बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च ॥ १ ॥
तत्र प्राणा वै सत्यमित्युक्तम् । याः प्राणानामुपनिषदः, ताः ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याताः — एते ते प्राणा इति च । ते किमात्मकाः कथं वा तेषां सत्यत्वमिति च वक्तव्यमिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपावधारणार्थम् इदं ब्राह्मणमारभ्यते — यदुपाधिविशेषापनयद्वारेण ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति ब्रह्मणः सतत्त्वं निर्दिधारयिषितम् । तत्र द्विरूपं ब्रह्म पञ्चभूतजनितकार्यकरणसम्बद्धं मूर्तामूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वज्ञं सर्वशक्ति सोपाख्यं भवति । क्रियाकारकफलात्मकं च सर्वव्यवहारास्पदम् । तदेव ब्रह्म विगतसर्वोपाधिविशेषं सम्यग्दर्शनविषयम् अजरम् अमृतम् अभयम् , वाङ्मनसयोरप्यविषयम् अद्वैतत्वात् ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिश्यते । तत्र यदपोहद्वारेण ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिश्यते ब्रह्म, ते एते द्वे वाव — वावशब्दोऽवधारणार्थः — द्वे एवेत्यर्थः — ब्रह्मणः परमात्मनः रूपे — रूप्यते याभ्याम् अरूपं परं ब्रह्म अविद्याध्यारोप्यमाणाभ्याम् । के ते द्वे ? मूर्तं चैव मूर्तमेव च ; तथा अमूर्तं च अमूर्तमेव चेत्यर्थः । अन्तर्णीतस्वात्मविशेषणे मूर्तामूर्ते द्वे एवेत्यवधार्येते ; कानि पुनस्तानि विशेषणानि मूर्तामूर्तयोरित्युच्यन्ते — मर्त्यं च मर्त्यं मरणधर्मि, अमृतं च तद्विपरीतम् , स्थितं च — परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्च — यातीति यत् — व्यापि अपरिच्छिन्नं स्थितविपरीतम् , सच्च — सदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशेषवत् , त्यच्च — तद्विपरीतम् ‘त्यत्’ इत्येव सर्वदा परोक्षाभिधानार्हम् ॥
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥
तत्र चतुष्टयविशेषणविशिष्टं मूर्तम् , तथा अमूर्तं च ; तत्र कानि मूर्तविशेषणानि कानि चेतराणीति विभज्यते । तदेतन्मूर्तं मूर्छितावयवम् इतरेतरानुप्रविष्टावयवं घनं संहतमित्यर्थः । किं तत् ? यदन्यत् ; कस्मादन्यत् ? वायोश्चान्तरिक्षाच्च भूतद्वयात् — परिशेषात्पृथिव्यादिभूतत्रयम् ; एतन्मर्त्यम् — यदेतन्मूर्ताख्यं भूतत्रयम् इदं मर्त्यं मरणधर्मि ; कस्मात् ? यस्मात्स्थितमेतत् ; परिच्छिन्नं ह्यर्थान्तरेण सम्प्रयुज्यमानं विरुध्यते — यथा घटः स्तम्भकुड्यादिना ; तथा मूर्तं स्थितं परिच्छिन्नम् अर्थान्तरसम्बन्धि ततोऽर्थान्तरविरोधान्मर्त्यम् ; एतत्सत् विशेष्यमाणासाधारणधर्मवत् , तस्माद्धि परिच्छिन्नम् , परिच्छिन्नत्वान्मर्त्यम् , अतो मूर्तम् ; मूर्तत्वाद्वा मर्त्यम् , मर्त्यत्वात्स्थितम् , स्थितत्वात्सत् । अतः अन्योन्याव्यभिचारात् चतुर्णां धर्माणां यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च दर्शयितव्यः । सर्वथापि तु भूतत्रयं चतुष्टयविशेषणविशिष्टं मूर्तं रूपं ब्रह्मणः । तत्र चतुर्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमित्याह — तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सतः — चतुष्टयविशेषणस्य भूतत्रयस्येत्यर्थः — एष रसः सार इत्यर्थः ; त्रयाणां हि भूतानां सारिष्ठः सविता ; एतत्साराणि त्रीणि भूतानि, यत एतत्कृतविभज्यमानरूपविशेषणानि भवन्ति ; आधिदैविकस्य कार्यस्यैतद्रूपम् — यत्सविता यदेतन्मण्डलं तपति ; सतो भूतत्रयस्य हि यस्मात् एष रस इति एतद्गृह्यते ; मूर्तो ह्येष सविता तपति, सारिष्ठश्च । यत्तु आधिदैविकं करणं मण्डलस्याभ्यन्तरम् , तद्वक्ष्यामः ॥
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥
अथामूर्तम् — अथाधुना अमूर्तमुच्यते । वायुश्चान्तरिक्षं च यत्परिशेषितं भूतद्वयम् — एतत् अमृतम् , अमूर्तत्वात् , अस्थितम् , अतोऽविरुध्यमानं केनचित् , अमृतम् , अमरणधर्मि ; एतत् यत् स्थितविपरीतम् , व्यापि, अपरिच्छिन्नम् ; यस्मात् यत् एतत् अन्येभ्योऽप्रविभज्यमानविशेषम् , अतः त्यत् ‘त्यत्’ इति परोक्षाभिधानार्हमेव — पूर्ववत् । तस्यैतस्यामूर्तस्य एतस्यामृतस्य एतस्य यतः एतस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्य एष रसः ; कोऽसौ ? य एष एतस्मिन्मण्डले पुरुषः — करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स एषः अमूर्तस्य भूतद्वयस्य रसः पूर्ववत् सारिष्ठः । एतत्पुरुषसारं चामूर्तं भूतद्वयम् — हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृतात् ; तस्मात् तादर्थ्यात् तत्सारं भूतद्वयम् । त्यस्य ह्येष रसः — यस्मात् यः मण्डलस्थः पुरुषो मण्डलवन्न गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम् । तस्मात् युक्तं प्रसिद्धवद्धेतूपादानम् — त्यस्य ह्येष रस इति ॥
रसः कारणं हिरण्यगर्भविज्ञानात्मा चेतन इति केचित् ; तत्र च किल हिरण्यगर्भविज्ञानात्मनः कर्म वाय्वन्तरिक्षयोः प्रयोक्तृ ; तत्कर्म वाय्वन्तरिक्षाधारं सत् अन्येषां भूतानां प्रयोक्तृ भवति ; तेन स्वकर्मणा वाय्वन्तरिक्षयोः प्रयोक्तेति तयोः रसः कारणमुच्यत इति । तन्न मूर्तरसेन अतुल्यत्वात् ; मूर्तस्य तु भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूतत्रयसमानजातीयम् ; न चेतनः ; तथा अमूर्तयोरपि भूतयोः तत्समानजातीयेनैव अमूर्तरसेन युक्तं भवितुम् , वाक्यप्रवृत्तेस्तुल्यत्वात् ; यथा हि मूर्तामूर्ते चतुष्टयधर्मवती विभज्येते, तथा रसरसवतोरपि मूर्तामूर्तयोः तुल्येनैव न्यायेन युक्तो विभागः ; न त्वर्धवैशसम् । मूर्तरसेऽपि मण्डलोपाधिश्चेतनो विवक्ष्यत इति चेत् — अत्यल्पमिदमुच्यते, सर्वत्रैव तु मूर्तामूर्तयोः ब्रह्मरूपेण विवक्षितत्वात् । पुरुषशब्दः अचेतनेऽनुपपन्न इति चेत् , न, पक्षपुच्छादिविशिष्टस्यैव लिङ्गस्य पुरुषशब्ददर्शनात् , ‘न वा इत्थं सन्तः शक्ष्यामः प्रजाः प्रजनयितुमिमान्सप्त पुरुषानेकं पुरुषं करवामेति त एतान्सप्त पुरुषानेकं पुरुषमकुर्वन्’ (शत. ब्रा. ६ । १ । १ । ३) इत्यादौ अन्नरसमयादिषु च श्रुत्यन्तरे पुरुषशब्दप्रयोगात् । इत्यधिदैवतमिति उक्तोपसंहारः अध्यात्मविभागोक्त्यर्थः ॥
अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४ ॥
अथाधुना अध्यात्मं मूर्तामूर्तयोर्विभाग उच्यते । किं तत् मूर्तम् ? इदमेव ; किञ्चेदम् ? यदन्यत् प्राणाच्च वायोः, यश्चायम् अन्तः अभ्यन्तरे आत्मन् आत्मनि आकाशः खम् , शरीरस्थश्च यः प्राणः — एतद्द्वयं वर्जयित्वा यदन्यत् शरीरारम्भकं भूतत्रयम् ; एतन्मर्त्यमित्यादि समानमन्यत्पूर्वेण । एतस्य सतो ह्येष रसः — यच्चक्षुरिति ; आध्यात्मिकस्य शरीरारम्भकस्य कार्यस्य एष रसः सारः ; तेन हि सारेण सारवदिदं शरीरं समस्तम् — यथा अधिदैवतमादित्यमण्डलेन ; प्राथम्याच्च — चक्षुषी एव प्रथमे सम्भवतः सम्भवत इति, ‘तेजो रसो निरवर्तताग्निः’ (बृ. उ. १ । २ । २) इति लिङ्गात् ; तैजसं हि चक्षुः ; एतत्सारम् आध्यात्मिकं भूतत्रयम् ; सतो ह्येष रस इति मूर्तत्वसारत्वे हेत्वर्थः ॥
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः ॥ ५ ॥
अथाधुना अमूर्तमुच्यते । यत्परिशेषितं भूतद्वयं प्राणश्च यश्चायमन्तरात्मन्नाकाशः, एतदमूर्तम् । अन्यत्पूर्ववत् । एतस्य त्यस्य एष रसः सारः, योऽयं दक्षिणेऽक्षन्पुरुषः — दक्षिणेऽक्षन्निति विशेषग्रहणम् , शास्त्रप्रत्यक्षत्वात् ; लिङ्गस्य हि दक्षिणेऽक्ष्णि विशेषतोऽधिष्ठातृत्वं शास्त्रस्य प्रत्यक्षम् , सर्वश्रुतिषु तथा प्रयोगदर्शनात् । त्यस्य ह्येष रस इति पूर्ववत् विशेषतः अग्रहणात् अमूर्तत्वसारत्व एव हेत्वर्थः ॥
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
ब्रह्मण उपाधिभूतयोर्मूर्तामूर्तयोः कार्यकरणविभागेन अध्यात्माधिदैवतयोः विभागो व्याख्यातः सत्यशब्दवाच्ययोः । अथेदानीं तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य रूपं वक्ष्यामः वासनामयं मूर्तामूर्तवासनाविज्ञानमयसंयोगजनितं विचित्रं पटभित्तिचित्रवत् मायेन्द्रजालमृगतृष्णिकोपमं सर्वव्यामोहास्पदम् — एतावन्मात्रमेव आत्मेति विज्ञानवादिनो वैनाशिका यत्र भ्रान्ताः, एतदेव वासनारूपं पटरूपवत् आत्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च सम्प्रतिपन्नाः, इदम् आत्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं पुरुषार्थेन हेतुना प्रवर्तत इति साङ्ख्याः ॥
औपनिषदम्मन्या अपि केचित्प्रक्रियां रचयन्ति — मूर्तामूर्तराशिरेकः, परमात्मराशिरुत्तमः, ताभ्यामन्योऽयं मध्यमः किल तृतीयः कर्त्रा भोक्त्रा विज्ञानमयेन अजातशत्रुप्रतिबोधितेन सह विद्याकर्मपूर्वप्रज्ञासमुदायः ; प्रयोक्ता कर्मराशिः, प्रयोज्यः पूर्वोक्तो मूर्तामूर्तभूतराशिः साधनं चेति । तत्र च तार्किकैः सह सन्धिंं कुर्वन्ति । लिङ्गाश्रयश्च एष कर्मराशिरित्युक्त्वा, पुनस्ततस्त्रस्यन्तः साङ्ख्यत्वभयात् — सर्वः कर्म राशिः — पुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो भवति, तद्वत् — लिङ्गवियोगेऽपि परमात्मैकदेशमाश्रयति, सपरमात्मैकदेशः किल अन्यत आगतेन गुणेन कर्मणा सगुणो भवति निर्गुणोऽपि सन् , स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा — इति वैशेषिकचित्तमप्यनुसरन्ति ; स च कर्मराशिः भूतराशेरागन्तुकः, स्वतो निर्गुण एव परमात्मैकदेशत्वात् , स्वत उत्थिता अविद्या अनागन्तुकापि ऊषरवत् अनात्मधर्मः — इत्यनया कल्पनया साङ्ख्यचित्तमनुवर्तन्ते ॥
सर्वमेतत् तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं पश्यन्ति, न उपनिषत्सिद्धान्तं सर्वन्यायविरोधं च पश्यन्ति ; कथम् ? उक्ता एव तावत् सावयवत्वे परमात्मनः संसारित्वसव्रणत्वकर्मफलदेशसंसरणानुपपत्त्यादयो दोषाः ; नित्यभेदे च विज्ञानात्मनः परेण एकत्वानुपपत्तिः । लिङ्गमेवेति चेत् परमात्मन उपचरितदेशत्वेन कल्पितं घटकरकभूछिद्राकाशादिवत् , तथा लिङ्गवियोगेऽपि परमात्मदेशाश्रयणं वासनायाः । अविद्यायाश्च स्वत उत्थानम् ऊषरवत् — इत्यादिकल्पनानुपपन्नैव । न च वास्यदेशव्यतिरेकेण वासनाया वस्त्वन्तरसञ्चरणं मनसापि कल्पयितुं शक्यम् । न च श्रुतयो अवगच्छन्ति — ‘कामः सङ्कल्पो विचिकित्सा’ (बृ. उ. १ । ५ । ३) ‘हृदये ह्येव रूपाणि’ (बृ. उ. ३ । ९ । २०) ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘कामा येऽस्य हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) ‘तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य’ (बृ. उ. ४ । ३ । २२) इत्याद्याः । न च आसां श्रुतीनां श्रुतादर्थान्तरकल्पना न्याय्या, आत्मनः परब्रह्मत्वोपपादनार्थपरत्वादासाम् , एतावन्मात्रार्थोपक्षयत्वाच्च सर्वोपनिषदाम् । तस्मात् श्रुत्यर्थकल्पनाकुशलाः सर्व एव उपनिषदर्थमन्यथा कुर्वन्ति । तथापि वेदार्थश्चेत्स्यात् , कामं भवतु, न मे द्वेषः । न च ‘द्वे वाव ब्रह्मणो रूपे’ इति राशित्रयपक्षे समञ्जसम् ; यदा तु मूर्तामूर्ते तज्जनितवासनाश्च मूर्तामूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम् , न चान्यत् चतुर्थमन्तराले — तदा एतत् अनुकूलमवधारणम् , द्वे एव ब्रह्मणो रूपे इति ; अन्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम् , परमात्मनो वा विज्ञानात्मद्वारेणेति ; तदा च रूपे एवेति द्विवचनमसमञ्जसम् ; रूपाणीति वासनाभिः सह बहुवचनं युक्ततरं स्यात् — द्वे च मूर्तामूर्ते वासनाश्च तृतीयमिति । अथ मूर्तामूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत् — तदा विज्ञानात्मद्वारेण विक्रियमाणस्य परमात्मनः — इतीयं वाचो युक्तिरनर्थिका स्यात् , वासनाया अपि विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात् ; न च वस्तु वस्त्वन्तरद्वारेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम् ; न च विज्ञानात्मा परमात्मनो वस्त्वन्तरम् , तथा कल्पनायां सिद्धान्तहानात् । तस्मात् वेदार्थमूढानां स्वचित्तप्रभवा एवमादिकल्पना अक्षरबाह्याः ; न ह्यक्षरबाह्यो वेदार्थः वेदार्थोपकारी वा, निरपेक्षत्वात् वेदस्य प्रामाण्यं प्रति । तस्मात् राशित्रयकल्पना असमञ्जसा ॥
‘योऽयं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. २ । ३ । ५) इति लिङ्गात्मा प्रस्तुतः अध्यात्मे, अधिदैवे च ‘य एष एतस्मिन्मण्डले पुरुषः’ (बृ. उ. २ । ३ । ३) इति, ‘तस्य’ इति प्रकृतोपादनात् स एवोपादीयते — योऽसौ त्यस्यामूर्तस्य रसः, न तु विज्ञानमयः । ननु विज्ञानमयस्यैव एतानि रूपाणि कस्मान्न भवन्ति, विज्ञानमयस्यापि प्रकृतत्वात् , ‘तस्य’ इति च प्रकृतोपादानात् — नैवम् , विज्ञानमयस्य अरूपित्वेन विजिज्ञापयिषितत्वात् ; यदि हि तस्यैव विज्ञानमयस्य एतानि माहारजनादीनि रूपाणि स्युः, तस्यैव ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्यनाख्येयरूपतया आदेशो न स्यात् । ननु अन्यस्यैव असावादेशः, न तु विज्ञानमयस्येति — न, षष्ठान्ते उपसंहरात् — ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. ४ । ५ । १५) इति विज्ञानमयं प्रस्तुत्य ‘स एष नेति नेति’ (बृ. उ. ४ । ५ । १५) — इति ; ‘विज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इति च प्रतिज्ञाया अर्थवत्त्वात् — यदि च विज्ञानमयस्यैव असंव्यवहार्यमात्मस्वरूपं ज्ञापयितुमिष्टं स्यात् प्रध्वस्तसर्वोपाधिविशेषम् , तत इयं प्रतिज्ञा अर्थवती स्यात् — येन असौ ज्ञापितो जानात्यात्मानमेव अहं ब्रह्मास्मीति, शास्त्रनिष्ठां प्राप्नोति, न बिभेति कुतश्चन ; अथ पुनः अन्यो विज्ञानमयः, अन्यः ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति व्यपदिश्यते — तदा अन्यददो ब्रह्म अन्योऽहमस्मीति विपर्ययो गृहीतः स्यात् , न ‘आत्मानमेवावेदहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) इति । तस्मात् ‘तस्य हैतस्य’ इति लिङ्गपुरुषस्यैव एतानि रूपाणि । सत्यस्य च सत्ये परमात्मस्वरूपे वक्तव्ये निरवशेषं सत्यं वक्तव्यम् ; सत्यस्य च विशेषरूपाणि वासनाः ; तासामिमानि रूपाण्युच्यन्ते ॥
एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि ; कानि तानीत्युच्यन्ते — यथा लोके, महारजनं हरिद्रा तया रक्तं माहारजनम् यथा वासो लोके, एवं स्त्र्यादिविषयसंयोगे तादृशं वासनारूपं रञ्जनाकारमुत्पद्यते चित्तस्य, येनासौ पुरुषो रक्त इत्युच्यते वस्त्रादिवत् — यथा च लोके पाण्ड्वाविकम् , अवेरिदम् आविकम् ऊर्णादि, यथा च तत् पाण्डुरं भवति, तथा अन्यद्वासनारूपम् — यथा च लोके इन्द्रगोप अत्यन्तरक्तो भवति, एवमस्य वासनारूपम् — क्वचिद्विषयविशेषापेक्षया रागस्य तारतम्यम् , क्वचित्पुरुषचित्तवृत्त्यपेक्षया — यथा च लोके अग्न्यर्चिः भास्वरं भवति, तथा क्वचित् कस्यचित् वासनारूपं भवति — यथा पुण्डरीकं शुक्लम् , तद्वदपि च वासनारूपं कस्यचिद्भवति — यथा सकृद्विद्युत्तम् , यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भवति, तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचित् वासनारूपम् — उपजायते । न एषां वासनारूपाणाम् आदिः अन्तः मध्यं सङ्ख्या वा, देशः कालो निमित्तं वा अवधार्यते — असङ्ख्येयत्वाद्वासनायाः, वासनाहेतूनां च आनन्त्यात् । तथा च वक्ष्यति षष्ठे ‘इदम्मयोऽदोमयः’ (बृ. उ. ४ । ४ । ५) इत्यादि । तस्मात् न स्वरूपसङ्ख्यावधारणार्था दृष्टान्ताः — ‘यथा माहारजनं वासः’ इत्यादयः ; किं तर्हि प्रकारप्रदर्शनार्थाः — एवंप्रकाराणि हि वासनारूपाणीति । यत्तु वासनारूपमभिहितमन्ते — सकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवतः तडिद्वत् सकृदेव व्यक्तिर्भवतीति ; तत् तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृद्विद्युत्तेव, ह वै इत्यवधारणार्थौ, एवमेव अस्य श्रीः ख्यातिः भवतीत्यर्थः, यथा हिरण्यगर्भस्य — एवम् एतत् यथोक्तं वासनारूपमन्त्यम् यो वेद ॥
एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरूपावधारणार्थं ब्रह्मण इदमारभ्यते — अथ अनन्तरं सत्यस्वरूपनिर्देशानन्तरम् , यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मात् — अतः तस्मात् , सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः ; आदेशः निर्देशः ब्रह्मणः ; कः पुनरसौ निर्देश इत्युच्यते — नेति नेतीत्येवं निर्देशः ॥
ननु कथम् आभ्यां ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितमिति, उच्यते — सर्वोपाधिविशेषापोहेन । यस्मिन्न कश्चिद्विशेषोऽस्ति — नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा ; तद्द्वारेण हि शब्दप्रवृत्तिर्भवति ; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति ; अतो न निर्देष्टुं शक्यते — इदं तदिति — गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा ; अध्यारोपितनामरूपकर्मद्वारेण ब्रह्म निर्दिश्यते ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘विज्ञानघन एव ब्रह्मात्मा’ (बृ. उ. २ । ४ । १२) इत्येवमादिशब्दैः । यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निरस्तसर्वोपाधिविशेषम् , तदा न शक्यते केनचिदपि प्रकारेण निर्देष्टुम् ; तदा अयमेवाभ्युपायः — यदुत प्राप्तनिर्देशप्रतिषेधद्वारेण ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्देशः ॥
इदं च नकारद्वयं वीप्साव्याप्त्यर्थम् ; यद्यत्प्राप्तं तत्तत् निषिध्यते ; तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता भवति ; अन्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत् प्रकृतात्प्रतिषिद्धद्वयात् ब्रह्म, तन्न निर्दिष्टम् , कीदृशं नु खलु — इत्याशङ्का न निवर्तिष्यते ; तथा च अनर्थकश्च स निर्देशः, पुरुषस्य विविदिषाया अनिवर्तकत्वात् ; ‘ब्रह्म ज्ञपयिष्यामि’ इति च वाक्यम् अपरिसमाप्तार्थं स्यात् । यदा तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात् सर्वोपाधिनिराकरणद्वारेण, तदा सैन्धवघनवत् एकरसं प्रज्ञानघनम् अनन्तरमबाह्यं सत्यस्य सत्यम् अहं ब्रह्म अस्मीति सर्वतो निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति । तस्मात् वीप्सार्थं नेति नेतीति नकारद्वयम् । ननु महता यत्नेन परिकरबन्धं कृत्वा किं युक्तम् एवं निर्देष्टुं ब्रह्म ? बाढम् ; कस्मात् ? न हि — यस्मात् , ‘इति न, इति न’ इत्येतस्मात् — इतीति व्याप्तव्यप्रकारा नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति — अन्यत्परं निर्देशनं नास्ति ; तस्मादयमेव निर्देशो ब्रह्मणः । यदुक्तम् — ‘तस्योपनिषत्सत्यस्य सत्यम्’ (बृ. उ. २ । १ । २०) इति, एवंप्रकारेण सत्यस्य सत्यं तत् परं ब्रह्म ; अतो युक्तमुक्तं नामधेयं ब्रह्मणः, नामैव नामधेयम् ; किं तत् सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति ॥
इति द्वितीयाध्यायस्य तृतीयं ब्राह्मणम् ॥
प्राणोपनिषदश्चोक्ताः प्राणाश्चापि समासतः ।।
यत्तु तेषां परं सत्यं तदिदानीं निरूुप्यते ।। १ ।।
प्राणाः किमात्मकास्तेषां कथं सत्यत्वमिष्यते ।।
इत्येवमादि वक्तव्यमित्यर्थः पर आगमः ।। २ ।।
पञ्चभूतसतत्त्वानां शरीरकरणात्मनाम् ।।
स्वरूपनिश्चयार्थाय प्रारब्धं ब्राह्मणं परम् ।। ३ ।।
यदुपाधिनिषेधोक्त्या नेतीति ब्रह्मणः स्फुटम् ।।
आविश्चिकीर्षितं तत्त्वं तदेतदधुनोच्यते ।। ४ ।।
स्वतोऽरूपं परं ब्रह्म तदविद्यादिहेतुतः ।।
द्विरूपमिति निर्दिष्टं वियद्वत्कुम्भसंश्रयात् ।। ५ ।।
रूपे वा ब्रह्मणो विद्यान्मूर्तामूर्ते सवासने ।।
ब्रह्मैव रूप्यते ताभ्यां ब्रह्मत्वं न हि रूपवत् ।। ६ ।।
अविद्यामात्रोपाध्येतद्ब्रह्म कारणमुच्यते ।।
तदेव ज्ञातृतामेति बुद्ध्युपाधिसमाश्रयात् ।। ७ ।।
तद्वृत्त्युपाधिसंस्थं सत्तज्ज्ञानमिति भण्यते ।।
देवतेन्द्रियसंबन्धं तत्तत्तदभिधीयते ।। ८ ।।
तथा देहादिसंबन्धं दुःखजात्यादिमद्भवेत् ।।
गोधनाद्यभिमान्येवं धनी गोमानितीर्यते ।। ९ ।।
अन्तर्यामी तथा साक्षी सर्वज्ञश्चेत्यविद्यया ।।
मिथ्याध्यासैश्च तत्कार्यैरप्रमेयं प्रमीयते ।। १० ।।
एकं तावदिदं रूपं ब्रह्मणो मोहहेतुजम् ।।
प्रत्यङ्भात्रैकधीगम्यं रूपं वास्तवमात्मनः ।। ११ ।।
अव्यावृत्ताननुगतं द्वितीयासंभवादजम् ।।
न वाक्यपदयोरर्थो भेदसामान्यवर्जनात् ।। १२ ।।
न प्रमाणान्तरैर्गम्यं पराग्घेत्वसमन्वयात् ।।
अनपेक्षितमात्रादि तदविद्यासमन्वयात् ।। १३ ।।
आत्मप्रत्ययमैकात्म्यं द्वितीयस्त्वात्मनो भवेत् ।।
अनात्मप्रत्ययोऽतोऽहं स्वत एकोऽस्मि केवलः ।। १४ ।।
यन्निषेधमुखेनेदं नेति नेतीति भण्यते ।।
अविद्यामवधिं कृत्वा द्वे रूपे ब्रह्मणस्त्विमे ।। १५ ।।
अवधारणाय वावेति द्वे एवेति विनिश्चितौ ।।
समुच्चिते सजातीयैरुत्तरैस्ते विशेषणैः ।। १६ ।।
वावशब्दं चशब्देन प्रत्याहृत्याभिधीयते ।।
मूर्तमेव च तद्रूपं ब्रह्मणोऽमूर्तमेव च ।। १७ ।।
अविद्यावत्परं ब्रह्म मूर्तामूर्तादिलक्षणैः ।।
विशिष्यते न धर्माणां मिथः संगतिरिष्यते ।। १८ ।।
विशेष्यार्थैकतन्त्रत्वाद्धर्माणां न परस्परम् ।।
तथाऽनपेक्षतस्तेषां संगतिः स्यात्कदाचन ।। १९ ।।
विज्ञानपुरुषान्तस्य ब्रह्मणः परमात्मनः ।।
तमस्विनोऽथ द्वे रूपे तदन्याव्यतिरेकतः ।। २० ।।
क्लृप्तसर्पादिभिर्यद्वदज्ञातायाः स्रजः सदा ।।
वास्तवोऽवास्तवो वा न व्यतिरेको न चान्वयः ।। २१ ।।
तद्वन्न व्यतिरेकेण ब्रह्मणो द्वे स्वतः सदा ।।
नापि चाव्यतिरेकेण ते तु ब्रह्मैव निर्द्वयम् ।। २२ ।।
अण्वाद्यवयवं मूर्तं पीनं संस्थानवदृढम् ।।
तद्विरुद्धममूर्तं स्यान्निरंशं देशवन्न च ।। २३ ।।
मर्त्यं मरणधर्मि स्याद्यद्विनश्वरलक्षणम् ।।
अमृतं तद्विरुद्धं च ध्रुवं यन्न विपद्यते ।। २४ ।।
आश्रितं स्थितमत्र स्याद्गत्वाऽव्याप्य च तिष्ठति ।।
तद्विरुद्धं तथा यत्स्यादेत्येव न तु तिष्ठति ।। २५ ।।
सदिति व्यक्तरूपं यद्गृह्यमाणविशेषणम् ।।
प्रत्यक्षं तद्विरुद्धं त्यदप्रत्यक्षं तथोच्यते ।। २६ ।।
क्षितिर्जलं तथा वह्निरित्येतन्मूर्तमु्च्यते ।।
भूतद्वयममूर्तं च वायुश्चाऽऽकाशमेव च ।। २७ ।।
मूर्तं मर्त्यं स्थितं सच्च क्षित्यबग्नित्रयं विदुः ।।
अमूर्तामृतयत्त्यत्तु वाय्वाकाशद्वयं स्मृतम् ।। २८ ।।
मूर्तत्वादेव मर्त्यं तन्मर्त्यत्वादेव तत्स्थितम् ।।
स्थितत्वादिन्द्रियग्राह्यं निर्धार्येदंतया पृथक् ।। २९ ।।
सोपाख्यत्वान्न तद्व्यापि क्वचिदेकांशवत्स्थितेः ।।
स्थितत्वाच्चापि तन्मर्त्यं मर्त्यत्वान्मूर्तमेव च ।। ३० ।।
अमूर्तत्वादमर्त्यं तद्यद्व्यापि त्यदतीन्द्रियम् ।।
अतीन्द्रियत्वात्तद्व्यापि व्यापित्वाच्चामृतं ततः ।। ३१ ।।
अस्थितत्वादमूर्तं तदाकारव्यक्तिवर्जितम् ।।
हेतुतत्फलरूपेण मूर्तादेः संगतिर्मिथः ।। ३२ ।।
अक्षसूत्रवदन्योन्यं सामर्थ्यस्याप्रहाणतः ।।
हेतुतद्वत्तया ज्ञेयाऽमूर्तादेरपि संगतिः ।। ३३ ।।
संभवेऽन्यतमस्यापि सर्वेषां संभवो यतः ।।
अतोऽवधारणार्थाय तत्रैवग्रहणं कृतम् ।। ३४ ।।
तयोरुद्दिष्टयोर्मूर्तं प्रथमं तावदुच्यते ।।
अन्यद्वाय्वन्तरिक्षाभ्यां भूतत्रयमिहोच्यते ।। ३५ ।।
मूर्तं संस्थानवद्ध्येतत्तथा मर्त्यं विनाशवत् ।।
एतत्स्थितं परिच्छिन्नमेतत्सत्सविशेषणम् ।। ३६ ।।
चतुर्विशेषणस्यास्य क्षित्यवग्न्यात्मकस्य हि ।।
चतुष्टयरसत्वार्थं पुनरुच्चारणं कृतम् ।। ३७ ।।
सर्वव्यापी रसो ह्येष शश्वत्तपति यो रविः ।।
चतुष्टयान्वयादेष भूतत्रयरसः स्मृतः ।। ३८ ।।
य एष तपतीत्यत्र मण्डलं परिगृह्यते ।।
चतुष्टयं हि मूर्तादि मण्डले गृह्यते यतः ।। ३९ ।।
चतुर्णामन्वयो हीति हेतुनाऽत्र विभाव्यते ।।
सतश्च ग्रहणं विद्याच्चतुर्णामुपलक्षणम् ।। ४० ।।
कृष्णसारं यथा स्थानं चक्षुषः करणात्मनः ।।
तथा हिरण्यगर्भस्य मण्डलं करणात्मनः ।। ४१ ।।
उत्सर्गाद्रूपनिर्माणे प्राधान्यं तेजसो यतः ।।
तस्माद्रसत्वनिर्देशः क्रियते मण्डलात्मनि ।। ४२ ।।
अष्क्लिन्नः पार्थिवो धातुस्तेजसा परिपच्यते ।।
अङ्कुराद्यभिनिष्पत्तौ मुख्यतैवं हि तेजसः ।। ४३ ।।
सारस्त्रयाणां भूतानां रसो मण्डलमुच्यते ।।
एतत्साराणि हि त्रीणि भूतान्याहुर्विपश्चितः ।। ४४ ।।
मण्डलायतने यत्तु कारणं संश्रितं विभोः ।।
विराजो देवदेवस्य तदिदानीमिहोच्यते ।। ४५ ।।
आदित्यान्तर्गतः साक्षात्करणात्माऽभिधीयते ।।
वाय्वाकाशरसत्वेन तत्रामूर्तान्वयो यतः ।। ४६ ।।
कलिङ्गारम्भसिद्ध्यर्थं वाय्वाकाशसमुद्भवः ।।
ईश्वरात्कारणाद्यस्माल्लिङ्गं तेन रसस्तयोः ।। ४७ ।।
वाय्वाकाशरसो ह्येष इति हेतुः प्रदर्श्यते ।।
त्यस्य ह्येष रस इति यथोक्तो मण्डलात्मनि ।। ४८ ।।
हिरण्यगर्भक्षेत्रज्ञं रसं केचित्प्रचक्षते ।।
कारणं रसशब्देन यस्मादत्राभिधीयते ।। ४९ ।।
यस्माद्धिरण्यगर्भस्य कर्म वाय्वन्तरिक्षयोः ।।
प्रयोक्त्रव्यक्तयोस्तस्माद्रसः क्षेत्रज्ञ उच्यते ।। ५० ।।
भूतद्वयरसो ज्ञेयो मण्डले चेतनः पुमान् ।।
त्यस्य ह्येष रस इति तत्सिद्धौ कारणाभिधा ।। ५१ ।।
न्यायोक्तेरेव संसिद्धेः प्रतिज्ञातस्य वस्तुनः ।।
क्षेत्रज्ञः कारणं कस्मादित्यत्र न्याय उच्यते ।। ५२ ।।
एतस्मिन्मण्डले योऽन्तर्विज्ञानात्मत्वमागतः ।।
अविद्याभावनाकर्महेतुतो नान्यकारणात् ।। ५३ ।।
तस्य यत्कर्मरूपं तद्वियद्वायुप्रयोजकम् ।।
खस्थस्य कर्मणस्तस्य मरुत्प्रस्पन्दरूपिणः ।। ५४ ।।
वाय्वाकाशप्रनाड्यैवं तेजसः संभवस्ततः ।।
जज्ञाते तेजसो भूते जलं च पृथिवी तथा ।। ५५ ।।
कर्मणा पौरुषेणैवं रसभूतेन संभवः ।।
वाय्वन्तरिक्षयोर्यस्माद्रसस्तेन पुमांस्तयोः ।। ५६ ।।
मेधया तपसेत्यादि तथाच प्रागुदाहृतम् ।।
न्यायेनानेन पुरुषो रसशब्देन भण्यते ।। ५७ ।।
त्यस्य ह्मेष इति ह्युक्त्या न्यायः श्रुत्याऽयमुच्यते ।।
नैतदेवं भवेन्मूर्तरसेनास्यासमत्वतः ।। ५८ ।।
भूतत्रयस्य मूर्तस्य रसो मण्डलमभ्यधाः ।।
धर्मैश्चतुर्भिर्मूर्ताद्यैर्भूतत्रयवदन्वितम् ।। ५९ ।।
अमूर्तयोरपि रसो लिङ्गात्मा गृह्यतां तथा ।। ६० ।।
वाक्यप्रवृत्तेस्तुल्यत्वान्न युक्तोऽत्रान्यथा ग्रहः ।।
वैरूप्यलक्षणो दोषः सत्येवं वः प्रसज्यते ।। ६१ ।।
अथ मूर्तरसोक्त्याऽपि चेतनस्यैव चेद्ग्रहः ।।
अत्यल्पं भवताऽभाणि सर्वमात्मैव नो यतः ।। ६२ ।।
न ह्यात्मव्यतिरेकेण किंचित्कारणमिष्यते ।।
तेन तेन स्वरूपेण प्रत्यगात्मैव कारणम् ।। ६३ ।।
मण्डलात्मनि चाऽऽधारे लिङ्गात्मैवावसीयताम् ।।
करणस्यैव तत्स्थत्वाद्विज्ञानात्मा हि लिङ्गगः ।। ६४ ।।
अज्ञातः पुरुषो यस्मात्कार्यकारणशब्दभाक् ।।
अज्ञातमिथ्याविज्ञानरूपत्वान्न तु तत्त्वतः ।। ६५ ।।
अचेतनेषु लोकेऽस्मिन्न दृष्टा पुरुषाभिधा ।।
इति चेन्नैतदेवं स्यादचित्केष्वपि दर्शनात् ।। ६६ ।।
त एतान्सप्त पुरुषानित्यादिश्रुतिवाक्यतः ।।
असंवित्केऽपि पक्षादौ दृश्यते पुरुषाभिधा ।। ६७ ।।
अध्यात्मोक्त्यवधिज्ञप्त्या अधिदैवतकीर्तनम् ।।
मूर्तामूर्तविभागोऽयमध्यात्ममधुनोच्यते ।। ६८ ।।
भूतत्रयं पृथिव्यादि देहेऽपि परिगृह्यते ।।
मूर्तशब्देन यत्प्राणाद्धृद्व्योम्नश्चापरं च यत् ।। ६९ ।।
चक्षू रसस्त्रयाणां स्याद्विशेषेणात्र निष्ठितम् ।।
तेजः सर्वशरीरस्य निर्मातृ स्यादसंशयः ।। ७० ।।
प्रथणा संस्कृतिरिति मन्त्रवर्णोऽपि दृश्यते ।।
शश्वद्वै रेतस इति तथाच श्रुतिशासनम् ।। ७१ ।।
मूर्तामूर्तविभागोऽयं यदि नामेह भण्यते ।।
अधिदैवं तथाऽध्यात्मं तथाऽपीयान्न गृह्यते ।। ७२ ।।
कृत्स्नस्य ब्रह्मणो रूपे मूर्तामूर्ते विवक्षिते ।।
यतोऽतो नेयता कार्त्स्न्ये देवताध्यात्मयोर्भवेत् ।। ७३ ।।
आरब्धकार्यभूतानां गृहीतौ न च संभवः ।।
यथोक्तलक्षणस्येह मुख्यवृत्त्योक्तभूमिषु ।। ७४ ।।
व्याप्येव लक्षणं युक्तमन्यथा तदलक्षणम् ।।
निर्देशस्तु परिच्छिन्नविषयोऽत्राभिधीयते ।। ७५ ।।
तत्रैवं सति यत्र स्यान्मूर्ताद्युक्तं चतुष्टयम् ।।
लक्षणं तत्र संपूर्णमन्त्यकारणकार्ययोः ।। ७६ ।।
आकाशशब्दवाच्यो यः सर्वकारणकारणः ।।
मुख्यवृत्त्या समर्थं स्यात्तत्रैवामूर्तलक्षणम् ।। ७७ ।।
पृथिव्यां चापि तन्मुख्यं यदुक्तं मूर्तलक्षणम् ।।
उभयोरन्तरालस्था मिथःसंकीर्णलक्षणाः ।। ७८ ।।
लक्षणं गौणमेव स्यादन्त्ययोर्मध्यभूमिषु ।।
मूर्तामूर्तव्यवहृतिस्तथा तत्रापि दृश्यते ।। ७९ ।।
मुख्यवृत्तिग्रहायातो व्यापिलक्षणसिद्धये ।।
क्षित्यादिवियदन्तं स्यान्मूर्तामूर्तस्य लक्षणम् ।। ८० ।।
योऽयं दक्षिणेऽक्षन्निति शास्त्रदृष्टत्वकारणात् ।।
दक्षिणेऽणि लिङ्गस्य विशेषः कश्चिदिष्यते ।। ८१ ।।
वीर्यवद्दक्षिणं लोकेऽप्यङ्गं दृष्टं यतस्ततः ।।
दक्षिणेऽक्षन्निति वचः श्रुतेर्यत्नादिहेष्यते ।। ८२ ।।
पिण्डप्राणविभागेन ह्यध्यात्मे चाधिदैवते ।।
मूर्तामूर्तात्मनोरुक्तो विभागो ब्रह्मरूपयोः ।। ८३ ।।
अथाधुना यथोक्तस्य तस्यैव करणात्मनः ।।
लिङ्गस्य रूपं वक्ष्यामो वासनामयमात्मनः ।। ८४ ।।
मूर्तामूर्तादिसंबन्धाद्वासना लिङ्गमाश्रिताः ।।
स्वाभासभ्रमदोषेण तन्मयः पुरुषो मतः ।। ८५ ।।
अनेकवासनाचित्र तल्लिङ्गं पटभित्तिवत् ।।
मायेन्द्रजालसदृशं व्यामोहास्पदमात्मनः ।। ८६ ।।
एतावन्मात्रमेवेति यत्र भ्रान्ता निरागमाः ।।
विज्ञानवादिनो बौद्धास्तथा नैयायिकादयः ।। ८७ ।।
आत्मनो द्रव्यभूतस्य यदेतद्वासनात्मकम् ।।
रूपं गुणोऽस्य संसार इति वैशेषिकादयः ।। ८८ ।।
त्रिगुणं सत्प्रधानस्थं पुरुषार्थेन हेतुना ।।
प्रवर्तते स्वतन्त्रं सदिदमित्यपि कापिलाः ।। ८९ ।।
अप्यौपनिषदंमन्याः केचिदत्यन्तनैपुणात् ।।
प्रक्रियां रचयित्वाऽऽहुर्वेदान्तार्थाविपश्चितः ।। ९० ।।
यावान्बाह्यो विकारः स्यात्क्षेत्रज्ञपरिवेष्टनः ।।
अध्यात्मं चाधिदैवं वा नामरूपविभागतः ।। ९१ ।।
अव्याकृताद्व्याकृतः स्यादेतावानेव सोऽत्र तु ।।
मूर्तो वा यदि वाऽमूर्तः सच्च त्यच्चेति भण्यते ।। ९२ ।।
प्राणानामपि सत्यत्वं भूतसत्याभिसंगतेः ।।
कथं यतस्त्वमी सर्वे प्राणाः क्षेत्रज्ञलक्षणाः ।। ९३ ।।
अनामरूपकाः सन्तः सत्यसंयोगहेतुतः ।।
देहिनः प्राणवत्साक्षात्संवृत्ता नामरूपिणः ।। ९४ ।।
निदेशाय च कल्पन्ते प्राणा वा इति नान्यथा ।।
तदत्र निखिलं सत्यं श्रुत्या संशोधितं स्फुटम् ।। ९५ ।।
व्याविद्धसत्यराशेः स्याद्विज्ञानात्मन एव तु ।।
स्वरूपं यत्तदधुना वक्तव्यमवशिष्यते ।। ९६ ।।
तत्रैतस्यामवस्थायां विभागा विनिवर्तने ।।
अयं भोक्ता विज्ञानात्मा तथा दैवतिकास्त्वमी ।। ९७ ।।
विज्ञानात्मान इत्येष भेदहेतुनिवर्तनात् ।।
यत आधारगो ह्येष नामरूपादिलक्षणः ।। ९८ ।।
विशेषो न स्वतस्तच्च नामरूपादि शोधितम् ।।
संशोध्य तदिदं सर्वं विज्ञानात्मा प्रदर्श्यते ।। ९९ ।।
सर्वेषामपि तेनेदं समानं लक्षणं भवेत् ।।
क्षेत्रज्ञानां विशेषोऽत्र यतो नैवोपपद्यते ।। १०० ।।
एतस्य पुरुषस्येति रूपं निर्दिश्यतेऽधुना ।।
पुंसो रूपमुपक्षीणं मूर्तामूर्तसमाश्रयम् ।। १०१ ।।
येन त्वस्य विशेषेण विज्ञानात्मत्वमिष्यते ।।
विभज्यमानस्य सतः परस्मादात्मनोऽद्वयात् ।। १०२ ।।
अपाञ्चभौतिकं रूपमिह तन्निर्दिदिक्ष्यते ।।
यथेति माहारजनं वासनोपचयात्मकम् ।। १०३ ।।
तस्य हैतस्य संबन्धमेवं केचित्प्रचक्षते ।।
तदयुक्तं यथाऽन्यायस्तथाऽयमभिधीयते ।। १०४ ।।
पुष्पादिवासनानां हि वस्त्रादिष्वेव संगतिः ।।
सजातीयेषु नियता दृश्यते नान्यजातिषु ।। १०५ ।।
द्रव्येऽपि न खलु व्योम्नि वासना काचिदीक्ष्यते ।।
अद्रव्ये चासजातीये चैतन्ये वासना कुतः ।। १०६ ।।
वासनाकारतां गच्छेच्चैतन्यं चेत्कपालवत् ।।
वासनानिष्फलत्वं स्याच्चैतन्यादपृथक्स्थितेः ।। १०७ ।।
न हि श्रोत्रोत्थविज्ञानं रूपवासनयाऽञ्च्यते ।।
विषयत्वाविशेषेऽपि कुतोऽसङ्गत्वतश्चितेः ।। १०८ ।।
षड्भावविक्रियाणां च निषेधश्चेतनात्मनः ।।
असङ्ग इति चाप्युक्तिरसकृत्छ्रूयते श्रुतौ ।। १०९ ।।
भूतसंयोगतः प्राप्तं न च तत्पाञ्चभौतिकम् ।।
इति ब्रुवाणो लोकेऽस्मिन्हस्यते बालकैरपि ।। ११० ।।
मूर्तामूर्तविभागेऽस्य विभागो विनिवर्तते ।।
इति स्वोक्तमविस्मृत्य वासनाभेदगीः कथम् ।। १११ ।।
रचयन्ति तथाऽसाध्वीं प्रक्रियां न्यायवर्जिताम् ।।
मूर्तामूर्तात्मको राशिरेको बाह्यः किलेष्यते ।। ११२ ।।
उत्तमः परमात्माख्यो राशिरत्राभिधीयते ।।
मध्यमोऽयं तृतीयस्तु ताभ्यां राशिः प्रयोजकः ।। ११३ ।।
पाणिपेषोत्थितेनायं कर्त्रा भोक्त्रा सहाऽऽत्मना ।।
भावनाज्ञानकर्मादिसमुदायः प्रयोजकः ।। ११४ ।।
मूर्तामूर्तादिराशिस्तु प्रयोज्यः साधनं तथा ।।
तार्किकैः सह संधिं च चिकीर्षंन्ति यथाबलम् ।। ११५ ।।
अयं प्रयोजको राशिर्लिङ्गमेव किलाऽऽश्रितः ।।
इत्युक्त्वा सांख्यत्वभयात्कल्पयन्ति ततोऽन्यथा ।। ११६ ।।
गन्धः पुष्पाश्रयो यद्वत्पुटमाश्रित्य तिष्ठति ।।
कुसुमापगमेऽप्येवं लिङ्गस्था वासनाऽऽत्मनि ।। ११७ ।।
वासनाकामकर्माणि लिङ्गस्थान्येव नाऽऽत्मनि ।।
लिङ्गादात्मानमायान्ति गन्धो गन्धपुटं यथा ।। ११८ ।।
निर्गुणोऽपि परैकांशो बहिरभ्यागतेन सः ।।
कर्मणा सगुणः साक्षाद्भवतीति प्रचक्षते ।। ११९ ।।
ततश्च कर्ता भोक्ता च बध्यते मुच्यते तथा ।।
विज्ञानात्मेति कणभुक्वित्तमेवं समाश्रिताः ।। १२० ।।
भूतराशेरगाल्लिङ्गं कर्मराशिः सकाशतः ।।
लिङ्गादात्मानमागात्स लिङ्गसंबन्धकारणात् ।। १२१ ।।
कृष्णशक्तिरविद्याऽपि परस्मादेव सोत्थिता ।।
विकृत्य परमात्मांशं विज्ञानात्मनि तिष्ठति ।। १२२ ।।
यथोषरात्मको दोषः पृथिव्या एव जज्ञिवान् ।।
क्ष्मैकदेशं विकृत्याऽऽस्तेऽविद्या तद्वत्परात्मनः ।। १२३ ।।
अनात्मधर्मोऽविद्येति वदन्तश्चोषरादिवत् ।।
इत्येवं सांख्यसिद्धान्तमनुवर्तन्ति संभ्रमात् ।। १२४ ।।
नैवं कल्पयितुं युक्तं वेदसिद्धान्तबाधनात् ।।
पुराऽपि चैतदुदितं यथा वेदान्तबाधनम् ।। १२५ ।।
सकलत्वे परस्योक्ताः संसारित्वादिलक्षणाः ।।
दोषाः सर्वेऽपि चाऽऽयान्ति प्रत्यगात्मानमेकलम् ।। १२६ ।।
क्षेत्रज्ञस्य च संभित्तौ परस्मादात्मनः स्वतः ।।
एकत्वासंभवोऽत्यन्तं क्षेत्रज्ञपरमात्मनोः ।। १२७ ।।
अथोपचारतो देशो लिङ्गमेवाऽऽत्मनो मतः ।।
न तदा लिङ्गविध्वस्तौ वासनाऽऽत्मनि युज्यते ।। १२८ ।।
न्यायः पुरोदितो योऽत्र वासनासंश्रयं प्रति ।।
स सर्वोऽत्रानुसंधेयः पूर्वपक्षापनुत्तये ।। १२९ ।।
उत्थानं चाप्यविद्यायाः परस्मादात्मनः स्वतः ।।
ऊषरादिवदित्यादिकल्पना नोपपद्यते ।। १३० ।।
अनिर्मोक्षप्रसक्तिः स्याद्यविद्या परात्मनः ।।
निरात्मवादसक्तिश्च मोहोच्छेदे भवेदिह ।। १३१ ।।
वास्यदेशातिरेकेण वासनाया न चेष्यते ।।
देशान्तरोपगमनं गुणवद्द्रव्यवर्जनात् ।। १३२ ।।
सामञ्जस्येन गच्छन्ति न च श्रुत्यक्षराण्यपि ।।
यथोक्तकल्पनायां हि न युक्ता तेन कल्पना ।। १३३ ।।
कामः संकल्प इत्याद्या मनसो धर्मिणः श्रुताः ।।
धर्मा न त्वात्मनः शास्त्रे ह्यसङ्गो हीतिवारणात् ।। १३४ ।।
हृदये ह्येव रूपाणि ध्यायतीवेति चापरम् ।।
कामा येऽस्य हृदीत्यादि तीर्णो हीति तथा वचः ।। १३५ ।।
श्रुतादर्थान्न चान्योऽर्थो यथोक्तवचसां यतः ।।
सम्यक्कल्पयितुं शक्यः कल्पनाऽतो न युज्यते ।। १३६ ।।
प्रत्यग्ब्रह्मत्वसिद्ध्यर्था सर्वैवोपनिषत्त्वियम् ।।
तावन्मात्रपरत्वेन वेदान्तानामुपक्षयात् ।। १३७ ।।
राशित्रितयपक्षे च नाप्यर्थोऽत्र समञ्जसः ।।
क्रियते कल्पना येन सर्वन्यायविरोधिनी ।। १३८ ।।
द्वे एव तु यदा रूपे मूर्तामूर्ते सवासने ।।
ब्रह्म रूपि तृतीयं च तदा वावेति युज्यते ।। १३९ ।।
ब्रह्मैकदेशभूतस्य विज्ञानात्मन एव ते ।।
रूपे इति तदा युक्तं कल्पनानुगुणं वचः ।। १४० ।।
विज्ञानात्ममुखेनाथ यदि वा परमात्मनः ।।
रूपे इति तदाऽवक्ष्यच्छ्रौती चेत्कल्पना भवेत् ।। १४१ ।।
द्विवचश्च तथाऽयुक्तं त्रैरूप्यस्येह संभवात् ।।
मूर्तामूर्ते च द्वे रूपे तृतीयं वासना यतः ।। १४२ ।।
मतं मूर्तेतरे रूपे ब्रह्मणोऽभिमते सदा ।।
क्षेत्रज्ञस्य तु नैवैते वासनामात्ररूपितः ।। १४३ ।।
तदाऽपि जीवद्वारेण विक्रियां व्रजतो विभोः ।।
वासनाद्यभिसंबन्ध इतीयं गीरनर्थिका ।। १४४ ।।
वासनानामपि यतो न विशेषो मनागपि ।।
क्षेत्रज्ञद्वारतायाः स्यादसत्तस्माद्विकल्पितम् ।। १४५ ।।
वस्तु वस्त्वन्तरत्वेन न च विक्रियतेऽञ्जसा ।।
वृत्त्येह मुख्ययेत्येवं शक्यो वक्तुं जगत्यपि ।। १४६ ।।
वस्त्वन्तरं न च मतः क्षेत्रज्ञः परमात्मनः ।।
सिद्धान्तहानिरेवं च कल्पनायां ध्रुवं भवेत् ।। १४७ ।।
आविश्चिकीर्षुभिस्तस्माद्वेदान्तार्थं महात्मभिः ।।
ईदृशी कल्पनाऽयुक्ता कर्तुं परहितार्थिभिः ।। १४८ ।।
दक्षिणेऽक्षन्पुमानिति लिङ्गात्मा परिगृह्यते ।।
अध्यात्मेऽथाधिदैवे च तस्यैव प्रकृतत्वतः ।। १४९ ।।
जीवग्रहोऽत्र नन्वस्तु प्रकृतत्वाविशेषतः ।।
तस्यैवैतानि रूपाणि कस्मान्नेत्यभिधीयताम् ।। १५० ।।
नैवंरूपितया यस्मादिह श्रुत्या विवक्षितः ।।
क्षेत्रज्ञः करणात्मैव तस्मादिह विवक्षितः ।। १५१ ।।
वासनानुगतं लिङ्गं मृद्वन्मृद्विक्रियात्मसु ।।
चेत्यते साक्षिणा यस्मान्नातः क्षेत्रज्ञरूपिता ।। १५२ ।।
माहारजनमित्यादि रूपं चेत्साक्षिणो भवेत् ।।
नेति नेतीत्यथाऽऽदेशं नाकरिष्यत्तदाऽऽत्मनः ।। १५३ ।।
अन्यस्यासौ न चाऽऽदेशः शक्यो वक्तुं प्रमाणतः ।।
नेति नेतीति तस्यैव षष्ठान्त उपसंहृतेः ।। १५४ ।।
व्येव त्वेति प्रतिज्ञाया अर्थवत्त्वं तथा भवेत् ।।
पाणिपेषोत्थितस्यैव यद्यादेशो भवेदयम् ।। १५५ ।।
पाणिपेषोत्थितोऽन्यश्चेन्नेतीति च ततोऽपरः ।।
अन्योऽसाविति मिथ्या धीस्तदा स्यान्मोहकारणात् ।। १५६ ।।
न स्यादात्मानमेवावेदहं ब्रह्मेतिमानजा ।।
सम्यग्धीर्निखिलध्वान्तघातिनी मुक्तिदायिनी ।। १५७ ।।
करणात्मन एवातस्तस्य हेतिग्रहो भवेत् ।।
न तु तत्साक्षिणो युक्तस्तस्य रूपनिषेधतः ।। १५८ ।।
वासना भूरिरूपास्ता लिङ्गस्था लिङ्गसाक्षिणः ।।
कुर्वन्ति बहुरूपत्वं मणेरास्तरणं यथा ।। १५९ ।।
माहारजनमित्यत्र हारिद्रं रूपमुच्यते ।।
इन्द्रगोपोपमानेन कौसुम्भस्य गतत्वतः ।। १६० ।।
पीतं वस्त्रं यथा तद्वल्लिङ्गमाभाति साक्षिणः ।।
आरुयादिविषयोद्भूतवासनावासितं दृशेः ।। १६१ ।।
ईषत्पाण्दु यथोर्णादि तद्वल्लिङ्गं प्रकाशते ।।
इन्द्रगोपोऽतिरक्तश्च भृशं रक्तं मनस्तथा ।। १६२ ।।
रजसः कचिदुद्रेकस्तमसः क्वचिदिष्यते ।।
सत्त्वस्यापि तथोत्कर्षः कुतश्चिदुपजायते ।। १६३ ।।
क्वचिदेकप्रधानत्वं कस्मिंश्चिद्विषये द्वयोः ।।
त्रयाणामपि चान्यत्र ज्ञानकर्मादिचित्रतः ।। १६४ ।।
अग्नेरर्चिर्यथा भास्वत्सत्त्वोत्कर्षात्तथा मनः ।।
पुण्डरीकं यथा शुक्लं सौम्यमाह्लादकृत्तथा ।। १६५ ।।
सकृद्विद्युद्यथाऽत्यन्तं घनध्वान्तापनोदकृत् ।।
अतीव भास्वराऽस्माकं चक्षुर्मुट्सकृदुद्गता ।। १६६ ।।
हिरण्यगर्भतत्त्वस्य जायमानस्य केशवात् ।।
विद्युद्वत्प्रथते रूपं किल तस्य महात्मनः ।। १६७ ।।
अतोऽनेनैव रूपेण य उपास्ते दिवानिशम् ।।
सर्वान्धकारहन्त्रीव विद्युत्तं श्रीः सदाऽऽश्रयेत् ।। १६८ ।।
नाऽऽदिर्न मध्यं नैवान्तो नेयत्ता विद्यते यतः ।।
अनन्तकल्पोपचयाद्वासनानामुदाहृतिः ।। १६९ ।।
माहारजनमित्यादिर्न त्वियत्ता विवक्षिता ।।
प्रकारदर्शनायैव तेनोदाहृतिरिष्यते ।। १७० ।।
निःशेषमेवं सत्यस्य रूपं व्याख्याय सांप्रतम् ।।
परमार्थसत्ययाथात्म्यनिर्देशाय प्रयत्यते ।। १७१ ।।
यतो व्याख्यातमखिलं मूर्तामूर्तादि वस्त्वतः ।।
आदेशोऽनन्तरं तस्य क्रियतेऽनन्यमानिनः ।। १७२ ।।
मूर्तामूर्तास्वभावस्य सत्यस्याऽऽविष्कृतेरथ ।।
ब्रह्मातिरेकतो नान्यद्यतो वस्त्ववशिष्यते ।। १७३ ।।
आदेशो ब्रह्मणोऽतोऽयं निरादेशस्य भण्यते ।।
अतिमानाभिधानस्य प्रत्यङ्भात्राद्वयात्मनः ।। १७४ ।।
कर्मण्यादेशशब्दोऽयं यदि वा करणे भवेत् ।।
आदिष्टिरथवाऽऽदेशो नेति नेत्यद्वयात्मनः ।। १७५ ।।
नेति नेतीतिशब्दाभ्यां सत्यस्य ब्रह्मणः कथम् ।।
प्रमाणगोचरातीतं तत्त्वं स्यान्निर्दिदिक्षितम् ।। १७६ ।।
शुणु सर्वं तदज्ञानसमुत्थस्य निषेधतः ।।
प्रत्यङ्भात्रैकरूपेण तदबोधनिराकृतेः ।। १७७ ।।
अमूर्तस्य परा निष्ठा कारणात्मा पुरोदितः ।।
मूर्तस्य च तथा पृथ्वी मध्ये संकीर्णता तयोः ।। १७८ ।।
मानाभिधानयोर्यावान्कश्चिद्विषय इष्यते ।।
उक्तयोर्मध्यवर्त्येव कार्यकारणयोरसौ ।। १७९ ।।
नामरूपे तथा कर्म प्राणा लोकादयस्तथा ।।
कारकं वा क्रियाऽन्यद्वा कारणं कार्यमेव च ।। १८० ।।
जातिर्गुणः क्रिया द्रव्यं संबन्धो भाव एव च ।।
सदसत्सदसच्चेति समस्तव्यस्तमेव च ।। १८१ ।।
प्रमाता च प्रमाणं च प्रमेयोऽथ क्रियाफले ।।
इत्यादेः प्रतिषेधेन प्रत्यङ्ङात्मावलम्बिना ।। १८२ ।।
उपप्रदर्शकोऽशेषनामादेरितिरिष्यते ।।
तस्योपदर्शितस्याथ निषेधः क्रियते नञा ।। १८३ ।।
आकृष्टं रूपिणो रूपं न पृथग्व्यवतिष्ठते ।।
जगत्यकल्पितमपि किमु मोहादिकल्पितम् ।। १८४ ।।
घटे पटो निषिद्धोऽपि घटादन्यत्र तिष्ठति ।।
तदन्यत्रापि सद्भावादनिषिद्धस्य धर्मिणः ।। १८५ ।।
परमार्थान्निषिद्धस्य तन्मोहोत्थस्य वस्तुनः ।।
हिरुक्स्थितिः कथं तस्य परमार्थात्मनाऽथवा ।। १८६ ।।
निषेध्यानामशेषाणामन्योन्यव्यभिचारतः ।।
प्रतीचोऽव्यभिचारोऽतस्तत्राध्यस्तं निषिध्यते ।। १८७ ।।
इतिशब्दोपदिष्टानां निषेधोऽनुभवात्मनि ।।
अनन्तेऽन्तवतां यत्र तद्ब्रह्मेत्यवसीयताम् ।। १८८ ।।
सद्भावश्चोपलब्धिश्च स्वार्थप्रत्यक्चिदाश्रयात् ।।
मूर्तादीनामनिर्देश्यादितिर्मत्तो निवर्तते ।। १८९ ।।
निषेधति निषेध्यार्थं यद्वलान्नञ्चिदात्मनः ।।
विज्ञानेनैव हत्वाऽन्यत्पूर्णत्वेनैति चित्स्वतः ।। १९० ।।
प्रत्यङ्मात्रदृशि ह्यस्मिञ्जाग्रत्स्वप्नसुषुप्तिषु ।।
तदन्यद्यत्तदाभासं तन्नञा प्रतिषिध्यते ।। १९१ ।।
अविचारितसंसिद्धिप्रत्यङ्मोहहतौ सदा ।।
विस्फारिताक्षः प्रत्यग्धीर्मानान्निर्वात्यथाऽऽत्मनि ।। १९२ ।।
अपेक्षाज्ञानहेतूत्थं कार्यकारणवस्त्वतः ।।
विचार्यमाणं तन्नास्ति व्योम्नि कार्प्ण्यमिवाऽऽत्मनि ।। १९३ ।।
शब्दप्रवृत्तिहेतूनां प्रत्यगात्मन्यसंभवात् ।।
प्रमाणगोचराणां च स्वतः सिद्धेर्न निहृतिः ।। १९४ ।।
मानाभिधानविषयो यावन्नाऽऽत्मानमात्मनि ।।
लभते प्रत्यगात्मानं न नञ्तावन्निवर्तते ।। १९५ ।।
निरस्ताज्ञानतत्कार्ये लब्ध आत्मन्यथाऽऽत्मना ।।
निषेध्यहेतौ प्रध्वस्ते निषेधोऽपि निवर्तते ।। १९६ ।।
प्रमातृत्वादिना यावत्किंचिदत्र विवक्षितम् ।।
तदभावश्च तत्सर्वं नेतीति प्रतिषिध्यते ।। १९७ ।।
निषेध्यं सर्वमेवैतदनिषेध्यात्मवस्तुगम् ।।
अतो नाभावनिष्ठः स्यादभावस्यापि निह्नवात् ।। १९८ ।।
नेति नेतीत्यतो वीप्सा जिघृक्षितनिषेधतः ।।
बुभुत्सितस्य कृत्स्नस्य वीप्सैवातो निषेधनी ।। १९९ ।।
ज्ञानक्रियाभ्यां व्याप्योऽयमित्याकाङ्क्षा निवर्तते ।।
अप्रमित्सित एकस्मिन्निष्ठां यात्यचिकीर्षिते ।। २०० ।।
रज्जुयाथात्म्यविज्ञानात्सर्पवत्करणात्मनः ।।
निषेधो नान्यतः शक्यः कर्तुं वर्षशतैरपि ।। २०१ ।।
यद्यत्प्राप्तं जगत्यस्मिंस्तत्तत्सर्वं निषिध्यते ।।
एवं च सत्यनिर्दिष्टाशङ्काऽपि विनिवर्तते ।। २०२ ।।
न चेद्वीप्सा तदा वाक्यद्वयमेतद्विवक्षितम् ।।
उक्तद्वयनिषेधेन तस्य चोपक्षयाद्भवेत् ।। २०३ ।।
अनुक्तविषयाशङ्का सर्वस्याप्रतिषेधतः ।।
यदि वाऽभावविषया न ह्यभावो निषिध्यते ।। २०४ ।।
साक्षान्मानप्रसिद्धेषु प्रतिषिद्धेतरग्रहः ।।
अप्रसिद्धे प्रसिद्धानां निषेधाच्छून्यताग्रहः ।। २०५ ।।
आदेश इत्युपक्रम्य प्रतिषेधोऽयमुच्यते ।।
साक्षादादिश्यते येन तादृगादेश उच्यते ।। २०६ ।।
निषेधवर्त्मना तस्मादनिषेध्यात्मसाक्षिणा ।।
ज्ञाताज्ञातं निषिध्याथ सदा दृष्टौ प्रतिष्ठति ।। २०७ ।।
यथा श्रोत्रधिया रूपं रूपहेत्वसमन्वयात् ।।
नाग्रहीन्न च गृह्णाति न ग्रहीष्यति शब्दवत् ।। २०८ ।।
प्रत्यक्तत्त्वे विनिर्ज्ञाते नेति नेतीतिवाक्यतः ।।
तद्वत्सकारणोऽनात्मा नाभूदस्ति भविष्यति ।। २०९ ।।
नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा ।।
निवृत्तिस्तद्वदेवास्य नावगत्यात्मनोऽपरा ।। २१० ।।
अनन्यायत्तमैकात्म्यं यदा साक्षाद्व्यवस्थितम् ।।
व्येव त्वेति प्रतिज्ञेयं तदा स्यात्सफलोदिता ।। २११ ।।
नेति नेतीत्यतो वीप्सासंभवादुक्तवस्तुनः ।।
कृतार्थता तथाच स्यादन्यथा नोपपद्यते ।। २१२ ।।
परागर्थेषु सक्ता धीः प्रत्यगर्थानुरञ्जनात् ।।
निषिद्धाऽतः परागर्थात्प्रतीचि लभते स्थितिम् ।। २१३ ।।
व्यतिरेकस्य सिद्धत्वादादेशोक्तेः पुरैव हि ।।
साक्षाद्ब्रह्मत्वसिद्ध्यार्थमादेशोऽयमथोच्यते ।। २१४ ।।
न निषेधो निषेध्यार्थो लक्षणार्थपरत्वतः ।।
ब्रह्मणो मान्तरासिद्धेः शून्यतैव प्रसज्यते ।। २१५ ।।
षष्ठ्युक्तेरेव संसिद्धा मूर्तादेर्ब्रह्मणोऽन्यता ।।
ततश्च जामितासक्तिर्नातः स्यात्पारिशेष्यगीः ।। २१६ ।।
शक्यते न निषेद्धुं च प्रत्यक्षाद्याश्रितत्वतः ।।
निषेधान्न पुमर्थोऽपि कश्चित्सिध्येत्समीहितः ।। २१७ ।।
निषेधमात्रनिष्ठत्वे न चाऽऽदेशो भवेत्प्रभोः ।।
ब्रह्म मूर्तादि नेत्युक्तौ मूर्तादेर्न निषेधगीः ।। २१८ ।।
ततश्च ब्रह्मतासिद्धिर्द्वितीये सति वस्तुनि ।।
व्येव त्वेति प्रतिज्ञार्थो नापि चाऽऽविष्कृतो भवेत् ।। २१९ ।।
पारिशेष्यादतोऽसिद्धिः स्याद्विवक्षितवस्तुनः ।।
यथा सिद्धिस्तथा व्याख्या कार्येहोक्तेरतोऽञ्जसा ।। २२० ।।
सिद्धो निषेधः प्रागेव सर्वस्यानात्मवस्तुनः ।।
प्रत्यग्याथात्म्यविज्ञानादन्योन्यव्यभिचारतः ।। २२१ ।।
अन्योन्यव्यभिचारोऽस्य वीक्ष्यतेऽनात्मवस्तुनः ।।
स्वरूपव्यभिचारोऽपि सुषुप्तादौ स्वसाक्षिगः ।। २२२ ।।
यथा मात्रादिसचेयं प्रत्यक्संवित्तिसिद्धिका ।।
प्रमात्रादेरभावोऽपि प्रत्यग्बोधाश्रयात्तथा ।। २२३ ।।
अविचारितसंसिद्धिरात्माविद्यैकरूपतः ।।
सिद्धायतेऽखिलोऽनात्मा स्वतःसिद्धात्मसंश्रयात् ।। २२४ ।।
अतिरोहितसंवित्को व्यपास्ताशेषविक्रियः ।।
अनन्यमातृमानादिर्दृष्टिमात्रात्मकत्वतः ।। २२५ ।।
भावाभावात्मिका सिद्धिर्येयं सर्वाऽप्यनात्मनः ।।
तद्विरुद्धात्मकान्मत्तो मय्येवासौ प्रसिध्यति ।। २२६ ।।
अनन्यानुभवेनैव भावाभावात्मभूमिषु ।।
प्रत्यक्कूटस्थ आत्मानं पश्यन्नास्ते फलात्मना ।। २२७ ।।
अतो मात्रादिसंभेदो यत्र यत्र निवर्तते ।।
तत्र तत्रैकलः प्रत्यक्स्वमहिम्नैव सिध्यति ।। २२८ ।।
प्रमात्रादेरभावोऽतो यः सिद्धः स्वात्मबोधतः ।।
नञ्वृत्तिस्तं सदाबुद्धं लक्षयत्यपृथक्प्रमम् ।। २२९ ।।
वैविक्त्यान्न च मानादेरनन्यानुभवात्मनि ।।
सहेतुकस्य वृत्तिः स्यान्नित्यबोधावबॊधिनि ।। २३० ।।
अविद्याद्यतिरेकेण कारणादिविधर्मकम् ।।
लब्धमात्मात्मकं वस्तु प्रतीचोऽनन्यमानतः ।। २३१ ।।
एतद्वस्तु स्वतःसिद्धं प्रमात्राद्यनपेक्षतः ।।
सर्वस्यैव ततः सिद्धेः कथं सिध्येत्तदन्यतः ।। २३२ ।।
उक्ता प्रमेयसंसिद्धिः स्वमहिम्नैव नञ्श्रुतेः ।।
तस्य ब्रह्मत्वबोधाय नेति ब्रह्मेतिनोच्यते ।। २३३ ।।
आत्मप्रत्ययमामेयो लक्षितो यो नञाऽञ्जसा ।।
अविद्यादेस्तदात्मत्वादिति ब्रह्मेति बोध्यते ।। २३४ ।।
प्रत्यङ्मोहतदुत्थस्य प्रत्यग्याथात्म्यबोधतः ।।
बाधितत्वादतोऽवोचदिति ब्रह्मेति मोहनुत् ।। २३५ ।।
आदेशं प्रत्यतिमहानथात इति संभ्रमः ।।
तेनासदृश आदेशो नन्वयुक्तोऽयमीर्यते ।। २३६ ।।
युक्त एवायमादेशो न यतो विद्यते परः ।।
आदेशोऽतोऽयमेवात्र ब्रह्मण्यादेश इष्यते ।। २३७ ।।
आदिदिक्षितमेतस्य तत्त्वं यद्ब्रह्मणः परम् ।।
यावन्तस्तत्र निर्देश्यास्तेऽर्थाः सर्वे निवर्तिताः ।। २३८ ।।
निवृत्तिश्च यथोक्तैव तेषामैकात्म्यलक्षणा ।।
भिन्नदेशस्थितिस्त्वत्र वास्तवी नोपपद्यते ।। २३९ ।।
अव्यावृत्ताननुगतो ब्रह्मशब्दार्थ इष्यते ।।
मुख्योऽन्यस्मिन्सति यतो ब्रह्मार्थो नावसीयते ।। २४० ।।
शब्दप्रवृत्तिहेतूनामैकात्म्येन समाप्तितः ।।
तथा तदभिधेयानामादेशोऽयं मतः परः ।। २४१ ।।
अभिधाभिधेयसंबन्धमङ्गीकृत्य यतोऽक्षरे ।।
न कश्चिदपि शब्दोऽत्र साक्षाद्ब्रह्मणि वर्तते ।। २४२ ।।
आदेशो नेति नेत्येव तेनेह घटतेऽञ्जसा ।।
तदबॊधप्रसूतानामाकाङ्क्षाणां निषेधतः ।। २४३ ।।
मूर्तामूर्तं हि सत्याह्वं प्राणाः सत्यास्तदात्मतः ।।
क्षेत्रज्ञस्तदुपाधित्वात्सत्य इत्यभिधीयते ।। २४४ ।।
अनिर्देश्यस्य निर्देश्या ये भेदाः कार्यलक्षणाः ।।
तेषु लब्धास्पदं नाम परस्मिन्नुपचर्यते ।। २४५ ।।
मूर्तामूर्तात्मकं सत्यं प्राणादेः कार्यरूपिणः ।।
तस्याप्येतत्परं सत्यं यन्नेतीत्यवधारितम् ।। २४६ ।।
उक्तवस्त्वतिरेकेण नामीषां सत्यता यतः ।।
न चाप्यसत्यता तस्मात्तेषां सत्यं परं पदम् ।। २४७ ।।
आत्मवन्तो यथा रज्ज्वा रज्जुसर्पादयस्तथा ।।
आत्मवन्तो निरात्मानः प्राणाद्याः प्रत्यगात्मना ।। २४८ ।।
यत एव मतोऽन्वीक्ष्य मूर्तामूर्तादिवर्त्मना ।।
सत्यशब्दाभिधेयार्थं तया द्वारा परं पदम् ।। २४९ ।।
व्यपदिश्यमानमैकात्म्यं सत्यस्याऽऽत्मानमद्वयम् ।।
द्रष्टव्यमात्मनैवैनं सत्यं पश्येद्यथोदितम् ।। २५० ।।
अतोऽव्याकृतयाथात्म्यं व्याकृतेनोपदिश्यते ।।
सत्यस्य सत्यमिति तन्नान्यथा व्यपदेशभाक् ।। २५१ ।।
व्यपदेशाय नामैतन्न स्वं नामास्य विद्यते ।।
ननु ब्रह्माक्षरमिति व्यपदेशोऽत्र नामभिः ।। २५२ ।।
कार्यकारणगे तत्त्वे नाम लब्धास्पदं यतः ।।
रूपाभिधेयसंबन्धमरूपाशब्दमक्षरम् ।। २५३ ।।
लक्षयेन्नाञ्जसा वक्ति परं ब्रह्म कथंचन ।।
शब्दप्रवृत्तिहेतूनां साक्षाद्ब्रह्मण्यसंभवात् ।। २५४ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयाध्यायस्य तृतीयं ब्राह्मणम्