बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
आत्मेत्येवोपासीत ; तदेव एतस्मिन् सर्वस्मिन् पदनीयम् आत्मतत्त्वम् , यस्मात् प्रेयः पुत्रादेः — इत्युपन्यस्तस्य वाक्यस्य व्याख्यानविषये सम्बन्धप्रयोजने अभिहिते — ‘तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति ; एवं प्रत्यगात्मा ब्रह्मविद्याया विषय इत्येतत् उपन्यस्तम् । अविद्यायाश्च विषयः — ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) इत्यारभ्य चातुर्वर्ण्यप्रविभागादिनिमित्तपाङ्क्तकर्मसाध्यसाधनलक्षणः बीजाङ्कुरवत् व्याकृताव्याकृतस्वभावः नामरूपकर्मात्मकः संसारः ‘त्रयं वा इदं नाम रूपं कर्म’ (बृ. उ. १ । ६ । १) इत्युपसंहृतः शास्त्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तः अधोभावश्च स्थावरान्तोऽशास्त्रीयः, पूर्वमेव प्रदर्शितः — ‘द्वया ह’ (बृ. उ. १ । ३ । १) इत्यादिना । एतस्मादविद्याविषयाद्विरक्तस्य प्रत्यगात्मविषयब्रह्मविद्यायाम् अधिकारः कथं नाम स्यादिति — तृतीयेऽध्याये उपसंहृतः समस्तोऽविद्याविषयः । चतुर्थे तु ब्रह्मविद्याविषयं प्रत्यगात्मानम् ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । १ । १) इति ‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १) इति च प्रस्तुत्य, तत् ब्रह्म एकम् अद्वयं सर्वविशेषशून्यं क्रियाकारकफलस्वभावसत्यशब्दवाच्याशेषभूतधर्मप्रतिषेधद्वारेण ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति ज्ञापितम् । अस्या ब्रह्मविद्याया अङ्गत्वेन सन्न्यासो विधित्सितः, जायापुत्रवित्तादिलक्षणं पाङ्क्तं कर्म अविद्याविषयं यस्मात् न आत्मप्राप्तिसाधनम् ; अन्यसाधनं हि अन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति ; न हि बुभुक्षापिपासानिवृत्त्यर्थं धावनं गमनं वा साधनम् ; मनुष्यलोकपितृलोकदेवलोकसाधनत्वेन हि पुत्रादिसाधनानि श्रुतानि, न आत्मप्राप्तिसाधनत्वेन, विशेषितत्वाच्च ; न च ब्रह्मविदो विहितानि, काम्यत्वश्रवणात् — ‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) इति, ब्रह्मविदश्च आप्तकामत्वात् आप्तकामस्य कामानुपपत्तेः, ‘येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति च श्रुतेः । केचित्तु ब्रह्मविदोऽप्येषणासम्बन्धं वर्णयन्ति ; तैर्बृहदारण्यकं न श्रुतम् ; पुत्राद्येषणानामविद्वद्विषयत्वम् , विद्याविषये च — ‘येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इत्यतः ‘किं प्रजया करिष्यामः’ इति — एष विभागः तैर्न श्रुतः श्रुत्या कृतः ; सर्वक्रियाकारकफलोपमर्दस्वरूपायां च विद्यायां सत्याम् , सह कार्येण अविद्याया अनुपपत्तिलक्षणश्च विरोधः तैर्न विज्ञातः ; व्यासवाक्यं च तैर्न श्रुतम् । कर्मविद्यास्वरूपयोः विद्याविद्यात्मकयोः प्रतिकूलवर्तनं विरोधः । ‘यदिदं वेदवचनं कुरु कर्म त्यजेति च । कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा’ (मो. ध. २४१ । १ । २) ॥ एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे । एतावन्योन्यवैरुप्ये वर्तेते प्रतिकूलतः’ इत्येवं पृष्टस्य प्रतिवचनेन — ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१ । ७) इत्येवमादि — विरोधः प्रदर्शितः । तस्मात् न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थसाधनम् , सर्वविरोधात् , साधननिरपेक्षैव पुरुषार्थसाधनम् — इति पारिव्राज्यं सर्वसाधनसन्न्यासलक्षणम् अङ्गत्वेन विधित्स्यते ; एतावदेवामृतत्वसाधनमित्यवधारणात् , षष्ठसमाप्तौ, लिङ्गाच्च — कर्मी सन्याज्ञवल्क्यः प्रवव्राजेति । मैत्रेय्यै च कर्मसाधनरहितायै साधनत्वेनामृतत्वस्य ब्रह्मविद्योपदेशात् , वित्तनिन्दावचनाच्च ; यदि हि अमृतत्वसाधनं कर्म स्यात् , वित्तसाध्यं पाङ्क्तं कर्मेति — तन्निन्दावचनमनिष्टं स्यात् ; यदि तु परितित्याजयिषितं कर्म, ततो युक्ता तत्साधननिन्दा । कर्माधिकारनिमित्तवर्णाश्रमादिप्रत्ययोपमर्दाच्च — ‘ब्रह्म तं परादात्’ (बृ. उ. २ । ४ । ६) ‘क्षत्रं तं परादात्’ (बृ. उ. २ । ४ । ६) इत्यादेः ; न हि ब्रह्मक्षत्राद्यात्मप्रत्ययोपमर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं कर्तव्यमिति विषयाभावात् आत्मानं लभते विधिः ; यस्यैव पुरुषस्य उपमर्दितः प्रत्ययः ब्रह्मक्षत्राद्यात्मविषयः, तस्य तत्प्रत्ययसन्न्यासात् तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थप्राप्तश्च सन्न्यासः । तस्मात् आत्मज्ञानाङ्गत्वेन सन्न्यासविधित्सयैव आख्यायिकेयमारभ्यते ॥
मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ १ ॥
मैत्रेयीति होवाच याज्ञवल्क्यः — मैत्रेयीं स्वभार्यामामन्त्रितवान् याज्ञवल्क्यो नाम ऋषिः ; उद्यास्यन् ऊर्ध्वं यास्यन् पारिव्राज्याख्यमाश्रमान्तरम् वै ; ‘अरे’ इति सम्बोधनम् ; अहम् , अस्मात् गार्हस्थ्यात् , स्थानात् आश्रमात् , ऊर्ध्वं गन्तुमिच्छन् अस्मि भवामि ; अतः हन्त अनुमतिं प्रार्थयामि ते तव ; किञ्चान्यत् — ते तव अनया द्वितीयया भार्यया कात्यायन्या अन्तं विच्छेदं करवाणि ; पतिद्वारेण युवयोर्मया सम्बध्यमानयोर्यः सम्बन्ध आसीत् , तस्य सम्बन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा ; वित्तेन संविभज्य युवां गमिष्यामि ॥
सा होवाच मैत्रेयी । यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २ ॥
सा एवमुक्ता ह उवाच — यत् यदि, ‘नु’ इति वितर्के, मे मम इयं पृथिवी, भगोः भगवन् , सर्वा सागरपरिक्षिप्ता वित्तेन धनेन पूर्णा स्यात् ; कथम् ? न कथञ्चनेत्याक्षेपार्थः, प्रश्नार्थो वा, तेन पृथिवीपूर्णवित्तसाध्येन कर्मणा अग्निहोत्रादिना — अमृता किं स्यामिति व्यवहितेन सम्बन्धः । प्रत्युवाच याज्ञवल्क्यः — कथमिति यद्याक्षेपार्थम् , अनुमोदनम् — नेति होवाच याज्ञवल्क्य इति ; प्रश्नश्चेत् प्रतिवचनार्थम् ; नैव स्याः अमृता, किं तर्हि यथैव लोके उपकरणवतां साधनवतां जीवितं सुखोपायभोगसम्पन्नम् , तथैव तद्वदेव तव जीवितं स्यात् ; अमृतत्वस्य तु न आशा मनसापि अस्ति वित्तेन वित्तसाध्येन कर्मणेति ॥
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ३ ॥
सा होवाच मैत्रेयी । एवमुक्ता प्रत्युवाच मैत्रेयी — यद्येवं येनाहं नामृता स्याम् , किमहं तेन वित्तेन कुर्याम् ? यदेव भगवान् केवलम् अमृतत्वसाधनं वेद, तदेव अमृतत्वसाधनं मे मह्यं ब्रूहि ॥
स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४ ॥
स होवाच याज्ञवल्क्यः । एवं वित्तसाध्येऽमृतत्वसाधने प्रत्याख्याते, याज्ञवल्क्यः स्वाभिप्रायसम्पत्तौ तुष्ट आह — स होवाच — प्रिया इष्टा, बतेत्यनुकम्प्याह, अरे मैत्रेयि, न अस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियमेव चित्तानुकूलं भाषसे । अतः एहि आस्स्व उपविश व्याख्यास्यामि — यत् ते तव इष्टम् अमृतत्वसाधनमात्मज्ञानम् कथयिष्यामि । व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतः, निदिध्यासस्व वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छेति ॥
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५ ॥
स होवाच — अमृतत्वसाधनं वैराग्यमुपदिदिक्षुः जायापतिपुत्रादिभ्यो विरागमुत्पादयति तत्सन्न्यासाय । न वै — वै - शब्दः प्रसिद्धस्मरणार्थः ; प्रसिद्धमेव एतत् लोके ; पत्युः भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्हि आत्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति । तथा न वा अरे जायाया इत्यादि समानमन्यत् , न वा अरे पुत्राणाम् , न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे लोकानाम् , न वा अरे देवानाम् , न वा अरे भूतानाम् , न वा अरे सर्वस्य । पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम् , तत्र तत्र इष्टतरत्वाद्वैराग्यस्य ; सर्वग्रहणम् उक्तानुक्तार्थम् । तस्मात् लोकप्रसिद्धमेतत् — आत्मैव प्रियः, नान्यत् । ‘तदेतत्प्रेयः पुत्रात्’ (बृ. उ. १ । ४ । ८) इत्युपन्यस्तम् , तस्यैतत् वृत्तिस्थानीयं प्रपञ्चितम् । तस्मात् आत्मप्रीतिसाधनत्वात् गौणी अन्यत्र प्रीतिः, आत्मन्येव मुख्या । तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः, दर्शनविषयमापादयितव्यः ; श्रोतव्यः पूर्वम् आचार्यत आगमतश्च ; पश्चान्मन्तव्यः तर्कतः ; ततो निदिध्यासितव्यः निश्चयेन ध्यातव्यः ; एवं ह्यसौ दृष्टो भवति श्रवणमनननिदिध्यासनसाधनैर्निर्वर्तितैः ; यदा एकत्वमेतान्युपगतानि, तदा सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसीदति, न अन्यथा श्रवणमात्रेण । यत् ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणम् आत्मन्यविद्याध्यारोपितप्रत्ययविषयं क्रियाकारकफलात्मकम् अविद्याप्रत्ययविषयम् — रज्ज्वामिव सर्पप्रत्ययः, तदुपमर्दनार्थमाह — आत्मनि खलु अरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं विज्ञातं भवति ॥
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्त्रं तं परादाद्योऽन्यत्रात्मनः क्षत्त्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्त्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ६ ॥
ननु कथम् अन्यस्मिन्विदिते अन्यद्विदितं भवति ? नैष दोषः ; न हि आत्मव्यतिरेकेण अन्यत्किञ्चिदस्ति ; यद्यस्ति, न तद्विदितं स्यात् ; न त्वन्यदस्ति ; आत्मैव तु सर्वम् ; तस्मात् सर्वम् आत्मनि विदिते विदितं स्यात् । कथं पुनरात्मैव सर्वमित्येतत् श्रावयति — ब्रह्म ब्राह्मणजातिः तं पुरुषं परादात् परादध्यात् पराकुर्यात् ; कम् ? यः अन्यत्रात्मनः आत्मस्वरूपव्यतिरेकेण — आत्मैव न भवतीयं ब्राह्मणजातिरिति — तां यो वेद, तं परादध्यात् सा ब्राह्मणजातिः अनात्मस्वरूपेण मां पश्यतीति ; परमात्मा हि सर्वेषामात्मा । तथा क्षत्रं क्षत्रियजातिः, तथा लोकाः, देवाः, भूतानि, सर्वम् । इदं ब्रह्मेति — यान्यनुक्रान्तानि तानि सर्वाणि, आत्मैव, यदयमात्मा — योऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृतः — यस्मात् आत्मनो जायते आत्मन्येव लीयत आत्ममयं च स्थितिकाले, आत्मव्यतिरेकेणाग्रहणात् , आत्मैव सर्वम् ॥
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७ ॥
कथं पुनः इदानीम् इदं सर्वमात्मैवेति ग्रहीतुं शक्यते ? चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते ; तत्र दृष्टान्त उच्यते — यत्स्वरूपव्यतिरेकेणाग्रहणं यस्य, तस्य तदात्मत्वमेव लोके दृष्टम् ; स यथा — स इति दृष्टान्तः ; लोके यथा दुन्दुभेः भेर्यादेः, हन्यमानस्य ताड्यमानस्य दण्डादिना, न, बाह्यान् शब्दान् बहिर्भूतान् शब्दविशेषान् दुन्दुभिशब्दसामान्यान्निष्कृष्टान् दुन्दुभिशब्दविशेषान् , न शक्नुयात् ग्रहणाय ग्रहीतुम् ; दुन्दुभेस्तु ग्रहणेन, दुन्दुभिशब्दसामान्यविशेषत्वेन, दुन्दुभिशब्दा एते इति, शब्दविशेषा गृहीता भवन्ति, दुन्दुभिशब्दसामान्यव्यतिरेकेणाभावात् तेषाम् ; दुन्दुभ्याघातस्य वा, दुन्दुभेराहननम् आघातः — दुन्दुभ्याघातविशिष्टस्य शब्दसामान्यस्य ग्रहणेन तद्गता विशेषा गृहीता भवन्ति, न तु त एव निर्भिद्य ग्रहीतुं शक्यन्ते, विशेषरूपेणाभावात् तेषाम् — तथा प्रज्ञानव्यतिरेकेण स्वप्नजागरितयोः न कश्चिद्वस्तुविशेषो गृह्यते ; तस्मात् प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम् ॥
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥
तथा स यथा शङ्खस्य ध्मायमानस्य शब्देन संयोज्यमानस्य आपूर्यमाणस्य न बाह्यान् शब्दान् शक्नुयात् — इत्येवमादि पूर्ववत् ॥
स यथा वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥
तथा वीणायै वाद्यमानायै — वीणाया वाद्यमानायाः । अनेकदृष्टान्तोपादानम् इह सामान्यबहुत्वख्यापनार्थम् — अनेके हि विलक्षणाः चेतनाचेतनरूपाः सामान्यविशेषाः — तेषां पारम्पर्यगत्या यथा एकस्मिन् महासामान्ये अन्तर्भावः प्रज्ञानघने, कथं नाम प्रदर्शयितव्य इति ; दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषाणां यथा शब्दत्वेऽन्तर्भावः, एवं स्थितिकाले तावत् सामान्यविशेषाव्यतिरेकात् ब्रह्मैकत्वं शक्यमवगन्तुम् ॥
स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि ॥ १० ॥
एवम् उत्पत्तिकाले प्रागुत्पत्तेः ब्रह्मैवेति शक्यमवगन्तुम् ; यथा अग्नेः विस्फुलिङ्गधूमाङ्गारार्चिषां प्राग्विभागात् अग्निरेवेति भवत्यग्न्येकत्वम् , एवं जगत् नामरूपविकृतं प्रागुत्पत्तेः प्रज्ञानघन एवेति युक्तं ग्रहीतुम् — इत्येतदुच्यते — स यथा — आर्द्रैधाग्नेः आर्द्रैरेधोभिरिद्धोऽग्निः आर्द्रैधाग्निः, तस्मात् , अभ्याहितात् पृथग्धूमाः, पृथक् नानाप्रकारम् , धूमग्रहणं विस्फुलिङ्गादिप्रदर्शनार्थम् , धूमविस्फुलिङ्गादयः, विनिश्चरन्ति विनिर्गच्छन्ति ; एवम् — यथायं दृष्टान्तः ; अरे मैत्रेयि अस्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसितमेतत् ; निश्वसितमिव निश्वसितम् ; यथा अप्रयत्नेनैव पुरुषनिश्वासो भवति, एवं वै अरे । किं तन्निश्वसितमिव ततो जातमित्युच्यते — यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः - चतुर्विधं मन्त्रजातम् , इतिहास इति, उर्वशीपुरूरवसोः संवादादिः — ‘उर्वशी हाप्सराः’ (शत. ब्रा. ११ । ५ । १ । १) इत्यादि ब्राह्मणमेव, पुराणम् — ‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इत्यादि, विद्या देवजनविद्या — वेदः सोऽयम् — इत्याद्या, उपनिषदः ‘प्रियमित्येतदुपासीत’ (बृ. उ. ४ । १ । ३) इत्याद्याः, श्लोकाः ब्राह्मणप्रभवा मन्त्राः ‘तदेते श्लोकाः’ (बृ. उ. ४ । ४ । ८) इत्यादयः, सूत्राणि वस्तुसङ्ग्रहवाक्यानि वेदे यथा — ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्यानान्यर्थवादाः, अथवा वस्तुसङ्ग्रहवाक्यविवरणान्यनुव्याख्यानानि — यथा चतुर्थाध्याये ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यस्य यथा वा ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं’ (बृ. उ. १ । ४ । १०) इत्यस्य अयमेवाध्यायशेषः, मन्त्रविवरणानि व्याख्यानानि — एवमष्टविधं ब्राह्मणम् । एवं मन्त्रब्राह्मणयोरेव ग्रहणम् ; नियतरचनावतो विद्यमानस्यैव वेदस्याभिव्यक्तिः पुरुषनिश्वासवत् , न च पुरुषबुद्धिप्रयत्नपूर्वकः ; अतः प्रमाणं निरपेक्ष एव स्वार्थे ; तस्मात् यत् तेनोक्तं तत्तथैव प्रतिपत्तव्यम् , आत्मनः श्रेय इच्छद्भिः, ज्ञानं वा कर्म वेति । नामप्रकाशवशाद्धि रूपस्य विक्रियावस्था ; नामरूपयोरेव हि परमात्मोपाधिभूतयोर्व्याक्रियमाणयोः सलिलफेनवत् तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वावस्थयोः संसारत्वम् — इत्यतः नाम्न एव निश्वसितत्वमुक्तम् , तद्वचनेनैव इतरस्य निश्वसितत्वसिद्धेः । अथवा सर्वस्य द्वैतजातस्य अविद्याविषयत्वमुक्तम् — ‘ब्रह्म तं परादात् — इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति ; तेन वेदस्याप्रामाण्यमाशङ्क्येत ; तदाशङ्कानिवृत्त्यर्थमिदमुक्तम् — पुरुषनिश्वासवत् अप्रयत्नोत्थितत्वात् प्रमाणं वेदः, न यथा अन्यो ग्रन्थ इति ॥
स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ॥ ११ ॥
किञ्चान्यत् ; न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञानव्यतिरेकेणाभावात् जगतो ब्रह्मत्वम् ; प्रलयकाले च ; जलबुद्बुदफेनादीनामिव सलिलव्यतिरेकेणाभावः, एवं प्रज्ञानव्यतिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानानामभावः ; तस्मात् एकमेव ब्रह्म प्रज्ञानघनम् एकरसं प्रतिपत्तव्यमित्यत आह । प्रलयप्रदर्शनाय दृष्टान्तः ; स इति दृष्टान्तः ; यथा येन प्रकारेण, सर्वासां नदीवापीतडागादिगतानामपाम् , समुद्रः अब्धिः एकायनम् , एकगमनम् एकप्रलयः अविभागप्राप्तिरित्यर्थः ; यथा अयं दृष्टान्तः, एवं सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्मभूतानां त्वक् एकायनम् , त्वगिति त्वग्विषयं स्पर्शसामान्यमात्रम् , तस्मिन्प्रविष्टाः स्पर्शविशेषाः — आप इव समुद्रम् — तद्व्यतिरेकेणाभावभूता भवन्ति ; तस्यैव हि ते संस्थानमात्रा आसन् । तथा तदपि स्पर्शसामान्यमात्रं त्वक्शब्दवाच्यं मनःसङ्कल्पे मनोविषयसामान्यमात्रे, त्वग्विषय इव स्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति ; एवं मनोविषयोऽपि बुद्धिविषयसामान्यमात्रे प्रविष्टः तद्व्यतिरेकेणाभावभूतो भवति ; विज्ञानमात्रमेव भूत्वा प्रज्ञानघने परे ब्रह्मणि आप इव समुद्रे प्रलीयते । एवं परम्पराक्रमेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने, उपाध्यभावात् सैन्धवघनवत् प्रज्ञानघनम् एकरसम् अनन्तम् अपारं निरन्तरं ब्रह्म व्यवतिष्ठते । तस्मात् आत्मैव एकमद्वयमिति प्रतिपत्तव्यम् । तथा सर्वेषां गन्धानां पृथिवीविशेषाणां नासिके घ्राणविषयसामान्यम् । तथा सर्वेषां रसानामब्विशेषाणां जिह्वेन्द्रियविषयसामान्यम् । तथा सर्वेषां रूपाणां तेजोविशेषाणां चक्षुः चक्षुर्विषयसामान्यम् । तथा शब्दानां श्रोत्रविषयसामान्यं पूर्ववत् । तथा श्रोत्रादिविषयसामान्यानां मनोविषयसामान्ये सङ्कल्पे ; मनोविषयसामान्यस्यापि बुद्धिविषयसामान्ये विज्ञानमात्रे ; विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने प्रलीयते । तथा कर्मेन्द्रियाणां विषया वदनादानगमनविसर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्टा न विभागयोग्या भवन्ति, समुद्र इव अब्विशेषाः ; तानि च सामान्यानि प्राणमात्रम् ; प्राणश्च प्रज्ञानमात्रमेव — ‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः’ (कौ. उ. ३ । ३) इति कौषीतकिनोऽधीयते । ननु सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य ; तत्र कोऽभिप्राय इति — बाढम् ; किन्तु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम् ; विषयस्यैव स्वात्मग्राहकत्वेन संस्थानान्तरं करणं नाम — यथा रूपविशेषस्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने, एवं सर्वविषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्तराणि करणानि, प्रदीपवत् ; तस्मात् न करणानां पृथक्प्रलये यत्नः कार्यः ; विषयसामान्यात्मकत्वात् विषयप्रलयेनैव प्रलयः सिद्धो भवति करणानामिति ॥
तत्र ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति प्रतिज्ञातम् ; तत्र हेतुरभिहितः — आत्मसामान्यत्वम् , आत्मजत्वम् , आत्मप्रलयत्वं च ; तस्मात् उत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावात् ‘प्रज्ञानं ब्रह्म’ ‘आत्मैवेदं सर्वम्’ इति प्रतिज्ञातं यत् , तत् तर्कतः साधितम् । स्वाभाविकोऽयं प्रलय इति पौराणिका वदन्ति । यस्तु बुद्धिपूर्वकः प्रलयः ब्रह्मविदां ब्रह्मविद्यानिमित्तः, अयम् आत्यन्तिक इत्याचक्षते — अविद्यानिरोधद्वारेण यो भवति ; तदर्थोऽयं विशेषारम्भः —
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् । यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥
तत्र दृष्टान्त उपादीयते — स यथेति । सैन्धवखिल्यः — सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देन उदकमभिधीयते, स्यन्दनात् सिन्धुः उदकम् , तद्विकारः तत्र भवो वा सैन्धवः, सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल एव खिल्यः, स्वार्थे यत्प्रत्ययः — उदके सिन्धौ स्वयोनौ प्रास्तः प्रक्षिप्तः, उदकमेव विलीयमानम् अनुविलीयते ; यत्तत् भौमतैजससम्पर्कात् काठिन्यप्राप्तिः खिल्यस्य स्वयोनिसम्पर्कादपगच्छति — तत् उदकस्य विलयनम् , तत् अनु सैन्धवखिल्यो विलीयत इत्युच्यते ; तदेतदाह — उदकमेवानुविलीयेतेति । न ह नैव — अस्य खिल्यस्य उद्ग्रहणाय उद्धृत्य पूर्ववद्ग्रहणाय ग्रहीतुम् , नैव समर्थः कश्चित्स्यात् सुनिपुणोऽपि ; इव - शब्दोऽनर्थकः । ग्रहणाय नैव समर्थः ; कस्मात् ? यतो यतः यस्मात् यस्मात् देशात् तदुदकमाददीत, गृहीत्वा आस्वादयेत् लवणास्वादमेव तत् उदकम् , न तु खिल्यभावः । यथा अयं दृष्टान्तः, एवमेव वै अरे मैत्रेयि इदं परमात्माख्यं महद्भूतम् — यस्मात् महतो भूतात् अविद्यया परिच्छिन्ना सती कार्यकरणोपाधिसम्बन्धात्खिल्यभावमापन्नासि, मर्त्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूपकार्यात्मिका — अमुष्यान्वयाहमिति, स खिल्यभावस्तव कार्यकरणभूतोपाधिसम्पर्कभ्रान्तिजनितः महति भूते स्वयोनौ महासमुद्रस्थानीये परमात्मनि अजरेऽमरेऽभये शुद्धे सैन्धवघनवदेकरसे प्रज्ञानघनेऽनन्तेऽपारे निरन्तरे अविद्याजनितभ्रान्तिभेदवर्जिते प्रवेशितः ; तस्मिन्प्रविष्टे स्वयोनिग्रस्ते खिल्यभावे अविद्याकृते भेदभावे प्रणाशिते — इदमेकमद्वैतं महद्भूतम् — महच्च तद्भूतं च महद्भूतं सर्वमहत्तरत्वात् आकाशादिकारणत्वाच्च, भूतम् — त्रिष्वपि कालेषु स्वरूपाव्यभिचारात् सर्वदैव परिनिष्पन्नमिति त्रैकालिको निष्ठाप्रत्ययः ; अथवा भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः ; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु ; अतो विशिनष्टि — इदं तु महच्च तद्भूतं चेति । अनन्तम् नास्यान्तो विद्यत इत्यनन्तम् ; कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टि अपारमिति । विज्ञप्तिः विज्ञानम् , विज्ञानं च तद्घनश्चेति विज्ञानघनः, घनशब्दो जात्यन्तरप्रतिषेधार्थः — यथा सुवर्णघनः अयोघन इति ; एव - शब्दोऽवधारणार्थः — नान्यत् जात्यन्तरम् अन्तराले विद्यत इत्यर्थः । यदि इदमेकमद्वैतं परमार्थतः स्वच्छं संसारदुःखासम्पृक्तम् , किन्निमित्तोऽयं खिल्यभाव आत्मनः — जातो मृतः सुखी दुःखी अहं ममेत्येवमादिलक्षणः अनेकसंसारधर्मोपद्रुत इति उच्यते — एतेभ्यो भूतेभ्यः — यान्येतानि कार्यकरणविषयाकारपरिणतानि नामरूपात्मकानि सलिलफेनबुद्बुदोपमानि स्वच्छस्य परमात्मनः सलिलोपमस्य, येषां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमार्थविवेकज्ञानेन प्रविलापनमुक्तम् नदीसमुद्रवत् — एतेभ्यो हेतुभूतेभ्यः भूतेभ्यः सत्यशब्दवाच्येभ्यः, समुत्थाय सैन्धवखिल्यवत् — यथा अद्भ्यः सूर्यचन्द्रादिप्रतिबिम्बः, यथा वा स्वच्छस्य स्फटिकस्य अलक्तकाद्युपाधिभ्यो रक्तादिभावः, एवं कार्यकरणभूतभूतोपाधिभ्यो विशेषात्मखिल्यभावेन समुत्थाय सम्यगुत्थाय — येभ्यो भूतेभ्य उत्थितः तानि यदा कार्यकरणविषयाकारपरिणतानि भूतानि आत्मनो विशेषात्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्यया नदीसमुद्रवत् प्रविलापितानि विनश्यन्ति, सलिलफेनबुद्बुदादिवत् तेषु विनश्यत्सु अन्वेव एष विशेषात्मखिल्यभावो विनश्यति ; यथा उदकालक्तकादिहेत्वपनये सूर्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादिस्वरूपमेव परमार्थतो व्यवतिष्ठते, तद्वत् प्रज्ञानघनमनन्तमपारं स्वच्छं व्यवतिष्ठते । न तत्र प्रेत्य विशेषसंज्ञास्ति कार्यकरणसङ्घातेभ्यो विमुक्तस्य — इत्येवम् अरे मैत्रेयि ब्रवीमि — नास्ति विशेषसंज्ञेति — अहमसौ अमुष्य पुत्रः ममेदं क्षेत्रं धनम् सुखी दुःखीत्येवमादिलक्षणा, अविद्याकृतत्वात्तस्याः ; अविद्यायाश्च ब्रह्मविद्यया निरन्वयतो नाशितत्वात् कुतो विशेषसंज्ञासम्भवो ब्रह्मविदः चैतन्यस्वभावावस्थितस्य ; शरीरावस्थितस्यापि विशेषसंज्ञा नोपपद्यते किमुत कार्यकरणविमुक्तस्य सर्वतः । इति ह उवाच उक्तवान्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः ॥
सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३ ॥
एवं प्रतिबोधिता सा ह किल उवाच उक्तवती मैत्रेयी — अत्रैव एतस्मिन्नेव एकस्मिन्वस्तुनि ब्रह्मणि विरुद्धधर्मवत्त्वमाचक्षाणेन भगवता मम मोहः कृतः ; तदाह — अत्रैव मा भगवान् पूजावान् अमूमुहत् मोहं कृतवान् । कथं तेन विरुद्धधर्मवत्त्वमुक्तमित्युच्यते — पूर्वं विज्ञानघन एवेति प्रतिज्ञाय, पुनः न प्रेत्य संज्ञास्तीति ; कथं विज्ञानघन एव ? कथं वा न प्रेत्य संज्ञास्तीति ? न हि उष्णः शीतश्च अग्निरेवैको भवति ; अतो मूढास्मि अत्र । स होवाच याज्ञवल्क्यः — न वा अरे मैत्रेय्यहं मोहं ब्रवीमि — मोहनं वाक्यं न ब्रवीमीत्यर्थः । ननु कथं विरुद्धधर्मत्वमवोचः — विज्ञानघनं संज्ञाभावं च ? न मया इदम् एकस्मिन्धर्मिण्यभिहितम् ; त्वयैव इदं विरुद्धधर्मत्वेन एकं वस्तु परिगृहीतं भ्रान्त्या ; न तु मया उक्तम् ; मया तु इदमुक्तम् — यस्तु अविद्याप्रत्युपस्थापितः कार्यकरणसम्बन्धी आत्मनः खिल्यभावः, तस्मिन्विद्यया नाशिते, तन्निमित्ता या विशेषसंज्ञा शरीरादिसम्बन्धिनी अन्यत्वदर्शनलक्षणा, सा कार्यकरणसङ्घातोपाधौ प्रविलापिते नश्यति, हेत्वभावात् , उदकाद्याधारनाशादिव चन्द्रादिप्रतिबिम्बः तन्निमित्तश्च प्रकाशादिः ; न पुनः परमार्थचन्द्रादित्यस्वरूपवत् असंसारिब्रह्मस्वरूपस्य विज्ञानघनस्य नाशः ; तत् विज्ञानघन इत्युक्तम् ; स आत्मा सर्वस्य जगतः ; परमार्थतो भूतनाशात् न विनाशी ; विनाशी तु अविद्याकृतः खिल्यभावः, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४), इति श्रुत्यन्तरात् । अयं तु पारमार्थिकः — अविनाशी वा अरेऽयमात्मा ; अतः अलं पर्याप्तम् वै अरे इदं महद्भूतमनन्तमपारं यथाव्याख्यातम् विज्ञानाय विज्ञातुम् ; ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ५ । ३०) इति हि वक्ष्यति ॥
यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते मदितर इतरं विजानाति यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानीयादिति ॥ १४ ॥
कथं तर्हि प्रेत्य संज्ञा नास्तीत्युच्यते शृणु ; यत्र यस्मिन् अविद्याकल्पिते कार्यकरणसङ्घातोपाधिजनिते विशेषात्मनि खिल्यभावे, हि यस्मात् , द्वैतमिव — परमार्थतोऽद्वैते ब्रह्मणि द्वैतमिव भिन्नमिव वस्त्वन्तरमात्मनः — उपलक्ष्यते — ननु द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति ; न, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इति श्रुत्यन्तरात् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इति च — तत् तत्र यस्माद्द्वैतमिव तस्मादेव इतरोऽसौ परमात्मनः खिल्यभूत आत्मा अपरमार्थः, चन्द्रादेरिव उदकचन्द्रादिप्रतिबिम्बः, इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति ; इतर इतरमिति कारकप्रदर्शनार्थम् , जिघ्रतीति क्रियाफलयोरभिधानम् — यथा छिनत्तीति — यथा उद्यम्य उद्यम्य निपातनम् छेद्यस्य च द्वैधीभावः उभयं छिनत्तीत्येकेनैव शब्देन अभिधीते — क्रियावसानत्वात् क्रियाव्यतिरेकेण च तत्फलस्यानुपलम्भात् ; इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति — तथा सर्वं पूर्ववत् — विजानाति ; इयम् अविद्यावदवस्था । यत्र तु ब्रह्मविद्यया अविद्या नाशमुपगमिता तत्र आत्मव्यतिरेकेण अन्यस्याभावः ; यत्र वै अस्य ब्रह्मविदः सर्वं नामरूपादि आत्मन्येव प्रविलापितम् आत्मैव संवृत्तम् — यत्र एवम् आत्मैवाभूत् , तत् तत्र केन करणेन कं घ्रातव्यं को जिघ्रेत् ? तथा पश्येत् ? विजानीयात् ; सर्वत्र हि कारकसाध्या क्रिया ; अतः कारकाभावेऽनुपपत्तिः क्रियायाः ; क्रियाभावे च फलाभावः । तस्मात् अविद्यायामेव सत्यां क्रियाकारकफलव्यवहारः, न ब्रह्मविदः — आत्मत्वादेव सर्वस्य, न आत्मव्यतिरेकेण कारकं क्रियाफलं वास्ति ; न च अनात्मा सन् सर्वमात्मैव भवति कस्यचित् ; तस्मात् अविद्ययैव अनात्मत्वं परिकल्पितम् ; न तु परमार्थत आत्मव्यतिरेकेणास्ति किञ्चित् ; तस्मात् परमार्थात्मैकत्वप्रत्यये क्रियाकारकफलप्रत्ययानुपपत्तिः । अतः विरोधात् ब्रह्मविदः क्रियाणां तत्साधनानां च अत्यन्तमेव निवृत्तिः । केन कमिति क्षेपार्थं वचनं प्रकारान्तरानुपपत्तिदर्शनार्थम् , केनचिदपि प्रकारेण क्रियाकरणादिकारकानुपपत्तेः — केनचित् कञ्चित् कश्चित् कथञ्चित् न जिघ्रेदेवेत्यर्थः । यत्रापि अविद्यावस्थायाम् अन्यः अन्यं पश्यति, तत्रापि येनेदं सर्वं विजानाति, तं केन विजानीयात् — येन विजानाति, तस्य करणस्य, विज्ञेये विनियुक्तत्वात् ; ज्ञातुश्च ज्ञेय एव हि जिज्ञासा, न आत्मनि ; न च अग्नेरिव आत्मा आत्मनो विषयः ; न च अविषये ज्ञातुः ज्ञानमुपपद्यते ; तस्मात् येन इदं सर्वं विजानाति, तं विज्ञातारं केन करणेन को वा अन्यः विजानीयात् — यदा तु पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलोऽद्वयो वर्तते, तं विज्ञातारं अरे केन विजानीयादिति ॥
इति द्वितीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥
आत्मेत्येवेति सूत्रस्य व्याख्येयं प्रस्तुता स्फुटा ।।
ब्रह्म तेऽहं ब्रवाणीति प्रारभ्याऽऽपूर्णवाक्यतः ।। १ ।।
नित्यकर्माद्यनुष्ठानसंशुद्धधिषणः पुमान् ।।
निःशेषकर्महेतूत्थफलसावद्यधीस्ततः ।। २ ।।
विरक्त आग्रजात्सोऽयं तत्सावद्यसमीक्षणात् ।।
संसारदुःखसंस्कारस्मृतिभिः प्रेर्यमाणधीः ।। ३ ।।
उद्भूततज्जिहासः संस्तद्धाने साधनस्पृहः ।।
त्यक्ताशेषैषणः सोऽथ प्रत्यग्याथात्म्यनिश्चयः ।। ४ ।।
वस्तुवृत्तात्मसंबोधध्वस्तसंसारकारणः ।।
व्याविद्धाशेषसंसारो विमुक्तो ना विमुच्यते ।। ५ ।।
यावत्किंचिदविद्यायाः कार्यं वैराग्यकारणम् ।।
तत्संन्यासो विरक्तत्वात्स्वत एव न शास्त्रतः ।। ६ ।।
ब्रह्मयाथात्म्यविज्ञानसाधनत्वं विनाऽऽगमात् ।।
संन्यासस्य न विज्ञातं तच्छास्त्रेणेह बोध्यते ।। ७ ।।
ब्रह्माविद्यसमुत्थानात्कार्यकारणलक्षणात् ।।
व्युत्थाप्य नेति नेतीति परं ब्रह्म प्रदर्शितम् ।। ८ ।।
तत्रैतच्छङ्क्यते चोद्यं ब्रह्मत्वसिद्धिदोषकृत् ।।
निषिद्धं नेति नेतीति मूर्तामूर्तादि वस्तु यत् ।। ९ ।।
किं तद्ब्रह्मानुगं सर्वं किं वा तस्माद्विविच्यते ।।
यदि ब्रह्मानुगं ब्रह्म स्यादनर्थात्मकं तदा ।। १० ।।
अभावनिष्टं तच्चेत्स्यान्मुख्यं ब्रह्म न सिध्यति ।।
अभावस्य ततोऽन्यत्वादन्वयव्यतिरेकतः ।। ११ ।।
नेतीत्यपि निषेधोक्तिस्तथा सति विरुध्यते ।।
वैदिकश्च प्रयासोऽयं सर्वः स्यात्तुषकण्डनम् ।। १२ ।।
विविच्यते ब्रह्मणश्चेन्मैवं दोषस्तथाऽपि हि ।।
ब्रह्मत्वं ब्रह्मणो न स्याद्वितीये सति वस्तुनि ।। १३ ।।
अव्यावृत्ताननुगतं वस्तु ब्रह्मत्वमश्नुते ।।
एतच्च दुर्लभं तस्य द्वितीये सति लक्षणम् ।। १४ ।।
अथाब्रह्मात्मकं वस्तु जग्ध्वा चेद्ब्रह्म तद्भवेत् ।।
प्रतीचो ब्रह्मणाऽत्तत्वान्न मोक्षो नापि संसृतिः ।। १५ ।।
संसारिणो न चेदत्ति संसार्येव प्रसज्यते ।।
नाऽऽप्नोति ब्रह्मतां साक्षात्सत्सु संसारिवस्तुषु ।। १६ ।।
संसारे चापि जग्धेऽस्मिन्ब्रह्मणा निखिले सति ।।
ऋतेऽपि ब्रह्मविज्ञानात्सर्वे स्युर्मुक्तबन्धनाः ।। १७ ।।
अन्वयादिनिषेधाय सर्वमात्मेति वाक्यतः ।।
मैत्रेयाीत्यादिको ग्रन्थस्तस्मादारभ्यते परः ।। १८ ।।
सर्वाब्रह्मनिषेधेन तदर्थो वेह निश्चितः ।।
तस्य संसिद्धिविषयमैकात्म्यमधुनोत्यते ।। १९ ।।
नेतीति ब्रह्मणोऽन्यत्र मूर्तामूर्तव्यवस्थितौ ।।
प्रसक्ते सांख्यसिद्धान्ते सर्वमात्मेति वोच्यते ।। २० ।।
सत्यपि ब्रह्मवेदित्वे नासंत्यक्तैषणो यतिः ।।
मुक्तिभागिति चेहोक्तः संन्यासेन समुच्चयः ।। २१ ।।
निरस्तातिशयज्ञानो याज्ञवल्क्यॊ यतो गृही ।।
कैवल्याश्रममास्थाय प्राप तद्वैष्णवं पदम् ।। २२ ।।
त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। २३ ।।
मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुर्नरान् ।।
ततस्ते कर्मसूद्युक्ताः प्रावर्तन्ताविपश्चितः ।। २४ ।।
मोहमात्रैकहेतूनि तस्मात्कर्माण्यशेषतः ।।
संन्यस्यैकात्म्यसंबोधाद्भित्त्वा मोहं विशुद्धधीः ।।
ज्ञानमेवाऽऽत्मनाऽऽत्मानमुपासीनोऽमृतो भवेत् ।। २५ ।।
इति प्रमाणमत्रार्थे वचनं भाल्लविश्रुतौ ।।
सर्वः संन्यस्तकर्मैव ज्ञानात्कैवल्यमश्नुते ।। २६ ।।
ब्रह्मचर्याद्गृहाच्चैव वनाच्चापि बिधीयते ।।
निःशेषकर्मसंन्यासो यतोऽतो नर्णबद्धता ।। २७ ।।
श्रुत्या जावालशाखायां तथाचानधिकारिणाम् ।।
संन्यासस्य विधानाच्च कार्योऽतोऽसौ मुमुक्षुभिः ।। २८ ।।
नरलोकादिकामानां सुतोत्पत्त्यादि साधनम् ।।
तेभ्यो व्युत्थितचित्तानां संन्यासस्त्वात्मकामिनाम् ।। २९ ।।
इममर्थं श्रुतिर्वक्ति सर्वकर्मानपेक्षिणी।।।।
प्रजादिना करिष्यामः किं तत्फलवितृष्णतः ।। ३० ।।
उत्पत्त्यादिविरुद्धोऽयं लोको येषामकर्मजः ।।
मोहमात्रान्तरायात्वाज्ज्ञानमात्रमपेक्षते ।। ३१ ।।
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।। ३२ ।।
भावितैः करणैश्चायं बहुसंसारयोनिषु ।।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ।। ३३ ।।
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।।
त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः ।। ३४ ।।
श्रुतयः स्मृतयश्चैवमस्मिन्नर्थे सहस्रशः ।।
प्रत्यक्षा एव विद्यन्ते संन्यासप्रतिपादिकाः ।। ३५ ।।
मुख्यार्थता वा प्रागुक्ता ब्रह्मेत्यस्य सदादृशि ।।
प्रतीच्यथाऽऽत्मशब्दस्य मुख्यार्थो ब्रह्मणीर्यते ।। ३६ ।।
ततस्तदेतदिति च ब्रह्मात्मपदवाच्ययोः ।।
मधुकाण्डार्थसर्वस्वं वाक्येन प्रतिपाद्यते ।। ३७ ।।
प्रत्यग्याथात्म्यविज्ञानजन्मनेऽतः श्रुतिः स्वयम् ।।
विधित्सन्तीह संन्यासं मैत्रेयीति प्रवर्तते ।। ३८ ।।
भार्याद्यनुज्ञापूर्वो हि संन्यासो विहितः श्रुतौ ।।
अतोऽनुज्ञार्थमेवाऽऽह मैत्रेयीमृषिरात्मनः ।। ३९ ।।
उद्यास्यन्वा अरे स्थानादस्माद्गार्हस्थ्यलक्षणात् ।।
चिकीर्षवे मे संन्यासमनुज्ञां दातुमर्हसि ।। ४० ।।
युक्तमाह भवानस्माननुरूपं चिकीर्षति ।।
यदेवं सति कर्तव्यं तत्क्षिप्रमनुशाधि माम् ।। ४१ ।।
अनुज्ञातोऽथ तामाह हन्तेत्यादि परं वचः ।।
कात्यायन्या सपत्न्या ते विभागं करवाण्यहम् ।। ४२ ।।
निःस्वा स्त्री स्ववता पुंसा नियुक्ता कर्मसंपदि ।।
मयि प्रव्रजिते तस्माद्युवयोर्नार्थसंगतिः ।। ४३ ।।
स्ववानेव पुरा न्यासाद्युवयोः स्वेन सांप्रतम् ।।
विभागं करवाणीति भार्या तेनाभ्यचोदयत् ।। ४४ ।।
वृत्तिभिः संविभज्य स्वान्संन्यसेदिति चोद्यते ।।
यतः शास्त्रेण तेनायं विभागः क्रियते मया ।। ४५ ।।
युक्तमेतद्व्यवसितं यद्वित्तं न प्रदित्सति ।।
भवत्संन्यासवन्नूनमस्मद्धितकरं धनम् ।। ४६ ।।
महानुभावसंपर्कः कस्य नोन्नतिकारणम् ।।
अशुच्यपि पयः प्राप्य गङ्गां याति पवित्रताम् ।। ४७ ।।
भगवत्संगतेर्नान्यः पुरुषार्थोऽमृतत्वतः ।।
पृच्छाम्यतोऽमृतत्वस्य साधनं स्यात्कथं धनम् ।। ४८ ।।
सारेण यदि नामेयं पूर्णा स्याद्वसुना मही ।।
तावताऽप्यमृताऽहं स्यां किंवा नेत्युच्यतां यथा ।। ४९ ।।
सत्तामात्रोपकारिणि धनानि धनिनां न हि ।।
क्रियाद्वारोपकारीणि यतोऽतः पृच्छ्यते क्रिया ।। ५० ।।
प्रत्याह पृष्टः स्वां जायां नामृतत्वं धनादिति ।। ५१ ।।
वित्तं चेन्नामृतत्वाय कस्माद्दित्सति तद्भवान् ।।
इति पृष्टोऽब्रवीद्वित्तसाधनस्य प्रयोजनम् ।। ५२ ।।
क्षयिष्णुसाधनाधीनं जीवितं स्याद्यथा नृणाम् ।।
तथैव तव वित्तेन जीवितं नामृतात्मता ।। ५३ ।।
अविद्यामात्रविध्वंसाज्ज्ञानादेवामृतं यतः ।।
अमृतत्वस्य नाऽऽशाऽपि वित्तसाध्येन कर्मणा ।। ५४ ।।
कुतोऽमृतत्वसंप्राप्तिर्ज्ञानमात्रैकहेतुना ।।
न कर्म कारणं मुक्तेर्नाग्निस्तापस्य भेषजम् ।।
कर्मभ्यो जन्म नियतं जन्म चेन्निर्वृतिः कुतः ।। ५५ ।।
स्वभावादेव साधूनां प्रवृत्तिरुपकारिणी ।।
अपकारिण्यपि जने किमु भक्तजनं प्रति ।। ५६ ।।
नूनं ममापराधोऽयं यद्भवन्तोऽपि मां प्रति ।।
प्रतिलोमं चिकीर्षन्ति कोऽन्यः स्याद्धितकृन्मम ।। ५७ ।।
अनुरक्तां प्रियां साध्वीं बद्ध्वा वित्तेन मां कथम् ।।
कामोच्छित्तिमकृत्वा च संन्यसन्ति भवद्विधाः ।। ५८ ।।
वित्ताच्चेदमृतत्वं स्यात्तत्तित्यक्षा न युज्यते ।।
वित्ताच्चेन्नामृतत्वं स्याद्वद तेन ममापि किम् ।। ५९ ।।
यद्यस्त्यनुजिघृक्षैवं करुणा वा मयीष्यते ।।
यदेव भगवान्वेद तेन संविभजस्व माम् ।। ६० ।।
यद्विज्ञानात्परित्यज्य निःशेषं वित्तसाधनम् ।।
स्वाराज्यमीप्सति भवांस्तदेव वसु देहि मे ।। ६१ ।।
नाऽऽदिर्नान्तो न मध्यं वा यस्य वित्तस्य विद्यते ।।
भोगे न च क्षयं याति तदेव वसु दीयताम् ।। ६२ ।।
अनन्तवित्तो हि भवानन्तवद्दीयते कुतः ।।
असतः कीदृशं दानं सदेवातः प्रदीयताम् ।। ६३ ।।
संसारपुरुषार्थेभ्यो यतो नाव्युत्थितात्मने ।।
मुक्त्येकसाधनं ज्ञानं दातुं शक्यमिदं मया ।। ६४ ।।
अमुमुक्षुत्वमाशङ्क्य भवत्यै तत्प्रदित्सितम् ।।
संसाराच्चेद्विरक्ताऽसि गृहाणानुत्तमामृतम् ।। ६५ ।।
स्त्रीणां यदुचितं वाक्यं प्रतिलोमं न भाषसे ।।
पूर्ववत्त्वनुकूलं त्वमिदानीमपि भाषसे ।। ६६ ।।
मोक्षं यान्तं नरं सर्वे मुञ्चन्ति सहजा अपि ।।
अतिभक्तितया मां त्वं मोक्षेऽपि न जिहाससि ।। ६७ ।।
विभागमसहन्तीव मदतिस्नेहकारणात् ।।
मुक्तावनुयियासि त्वं मदैकात्म्यपरीप्सया ।। ६८ ।।
अतिस्नेहाऽपकृष्टोमा देहार्धं शूलिनः श्रिता ।।
त्वं तु सर्वात्मनाऽऽत्मानं कृत्स्नं मामाप्तुमिच्छसि ।। ६९ ।।
यत एवमतस्तुभ्यं वक्ष्याम्यमृतसाधनम् ।।
निदिध्यासस्व चेतोऽतो व्याचक्षाणस्य तन्मम ।। ७० ।।
आ ब्रह्मणोऽस्मात्संसाराच्छुद्धधीर्न विरज्यते ।।
यावत्तावन्न विद्याया अधिकारी भवेन्नरः ।। ७१ ।।
वैराग्यहेतावप्यस्मिन्रक्तो धर्मादिहेतुतः ।।
यतोऽतः कर्मशुद्धात्मा भवादस्माद्विरज्यते ।। ७२ ।।
वैराग्यहेतून्संसारे तस्माद्यत्नादियं श्रुतिः ।।
न वा अर इति ह्युक्त्या वक्तुं समुपचक्रमे ।। ७३ ।।
यस्मिन्नेव परा सक्तिस्तस्मिन्नेव निरादरम् ।।
कर्म कृत्वा परं यत्नादन्यस्यार्थयते फलम् ।। ७४ ।।
किमिक्षो रसमाप्नोति यत्नान्निष्पीडयन्न ना ।। ७५ ।।
तीव्रदुःखोद्भवो बुद्धौ संस्कारो यावदेव तु ।।
तद्विपक्षः सुखं तावदल्पं तत्संक्षये क्षयः ।। ७६ ।।
शीतमल्पं सुखं ग्रीष्मे तापोऽल्पः शिशिरे सुखम् ।।
तदेव दुःखकृद्भूरि तद्धेत्वोरनवस्थितेः ।। ७७ ।।
शब्दोऽस्ति न प्रियः कश्चिदप्रियो वा स्वतस्तथा ।।
रक्तद्विष्टमनो हेतुः शब्दाद्यर्थे प्रियाप्रिये ।। ७८ ।।
स्वतोऽखिलोऽप्रियोऽनात्मा प्रत्यङ्मोहैकहेतुतः ।।
प्रत्यगाह्लादकारित्वादप्रियोऽपि प्रियो मतः ।। ७९ ।।
जायादिरप्रियः सर्वः स्वत आद्यन्तदुःखकृत् ।।
तद्धेतोरात्मनः प्रीतेर्जायादिः प्रिय उच्यते ।। ८० ।।
न कस्यांचिदवस्थायामात्मा लोकेऽप्रियो मतः ।।
प्रियोऽप्रियश्च जायादिर्यथाऽनात्मा मुहुर्मुहुः ।। ८१ ।।
स्वत एवाप्रियोऽनात्मा ह्यात्मप्रीत्यर्थसाधनात् ।।
जायादिः स्यात्प्रियो भक्त्या बन्धक्याः कामुको यथा ।। ८२ ।।
निर्हैतुकी स्वतः प्रीतिरात्मन्येव यतस्ततः ।।
भाक्तं प्रियं परित्यज्य मुख्यं प्रियमुपाश्रयेत् ।। ८३ ।।
क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः ।।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ८४ ।।
न तदस्ति सुखं लोके यन्न दुःखकरं भवेत् ।।
तदसंप्राप्तिविच्छेदक्षयेष्वसुखकृद्यतः ।। ८५ ।।
एवं चेत्साधनोद्भूतं यावत्किंचित्सुखं मतम् ।।
तन्निःशेषं परित्यज्य सुखमात्यन्तिकं श्रयेत् ।। ८६ ।।
सांसारिकसुखस्यास्य दुःखत्वादुक्तहेतुतः ।।
निष्कृष्यातस्ततः प्रीतिं प्रतीच्येव निवेशयेत् ।। ८७ ।।
स्रजि दण्डादयो यद्वत्स्रगज्ञानैकहेतुकाः ।।
पतिजायासुताद्येवं प्रत्यगज्ञानहेतुजम् ।। ८८ ।।
सर्वानर्थनिवृत्तिश्च सर्वाह्लादाप्तिरेव च ।।
प्रतीचि ज्ञानमात्राच्चेत्तदन्यत्प्रार्थ्यते कथम् ।। ८९ ।।
यस्य संबन्धमाश्रित्य ह्यप्रियोऽपि प्रियायते ।।
प्रियोऽप्यप्रियतां याति यस्य संगतिकारणात् ।। ९० ।।
दृष्ट्वाऽनुभवतस्तत्त्वमात्मानात्मपदार्थयोः ।।
उपादित्सा जिहासा च तत्कृतैवानुपाल्यताम् ।। ९१ ।।
नानाप्राकार आसङ्गो विषक्तो योऽस्य बाह्यतः ।।
यथोक्तकारणात्सर्वं प्रतीच्येव निवेशयेत् ।। ९२ ।।
नरकादिव निर्विण्णो यावन्नाऽऽ ब्रह्मणो नरः ।।
न तावदधिकारोऽस्ति कैवल्यज्ञानवर्त्मनि ।। ९३ ।।
सर्वासङ्गविनिर्मुक्तो मोक्षमात्रप्रयोजनः ।।
अतोऽधिक्रियते प्रत्यग्ज्ञानोत्पत्तौ न रागवान् ।। ९४ ।।
आत्मा प्रत्यक्प्रसिद्धेः स्यात्तत्रैवाऽऽत्मानुभूतितः ।।
इति प्रमेयनिर्देशो द्रष्टव्य इति तत्प्रमा ।। ९५ ।।
आत्मबुद्धिरियं तावत्सर्वेषां जायते स्वतः ।।
अप्राप्ता सर्वमात्मेति सैवातो धीर्विधीयते ।। ९६ ।।
द्रष्टृद्रष्टव्ययोर्भेदे सत्येवं धीर्विधीयते ।।
नियोज्यविषयाभेदे घटते न विधिर्यतः ।। ९७ ।।
उत्तरोत्तरभूयांसि नामादीनि यथाक्रमम् ।।
उपन्यस्याऽऽत्मयाथात्म्यं तत्तत्वं प्राब्रवीच्छ्रुतिः ।। ९८ ।।
भूम्नश्च लक्षणं चक्रे यत्र नान्यदिति स्वयम् ।।
अथ यत्रेति चाल्पस्य प्राणान्तस्य च लक्षणम् ।। ९९ ।।
अथात इति वाक्येन ह्यहमेवेति निश्चितेः ।।
निषिध्यानात्मरूपं यत्ततोऽहंकारनिह्नुतिः ।। १०० ।।
आत्मैवेत्यादिवाक्येन पूर्णब्रह्मावबोधिना ।।
नाविध्वस्तं तमोऽतोऽस्ति न च ज्ञानमनुत्थितम् ।। १०१ ।।
नानिवृत्तस्तथाऽनर्थो नानवाप्तं सुखं तथा ।।
कार्यज्ञेयसमाप्तिः स्यात्प्रत्यग्याथात्म्यबोधतः ।। १०२ ।।
सर्वासूपनिषत्स्वेवं प्रमात्रादेरनात्मनः ।।
प्रत्यङ्भात्रैकयाथात्म्यं श्रूयते सोपपत्तिकम् ।। १०३ ।।
इहापि नेति वाक्येन प्रतीचोऽतत्स्वभावकम् ।।
व्युत्थापितमनूद्याऽऽह सर्वमात्मेति नः श्रुतिः ।। १०४ ।।
भावाभावात्मना स्थानं न निषेध्यस्य वस्तुनः ।।
यतोऽतः सर्वमात्मैव प्राब्रवीच्छ्रुतिरञ्जसा ।। १०५ ।।
नाव्युत्थितमनाः कश्चित्प्रतीचोऽन्यत्प्रपश्यति ।।
व्युत्थितात्माऽपि चाऽऽत्मानं पश्यन्नेवान्यदीक्षते ।। १०६ ।।
स्वातन्र्यं यत्र कर्तुः स्यात्तत्र कर्ता नियुज्यते ।।
अन्वयव्यतिरेकाभ्यामात्मानात्मविवेचने ।। १०७ ।।
वचोर्थप्रतिबोधस्य पदार्थाज्ञानमेव तु ।।
यतोऽन्तरायस्तद्धानौ तेन तत्र नियुज्यते ।। १०८ ।।
एवं ज्ञातपदार्थः सन्यथा पूर्वमवादिषम् ।।
ब्रह्म वा इदमित्यत्र न्यायेनैकात्म्ययायिना ।। १०९ ।।
निरन्तरायो वाक्यार्थं वाक्यादेवावगच्छति ।।
अव्यावृत्ताननुगतप्रत्यक्तत्त्वसमीक्षणात् ।। ११० ।।
नित्यमुक्तत्वविज्ञानं वाक्यादेवाञ्जसा भवेत् ।।
वाक्यार्थस्य च विज्ञानं पदार्थस्मृतिपूर्वकम् ।। १११ ।।
अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् ।।
एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ।। ११२ ।।
प्रत्यङ्मोहोद्भवानात्मप्राधान्येन तमोन्वयात् ।।
आत्माऽऽत्मानं पुराऽज्ञासीद्वाक्यार्थज्ञानजन्मतः ।। ११३ ।।
अनात्मनोऽत आत्मानमन्वयव्यतिरेकतः ।।
निष्कृष्याऽऽत्मन्यथाऽऽत्मानं सर्वमात्मेति पश्यति ।। ११४ ।।
अज्ञातज्ञापनं चातो विधिरत्राभिधीयते ।।
अप्रवृत्तप्रवृत्तिश्च न्यायाभावान्न युज्यते ।। ११५ ।।
नित्यं न भवनं यस्य यस्य वा नित्यभूतता ।।
न तस्य क्रियमाणत्वं खपुप्पाकाशयोरिव ।। ११६ ।।
उत्पत्त्यादि स्वतो यस्य यस्य चात्यन्तमेव न ।।
क्रियानपेक्षसिद्धत्वात्स्वतःसिद्धं तदुच्यते ।। ११७ ।।
उत्पत्त्यादौ तु यच्छक्तं हेतुमात्रमपेक्षते ।।
साफल्यं कर्मणस्तत्र तदभिव्यक्तिकृद्धि तत् ।। ११८ ।।
कार्यं कारणतन्त्रं स्यात्तातस्तस्याऽऽत्मलाभतः ।।
अन्यकार्यमकार्यं च नान्यत्कारणमीक्ष्यते ।। ११९ ।।
सर्वमात्मेति या बुद्धिः सा प्रमेयबलाद्भवेत् ।।
प्रमातृतन्त्रा सा चेत्स्यात्प्राप्ता लोकाग्निबुद्धिवत् ।। १२० ।।
अतोऽपुरुषतन्त्रत्वान्नाऽऽत्मज्ञाने विधिर्भवेत् ।।
अन्वयादिक्रिया त्वस्य तत्तन्त्रत्वाद्विधीयते ।। १२१ ।।
श्रवणं मननं तद्वत्तथा शमदमादि यत् ।।
पुमाञ्शक्नोति तत्कर्तुं तस्मादेतद्विधीयते ।। १२२ ।।
विशिष्टेहानुभूतिश्च सर्वमानफलं यतः ।।
फलं च न विधेयं स्यादतो नेदं विधीयते ।। १२३ ।।
प्रमाणमप्रमाणं च प्रमाभासं च यद्भवेत् ।।
चैतन्याकारमेवैतत्प्रथते सर्वमेव तत् ।। १२४ ।।
नानाकारानुपादत्ते चैतन्याकारमेव सत् ।।
प्रतीच्यव्यभिचार्येकं तदन्ये व्यभिचारिणः ।। १२५ ।।
मात्रादिव्यभिचारेऽपि संविदव्यभिचारिणी ।।
मिथः कृत्स्नेऽपि जगति तदन्यद्व्यभिचारि तु ।। १२६ ।।
उत्पन्नमपि सज्ज्ञानं प्रमातृत्वाद्युपग्रहात् ।।
तदनुत्पन्नवद्भाति तद्व्युत्पत्तेः पुरा नृणाम् ।। १२७ ।।
व्युत्पाद्यते यदा साक्षाद्यथोक्तन्यायवर्त्मना ।।
उत्पन्नमेव विज्ञानं तदा प्रागपि मन्यते ।। १२८ ।।
स्वसाक्षिकैव सर्वस्य न वेद्मीत्यपि या मतिः ।।
किमु वद्मीति बुद्धिः स्याच्चिदतोऽव्यभिचारिणी ।। १२९ ।।
आत्मेति मेयनिर्देशो वैशब्दस्तत्स्मृताविह ।।
प्रमातृक्रियया व्याप्तिर्द्रष्टव्य इति भण्यते ।। १३० ।।
शब्दानुरोधतस्तावदीदृगत्रोपजायते ।।
श्रुतेरनुभवः साक्षाद्यथावस्तु न वेति वा ।। १३१ ।।
विचार्यमाणोऽनुभवो रूप्यशुक्त्यनुभूतिवत् ।।
प्रमाणमप्रमाणं वा मेयसंगत्यसंगतेः ।। १३२ ।।
प्रमातृमेयभेदोऽत्र न तावद्गम्यते मितेः ।।
प्रत्यग्धीमात्रगम्योऽर्थो यस्मादात्मेति निश्चितः ।। १३३ ।।
प्रत्यग्धीगोचरो नो चेदनात्माऽसौ घटादिवत् ।।
ब्रह्मादिमध्यपातित्वं ततश्चास्य प्रसज्यते ।। १३४ ।।
विभिन्नद्रष्टृदृष्ट्याप्तिर्घटादेरिव नाऽऽत्मनः ।।
न चाभेदेऽस्ति संव्याप्तिरैकात्म्यादेव कारणात् ।। १३५ ।।
न च द्रष्टाऽऽत्मनोऽन्योऽस्ति द्रष्ट्रन्तरनिषेधनात् ।।
न च द्रष्ट्रोर्द्वयोर्लोके द्रष्टृदृश्यत्वसंगतिः ।। १३६ ।।
क्रियाविरोधः प्राप्नोति द्रष्टुः स्वात्मसमीक्षणे ।।
तद्दृष्टेर्नित्यसंप्राप्तेर्विध्यानर्थक्यसंगतिः ।। १३७ ।।
संसार्यान्मनि दृष्टेऽपि न च किंचित्प्रयोजनम् ।।
अयमेव च नोऽनर्थो यत्संसार्यात्मदर्शनम् ।। १३८ ।।
तदन्यस्याप्रसिद्धेश्च कथं स्यात्तत्समीक्षणम् ।।
अथ प्रसिद्धोऽसावात्मा तद्दृष्टिः किं विधीयते ।। १३९ ।।
द्रष्टृदर्शनदृश्यानां प्रात्यक्ष्यान्नाऽऽगमेक्षणम् ।।
द्रष्टुरात्मा पृथक्चेत्स्यान्पृथगात्मेति दुर्वचः ।। १४० ।।
न चाऽऽत्मन्यप्रसिद्धे स्यात्संसारस्य प्रसिद्धता ।।
न ह्यप्रसिद्धसंबन्धी संबन्धः कचिदिष्यते ।। १४१ ।।
न चेदात्माभिसंबन्धः संसारोऽयं समीक्ष्यते ।।
तन्मुमुक्षुत्वमायातं कुतो हेतोरितीर्यताम् ।। १४२ ।।
अनृतन्त्रे विधिर्नेष्टो वन्ध्यापुत्रोद्भवे यथा ।।
मातृतन्त्रे तथैवायं न विधिः प्रत्यगीक्षणे ।। १४३ ।।
नानाद्रव्यसमायोगे वियोगे च घटात्मनः ।।
वियत्संपूर्णता नित्या वियत्सक्तेरवर्जनात् ।। १४४ ।।
शब्दादिबाह्यसंबन्धे विभागे च तथा धियः ।।
प्रत्यक्चैतन्यसंबन्धो नित्यो नित्यात्मसाक्षिकः ।। १४५ ।।
यतोऽतः पाक्षिकी प्राप्तिर्नेहास्त्यैकात्म्यदर्शने ।।
नियमः परिसंख्या वा न तेनेहोपपद्यते ।। १४६ ।।
कर्मकाण्डे यथा मानं तथैवोपनिषत्स्वपि ।।
विधिरेवानपेक्षत्वात्सापेक्ष्यान्नाभिधाश्रुतिः ।। १४७ ।।
मैवं मानान्ताप्राप्तसम्यगैकात्म्यबोधतः ।।
अभिधाश्रुतेः प्रमाणत्वं सुप्तोत्थापकवाक्यवत् ।। १४८ ।।
अकारकैकात्म्यमात्रं मेयं वस्त्विष्यते यतः ।।
तदन्यस्य यतो मानाद्व्यतिरेको न लभ्यते ।। १४९ ।।
मुक्त्वैकात्म्यस्य चाज्ञानं नान्तरायान्तरं यतः ।।
विधितन्त्रस्य कार्यत्वान्नाज्ञाने प्रभविष्णुता ।। १५० ।।
यथास्थितात्मवस्तूत्थज्ञानं मुक्त्वा तमोह्नुतौ ।।
नान्यो हेतुर्यतस्तस्मान्न त्रय्यन्ते विधिः प्रमाः ।। १५१ ।।
नियोज्यस्य च नैश्वर्यं धीसम्यक्त्वं प्रतीप्यते ।।
तस्य मेयैकहेतुत्वान्नैव स्यान्मातृतन्त्रता ।। १५२ ।।
विधेरिवानपेक्षत्वं वेदान्तेष्वभिधाश्रुतेः ।।
अनृतन्त्रत्वसामान्यात्तथाऽतीन्द्रियबोधतः ।। १५३ ।।
अक्षाद्यविषयं प्रत्यक्स्वतः सिद्धेरसाधनम् ।।
अभिधा बोधयन्तीयं नान्यत्किंचिदपेक्षते ।। १५४ ।।
तस्माद्विधेः प्रमाणत्वं साध्यसाधनबोधने ।।
अतीन्द्रिये तदन्येन ज्ञातुं शक्यं न तद्यतः ।। १५५ ।।
साध्यसाधनसंबन्धो न शक्योऽभिधया यथा ।।
प्रतिपत्तुं स्वतः सिद्धोऽशक्यो विधिगिरा तथा ।। १५६ ।।
ऐकात्म्यस्य स्वतः सिद्धेर्न क्रियाऽपेक्ष्यते यतः ।।
ततश्च भावनाभावो भावनायाः क्रियाश्रयात् ।। १५७ ।।
विरहे भावनायाश्च न विधेस्तत्र मानता ।।
स्वतःसिद्धार्थबोधित्वादभिधायास्तु मानता ।। १५८ ।।
सापेक्षत्वादमानं चेदभिधा लोकवर्त्मना ।।
अभिधा तत्त्वमस्यादि सरित्तीरफलोक्तिवत् ।। १५९ ।।
संहत्यनुपपत्तिश्च पदानामभिधाश्रुतौ ।।
आख्यातपदहेतुत्वात्सर्वत्र पदसंहतेः ।। १६० ।।
नाऽऽख्यातपदसद्भावात्स्यादेव पदसंहतिः ।।
अस्यस्म्याद्याख्यातपदमस्त्येवेहाभिधाश्रुतौ ।। १६१ ।।
सरित्तीरे फलानीति युक्ताऽपेक्षाऽभिधाश्रुतेः ।।
प्रत्यक्षमाप्नग्राह्यत्वात्फलतीरार्थसंगतेः ।। १६२ ।।
प्रत्यक्षग्राह्य एषोऽर्थो न तदन्यप्रमाणकः ।।
यतोऽतो नाऽऽगमादेव तादृशेऽर्थे विनिश्चितिः ।। १६३ ।।
अपूर्वादिवचोऽर्थे तु न प्रत्यक्षाद्यपेक्षते ।।
प्रत्यक्षाद्यप्रमेयत्वादैकात्म्याख्यस्य वस्तुनः ।। १६४ ।।
अपौरुषेयवाक्यत्वं समानमभिधाश्रुतेः ।।
अतीन्द्रियार्थबोधित्वं समानं चोदनोक्तिभिः ।। १६५ ।।
सिद्धसाध्यप्रमेयत्वभेदो यदि परं तयोः ।।
प्रामाण्ये त्वतिशीतिस्तु न काचिदपि दृश्यते ।। १६६ ।।
प्रमोपजायते तावदहं ब्रह्मेत्यलौकिकी ।।
तत्त्वमस्यादिवाक्येभ्यः श्रवणात्समनन्तरम् ।। १६७ ।।
एवं चेदप्रमाणत्वं किमिवेहाभिधाश्रुतेः ।।
विधेरपीह मानत्वं नोक्तन्यायातिरेकतः ।। १६८ ।।
स्वशक्तिः सर्वमानानां यथा वस्त्ववबोधने ।।
अभिधायाश्च साऽस्त्येव किमिति स्यादमानता ।। १६९ ।।
नाप्यर्थेऽतीन्द्रिये सिद्धे मानं लिङ्गाद्यपेक्षते ।।
योगिप्रत्यक्षमानं वा तयोरविषयत्वतः ।। १७० ।।
नेतीत्यस्थूलमित्यादिवाक्याद्योऽर्थोऽवगम्यते ।।
योगिप्रत्यक्षगम्योऽयं न तत्प्रत्यक्त्वहेतुतः ।। १७१ ।।
प्रत्यक्षानवताराच्च नानुमानेन मीयते ।।
धर्मधर्म्यभिसंबन्धे नागृहीतेऽनुमा यतः ।। १७२ ।।
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।।
भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ।। १७३ ।।
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ।। १७४ ।।
योगिप्रत्यक्षमानादेर्न चेदैकात्म्यमेयता ।।
तत्प्राप्तमपि किं कुर्यात्स्वात्माऽयोग्यासु भूमिषु ।। १७५ ।।
अक्षादिमेयासारूप्यादैकात्म्यं स्यान्न तत्प्रमम् ।।
यथा विधेयासारूप्यान्नैकात्म्यं स्याद्विधेस्तथा ।। १७६ ।।
संभाव्यते चेदक्षादि ह्यैकात्म्यार्थे फलादिवत् ।।
न तद्वारयितुं शक्यं लोके विधिशतैरपि ।। १७७ ।।
नासमीक्ष्य स्वसामर्थ्यं पुमान्विधिशतैरपि ।।
प्रवर्ततेऽनपेक्षत्वं कुतो विधिवचःस्वतः ।। १७८ ।।
अपाक्येषु नियुक्तोऽपि कृष्णलाञ्श्रपयेदिति ।।
न तच्छक्तिं विना कश्चित्पुमांस्तत्र चिकीर्षति ।। १७९ ।।
एवं चेदनपेक्षत्वं विधेः किमिति भण्यते ।।
न भावनानपेक्षोऽसौ विधिर्यस्मात्प्रवर्तते ।। १८० ।।
न भावनान्तरमियं न च मानान्तरं तथा ।।
अपेक्ष्याभिधयैकात्म्यमवबोधयति श्रुतिः ।। १८१ ।।
अतोऽनपेक्षता युक्ता सर्वदैवाभिधाश्रुतेः ।।
अभिधानाभिधेयार्थज्ञानमेव व्यपेक्षते ।। १८२ ।।
ज्ञानक्रिया प्रमातृस्था न यथावस्तुबोधकृत् ।।
प्रमेयकर्तृकैवासौ यथावस्त्ववबोधिनी ।। १८३ ।।
न चान्यदीयव्यापारे ह्यन्योऽशक्तेर्नियुज्यते ।।
न ह्यग्निसाध्ये शोषादौ नियोगो घटतेऽम्भसः ।। १८४ ।।
ब्रह्मणोऽविद्यया योऽपि स्यादच्छेद आत्मनः ।।
तदवच्छेदविध्वस्तौ न साधनमपेक्षते ।। १८५ ।।
अनवच्छिन्नयाथात्म्यादविद्यया ।।
अवच्छिन्नवदाभाति क्षेत्रज्ञो रज्जुसर्पवत् ।। १८६ ।।
न चाविद्यानिरास्यत्र प्रत्यग्याथात्म्यबोधतः ।।
साधनं किंचिदापेक्ष्यं स्वर्गे यागादिवत्क्वचित् ।। १८७ ।।
न चापि मुख्यया वृत्त्या साध्येऽसति जगत्यपि ।।
किंचित्साधनमित्येवं भण्यते लोकवेदयोः ।। १८८ ।।
साध्यं च लोकतः सिद्धमुत्पत्त्यादिचतुष्टयम् ।।
प्रमाणस्य न तन्न्याय्यं सिद्धार्थव्यञ्जकत्वतः ।। १८९ ।।
नाऽऽत्मलाभातिरेकेण व्यञ्जकस्य मनागपि ।।
संभाव्यतेऽपरं रूपमज्ञातत्वापनोदकृत् ।। १९० ।।
आत्मासामान्यरूपोत्थं न चाभूत्वोपजायते ।।
घटादिज्ञानवज्ज्ञानं भिन्नहेत्वनपेक्षतः ।। १९१ ।।
स्थास्न्वनुभवमात्रत्वात्कार्यकारणवस्तुनः ।।
अभूतभूतिर्नैवातो युज्यतेऽनुभवात्मनि ।। १९२ ।।
प्रत्यगज्ञानहेतूत्था भावनेयं न तु स्वतः ।।
प्रत्यग्याथात्म्यजिज्ञासोः कथं सा विषयो भवेत् ।। १९३ ।।
क्रियाकारभेदोऽयमज्ञातैकात्म्यवस्तुनः ।।
तज्ज्ञानेऽसावसंभाव्यस्तद्धेतूच्छित्तिकारणात् ।। १९४ ।।
न चाविद्यासमुच्छित्तिर्ज्ञानोत्पत्त्यतिरेकतः ।।
संसारनाशोऽविद्याया नाशान्न व्यतिरिच्यते ।। १९५ ।।
न चाप्यविद्यानाशोऽत्र संसर्गः कारणात्मनि ।।
तद्ध्वास्तेर्वस्तुवृत्तत्वान्मृदि लोष्टादिनाशवत् ।। १९६ ।।
आदाय वास्तवं वृत्तं ज्ञानमज्ञाननाशकृत् ।।
वस्तुयाथात्म्यवृत्तेन तमोऽपह्नूयते सदा ।। १९७ ।।
अज्ञातज्ञापनं तस्माद्विधिरत्रोपपद्यते ।।
अकृतस्य क्रिया त्वत्र विधिर्नैवोपपद्यते ।। १९८ ।।
द्वैविध्यं चाप्यविद्याया न च युक्त्याऽवसीयते ।।
ऐकात्म्यमात्रवस्तुत्वादविद्यैकैव युज्यते ।। १९९ ।।
प्रमेयभेदभिन्नत्वं ज्ञानानामिव भेदकम् ।।
नाविद्याया यतोऽस्तीह द्वैविध्यं तेन दुर्घटम् ।। २०० ।।
प्रत्यगज्ञानमेवेह तदन्यद्वस्तुकारणम् ।।
तदन्यकारणासत्त्वाद्दैूविध्यं तमसः कुतः ।। २०१ ।।
न चाभ्यासाद्यपेक्षाऽपि स्वतोमुक्तत्वकारणात् ।।
न घटादेर्घटत्वादि घटाद्यभ्याससंश्रयम् ।। २०२ ।।
न चाविषयविज्ञानमनाकारं च भाव्यते ।।
भावकप्रत्यगात्मत्वादाकृतेश्च निषेधतः ।। २०३ ।।
नेन्द्रियेण ग्रहोऽस्यास्ति शब्दाद्यर्थानुपातिना ।।
दुःखादिवच्च नैवाऽऽत्मा चितेः स्वार्थैकरूपतः ।। २०४ ।।
भावनोपचितं चेतो न च कैवल्यकारणम् ।।
तस्येहैव समुच्छेदात्तद्धेत्वज्ञानहानतः ।। २०५ ।।
स्वकार्यर्थानुगामित्वं भावनाज्ञानकर्मणाम् ।।
अकार्यकारणात्मत्वात्कैवल्येऽनुगतिः कुतः ।। २०६ ।।
साक्षादात्मप्रसिद्धौ च नाभ्यासस्तत्फलस्थितेः ।।
ज्ञानाभावादसिद्धौ च क्व न्वभ्यासव्यपेक्षणम् ।। २०७ ।।
आत्मासामान्यरूपोत्थं ज्ञानमज्ञानमात्मनि ।।
सकृज्जातं न चेद्धन्ति ज्ञानमेव न तद्भवेत् ।। २०८ ।।
सम्यग्ज्ञानं यदाश्रित्य तन्मोहोऽपि तदाश्रयः ।।
अबाधितं तमोऽत्राऽऽस्त इत्युक्तिर्जडवक्तृका ।। २०९ ।।
इत्येवमादि यच्चोक्तं पूर्वमेवातिविस्तरात् ।।
तत्कृत्स्नमनुसंधेयं सर्वावकरहनिकृत् ।। २१० ।।
सर्वमात्मेत्यतः पश्येदात्मानात्मविभागवित् ।।
आत्मा द्रष्टव्य इत्युक्त्या ह्येषोऽर्थोऽत्राभिधीयते ।। २११ ।।
सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् ।।
श्रोतव्य इत्यतः प्राह वेदान्तावरुरुत्सया ।। २१२ ।।
दर्शनस्याविधेयत्वात्तदुपायो विधीयते ।।
वेदान्तश्रवणं यत्नादुपायस्तर्क एव च ।। २१३ ।।
श्रुतिलिङ्गादिको न्यायः शब्दशक्तिविवेककृत् ।।
आगमार्थविनिश्चित्यै मन्तव्य इति भण्यते ।। २१४ ।।
वस्तुतत्त्वविवक्षेह मन्तव्य इतिशासनात् ।।
योषिदग्न्यादिदृष्टौ हि नैव मन्तव्यताविधिः ।। २१५ ।।
वेदशब्दानुरोध्यत्र तर्कोऽपि विनियुज्यते ।।
वाच्यवाचकसंबन्धनियमे तस्य हेतुता ।। २१६ ।।
अपरायत्तबोधोऽत्र निदिध्यासनमुच्यते ।।
पूर्वयोरवधित्वेन तदुपन्यास इष्यते ।। २१७ ।।
श्रवणादिक्रिया तावत्कर्तव्येह प्रयत्नतः ।।
यावद्यथोक्तं विज्ञानमाविर्भवति भास्वरम् ।। २१८ ।।
आगमाद्दर्शनं पूर्वमागमाचार्यतो मतिः ।।
त्रयाणामपि संगानाच्छास्त्राचार्यात्मनां स्थिरम् ।। २१९ ।।
प्रतिपत्तिः पुरा शाब्दी यावन्न मनुते श्रुतम् ।।
श्रुत्वा मत्वाऽथ तं साक्षादात्मानं प्रतिपद्यते ।। २२० ।।
अनन्यायत्तविज्ञाने श्रवणादेरुपायतः ।।
जाते नापेक्षते किंचित्प्रतीचोऽनुभवात्परम् ।। २२१ ।।
साध्यसाधनसंबन्धे शास्त्रापेक्षैव नापरा ।।
लिङ्गापेक्षाऽनुमेयेऽर्थे नरापेक्षा नरोचिते ।। २२२ ।।
भिन्नमात्रादिविज्ञाने सापेक्षैव विनिश्चितिः ।।
एकमात्रादिके त्वस्मिन्कः किं कस्मादपेक्षते ।। २२३ ।।
प्रमाणरूपावष्टम्भात्प्रमा पूर्वं प्रजायते ।।
पश्चात्प्रमेयनिष्ठैव प्रमेयार्थानुरोधिनी ।। २२४ ।।
आत्माऽऽत्मानं विजानाति यत्र वाक्यादिमानतः ।।
तत्र मात्रादिसंभेदो न मनागपि लभ्यते ।। २२५ ।।
पदार्थविषयस्तर्कस्तथैवानुमितिर्भवेत् ।।
वाक्यार्थप्रतिपत्तिस्तु वाक्यादेवाभिजायते ।। २२६ ।।
आत्मानात्मत्वमात्रं हि लिङ्गाद्वस्तुषु गम्यते ।।
सर्वमानातिवर्त्यात्मा वाक्यादेवावगम्यते ।। २२७ ।।
नन्वकृत्स्नं भवेज्ज्ञानं यद्यात्मैव समीक्ष्यते ।।
केवलोऽनात्मनोऽदृष्टेः प्रतीचोऽन्यस्य वस्तुनः ।। २२८ ।।
नायमन्योऽथवाऽनन्यः प्रत्यगज्ञानजत्वतः ।।
दण्डसर्पादिवद्रज्ज्वां स्वतोऽपूर्वादिमान्यतः ।। २२९ ।।
यतोऽतो दृष्ट एतस्मिन्प्रत्यगात्मनि केवले ।।
नास्ति ज्ञानमनुत्पन्नं नाप्यध्वस्तं तथा तमः ।। २३० ।।
प्रत्यङ्भात्रैकयाथात्म्यात्कार्यकारणवस्तुनः ।।
तजज्ञानात्किं तमोऽध्वस्तं किंवाऽज्ञानं वदाऽऽत्मनः ।। २३१ ।।
अनुवादे यथोक्तानां प्रक्रान्ते दर्शनादिषु ।।
विज्ञानेनेत्यथ कथं निदिध्यासनमुच्यते ।। २३२ ।।
ध्यानाशङ्कानिवृत्त्यर्थं विज्ञानेनेति भण्यते ।।
निदिध्यासनशब्देन ध्यानमाशङ्क्यते यतः ।। २३३ ।।
विज्ञानोत्पत्तिहेतुत्वं ध्यानादेः प्रागवादिषम् ।।
स्वार्थमेव तु विज्ञानं मुक्तिमात्रफलं स्मृतम् ।। २३४ ।।
ऐकात्म्याज्ञानविध्वंसव्यतिरेकेण नेष्यते ।।
ऐकात्म्यविज्ञानफलं प्राप्तमेव हि तत्स्वतः ।। २३५ ।।
यतोऽनवयवेनैव रज्जुसर्पादिवत्तथा ।।
आत्माऽयं संगतिं याति तन्मोहाध्यस्तरूपिणा ।। २३६ ।।
आत्मा तत्त्वं विभक्तस्य प्रमात्रादेरनात्मनः ।।
स्वतः सिद्धस्तदज्ञानसमुत्थस्य मृषात्मनः ।। २३७ ।।
आत्मज्ञानप्रमेयाच्च नान्यस्तज्ज्ञानकृद्यतः ।।
अनन्यमातृमानोऽतः प्रत्यगात्मा तमोपनुत् ।। २३८ ।।
अज्ञानोत्थमनूद्यातो मिथ्याक्लृप्तमशेषतः ।।
इदं ब्रह्मेति वचसा सर्वमात्मेति नोऽवदत् ।। २३९ ।।
आत्मधीमात्रगम्यार्थाद्यस्तदन्योऽवभासते ।।
तद्दर्शननिषेधार्थं ब्रह्मेत्याह परा श्रुतिः ।। २४० ।।
समस्तव्यस्तता तस्मान्नैवेह श्रुतिमानतः ।।
अनात्मबुद्धिविषयं यतो यत्नान्निषेधति ।। २४१ ।।
कार्यात्मा कारणात्मा च द्वावात्मानौ परात्मनः ।।
प्रत्यग्याथात्म्यमोहोत्थौ तन्नाशे नश्यतस्ततः ।। २४२ ।।
अपूर्वानपरोक्तेर्हि कार्यकारणताऽऽत्मनः ।।
कुतः प्रमाणात्संभाव्या कार्यकारणघस्मरे ।। २४३ ।।
नैतस्माज्जायते किंचिन्नायं जातः कुतश्चन ।।
आत्मेत्येवं श्रुतिर्वक्ति कारणादिनिषेधकृत् ।। २४४ ।।
ज्ञेयं यत्तत्प्रवक्ष्यामिं यज्ज्ञात्वाऽमृतमश्नुते ।।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ।। २४५ ।।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। २४६ ।।
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।।
स सर्वविद्भजति मां सर्वभावेन भारत ।। २४७ ।।
इति वेदात्मनः साक्षाद्वचनं श्रुतिसंमतम् ।।
सर्वान्तर्यामिणः शौरेर्नोपेक्ष्यं तद्भवादृशैः ।। २४८ ।।
तत्रैवं सति यो मूढः कार्यकारणदर्शनः ।।
पराङ्मुखं निदध्यात्तमात्माकृत्स्नत्वदर्शिनम् ।। २४९ ।।
ब्रह्मेति जातिनिर्देशः क्षत्र्रसंनिधिकारणात् ।।
ब्रह्मजातिः परादध्यादसम्यग्दर्शिनं नरम् ।। २५० ।।
यदस्ति तन्न जानाति यन्नेहास्ति तदीक्षते ।।
इत्येवमपराधोत्थकोपाविष्टेव बालिशम् ।। २५१ ।।
कैवल्यात्तं पराकुर्याद्विप्रजातिः पराङ्मुखम् ।।
अजातिब्रह्मतत्त्वं मां योऽयं जात्यात्मनेक्षते ।। २५२ ।।
किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा ।।
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।। २५३ ।।
यो न वेदाऽऽत्मयाथात्म्यं वेद जात्यादिमत्तया ।।
स यद्यतोऽतो जातिस्तं परादध्याज्जडं नरम् ।। २५४ ।।
सर्वदाऽव्यभिचार्येकं व्यभिचार्यर्थबुद्धिषु ।।
यत्तत्त्वं गम्यते प्रत्यक्तदेवानात्मवस्तुनः ।। २५५ ।।
अन्तर्मेयबलाज्ज्ञानं प्रत्यङ्मोहजसंश्रयम् ।।
बाधतेऽव्यभिचारित्वाद्व्यभिचारि तमोन्वयम् ।। २५६ ।।
प्रत्यक्तमोजयाथात्म्यमात्राभिजनहेतुतः ।।
कालादौ तदभावोऽतो न ज्ञानस्यापवादकृत् ।। २५७ ।।
न बाध्यजव्यपेक्षं हि ज्ञानं बाधकमिष्यते ।।
तयोर्मिथो विरोधित्वात्सम्यग्ज्ञानं तमोपनुत् ।। २५८ ।।
आत्मानं यो यथा वेत्ति सम्यग्वा यदि वाऽन्यथा ।।
यथादर्शनमेवासौ फलमाप्नोति मानवः ।। २५९ ।।
इति ब्रह्म तमित्यादेः संक्षेपार्थः समीरितः ।।
संसरत्यन्यथाज्ञानात्सम्यग्ज्ञानाद्विमुच्यते ।। २६० ।।
अपोदितत्वाद्ब्रह्मादिदर्शनस्येति किं पुनः ।।
द्रष्टव्यमित्यतो वक्ति त्विदं ब्रह्मेति नः श्रुतिः ।। २६१ ।।
प्रत्यक्त्वेन य आभाति प्रत्यग्बुद्धिप्रमाणकः ।।
तावन्मात्रैकयाथात्म्यं ब्रह्मेत्युक्तं प्रतीयताम् ।। २६२ ।।
एवं श्रोतव्य आत्माऽयं समाप्तः श्रवणे विधिः ।।
अथ मन्तव्य इत्यस्य प्रपञ्चः पर उच्यते ।। २६३ ।।
नामरूपादिसंभिन्नं जगदेतत्कथं पुनः ।।
आत्मैव सर्वमित्येवं द्रष्टुं शक्यमिहाञ्जसा ।। २६४ ।।
अव्यावृत्तविसंवादिप्रत्यग्धीव्याप्तिकारणात् ।।
एतद्विरुद्धबुद्धीनामेवमेव हि शक्यते ।। २६५ ।।
व्यभिचारिषु बोधेषु यो बोधोऽव्यभिचारवान् ।।
तत्प्रमाणार्पितो मेयो ग्रहीतुं शक्यतेऽञ्जसा ।। २६६ ।।
यथा दुन्दुभिशब्दत्वसामान्यादुत्थितान्पृथक् ।।
नाऽऽदातुं शक्नुयात्कश्चिद्विशेषानसिकोशवत् ।। २६७ ।।
तद्वदात्मातिरेकेण नाऽऽत्मीयार्थो मनागपि ।।
यतः समीक्षितुं शक्यस्तेनासौ रज्जुसर्पवत् ।। २६८ ।।
विशेषैरन्वयो नापि सामान्यान्वयवत्क्वचित् ।।
सामान्यस्याविशेषत्वान्नातः सामान्यधीग्रहः ।। २६९ ।।
विशेषैरन्वयो नो चेदिभाखुव्यक्तिवन्मिथः ।।
खण्डवत्स्वाद्विशेषादौ यत्सामान्यमितीरितम् ।। २७० ।।
द्विष्ठत्वादन्वयस्यौपि व्याप्यव्यापकयोर्मिथः ।।
व्यतिरेकमतो मुक्त्वा मिथो व्याप्तिर्न सिध्यति ।। २७१ ।।
प्रत्यग्बोधानिरस्तोऽर्थः प्रत्यग्वन्न हि सिध्यति ।।
न चाभावमुखोऽनात्मा नान्वयेनाप्यतो दृशि ।। २७२ ।।
प्रत्यङ्भात्रैकरूपत्वादात्मा नानात्मतां स्वतः ।।
सहते नापि चानात्मा स्वार्थादन्यत्र सिध्यति ।। २७३ ।।
अनात्मवस्तुनः प्रत्यक्प्रत्यक्त्वान्नातिरिच्यते ।।
पराङ्नान्वेति चाऽऽत्मानं व्यतिरेकात्मकत्वतः ।। २७४ ।।
दुन्दुभ्यन्वितशब्दस्य सर्वत्राव्यभिचारतः ।।
पुंस्प्रयत्नादिलब्धात्मव्यभिचारिरवात्मसु ।। २७५ ।।
उच्चनीचादिभेदेषु मिथः स व्यभिचारिषु ।।
दुन्दुभिध्वनिरेवैकः सर्वत्राव्यभिचारवान् ।। २७६ ।।
दुन्दुभिध्वनिसामान्यव्यतिरेकेण तेन ते ।।
निरात्मका न शक्यन्ते तद्विशेषाः समीक्षितुम् ।। २७७ ।।
दुन्दुभिध्वनिरित्येतत्कुतो लब्धं विशेषणम् ।।
दुन्दुबेर्गहणेनेति लब्धमेतद्विशेषणम् ।। २७८ ।।
दुन्दुभेस्तु रवा एत इत्येवं ग्रहणे सति ।।
गृहीतास्तद्विशेषाः स्युस्तेषां तादात्म्यकारणात् ।। २७९ ।।
भेर्याघातग्रहाद्वाऽपि तद्विशेषग्रहो भवेत् ।।
वीरादिरससंयुक्तो दुन्दुभ्याघात उच्यते ।। २८० ।।
उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान् ।।
पूर्वपूर्वातिरेकेण नोत्तरोऽर्थोऽनुभूयते ।। २८१ ।।
एवं चिदन्वयात्सर्वस्तदध्यस्तः समीक्ष्यते ।।
सामान्यं वा विशेषो वा चिदसंबोधहेतुतः ।। २८२ ।।
प्रत्यग्रूपस्य संसिद्धौ प्रतीचोऽन्यन्न कारणम् ।।
अनात्मवत्तदप्यात्मविशेषणतया भवेत् ।। २८३ ।।
कर्तृत्वकञ्चुको यद्वदात्माऽनात्मानमीक्षते ।।
कूटस्थदृष्टिमात्रत्वान्न तथाऽऽत्मानमीक्षते ।। २८४ ।।
संहतो गम्यतेऽनात्मा प्रत्यक्षेण यथा सदा ।।
गम्यतेऽसंहतस्तद्वदात्मा प्रत्यग्धियाऽऽत्मना ।। २८५ ।।
दार्ष्टान्तिकार्थासंभित्तेरेकेनैव कृतार्थतः ।।
दृष्टान्तेन बहूनां तु किमर्थोक्तिरितीर्यते ।। २८६ ।।
महासामान्य एकस्मिन्विशेषाणामशेषतः ।।
विलयः स्यात्कथं नाम व्यावृत्तान्वयरूपिणाम् ।। २८७ ।।
महासामान्यदृष्टान्तो दौन्दुभो रव उच्यते ।।
सामान्येतररूपस्य दुन्दुभ्याघात इष्यते ।। २८८ ।।
बाह्यानिति तथाचोक्तिर्विशेषाणां तु केवलम् ।।
इत्युक्तार्थप्रसिद्ध्यर्थमित्युदाहरणत्रयम् ।। २८९ ।।
अन्वयव्यतिरेकाभ्यामभाववपुषाऽथवा ।।
सद्धीगम्याद्धिरुग्वस्तु न मानेनावसीयते ।। २९० ।।
षष्ठ्यर्थासंभवोऽतः स्याद्वितीयासंभवात्सतः ।।
यथा सति तथा विद्यात्प्रतीच्यनन्यमानके ।। २९१ ।।
सामान्यभेदरूपाणां विशेषाणामशेषतः ।।
महासामान्य एकत्र भूयसां स्याद्यथा तथा ।। २९२ ।।
मिथोभिन्नपदार्थानां नामरूपक्रियात्मभिः ।।
स्थूलाद्यनभिसंबन्धे कार्यकारणरूपिणाम् ।। २९३ ।।
सूक्ष्मताव्यापिते ज्ञेये भूम्यादेरुत्तरोत्तम् ।।
प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः ।। २९४ ।।
नामादीनि च तत्त्वानि प्राणान्तानि तथाऽऽत्मनि ।।
पूर्वपूर्वप्रहाणेन यान्त्यस्तं केवलाद्वये ।। २९५ ।।
दृष्टान्तत्रितयं तावत्स्थितिकाल उदाहृतम् ।।
महासामान्यवत्प्रत्यक्सर्वानात्माप्ययः स्वतः ।। २९६ ।।
स्थितिकाले यथैकात्म्यं शक्यते ज्ञातुमञ्जसा ।।
यथोक्तन्यायतस्तद्वदुत्पत्तावपि शक्यते ।। २९७ ।।
धूमार्चिर्विस्फुलिङ्गादि यथापूर्वे विभागतः ।।
अग्निरेव न धूमादिभेदः कश्चन लक्ष्यते ।। २९८ ।।
प्राणलोकादिरप्येवमनात्मा प्राग्विभागतः ।।
अपूर्वानपरान्तप्रत्यगात्मैव केवलः ।। २९९ ।।
एकजातौ हि भिन्नानां शब्दानां शब्द एव तु ।।
दृष्टमैक्यं न भिन्नानां भिन्नजातौ तथेति चेत् ।। ३०० ।।
धूमादिभेदभिन्नानां यथैकत्वं विभावसौ ।।
नामरूपादिभिन्नानामैकात्म्यं तद्वदात्मनि ।। ३०१ ।।
बोधाविशेषादथवा भेद एव न विद्यते ।।
कार्यकारणयोस्तत्त्वमुभयोरविलक्षणम् ।। ३०२ ।।
स्वार्थसाधनयत्नादीननपेक्ष्योत्सृजे्द्यथा ।।
धूमादीन्हुतभुक्तद्वत्प्राणादीन्प्रत्यगीश्वरः ।। ३०३ ।।
श्रोतव्यः श्रुतिवाक्येभ्य इत्यत्राऽऽशङ्क्यते यतः ।।
प्रयत्नानन्तरः शब्दोऽनित्यः कुम्भादिवद्भवेत् ।। ३०४ ।।
इत्यस्य परिहारार्थं निःश्वासोदाहृतिस्त्वियम् ।।
अप्रयत्नोत्थितो वेदो नित्यः स्याद्व्योमवत्स्वतः ।। ३०५ ।।
अबुद्धिपूर्वकत्वाच्च यथावस्त्वनुरोध्यपि ।।
बुद्धिवन्नाप्रमाणत्वं वेदस्येहोपपद्यते ।। ३०६ ।।
सर्वथा यदनेनोक्तं तच्छ्रद्धेयं बुभूषता ।।
भानुप्रकाशवच्छब्दो नित्योऽयं न तु कृत्रिमः ।। ३०७ ।।
पर एवाऽऽत्मनाऽऽत्मानं प्रतिपाद्य नरं श्रुतिः ।।
कार्यकारणवत्पीत्वा स्वात्मनैवावतिष्ठते ।। ३०८ ।।
वेदामात्वप्रसक्तौ वा सर्वमात्मेतिवाक्यतः ।।
वेदामात्वापनुत्त्यर्थं स यथेत्यागमः परः ।। ३०९ ।।
तदयुक्तं पुमर्थस्य तदुक्त्यैव समाप्ततः ।।
सर्वोपायोऽनुपायः स्यादुपेयावसितौ यतः ।। ३१० ।।
स्वोपेयार्थप्रसिद्धौ च नोपायानामुपायता ।।
न चोत्सर्गापवादोऽपि साक्षाद्वेदग्रहश्रवात् ।। ३११ ।।
बालोन्मत्तोक्तिवच्चाहं वक्तुं दूषणमादरात् ।।
जिह्रेमि बहुशोऽत्रोक्तौ तस्मादेवोपरम्यते ।। ३१२ ।।
ऋग्वेदादिगिरोच्यन्ते ऋग्यजुःसामलक्षणाः ।।
अथर्वाङ्गिरसस्तद्वन्मन्राः स्युर्ब्राह्मणोद्धृताः ।। ३१३ ।।
इतिहासादिसंभेदभिन्नं ब्राह्मणमेव तु ।।
ग्राह्यमत्र प्रसिद्धस्तु नेतिहासादिरिष्यते ।। ३१४ ।।
अभिधेयार्थजन्मापि ह्यभिधासंभवोक्तितः ।।
द्रष्टव्यं नाभिधानं स्यादभिधेयमृते क्वचित् ।। ३१५ ।।
मत्रब्राह्मणयोर्वेदनामधेयत्वकारणात् ।।
ऋग्वेदादिगिरा तस्मान्मन्त्रब्राह्मणयोर्ग्रहः ।। ३१६ ।।
यथासिद्धमितिहासपुराणाद्यपि गृह्यते ।।
लोकप्रसिद्धिमुल्लङ्घ्य यतोऽन्याय्योऽन्यथाग्रहः ।। ३१७ ।।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।।
इत्यादिमनुनाऽप्युक्तं कथं तत्त्यागमर्हति ।। ३१८ ।।
इतिहासपुराणादेर्वेदमूलत्वकारणात् ।।
प्रामाण्यं नान्यथा तस्य प्रामाण्यमुपपद्यते ।। ३१९ ।।
प्रत्यक्षवेदवचनविरुद्धं तेषु यद्वचः ।।
बुद्धवाक्यादिवत्तादृक्त्याज्यं श्रुतिविरोधतः ।। ३२० ।।
न चेश्वरातिरेकेण कश्चित्स्रष्टाऽभ्युपेयते ।।
इतिहासपुराणादेस्तदन्यस्येह कार्यतः ।। ३२१ ।।
कारणत्वं प्रमाणेन यस्य साक्षाद्विनिश्चितम् ।।
अपि तत्कार्यकर्तृत्वे तदेवाभ्युपगम्यते ।। ३२२ ।।
बीजमेवाङ्कुरादीनां यथा कारणमिष्यते ।।
अङ्कुराद्यात्मना तद्वद्बीजमेव तु कारणम् ।। ३२३ ।।
आद्यन्तयोर्यतो बीजं प्रत्यक्षेणावसीयते ।।
तस्मात्तन्मध्यकार्येषु बीजमेवास्तु कारणम् ।। ३२४ ।।
न च वेदोक्तितो वेदः श्रद्धेयार्थ इहेष्यते ।।
किंत्वमानत्वहेतूनां वेदवाक्येष्वसंभवात् ।। ३२५ ।।
प्रामाण्यं वेदवाक्यानां न च मानान्तराश्रयात् ।।
अक्षादेरपि मानत्वं यथोक्तादेव कारणात् ।। ३२६ ।।
प्रज्ञानव्यतिरेकेण यथैव स्थितिसर्गयोः ।।
वस्त्वन्तरं न संभाव्यं प्रलयेऽपि तथोच्यते ।। ३२७ ।।
विभिन्ननामरूपाणां सरितां सागरो यथा ।।
अभिन्ननामरूपैकः प्रलयोऽयनमेकता ।। ३२८ ।।
स्पर्शादिज्ञानभेदानां त्वगाद्येकायनं तथा ।।
स्वान्ते त्वगादयस्तद्वद्बुद्धौ च मनसस्तथा ।। ३२९ ।।
कर्मक्षयात्तथा बुद्धिः कारणत्वेन तिष्ठति ।।
एष साधारणस्तावत्प्रलयोऽबुद्धिपूर्वकः ।। ३३० ।।
प्रत्यग्याथात्म्यविज्ञानाद्वस्तुवृत्तानुरोधतः ।।
प्रलयोऽज्ञानविध्वंसाद्यस्त्वसौ बुद्धिपूर्वकः ।। ३३१ ।।
अब्धिरेकायनं यद्वत्सर्वासां सरितां तथा ।।
त्वगगोचराणां स्पर्शानां त्वगेवैकायनं परम् ।। ३३२ ।।
स्पर्शशब्देन विषयस्त्वग्ग्राह्योऽत्राभिधीयते ।।
तथा गन्धादिशब्देन घ्राणादिविषयो मतः ।। ३३३ ।।
गन्धादिसंहतिः पृथ्वी रसान्तानां तथा जलम् ।।
तेजस्त्रयाणां वायुस्तु द्वयोरेकात्मकं नभः ।। ३३४ ।।
एवं लक्षणतः पञ्च भूतान्येतानि निर्दिशेत् ।।
मूर्तामूर्ताविष्करणं गुणाविष्कृतिरिष्यते ।। ३३५ ।।
संहतोक्तविशेषाणां भूतानां कारणात्मता ।।
तत्र स्पर्शग्रहेणैव वायोरंशोऽत्र गृह्यते ।। ३३६ ।।
तेजसस्तु तृतीयांशश्चतुर्थोऽपां तथा भुवः ।।
पञ्चमस्तद्गुणैर्भेदस्तथा स्पर्शे समीक्ष्यताम् ।। ३३७ ।।
गन्धादिषु तथा योज्यो भेदोऽयं गुणभेदतः ।।
पृथिव्यंशस्य बाहुल्यात्कर्कशः स्पर्श उच्यते ।। ३३८ ।।
शीतश्च पिच्छिलश्चापां बाहुल्यात्स्पर्श इष्यते ।।
भूयस्त्वात्तेजसश्चोष्णः सुकुमारस्तथा मरुत् ।। ३३९ ।।
बाहुल्यादिति विज्ञेयो यथोक्तगुणसंश्रयात् ।।
ध्वस्ताशेषविकारस्य ब्रह्मणोऽविद्ययाऽऽत्मनः ।। ३४० ।।
स एष परिणामः स्यात्तेजोबन्नाद्युपक्रमः ।।
स्वर्शनाद्यात्मनाऽत्यन्तं परं काठिन्यमागतः ।। ३४१ ।।
उद्भूतस्पर्शविज्ञानस्त्वचा तस्य समागमात् ।।
स्पर्शभेदपरिज्ञानं ततोऽभिव्यज्यते दृशेः ।। ३४२ ।।
स्पर्शादिभेदविज्ञानं स्यादचेतनमेव तु ।।
स्पर्शादिवत्परार्थत्वात्स्वार्थं तन्न तु साक्षिवत् ।। ३४३ ।।
अतीव कठिनं ज्ञानं त्वचातोऽस्य समागमात् ।।
मनसा तस्य संयोगे ततः स्वच्छैव धीर्भवेत् ।। ३४४ ।।
ततोऽपि सूक्ष्मं विज्ञानं बुद्धिसंयोगजं भवेत् ।।
यावद्रुधिरसंव्याप्तिः शरीरे तावदेव तु ।। ३४५ ।।
बुद्धेः सामान्यवृत्त्येह व्याप्तिरादेहसंक्षयात् ।।
चैतन्याभासवत्प्रणस्तां वृत्तिं व्याप्य तिष्ठति ।। ३४६ ।।
अकार्यकारणस्त्वात्मा तमपह्नुत्य तिष्ठति ।।
कण्टकादिसमायोगे शरीरे विक्रिया यदा ।। ३४७ ।।
तदाऽधर्मादितो दुःखं विक्रियातोऽभिजायते ।।
देहैकदेशगं दुःखं विशिनष्टि स्वदेशगाम् ।। ३४८ ।।
धियं तद्देशदुःखित्वाद्दुःखित्वं जायते धियः ।।
तस्यावच्छित्तये वृत्तिर्दुःखभूत्यैव जायते ।। ३४९ ।।
भोक्तृभोग्याभिसंबन्धस्तन्निमित्तोऽयमात्मनः ।।
बुद्धेः सेयमहंवृत्तिर्दुःखावच्छेदिनी सती ।। ३५० ।।
परिच्छिनत्ति बोद्धारं बोद्धाऽप्याभासमात्मनः ।।
न बहिर्विक्रियां मुक्त्वा देहेऽहंवृत्तिसंभवः ।। ३५१ ।।
स्वस्थेन्द्रियमनोबुद्धेर्नैवाहमिति वीक्ष्यते ।।
पुत्राभिमानजे त्वस्मिन्न देहांशविशिष्टता ।। ३५२ ।।
तत्तद्वस्तु समुद्दिश्य दुःखित्वं तत्र मानिनः ।।
अज्ञानादभिमानोऽयं बुद्ध्यादौ विषयावधौ ।। ३५३ ।।
न तु निःसङ्गकूटस्थप्रतीचः स्यादहंमतिः ।।
न कार्यप्रलयो दृष्टो यस्मादन्यत्र कारणात् ।। ३५४ ।।
त्वगारम्भकसामान्यं त्वग्गिराऽतोऽत्र गृह्यते ।।
कार्यत्वान्नेन्द्रियेष्वेव विषयप्रलयो भवेत् ।। ३५५ ।।
न मृदोऽन्यत्र कुम्भादेः शरावे प्रलयो यतः ।।
तस्मात्त्वगादयः शब्दास्त्वगाद्यारम्भकाभिधाः ।। ३५६ ।।
सर्वत्र प्रतिपत्तव्या नान्यत्र प्रलयो यतः ।।
गन्धशब्देन कृत्स्नाऽपि पृथिवी परिगृह्यते ।। ३५७ ।।
यदि वा परभागोऽस्या गन्धस्यानेकभेदतः ।।
गन्धो गुरुः क्षितिप्रायो ह्लादी शीतोऽप्प्रधानतः ।। ३५८ ।।
तेजोभूयस्तया तीक्ष्णो लघुर्वायुप्रधानतः ।।
शान्तोऽथ विशदो व्यापी स्याद्व्योम्नोऽथ प्रधानतः ।। ३५९ ।।
पार्थिवाप्यांशयोस्तेजः परिक्लेदात्तथाऽधमः ।।
दुर्गन्धो जायते गन्धः पापकर्मप्रबोधतः ।। ३६० ।।
समांशपरिणामे तु सुरभिर्जायते शुभः ।।
पुण्यकर्मप्रयुक्तः सञ्जन्तोरासङ्गकृत्तथा ।। ३६१ ।।
रसरूपरवेष्वेवं यथोक्तं प्रतिपादयेत् ।।
प्रधानगुणभावेन गुणानां भूरिरूपता ।। ३६२ ।।
असाधारणगन्धादिग्राहकत्वानुमानतः ।।
ग्राह्यभूतप्रधानत्वं घ्राणादिष्वपि निर्दिशेत् ।। ३६३ ।।
स्वग्राह्यार्थसजातीयमिन्द्रियं स्यात्प्रदीपवत् ।।
रूपस्यैवावभासित्वान्न चेत्स्याच्छ्रोत्ररूपवत् ।। ३६४ ।।
न चेदर्थसजातीयं सर्वार्थग्रहणं भवेत् ।।
एकैकस्येन्द्रियस्तेह, मनोबुद्ध्योर्यथा तथा ।। ३६५ ।।
सर्वभूतात्मकत्वात्तु सर्वार्थग्रहणं तयोः ।।
मनोबुद्ध्योरिति ज्ञेयमन्यथा तदसंभवात् ।। ३६६ ।।
त्वगादिज्ञानशक्तीनां बुद्धिः सामान्यमुच्यते ।।
प्राण एव क्रियाशक्तिसामान्यं तद्वदुच्यते ।। ३६७ ।।
शब्दादिभोगसिद्ध्यर्थे श्रोत्राद्या ज्ञानशक्तयः ।।
तद्वत्कर्मोपभोगार्थं वागाद्याः कर्मशक्तयः ।। ३६८ ।।
यथोक्तशक्तिविक्षेपो मनोबुद्धिपुरःसरः ।।
संकल्पाध्यवसायाभ्यां तयोर्भेदोऽपि च द्विधा ।। ३६९ ।।
योग्योन्द्रियस्य या यस्य ततोऽन्यत्रापि लक्षिता ।।
वृत्तिस्तस्यैव सा ज्ञेया न स्वभावविपर्ययः ।। ३७० ।।
एवं ज्ञानक्रियाशक्तिविक्षेपाज्जगदात्मनः ।।
करणायतनत्वाय देहाविर्भूतिरात्मनः ।। ३७१ ।।
एवं च सति यद्यस्मात्कार्यमाविरभूत्पुरा ।।
तत्तु तत्रैव विलयं कार्यमेति स्वकारणे ।। ३७२ ।।
मूलकारण एवैषां विलयो भवेत् ।।
तत्कारणत्वात्कार्याणां न तु कार्यान्तरे लयः ।। ३७३ ।।
पिण्डादिष्वेव प्रात्यक्ष्याद्दटादीनां लयादियम् ।।
भ्रान्तिः पूर्वेषु कार्येषु लयोऽयमिति मोहतः ।। ३७४ ।।
एवं त्वगादिवाच्यासु स्पर्शादीनां यथायथम् ।।
स्पर्शादिमात्रासु लयस्तासामपि लयस्तथा ।। ३७५ ।।
मनोविषयसामान्ये तस्यापि प्रलयो धियः ।।
स्वगोचरैकसामान्ये सरितां सागरे यथा ।। ३७६ ।।
बुद्धेर्विषयविज्ञानसामान्यमपि चाऽऽत्मनि ।।
परस्मिल्ल़यविक्षेपरहितेऽपरिणामिनि ।। ३७७ ।।
वदनादिस्वसामान्यविषयेषु तथा लयः ।।
कर्मेन्द्रियाणां सर्वेषां तत्सामान्येषु पञ्चसु ।। ३७८ ।।
परिस्पन्दः प्रकाशश्च ज्ञानशक्तिषु विद्यते ।।
केवलस्तु परिस्पन्दः कर्मशक्तिषु निष्प्रभः ।। ३७९ ।।
सर्वोऽप्येष परिस्पन्दो बुद्धीन्द्रियसमाश्रयः ।।
प्राणात्मक इति ज्ञेयो हन्तास्यैवेति च श्रुतेः ।। ३८० ।।
पड्वीशशङ्कुदृष्टान्तात्प्राणस्यैव तु शक्तयः ।।
कर्मेन्द्रियाणि सर्वाणि तथा बुद्धीन्द्रियाण्यपि ।। ३८१ ।।
आपीतकरणग्रामे पुंसि स्वात्मन्यवस्थिते ।।
तथा प्राणाग्नयः शुद्धा जाग्रतीति श्रुतेर्वचः ।। ३८२ ।।
सहैव कर्मशक्त्याऽतो ज्ञानशक्तिर्विलीयते ।।
प्राणात्मनि श्रुतिश्चाऽऽह कस्मिन्निति च सादरा ।। ३८३ ।।
साधारणोऽयं विलयः समानान्तोऽभिधीयते ।।
स्वहेतुमात्रसंसर्गान्नायमात्यन्तिको लयः ।। ३८४ ।।
ज्ञानशक्तिक्रियाशक्तिविभुत्वात्परमक्षरम् ।।
व्युह्याऽऽत्मानं जगत्त्वेन स्वात्मन्येव समूहति ।। ३८५ ।।
निरुह्येति तथा श्रुत्या कारणात्माऽभिधीयते ।।
अत्यक्रामदिति त्वस्य निर्बीजावस्थतोच्यते ।। ३८६ ।।
यत एवमतोऽशेषज्ञानशक्तिलयात्परम् ।।
सर्वकार्योपसंहारी प्राण एकोऽवतिष्ठते ।। ३८७ ।।
प्राणोऽपाने तथाऽपानो व्यानात्मनि विलीयते ।।
व्यानोऽप्युदानमप्येति ह्युदानोऽपि समानगः ।। ३८८ ।।
कारणात्मैव जगतः समानोक्त्याऽभिधीयते ।।
सर्वसाधारणः सोऽयं प्राकृतः प्रलयो मतः ।। ३८९ ।।
प्रज्ञानघनताऽप्यस्य न बुद्धिप्रज्ञयोच्यते ।।
प्रत्यक्प्रज्ञोत्थिताभाससंबन्धात्प्राज्ञ उच्यते ।। ३९० ।।
यन्निमित्तं प्रमाणानि प्रामाण्यमिह बिभ्रति ।।
तदविज्ञातयाथात्म्यमेतत्कारणमुच्यते ।। ३९१ ।।
यस्मिञ्ज्ञाते भवेज्ज्ञातं जगदेतच्चराचरम् ।।
अज्ञाते च तथाऽज्ञातमेतदेव तदुच्यते ।। ३९२ ।।
नन्विह प्रलयः श्रुत्या विषयस्यैव भण्यते ।।
करणस्य तु नैवोक्तस्तत्कस्मादिति भण्यते ।। ३९३ ।।
स्वगोचरसजातीयं करणं मन्यते श्रुतिः ।।
विषयस्य लयोक्त्याऽन्तःकरणप्रलयोक्तता ।। ३९४ ।।
एवं मन्तव्य आत्माऽयं तर्कतः प्राग्यथोदितः ।।
दुन्दुभ्याद्युक्तदृष्टान्तन्यायमर्गेण यत्नतः ।। ३९५ ।।
आत्मसामान्यसंभूतिलयहेतुसमाश्रयात् ।।
आत्मैव सर्वमित्येष प्रतिज्ञार्थः समर्थितः ।। ३९६ ।।
स्वाभाविकोऽयं प्रलय इति पौराणिका जगुः ।।
बुद्धिपूर्वस्तु विलयः सम्यग्ज्ञानैकपूर्वकः ।। ३९७ ।।
शक्तिमात्रात्मना स्थानं कार्याणां यत्स्वकारणे ।।
इत्यनात्यन्तिकलयो भूयोजन्मकृतक्षणः ।। ३९८ ।।
अतीतानागतेहत्यजन्मनाशादिहेतुनुत् ।।
यस्तु धीपूर्वको ध्वंसस्तदर्थेयं परा श्रुतिः ।। ३९९ ।।
यथोक्तवस्तुसिद्ध्यर्थं दृष्टान्तोऽयमिहोच्यते ।।
यथा सैन्धवखिल्योऽस्तः स्वयोनावुदधाविह ।। ४०० ।।
कठिनोदकविलयमनु खिल्यो विलीयते ।।
विलीनस्याद्भ्य उद्धत्य ग्रहणाय न कश्चन ।। ४०१ ।।
निपुणोऽपि नरः शक्तः खिल्यरूपेण पूर्ववत् ।।
सामद्ररूपान्नान्येन ग्रहीतुं कश्चन क्षमः ।। ४०२ ।।
आददीत समुद्राम्भस्तं जिघृक्षुर्यतो यतः ।।
ततस्ततस्तल्लवणं वेत्ति खिल्यं न कुत्रचित् ।। ४०३ ।।
सामुद्रमम्भः खिल्यत्वं याति भानुविपाकतः ।।
सिन्धोरायातः स यतस्तस्मात्सैन्धव उच्यते ।। ४०४ ।।
असंभिन्नस्वावयवः खिल्यः सोऽथ निगद्यते ।।
सोऽयं सैन्धवखिल्योऽस्तो यथैवेह महोदधौ ।। ४०५ ।।
तेजो विरोधिनीं प्राप्य प्रकृतिं विजहात्यथ ।।
तेजोवियोगात्काठिन्यं ध्वस्ती भवति तद्धनम् ।। ४०६ ।।
काठिन्यकारणध्वस्तौ खिल्यस्येह महोदधौ ।।
कठिनोदकविध्वंसमनु खिल्यो विलीयते ।। ४०७ ।।
यदेवाकृत्रिमं रूपं तदेवास्यावशिष्यते ।।
तेजोवयवसंबन्धसमुत्थं विनिवर्तते ।। ४०८ ।।
तेजआद्यभिसंबन्धः कारणं खिल्यरूपिणः ।।
तद्भावभावतस्तस्य तद्ध्वस्तौ ध्वंसतस्तथा ।। ४०९ ।।
एवं वा अर इत्यस्य कार्यकारणरूपतः ।।
प्रतीचो वास्तवं वृत्तं विरुद्धमभिधीयते ।। ४१० ।।
अव्यावृत्ताननुगतब्रह्मत्वप्रतिपत्तये ।।
महदित्यभिधानं स्यात्कौटस्थ्यार्थं च भूतगीः ।। ४११ ।।
वास्तवं वृत्तमाश्रित्य प्रतीचः प्राक्प्रबोधतः ।।
स्वतःसिद्धस्य विज्ञप्त्यै महदित्यादि भण्यते ।। ४१२ ।।
कारणस्य निषेधोक्तिरनन्तमिति यद्वचः ।।
अपारमिति कार्यस्य, पारः कार्यस्य कारणम् ।। ४१३ ।।
कारणस्य तथा कार्यमन्तोऽनादेः प्रसिद्धितः ।।
जात्यन्तरनिषेधाय विज्ञानघनगीरपि ।। ४१४ ।।
क्षेत्रज्ञाकाशयोरेवं कार्यकारणसंगतिः ।।
अब्धिस्थानीयमैकात्म्यं प्राप्योक्तेर्विनिवर्तते ।। ४१५ ।।
कार्यकारणविध्वस्तौ ब्रह्मैकात्म्यप्रबोधतः ।।
न विशेषात्मलाभोऽस्ति खिल्यस्येव महोदधौ ।। ४१६ ।।
तेजःसंबन्धमासाद्य यथाऽम्भः खिल्यतामगात् ।।
तथैवाज्ञानभूतेभ्यः परः क्षेत्रज्ञतां ययौ ।। ४१७ ।।
कार्यात्माऽपचयं गच्छन्यत्र निष्ठां निगच्छति ।।
तानि भूतान्यविद्येते प्राहुस्त्रय्यन्तनिष्ठिताः ।। ४१८ ।।
परः कारणकार्येभ्य आत्मा पूर्णत्वकारणात् ।।
एतेभ्योऽविद्याभूतेभ्यः कार्यकारणतामगात् ।। ४१९ ।।
यतोऽविद्यैव तद्धेतुस्तदुच्छित्तावतो न सन् ।।
कार्यकारणभेदोऽयं ब्रह्मास्मीतिप्रबोधतः ।। ४२० ।।
तस्मिन्ध्वस्तेऽथ संबोधात्केवलैकात्म्यशेषतः ।।
विेशेषसंज्ञा नास्त्यस्य पूर्णप्रज्ञप्तिमात्रतः ।। ४२१ ।।
अविचारितसिद्धीनि यान्यविद्येत्यवादिषम् ।।
एतेभ्यो हेतुभूतेभ्यो भूतेभ्योऽकार्यकारणः ।। ४२२ ।।
कार्यकारणवद्रूपं समुत्थायेति शब्द्यते ।।
अविद्यासंगतेरस्य जायतेऽनेकरूपवान् ।। ४२३ ।।
चेतनाचेतनाभास आत्मानात्मत्वलक्षणः ।।
कार्यकारणरूपेण मिथोपेक्षाश्रयं तमः ।। ४२४ ।।
कार्यकारणतां यात आत्माऽप्येवं तमोवशात् ।।
स्वाभासैर्बहुतामेति मनोबुद्ध्याद्युपाधिभिः ।। ४२५ ।।
तमोहेतु समुत्थानं न वेद्मीत्यग्रहात्मकम् ।।
मिथ्याज्ञानं तमः कुर्वदीदृगेव करोति तत् ।। ४२६ ।।
अविद्याकार्यबुद्धिस्थप्रत्यगाभासरूपवत् ।।
बोद्धेत्यादिसमुत्थानं भण्यते परमात्मनः ।। ४२७ ।।
श्रोता स्प्रष्टेतिरूपः स्यात्तथैवेन्द्रियवृत्तिभिः ।।
दुःखी गौरो द्विजश्चेति शरीरोत्थानतः परः ।। ४२८ ।।
धनी गोमान्दरिद्रो वा धनाद्यर्थात्मसंगतेः ।।
अतद्वानपि संमोहाद्यथोक्तात्मकतामगात् ।। ४२९ ।।
प्रत्यग्याथात्म्यमोहोत्था विरिञ्चोपक्रमा मृषा ।।
क्षेत्रक्षेत्रज्ञभेदेन ह्या स्थाणोरुत्थितिर्दृशेः ।। ४३० ।।
यथावस्तु यदा बोधो वेदान्तोक्तिश्रुतेर्भवेत् ।।
तदा नश्यन्ति भूतानि येभ्यः क्षेत्रज्ञतां गतः ।। ४३१ ।।
स्वरूपलाभमात्रेण सम्यग्बोधोऽखिलं तमः ।।
यतो हन्ति ततो नासावभ्यासं प्रति वीक्षते ।। ४३२ ।।
व्यङ्ग्येष्वर्थेषु नाऽऽवृत्त्या व्यञ्जको हन्ति तत्तमः ।।
व्यञ्जकस्य स्वभावोऽयं न प्रयोगमपेक्षते ।। ४३३ ।।
मोहतत्कार्यनीडो यस्तस्याज्ञानसमन्वयात् ।।
प्रत्यगात्माऽपि तद्ब्रह्म परोक्षमभवन्मृपा ।। ४३४ ।।
तद्वदद्वयतत्त्वोऽपि तदसंबोधहेतुतः ।।
आत्मा संसारितां यातो यथा कार्प्ण्यं वियत्तथा ।। ४३५ ।।
आत्मनो ब्रह्मता यस्माद्ब्रह्मणोऽप्यात्मता स्वतः ।।
तमोमात्रान्तरायत्वात्तद्ध्वस्त्रावेव साऽऽप्यते ।। ४३६ ।।
सर्वमात्मेतिसम्यग्धीजन्मनैवाखिलं तमः ।।
ध्वंसमेति ततः संज्ञा नाविद्योत्थाऽवशिष्यते ।। ४३७ ।।
सदोत्पन्नाऽऽत्मनि मितिरुत्पाद्याऽकारणादिधीः ।।
कारणादिधियः पूर्वं प्रतीचि ब्रह्मधीस्ततः ।। ४३८ ।।
अपास्ताशेषभेदस्य यद्रूपं भेदवद्गतम् ।।
तज्ज्ञानेनैव तज्ज्ञातं तदन्यानवशेषतः ।। ४३९ ।।
अहेतुफलरूपेण प्रतीचा तद्विलक्षणम् ।।
कार्यकारणवज्जग्ध्वा द्रष्टैवैकोऽवशिष्यते ।। ४४० ।।
प्रत्यङ्भात्रेक्षणादात्ममोहतज्जनिराकृतेः ।।
असंभवाद्द्वितीयस्य स्यामपूर्वादिमानहम् ।। ४४१ ।।
व्यपेततमसस्तत्त्वमागमापायसाक्षिणः ।।
ज्ञानेन गम्यते साक्षात्तावन्मात्रानुरोधिना ।। ४४२ ।।
दृष्टिमात्रात्मयाथात्म्यात्कार्यकारणवस्तुनः ।।
नाज्ञातं किंचिदप्यस्ति नानपास्त्रं तमोऽप्यतः ।। ४४३ ।।
क्षेत्रज्ञेश्वरभेदेन संज्ञा नैवेह विद्यते ।।
तद्धेतौ तमसि ध्वस्ते कुतः संज्ञाऽनिमित्ततः ।। ४४४ ।।
संज्ञा प्रेत्याऽऽत्मनो नास्तीत्येतच्छ्रुत्वा त्वचूचुदत् ।।
शङ्कमानाऽऽत्मनो नाशं मैत्रेयी पतिमादरात् ।। ४४५ ।।
विज्ञानैकघनोक्त्या च निःसंज्ञवचसा तथा ।।
उक्त्योर्मिथोविरुद्धत्वादात्मा मोमुह्यते मम ।। ४४६ ।।
अविरुद्धं सुविस्पष्टं मया तुभ्यं प्रभाषितम् ।।
स्वापराधात्तु मद्वाक्यं विरुद्धार्थं त्वमीक्षसे ।। ४४७ ।।
विज्ञानैकघनोक्त्याऽहं कृत्स्नैकात्म्यं तवाब्रुवम् ।।
संज्ञानाशेन चाविद्याहेतूत्थापह्नुतिं तथा ।। ४४८
विशेषसंज्ञा याऽस्याभूद्विज्ञानात्मादिलक्षणा ।।
सम्यग्धीध्वस्तमोहस्य सा कृत्स्ना विनिवर्तते ।। ४४९ ।।
यत्त्वपारमनन्तं च वास्तवं ज्ञानमात्मनः ।।
कूटस्थं तत्स्वतः सिद्धेस्तत्कस्माद्विनिवर्तते ।। ४५० ।।
इतीममर्थं भार्यायै याज्ञवल्क्योऽभ्यभाषत ।। ४५१ ।।
कार्यकारणनाशेऽपि स्वतःसिद्धमनन्यमम् ।।
यद्वस्तु तदलं स्वात्मसंवित्त्यै निरपेक्षतः ।। ४५२ ।।
यत्राज्ञातात्मतत्त्वात्माऽविद्यासंवीतशेमुषिः ।।
तत्र मिथ्याग्रहग्रस्तो द्रष्टृदृश्यादिभेदधीः ।। ४५३ ।।
यत्राज्ञातात्मयाथात्म्यस्तत्तमोपिहितेक्षणः ।।
तत्राविद्योत्थबुद्ध्यादिगुणभूतात्मविन्नरः ।। ४५४ ।।
अविद्यामात्रशेषत्वं जगतः प्रागवादिपम् ।।
नर्तेऽविद्यां कार्यमिदं हीति हेतावतः पदम् ।। ४५५ ।।
सतोऽभिव्यञ्जकं मानं स्वभावोऽयं मितेर्भवेत् ।।
अविद्यायाः स्वाभावोऽयं यदसत्करणं मृषा ।। ४५६ ।।
उक्तहेत्वर्थदीप्येतद्धीति तस्य निपाततः ।।
द्वीतं द्विधेतमेकं सत्तद्भावो द्वैतमुच्यते ।। ४५७ ।।
उपमार्थ इवेत्येतद्भवतीति क्रियापदम् ।।
तत्रैवाविद्यावस्थायां संज्ञेयं युज्यते मृषा ।। ४५८ ।।
ननु द्वैतमिवेत्येतदुपमानं कथं भवेत् ।।
द्वैतं वस्तु न चेदस्ति सर्वस्यैकात्म्यमात्रतः ।। ४५९ ।।
नैष दोषो यतो दृष्ट एकस्मिन्नपि वस्तुनि ।।
उपमेयोपमाभावो दिग्धीरिव विहायसि ।। ४६० ।।
रामरावणयोर्युद्धं रामरावणयोरिव ।।
यथा प्रसिद्धो जगति तथैवेहापि गम्यताम् ।। ४६१ ।।
अद्वैतात्परमार्थाद्वा मायाद्वैतमपीष्यते ।।
तेनोपमार्थसंसिद्धेर्यथा स्वप्नेन्द्रजालयोः ।। ४६२ ।।
मिथ्येव भाति सत्योऽपीत्यपि लोकेऽभिधीयते ।।
मिथ्याभावो न नास्तीति वक्तुं कश्चिदपि क्षमः ।। ४६३ ।।
समस्तव्यस्ततारूपं यो वक्तीहाऽऽत्मनः श्रुतेः ।।
तत्पक्षस्य निषेधोऽयं यत्र हीत्यादिनोच्यते ।। ४६४ ।।
तस्यामविद्यावस्थायां स्वप्नावस्थां गतो यथा ।।
घ्रातेतरः सन्नितरं गन्धं घ्राणेन जिघ्रति ।। ४६५ ।।
घ्रातृघ्रेयाभिसंबन्धाद्ध्राणाद्याहृतिरिष्यते ।।
जिघ्रतीत्यपि निर्देशः क्रियातत्फलयोर्भवेत् ।। ४६६ ।।
उत्तरेष्वपि वाक्येषु योजनेयं यथोदिता ।।
प्रत्यगज्ञानमात्रोत्यं ग्राहकाद्यत्र भण्यते ।। ४६७ ।।
क्रियाकारकसंज्ञाया विषयोऽयं समीरितः ।।
अतोऽविद्यासमुच्छित्तावियं संज्ञा निवर्तते ।। ४६८ ।।
विज्ञानघन इत्युक्तेर्विषयोऽयमथोच्यते ।।
यत्र वा इति वाक्येन ध्वस्ताविद्ये विपश्चिति ।। ४६९ ।।
यत्र त्वस्याऽऽत्मनोऽज्ञस्य शास्त्राचार्यप्रसादतः ।। ४७० ।।
प्रत्यग्यायात्म्यविज्ञानभास्वद्भास्करदीघिति -
संप्लुष्टनिखिलाविद्ये तत्र कः केन किं वद ।।
जिघ्रेदैकात्म्यमात्रेण सर्वस्यास्याऽऽत्ममात्रतः ।। ४७१ ।।
षष्ठगोचरवत्सर्वं कार्यकारणवज्जगत् ।।
ध्वस्तात्मान्ध्यस्य विदुषः सम्यग्ज्ञानोदये भवेत् ।। ४७२ ।।
अव्यावृत्ताननुगतमतिहेतु सदैकलम् ।।
विज्ञानघनमानन्दमैकात्म्यं व्यवतिष्ठते ।। ४७३ ।।
ग्राहकादिविभागोऽत्र नास्ति तद्धेत्वसंभवात् ।।
चिन्मात्रस्य स्वतः सिद्धेर्विज्ञानघनगीरतः ।। ४७४ ।।
आत्माविद्यामनाश्रित्य कारकत्वं न लभ्यते ।।
कारकं चानपाश्रित्य न क्रियेह प्रसिध्यति ।। ४७५ ।।
अन्तरेण क्रियां तद्वत्पलं नैव प्रसिध्यति ।।
कारकाद्यात्मना सेयमविधैव प्रकाशते ।। ४७६ ।।
यत एवमतोऽविद्यासमुच्छित्ताविदं जगत् ।।
व्याकृताव्याकृतं कृत्स्नमात्मतामेति बोधतः ।। ४७७ ।।
भूयोऽपि लभते संज्ञां लीनं सत्कारणात्मनि ।।
जगदेतद्यथा तद्वन्नाविद्याविलये भवेत् ।। ४७८ ।।
ज्ञानोत्पत्तौ न संज्ञाऽस्तीत्यास्तां तावदिहाऽऽत्मनः ।।
अपि सत्यामविद्यायां न संज्ञाऽस्त्यात्मनीदृशी ।। ४७९ ।।
ग्राहकादि जगत्सर्वं येन कूटस्थसाक्षिणा ।।
लोकः सर्वो विजानाति जानीयात्केन तं वद ।। ४८० ।।
अचेतने जगत्यस्मिन्साक्ष्येवैकोऽत्र चेतनः ।।
ग्राहकादिर्न तत्रापि साक्षिसिद्धावपेक्ष्यते ।। ४८१ ।।
संज्ञेयं किमु विध्वस्तसंसारानर्थकारणे ।।
उदितैकात्म्ययाथात्म्यसम्यग्ज्ञानदिवाकरे ।। ४८२ ।।
बोद्धारमपि चापेक्ष्य न संज्ञा प्रत्यगात्मनि ।।
बोद्धृतज्ज्ञानविपयैर्न बोद्धा गृह्यते यतः ।। ४८३ ।।
अविचारितसंसिद्धिः प्रमात्रादिस्वलक्षणा ।।
संज्ञेयं प्रथते मोहान्नत्वसौ वस्तुनिश्चितौ ।। ४८४ ।।
यत एवमतः सिद्धं दर्शनं प्रत्यगात्मनः ।।
श्रुत्यादिसाधनं साक्षात्सर्वमात्मेत्युदीरितम् ।। ४८५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयाध्यायस्य चतुर्थं ब्राह्मणम्