थितिः ।।
न प्रत्यक्षबलीयस्त्वादनुमानप्रबोधतः ।। ५७३ ।।
यथासिद्धान्युपादाय कामद्वेषवशानुगः ।।
इष्टमेव सदा मे स्यान्मा भूच्चानिष्टमण्वपि ।। ५७४ ।।
साधनानीष्टलाभार्थमनिष्टार्थापनुत्तये ।।
आचक्षाणा श्रुतिः पुंसो नान्यार्थं वक्ति कंचन ।। ५७५ ।।
यथा काम्याग्निहोत्रादौ साध्यसाधनसंगतिम् ।।
विदधन्नानृतत्वादि कामानां वक्ति कुत्रचित् ।। ५७६ ।।
न चापि न प्रवर्तन्ते पुरुषाः काम्यकर्मसु ।।
यतोऽतत्त्वविदां कामो न कदाचिन्निवर्तते ।। ५७७ ।।
अकामतः क्रिया काचिदृश्यते नेह कुत्रचित् ।।
यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ।। ५७८ ।।
स यथाकाम इत्यादिरेषोऽर्थश्च सविस्तरः ।।
वक्ष्यतेऽकामयमानश्च तथाऽकुर्वन्विमुच्यते ।। ५७९ ।।
सर्वाधिकारप्रध्वंसान्न कृत्स्नात्मावबोधिनः ।।
प्रवृत्तौ वा निवृत्तौ वा गुणभावः सदेष्यते ।। ५८० ।।
अतो निर्विषयत्वादि ब्रह्मैकत्वाद्यदीरितम् ।।
तत्सर्वं परिहृतं हेयं यथोक्तेनैव वर्त्मना ।। ५८१ ।।
न निवर्तयितुं शक्तं रागाद्याकृष्टचेतसः ।।
शास्त्रं विरक्तचित्तान्वा न प्रवर्तयितुं क्षमम् ।। ५८२ ।।
इष्टानिष्टकलानीति साधनानि प्रकाशयेत् ।।
न निवृत्तिं प्रवृत्तिं वा पुंसः शास्त्रं करोति तत् ।। ५८३ ।।
अपि शास्त्रं समुल्लङ्घ्य रागादिबलवत्तया ।।
प्रवर्तमानाः पुरुषा दृश्यन्तेऽद्यापि कामिनः ।। ५८४ ।।
साध्यसाधनसंबन्धानिष्टानिष्टफलोदयान् ।।
शास्त्रं त्वादित्यवत्साक्षात्प्रकाशयति तान्सदा ।। ५८५ ।।
तेषु शास्त्रैकदीपेषु साध्यसाधनवर्त्मसु ।।
यथारुचि प्रवर्तन्ते पुरुषा न तु शास्त्रतः ।। ५८६ ।।
विधिशास्त्रस्य नैवातो वेदान्ता बाधकाः सदा ।।
न च निर्विषयं तत्स्यान्मेयभेदात्त्वगादिवत् ।। ५८७ ।।
केचित्तु पण्डितंमन्या विरोधीनि परस्परम् ।।
संभावयन्ति मानानि सर्वाण्यैकात्म्यवस्तुनि ।। ५८८ ।।
श्रोत्रादिभिर्यतो भिन्ना मिथः शब्दादयस्त्वमी ।।
मीयन्ते सर्वमात्मेति प्रत्यक्षेण विरुध्यते ।। ५८९ ।।
शब्दाद्यर्थोपलब्धारः कर्तारश्च पृथक्पृथक् ।।
यस्मादिहानुमीयन्ते तस्माल्लिङ्गविरोधिता ।। ५९० ।।
तथाऽऽगमविरोधं च ग्रामकामादिभेदतः ।।
उद्भासयन्ति संहृष्टा ब्रह्मैकत्वप्रदूषकाः ।। ५९१ ।।
ब्रह्मैकत्वविरोधो वः कथं भिन्नार्थबुद्धिभिः ।।
इति ब्रह्मविदोपेत्य प्रष्टव्या भेदवादिनः ।। ५९२ ।।
किं भोः शब्दादिभेदेन खस्यैकत्वं विरुध्यते ।।
न चेद्विरुध्यतेऽथोच्चैर्विरोधः किमीतीर्यते ।। ५९३ ।।
सत्परिच्छेदकैर्नापि प्रत्यक्षाद्यैर्ग्रहो भवेत् ।।
व्यावृत्तेरन्यतोभावमात्रायाः केनचित्कचित् ।। ५९४ ।।
द्वैतग्राहि यथा मानं न किंचिदपि विद्यते ।।
तथोदर्के प्रवक्ष्यामि नातो मानविरोधिता ।। ५९५ ।।
यच्चोक्तमनुमीयन्ते प्रतिदेहं पृथग्विधाः ।।
शब्दाद्यर्थोपलब्धारः कर्तारश्चापि कर्मणाम् ।। ५९६ ।।
भिन्नाः कैरनुमीयन्त इति पृष्टो वदेद्यदि ।।
अस्माभिर्लिङ्गकुशलैरित्येतच्च न युक्तिमत् ।। ५९७ ।।
अनन्यमानमेयेऽर्थे न भेदः प्रत्यगात्मनि ।।
पराङ्भानप्रमेयाश्च नाऽऽत्मानः स्तम्भकुम्भवत् ।। ५९८ ।।
अनुमाकुशला यूयं क इत्येतद्विभाष्यताम् ।। ५९९ ।।
देहेन्द्रियमनोबुद्धिक्षेत्रज्ञेषु पृथक्पृथक् ।।
नानुमाकौशलं तावत्प्रत्येकं तेषु विद्यते ।। ६०० ।।
देहादिसाधनास्तस्माद्वयमात्मान एव हि ।।
भूरिसाधनसाध्यत्वात्क्रियाणां नो विभिन्नता ।। ६०१ ।।
भूरिसाधनसाध्यत्वात्क्रियाणामिति चेद्भवेत् ।।
हेतुस्तवाप्यनेकत्वमेकस्यापि प्रसज्यते ।। ६०२ ।।
आत्मादीनां क्रियास्तित्वात्प्रत्येकं कारकत्वतः ।।
अग्न्यादीनामिव तत आत्मानेकत्वमापतेत् ।। ६०३ ।।
अनुमाऽपि क्रिया साक्षाद्भवतैवाभ्युपेयते ।।
शरीरेन्द्रियबुद्ध्यादेः प्रत्येकं स्यादनेकता ।। ६०४ ।।
बहुसाधनसाध्यत्वात्क्रियाणामितिहेतुतः ।।
एवंलक्षणहेतूक्तिर्मौर्ख्यलिङ्गं भवेदतः ।। ६०५ ।।
गुणक्रियाणां सर्वासां कर्तृमात्रव्यपाश्रयात् ।।
अनैकान्तिकता हेतोस्तथा वः संप्रसज्यते ।। ६०६ ।।
अपक्षधर्मता हेतोर्नामरूपाश्रयत्वतः ।।
धर्माभावात्प्रतीचश्च तद्भेदे हेतुता कुतः ।। ६०७ ।।
ऐकात्म्यवन्तो देहाः स्युर्विवादो येषु वर्तते ।।
शरीरत्वाविशेषत्वात्प्रतिवादिशरीरवत् ।। ६०८ ।।
तथेन्द्रियमनोबुद्धिविषयेप्वपि योजयेत् ।।
ऐकात्म्यं सर्वभूतेषु प्रात्यक्ष्याच्चाऽऽत्मनस्तथा ।। ६०९ ।।
आत्मप्रत्यय एकात्मा सर्वदेहेषु सर्वदा ।।
नानात्मवदनेकत्वं कश्चिदात्मनि वीक्षते ।। ६१० ।।
अनुमानादनेकत्वमात्मनो ये प्रचक्षते ।।
तेषां प्रत्यक्षमानेन बाधो लिङ्गधियो भवेत् ।। ६११ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयाध्यायस्य द्वितीयं ब्राह्मणम्